अतिशयोक्ति अलंकारः - लक्षण १
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
विषयिणा विषयस्य निगरणमतिशय: । तस्योक्ति: ॥
तच्च स्ववाचकपदेन शक्यतावच्छेदकरूपेणैवान्यस्य बोधनम् । अत्र च
विषये विषयिवाचकपदस्य लक्षणाया: । शक्यतावच्छेदकमात्रप्रकारक-लक्ष्यविशेष्यकबोधत्वं कार्यतावच्छेदकम् । अत: शक्यासाधारणधर्मस्य लक्ष्यासाधारणधर्मस्य च भानाभानयोर्न विरोध: । परे तु ‘ मात्रविशेषणं न देयम् । तेन लक्ष्यासाधारणोऽपि धर्मो भासते ’ इत्याहु: । केचित्तु
‘ लक्षणया लक्ष्यासाधारणधर्मप्रकारेणैव बोध: । अनन्तरं च व्यापारान्त-रेण शक्यतावच्छेदकप्रकारेण लक्ष्यबोध: । ’ इत्याहु: । बाधज्ञानस्य च यथा न प्रतिबन्धकत्वं तथोक्तं प्राक् । अत्र चैकपदोपात्तत्वान्नोद्देश्यविधे-यभाव: ।
उदाहरणम्-
‘ कलिन्दगिरिनन्दिनीतटवनान्तरं भासय-न्सदा पथि गतागतक्लमभरं हरन्प्राणिनाम् । स्फुरत्कनककान्तिभिर्नवलताभिरावेल्लितो ममाशु हरतु श्रमानतितमां तमालद्रुम: ॥’
अत्र तमालेन भगवतो निगरणे कलिन्दनन्दिनीत्यादीनि त्रीणि चरण-त्रयगतानि विशेषणानि तदनुग्रहार्थ्म विषयविषयिणो: साधारणधर्मतया
साक्षादुपात्तानि । चतुर्थमपि चतुर्थचरणगतमवैयाकरणानां दर्शने । वैयाक-रणानां तूपात्तया तमालभिन्नकर्तृकया श्रमहरणक्तिययोन्नीतं तादृश-कर्तृत्वं तथा तयो: स्थितम् । द्वितीये चरणे चोच्चावचयोनिसंचरणस्य पथ्या-दिना, तृतीयेऽपि लताभिर्गापीनां निगरणम् , तस्मिन्नेवानुग्राहकतया ।
एवं च सावयवेयमतिशयोक्ति: । यत्र चानुग्राहकं न निगरणान्तरं किं तु शुद्धं साधारणधर्मादि, सा निरवयवा ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP