संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| उल्लेखालंकारः| लक्षण ६ उल्लेखालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ उल्लेखालंकारः - लक्षण ६ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ६ Translation - भाषांतर अत्रेदं बोध्यम्-प्रथमनिरूपितोल्लेखप्रकारे ‘ यं महाविष्णुरिति वैष्णवा:, शिव इति शैवा:, यज्ञुपुरुष इति याज्ञिका:, स्वभाव इतिलौकायतिका:, ब्रह्मेत्यौपनिषदा वदन्ति सोऽयमादिपुरुषो हरि: ’ इत्यादौ तत्तद्ग्रहीतृकतत्तत्प्रकारकज्ञानसमुदायस चमत्कारजनकताया अनुभवसि-द्धत्वेनालंकारत्वम् । द्वितीये तु प्रकारे ‘ य: शिष्टेषु सदयो दुष्टेषु कराल: ’ इत्यादौ तत्तद्विषयभेदभिन्नस्य प्रकारसमुदायमात्रस्य तथात्वम् । न तु विद्यमानस्यापि ज्ञानांशस्य, चमत्कारित्वेनाननुभवात् । चमत्कारनिबन्धनो ह्यंलकारभाव उपमादीनाम् । अत एवास्माभि: विषयाद्यन्यतमानेकत्व-प्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वम् ’ इति द्वितीय उल्लेखो लक्षित: ।एवं च ‘ लक्षणद्वयान्तातरत्वमुल्लेखसामान्यलक्षणतावच्छेदकम्’ इत्याहु: । परे तु ‘ प्रकारद्वयेऽपि वर्ण्यवृत्तित्वेन भासमानप्रकारसमुदाय एवोल्लेख: । ’ इत्यपि वदन्ति ।अथोल्लेखस्य ध्वनि:-यथा-‘ अनल्पतापा: कृतकोटिपापा गदैकशीर्णा भवदु:खजीर्णा: । विलोक्य गड्रां विचलत्तरड्राममी समस्ता: सुखिनो भवन्ति ॥’अत्र पूर्वार्धोदीरितानां चतुर्णां विलोकनकर्तृऋणां सुखित्वोक्त्या क्तमेण तापपापरोगभवनाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्यो-ल्लेखस्य ध्वनि: ।संकीर्णस्य यथा-‘ स्मयमानाननां तत्र तां विलोक्य विलसिनीम् । चकोराश्चञ्चरीकाश्च मुदं परतरां ययु: ॥ ’अत्र ध्वन्यमानया एकैकग्रहणरूपया भ्रान्त्या तदुभयसमुदायात्मा उल्लेख: संकीर्ण: । न चात्र भ्रान्तेरेव चमत्कार इति शक्यापह्लव उल्लेख: ।अनेककर्तृकानेकधाग्रहणस्यालंकारान्तरविविक्तविषयस्य चमत्कृतेरिहापि सत्त्वात् ।द्वितीयस्योल्लेखस्य ध्वनिर्यथा-‘ भासयति व्योमगता जगदखिल्म कुमुदिनीर्विकासयति । कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥’अत्राधिकरणभेदप्रयुक्तमेकस्यामेव कीर्तौ चन्द्रिकात्वसागरत्वरूपाने-कविधत्वं रूपकसंकीर्णं ध्वन्यते ।इति रसगंगाराधरे उल्लेखप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP