संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| दृष्टान्तालंकार :| लक्षण १ दृष्टान्तालंकार : लक्षण १ दृष्टान्तालंकार : - लक्षण १ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १ Translation - भाषांतर प्रकृतवाक्यार्थघटकानामुपमानादीनां साधारणधर्मस्य च बिम्ब-प्रतिबिम्बभावे दृष्टान्त: ॥तदुक्तम्-‘ दृष्टान्त: पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ’ इति । उदाहरणम्-‘ सत्पूरुष: खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव । आराधित: कथय केन करैरुदारैरिन्दुर्विकासयति कैरविणीकुलनि ॥ ’प्रतिपत्त्यर्थम् । अत: सादृश्यप्रतीत्यप्रतीतिभ्यामनयोरलंकारयोर्भेद: ’ इत्याह । तन्न । प्रकृताप्रकृतवाक्यार्थयोरुपादानस्यालंकारद्वयेऽप्य-विशिष्टत्वादेकत्र सादृश्यप्रत्यय:, अन्यत्र नेत्यस्याऽऽज्ञामात्रत्वात् । वैपरीत्यस्यापि सुवचत्वाच्च । एतादृशोऽर्थोऽन्यत्रापि स्थित इति प्रकृतार्थ-प्रतीतिविशदीकरणस्य त्वदभिहितस्य सादृश्यापरपर्यायत्वाच्च । अत एव प्रायश; सत्कविनिर्मितेषु लक्ष्येषु प्रकृतवाक्यार्थघटकप्रकृतिप्रत्यया-र्थानुरूपप्रकृतिप्रत्ययार्थघटित एवाप्रकृतवाक्यार्थो दृश्यते । न च भवदु-क्तमपि वैलक्षण्य्म नानयो: पृथगलंकारतायां प्रयोजकम् । औपम्याख्यसा-मान्यलक्षणाक्तान्ततया उपमाभेदवदेकालंकारभेदत्वापत्तेरिति वाच्यम् । तवापि दीपकतुल्ययोगितयोरेकभेदत्वापत्ते: । इष्टापत्तिरिति चेत्सैवात्रापि दृश्यताम् । प्राचीनविभागस्य भवतैव शिथिलीकृतत्वात् । औपम्यरूप-सामान्यलक्षणसत्त्वाद्वहूनामलंकाराणामुपमाऽवान्तरभेदत्वापत्त्या सकला-लंकारिकसिद्धान्तभड्रप्रसड्राच्च । “-‘ अब्धिर्लड्रित एव वानरभटै:- ’ इत्यादिमुरारिपद्ये यद्यपि ज्ञानार्थ एको धर्मो निर्दिष्टस्तथापि नैतन्निबन्धनमौ-पम्यं विवक्षितम् । यन्निबन्धनं च विवक्षितं तत्राब्धिलड्घनादावस्त्येव दिव्य वागुपासनादिना प्रतिबिम्बनम् ” इति त्वन्मूलग्रन्थविरोधाच्च । न च यन्नि-बन्धनं च विवक्षितमित्यत्रार्थालंकारत्वं विशेष्यं शेषपूरणेन योज्यम् , न पुनरौपम्यमिति वाच्यम् । औपम्यं न विवक्षितमित्यत्रैकवारं निष्ठया परामृ-ष्ठस्यैव पुनस्तया परामर्शस्य व्युपत्त्ते: । ‘ न चैत्रार्थमोदन: पक्क:, यदर्थं चपक्क: स मैत्र: ’ इत्यादौ द्वितीयपक्कादिशब्दानामध्याह्लतशाकादिपरत्वे असं-गते: स्फुटत्वात् । तस्मादस्मदुक्तेनैव पथा प्राचीनैर्विहितोऽलंकारयोरनयो-र्विभाग: संगमगीय: । यदि तु न तेषां दाक्षिण्यं तदैकस्यैवालंकारस्य द्वौ भेदौ-प्रतिवस्तूपमा, दृष्टान्तश्च । यच्चानयो: किंचिद्वैलक्षण्यं तत्प्रभेदताया एव साधकम् , नालंकारताया इति सुवचम् ।वैधर्म्येणायं यथा-‘ जनयन्ति परप्रीतिं नरा: सत्कुलसंभवा: । नहि कारस्कर: क्कापि तापनिर्वपणक्षम: ॥ ’यथा वा-‘ तापत्रयं खलु नृणां ह्लदि तावदेव यावन्न ते वलति देव कृपाकटाक्ष: । प्राचीललाटपरिचुम्बिनि भानुबिम्बे पड्केरुहोदरगतानि कुतस्तमांसि ॥ ’ प्रीतिजनन-तापनिर्वापणाभावयो: , तापत्रयावस्थान-तमोदूरीकरण-योश्च वै धर्म्येणात्र बिम्बप्रतिबिम्बभाव: ।इति रसगंगाधरे दृष्टान्तप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP