मराठी मुख्य सूची|व्रते| मनोविनायकव्रतम् व्रते शुभ्र बुधवार व्रत गणेश चतुर्थी व्रत जोगेश्वरी मातेचे व्रत महालक्ष्मी व्रत मंगळागौरी व्रत संतोषीमाता व्रत सरस्वती व्रत श्री सत्यदत्तव्रत श्रीसत्याम्बा व्रत सोळा सोमवार व्रत श्री उमाहेमावती व्रत वैभवलक्ष्मी व्रत मनोविनायकव्रतम् गोमयगणपतिविधानम् श्रीगणपतिमालामन्त्र: महागणपतिमहाविद्यामालामन्त्र: महागणपतिसहस्राक्षरमालामन्त्र: अनंतचतुर्दशी सार्थकथा मनोविनायकव्रतम् मनोविनायकव्रतम् Tags : ganeshagodprayervidhivratगणपतीगणेशदेवतादेवीविधीव्रत मनोविनायकव्रतम् Translation - भाषांतर परशुराम उवाच-अरण्ये वर्तमानं च पाण्डुपुत्रं युधिष्ठिरम् ॥सबान्धवं सुखासीनं ययौ व्यास: समादरात् ॥१॥तं द्दष्टवा मुनिशार्दूलं व्यासं प्रतिययौ नृप: ॥अर्घ्यपाद्यादिकीं पूजां कृत्या प्रोवाच तं मुनिम् ॥२॥युधिष्ठिर उवाचअद्य मे सफलं जन्म भवदागमनेन च ॥ये च कष्टा हि मे जाता वने च वनवासिन: ॥३॥ते सर्वं विलयं प्राप्ता भवदागमनात्कवे ॥आत्मानं साधु मन्येऽहं राज्यतृष्णापराङ्मुखम् ॥४॥दु:खितं मां कथं ब्रह्मन् राज्यभ्रष्टं सुदु:खिता: ॥इमे भीमादय: सर्वे बान्धवा व्यथयन्ति माम् ॥५॥दुर्धर्षाश्च सुदुर्वार्या: मच्छासनविधौ रता: ॥इयं च द्रौपदी साध्वी राजपुत्री पतिब्रता ॥६॥पूर्वराज्योपभोग्येयमद्य दु:खोपभोगिनी ॥मया च किं कृतं पूर्वं सर्वकष्टानुजीविना ॥७॥सोऽहं कष्टाद्विनिर्मुक्तो केनोपायेन तद्वद ॥८॥व्यास उवाच-व्रतमस्ति महाराज क्लेशव्याधिविनाशनम् ॥मनोवैनायकं नाम सर्वसिद्धिप्रदं नृप ॥९॥युधिष्ठिर उवाच-केन चादौ पुरा ज्ञातं मर्त्यकेन प्रकाशितम् ॥एतत्सर्वं समाचक्ष्व श्रोतुमिच्छामि तत्त्वत: ॥१०॥व्यास उवाच-गौरिशंकरयो: पूर्वं द्यूतकर्मसमाचलत् ॥तयो: परस्परं चैष: विवादश्चाभवत्तथा ॥११॥ईश्वरोऽप्यव्रवीत्तां च जितं द्यूतं मयेति च ॥पार्वती चाब्रवीत्तं च जितं द्यूतं मया प्रभो ॥१२॥तयोस्तु साक्षिभूतश्च नास्ति तत्रैव कश्चन ॥कृता दर्भमयी ताभ्यां पुरुषस्य तदाकृति: ॥१३॥ईश्वरेणाम्बुना सिक्ता सजीवा साभवत्तदा ॥विधिवत्तौ च तं पुत्रं नाम्ना शाम्बु च चक्रतु: ॥१४॥आशापयामासतुस्तौ तं पुत्रं शाम्बुनामकम् ॥ आवयो: साक्षिभूतस्त्वं भवास्मिन् द्यूतकर्मणि ॥१५॥तौ च तं साक्षिणं कृत्वा चक्रतुर्द्यूतकर्म तत् ॥ईश्वर: प्रोक्तवानेवं जितं द्यूतं मया प्रिये ॥१६॥पार्वती चेति तं प्राह जितं द्यूतं मया प्रभो ॥पप्रच्छुस्तं तदा पुत्रमिदं केन जितं वद ॥१७॥स एव चाब्रवीत्तत्र ईश्वरेण जितं किल ॥कृत्वा कोपं तदा देवी पार्वती वाक्यमब्रवीत् ॥१८॥रे रे पापवशाच्छापफलमास्यसि सत्वरम् ॥गलत्कुष्ठित्वमधुना मिथ्या साक्षी भविष्यसि ॥१९॥तस्याश्छापवशाच्छाम्बुर्गलत्कुष्ठित्वमाप्तवान् ॥मृत्युलोके चरन् शाम्बु: पार्वतीशापपीडित: ॥२०॥श्रावणे शुक्लपक्षे च चतुर्दश्यां युधिष्ठिर ॥अरण्ये भ्रमता तेन तडागं पृथुनिर्मलम् ॥२१॥तत्तीरेऽप्सरसां राजन् समूहं रक्तवाससाम् ॥द्दष्ट्रवा तदैवं शाम्बुश्च दण्डवत्पतितो भुवि ॥२२॥कृतं नार्य: किमेतन्मे ब्रूत किं देवतात्मकम् ॥व्रतफलं च किंचास्य शीघ्रं वदत चानघा: ॥२३॥स्त्रिय ऊचु :--- मनोविनायकं नामसर्वसिद्धिप्रदं व्रमम् ॥अस्माभि: क्रियते भक्त्या व्रतं दु:खविनाशनम् ॥२४॥विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ पुत्रार्थी लभते पुत्रान्व्रतस्यस्य प्रभावत: ॥२५॥शाम्बुरुवाच -- आर्या: एतद्व्रतं भक्त्या मम देयं प्रयत्नत: ॥अस्य व्रतस्य माहात्म्यं विर्धि ब्रूत ममाग्रत: ॥२६॥किं पुण्यं किं फलं चास्य किं दानं कस्य पूजनम् ॥कस्मिन्मासे तिथौ कस्यां कर्तव्यं व्रतमुत्तमम् ॥२७॥स्त्रिय ऊचु: -- श्रावणे तु चतुर्दश्यां तिथौ शुक्ले च पक्षके ॥विनायकव्रतं तत्र कार्यं चैव व्रतोत्तमम् ॥२८॥तैलाभ्यङ्गं च मध्याह्ने एकविंशतिभिस्तिलै: ॥उपवीतं च कर्तव्यं कुंकुमेन च चर्चितम् ॥२९॥तस्य च ग्रन्थय: कार्या एकर्विशतिसंख्यया ॥ग्रन्थियुक्तं तत: सूत्रं बंधनीयं प्रयत्नत: ॥३०॥ततो दूर्वांकुरैश्चैव एकर्विशतिभिर्नृप ॥तद्वच्च तण्डुलैश्चैव पूजनीयो विनायक: ॥३१॥एकर्विसतिभि: कार्यं वासरैर्व्रतमुत्तमम् ॥दिनेषु चैकर्विशेषु व्रतं कार्यं नरौत्तमै: ॥३२॥यावत्तिथिर्न कर्तव्यस्तैलाभ्यङ्गो नरोत्तमै: ॥क्षालयेद्वाससी नैव यावद्न्नतसमापनम् ॥३३॥भाद्रशुक्लचतुर्थ्यां तु कार्यमुद्यापनं नृप ॥तैलाभ्यगं प्रकुर्वीत वस्त्रप्रक्षालनं तत: ॥३४॥स्वर्णरौप्यस्य ताम्रस्य हेरम्बस्यास्य मृण्मयी ॥गणेशप्रतिमा कार्या रजन् विभवसारत: ॥३५॥पूजयेद्भक्तिभावेन चन्दनाद्युपचारत: ॥उपचारै: षोडसभि: पूजनीयो विनायक: ॥३६॥मोदकाश्चैव कर्तव्या एकर्विशतिसंख्यया ॥अनेकरससंपन्ना: धृतेनैव विपाचिता: ॥३७॥स्थापयेद्नणनाथस्य समीपे कुरुनन्दन ॥दश विधाय दातव्या: दश भुञ्जीत वै सुखम् ॥३८॥एकं गणाधिपतये नैवेद्यं च नृपोत्तम ॥