उपमेयोपमा अलंकारः - लक्षण १
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथारया एव भेद उपमेयोपमा निरूप्यते-
तृतीयसद्दशव्यवच्छेदबुद्धिफलकवर्णनविषयीभूतं परस्परमुपमानो-
पमेयभावमापन्नयोरर्थयो: सादृश्यं सुन्दरमुपमेयोपमा ॥
‘तडिदिव तन्वी भवती भवतीवेयं तडिल्लता गौरी ’ इत्यत्र परस्परोप-मायामीतव्याप्तिवारणाय भूतान्तम् । अत्र तानवगौरिमभ्यामनुगामि-धर्माभ्यां प्रयोजितमुपमाद्वयं न तृतीयं सदृशं व्यवच्छिनत्ति । एकेन धर्मेणैकप्रतियोगिके परानुयोगिके सादृश्ये निरुपितेऽपरप्रीतयोगिकस्यैका-नुयोगिकस्यापि तेन धर्मेण सादृश्यस्यार्थत: सिद्धतया शब्देन पुनस्तदुक्ति: स्वनरैर्थक्यपरिहाराय तृतीयसदृशव्यवच्छेदमाक्षिपति । प्रकृते चैकेन तानव-रूपेण धर्मेण तडित्प्रतियोगिके कामिन्यनुयोगिके सादृश्ये निरूपिते तेनैव
धर्मेण कामिनीप्रतियोगिकस्य तडिदनुयोगिकस्य सादृश्यस्यार्थत: सिद्धावपि न गौरत्वेन धर्मेण सिद्धिरिति तदर्थमुपात्तस्य द्वितीयसादृश्यवचनस्य न तृतीयसदृशव्यवच्छेदफलकत्वम् ।
‘ सदृशी तव तन्वि निर्मिता विधिना नेति समस्तसंमतम् । अथ चेन्निपुणं विभाव्यते मतिमारोहति कौमुदी मनाक् ॥ ’
इति तृतीयसदृशव्यवच्छेदफलकवर्णनविषये सादृश्येऽतिव्याप्तिवार-णाय परस्परमिति । लिड्रवचनभेदादिदुष्टसादृश्यवारणाय सुन्दरमिति ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP