अथ निदर्शना-

उपात्तयोरर्थयोरार्थाभेद औपम्यपर्यवसायी निदर्शन ॥
अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति । वाच्यरूपकवारणाय आर्थ इति । आर्थत्वं च प्राथमिकान्वयबोधा-विषयत्वम्‍ । यदि च विशिष्टोपमायां विशेषणयोरभेद: प्रतीयते तदा बिम्बप्रतिबिम्बभावानापन्नत्वमपि प्रधानविशेषणम्‌ । तद्विशेषणानां तु
बिम्बप्रतिबिम्बभावो न निवार्यते । इदं च श्रौत्या निदर्शनाया लक्षणम्‍ । आर्थीसाधारणं लक्षणं तु ललितालंकारप्रकरणे वक्ष्यते ।
उदाहरणम्‍-
‘ वामन्तरात्मनि लसन्तमनन्तमज्ञा-स्तीर्थेषु हन्त मदनान्तक शोधयन्त: । विस्मृत्य कण्ठतटमध्यपरिस्फुरन्तं चिन्तामणिं क्षितिरज:सु गवेषयन्ति ॥ ’
अत्र तवान्यत्र परिशोधनं कण्ठस्थस्य चिन्तामणेर्भूपांसुषु गवेषणं चाभिन्नमिति तत्सादृश्यमूला धी: ।
यथा वा-
‘ अन्यै: समानममरैर्जगदन्तरात्म-न्ये चन्द्रशेखर वदन्ति भवन्तमज्ञा: । ते किं न हन्त तुलयन्ति नभो निरन्तं वातायनोदरगतैर्विवरान्तरालै: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP