दीपक अलंकारः - लक्षण ५
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
एतच्च प्राचामनुरोधादस्माभिरिहोदाह्लतम६ । वस्तुतस्वेतद्दीपकमेव न शक्यं वक्तुम्, सादृश्यसंपर्काभावात् । किं त्वेकावलीप्रभेद इति वक्ष्यते ।
अस्मिंश्चालंकारद्वये क्रियादेर्धर्मस्यैकरूप्येण धर्मिष्वनन्वयो दोष: । यथा प्रागुक्ते पद्ये ‘ रसिका: सामाजिकास्तै: सभा ’ इति कृते एकवचना-न्तैर्धर्मिरैकरूप्येणान्वयेऽपि सामाजिकैरनन्वयात् । वचनविपरिणामे-नान्वये उपमायामिव स्यादेव दोष: । एवं जहल्लिड्रनामार्थस्य धर्मस्य सकृद्वृत्तौ लिड्रभेदोऽपि दोष: । यथा--
‘ जगति नरजन्म तस्मिन्वैदुष्यं तत्र सत्कविता । कवितायां परिणामो दुष्प्राप: पुण्यहीनेन ॥’
यदि तु ‘ तपसा नाल्पेन शक्यते लब्धुम् ’ इत्याख्यातान्तं क्रियते तदा लिड्रभेदो न दूषणम् । एवमजहल्लिड्रनामार्थस्य सकृद्वृत्तावपि न दोष: ।
यथा-‘ फलमतिशयितं तपस्याया: ’ इति चतुर्थचरणनिर्माणे ।
एवं पुरुषस्यैकरूप्याभावे दोष: । यथा-
‘ दिवि सूर्यो भुवि त्वं च पाताले पन्नगाग्रणी: । दिक्षु दिक्पालवर्गश्च राजपुंगव राजते ॥’
यदि त्वमित्यत्र भवानिति क्तियते तदा न दोष: । एवंकालभेदेऽप्यू-ह्मम् । एतेन-
‘ सड्ग्रामाड्रणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शरा: शररैरिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरमला कीर्त्या च लोकत्रयम् ॥’
इत प्राचीनानां पद्यं दीपकांशेऽपि सदोषमेव ।
इति रसगड्राधरे दीपकप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP