तुल्ययोगिता अलंकारः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
एवं च-
‘ दधीचिबलिकर्णेषु हिमहेमाचलब्धिषु । अदातृत्वमधैर्यं च दृष्टे भवति भासते ॥’
इत्यादौ रशनारूपैषा यथासंख्यावष्टब्धा ।
‘ दृष्ट: सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिका: । अथत्वं संगरे: शेषकालानलाब्धय: ॥’
इत्यत्र च स्वरूपद्वयेन राजविषयकरतिभावभूषणतया स्थिता । यत्र च प्रकृतानामेवाप्रकृतानामेव वा क्रियाणामेककारकान्वय: सा कारकतुल्ययोगिता ।
यथा-
‘ वसु दातुं यशो धातुं विधातुमरिमर्दनम् । त्रातुं च सकलां पृथ्वीमतीव निपुणो भवान् ॥ ’
अत्र राज्ञ: स्तावकवाक्ये प्रकृतानां क्तियाणामेकेन कर्त्रा साधारणेन धर्मेणौपम्यम् ।
यथा वा-
‘ दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरंतनमघं चुलुकीकरोति । भूतेषु किं च करुणां बहुलीकरोति सड्र: सतां किमु न मड्रलमातनोति ॥ ’
अत्रार्थान्तरन्यासान्विता ।
‘ केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये पश्यन्ति पुण्यपुरुषा: कति च स्पृशन्ति । मातर्मुरारिचरणाम्बुजमाध्वि गड्रे भाग्याधिका: कतिपये भवतीं पिबन्ति ॥’
अत्रैकं कर्म क्तियाणां साधारणम् ।
व्यड्रयैषा यथा-
‘ अये लीलाभग्नत्रिपुरहरकोदण्डमहिम-न्कथा यत्रोदञ्चत्यतुलबलधैर्यस्य भवत: । अयं को वा तत्र प्रसृमरफणाकोणनिहित-क्षिति: शेष: श्रीमान्कमठकुलचूडामणिरपि ॥’
अत्र को वा इत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य शेष-कमठाभ्यामप्रकृताभ्यामन्वय: प्रतीयते ।
इति रसगड्राधरे तुल्ययोगिताप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP