अपहृति अलंकारः - लक्षण ५
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
इति चित्रमीमांसागतं तन्निर्मितमपि लक्षणमिह तथैव । तस्मात् ‘ नायं सुधांशु: किं तर्हि सुशांशु: प्रेयसीमुखम् ’ इत्यत्र दृढारोपं रूपकमेव भवि-तुमर्हति, नापह्लुति: । उपमेयतोपमानतावच्छेदकयो: सामानाधिकरण्यस्य निष्प्रत्यूहं भानात् । तदुक्तं विमर्शिन्याम्-“-‘ न विषं विषमिल्याहुर्ब्रह्मस्वं विषमुच्यते ’ । अत्र विषस्य निषेधपूर्वं ब्रह्मस्वविषये आरोप्यमाणत्वाद्दृढा-रोपं रूपकमेव, नापह्लुति: ” इति । यदि च प्राचीनमतमुपेक्ष्यालंकाररत्नाकरे णेव मयाप्ययं प्रकारोऽपह्लुतिमघ्ये गणित इत्युच्यते, तदा आहार्यताद्वप्य-निश्चयस्य समानत्वादूपकभेद एवापह्लुतिरित्यप्युच्यताम् । निरस्यतां च प्राचीनमुखदाक्षिण्यम् । एवमपि चित्रमीमांसागतत्वन्निर्मितापह्लुतिलक्षण-
स्यात्राव्याप्ति: स्थितैव । अपि च यदि ‘ नायं सुधांशु: किं तर्हि सुधांशु: प्रेयसीमुखम् ’ इत्यत्र पर्यस्तापह्लुतिरिच्युत्यते, तदा तस्यामेव त्वत्कृत-चित्रमीमांसागतस्य-
‘ बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिह्लुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥’
इति रूपकलक्षणस्यातिव्यात्पिर्वज्रलेपायिता स्यात्, विषयिणो निह्ल-वेऽपि विषयस्यानिह्लुतत्वात् । अथापि चित्रमीमांसायां प्राचीनमतानुसारेण रूपकलक्षणम्, कुवलयानन्दे च रत्नाकराद्यनुसारेणापह्लुतित्वोक्तिरिति यथाकथंचित्सामञ्जस्यं विधेयमिति दिक् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP