अनन्वय अलंकारः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यदपि चालंकारसर्वस्वकृता ‘ अनन्वयष्वनित्वमत्र भविष्यति । अन्यथाऽलंकारष्वनेर्विषयापहार: स्यात् ’ इत्युक्तम् , तदपि तुच्छम् । अस्य ह्मुपमाननिषेधफलकमभिन्नोपमानोपमेयकं सादृश्यं स्वरूपमित्युक्तम् । प्रकृते च वामार्धदक्षिणार्धयोस्तद्वाधितमित्युक्तमेव । कान्ताया: पुनरुप-
माननिषेधस्य व्यड्रयत्वेऽपि अभिन्नोपमानोपमेयकसादृश्यस्य स्वरूपस्या-प्रत्ययात् । नहि निरुपमत्वप्रतीतिषु सर्वास्वभिन्नोपमानोपमेयकसादृश्यप्रती-तिपूर्वकत्वमिति नियमोऽस्ति । कल्पितोपमातिशयोक्त्योरसमालंकारष्वनौ च व्यभिचारात् । तस्मान्नास्त्येवात्रानन्वयगन्धोऽपि ।
यच्च “ अयमनन्वयो व्यड्रयोऽप्यस्ति ।
यथा-
‘ अद्य या मम गोंविद जाता त्वयि गृहागते । कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुन: ’
अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागम नप्रभवप्रीति-र्बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येन, इत्युक्तिभड्रया
त्वदागमनप्रभवप्रीते: सैव सदृशी न त्वितरप्रभवा इति व्यज्यते ” इत्य-प्ययदीक्षितैरभिहितम्, तदपि न । अमुष्यास्त्वदागमनप्रभवाया: प्रीते-र्वारान्तरत्वदागमनप्रभवा प्रीति: सदृशीति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृष्णागमनजन्यप्रीतिसामान्यावयवयोर्द्वयो: प्रीतिव्यक्त्यो: सादृश्यस्या-बाधितत्वाद्योगार्थाभावेनानन्वय एव नायं भवितुमर्हति । ‘ स्वस्मिन्सादृश्य-स्यान्वयाभावादनन्वय: ’ इत्युपमाप्रकरणे स्वयमेवाभिधानात् । उपमेयस्य प्रीतिव्यक्तिविशेषस्य सदृशान्तरव्यवच्छेदे बाधात्, तादृशप्रीतिसामान्यस्य
N/A
References : N/A
Last Updated : January 17, 2018
TOP