आचार्यं पूजयेद्भक्त्या तस्मै दद्याद्नणेश्वर ॥३९॥एवं व्रतं प्रकर्तव्यं मनोवाञ्छितकामदम् ॥करिष्यसि महाभाग राज्यं प्राप्स्यसि सत्वरम् ॥४०॥व्यास उवाच - तस्य शाम्बुर्व्रतं राजन् कृतवांस्तु प्रयत्नत: ॥आदाय नलिनीतन्तून् एकविंशतिसंख्यया ॥४१॥ग्रन्थियुक्तं च तत्सूत्रं हस्ते धृत्वा विनायकम् ॥पूजयामास राजेन्द्र पूर्वोक्तविधिना तत: ॥४२॥भाद्रे शुक्लचतुर्थ्यां तु कृममुद्यापनं नृप ॥एकविंशतिविप्रेभ्यो ददावन्नं सभूषणम् ॥४३॥गणानां त्वेतिहवनं कृतं च तिलपायसम् ॥आचार्य: पूजितो भक्त्या गौश्च दत्ता पयस्विनी ॥४४॥व्रतावसाने तेनाथ कृतमुद्यापनं महत् ॥शुद्धेन मनसा देव: पूजितो गणनायक: ॥४५॥व्यास उवाच - तस्य व्रतस्य माहात्म्यात् दिव्यदेहस्तदाभवत् ॥स्वर्गमार्गे गतिर्जाता व्रतस्यास्य प्रभावत: ॥४६॥गौरीमहेश्वरौ यत्र तत्र शाम्बुरुपागत: ॥पार्वत्युवाच रे पुत्र मच्छापस्य विमोचनम् ॥४७॥कृतं केन समाचक्ष्व स्वर्गमार्गे गति: कृत: ॥मम शापवशाजात: कुष्ठा: केन निवारित: ॥४८॥शाम्बुरुवाचमातर्मम त्वया दत्तो शापो यश्च प्रभावत: ॥गणेशस्य व्रतस्यास्य प्रभावात्सत्वरं गत: ॥४९॥पार्वत्युवाच - एवं चैतद्व्रतं सत्यं मत्पुत्र किं भयास्ति ते ॥पार्वतीवचनं श्रुत्वा शाम्बुर्वचनमब्रवीत् ॥५०॥शाम्बुरुवाच - आगमिष्यति पुत्रस्ते व्रतस्यास्य प्रभावत: ॥मनोविनायकस्याशु तस्मादेतत्समाच्रर ॥५१॥व्यास उवाच - इति तस्य वच: क्षुत्वा पार्वती ब्रतमाचरत् ॥तस्य प्रभावात् द्दष्टोऽपि कार्तिकेयस्त्दाययौ ॥५२॥तं द्दष्ट्रवा पार्वती प्राह जातं मे सफलं व्रतम् ॥मनोवैनायकं नाम त्वदागमनकारकम् ॥५३॥कार्तिकेय उवाचयदि मात: करिष्यामि विश्वामित्रो मम प्रिय: ॥आगमिष्यति वेगेन व्रतस्यास्य प्रभावत: ॥५४॥व्यास उवाच - एवमुक्त्वा चचाराथ गणेशस्य व्रंत गुह: ॥तस्य व्रतस्य सामर्थात् विश्वामित्र: समागत: ॥५५॥विश्वामित्रोऽपि भार्यार्थी चचारेदं विधानत: ॥काशीश्वरस्य कन्यां स: स्त्रियं लेमे सुलक्षणाम् ॥५६॥राज्यं च प्राप्तवान् सद्यो गणेशस्य प्रभावत: ॥विश्वामित्रं चरन्तं तद्व्रतं द्दष्ट्रवास्य भामिनि ॥५७॥गणेशप्रीतये सद्य: पप्रच्छ मुनिपुंगवम् ॥स्वामिन्व्रतं किमेतन्मे कथ्यतां विधिपूर्वकम् ॥५८॥मम मातु: सुतो नास्ति भविष्यति महामुने ॥ तेन प्रोक्तं सुतो मातुर्भविष्यति न संशय: ॥५९॥व्रतस्यास्य प्रभावेण कुरुष्वेदं यथाविधि ॥एकर्विशतिदूर्वाभि: संख्याभिश्च तथा तिलै: ॥६०॥गणेशपूजनं कार्यं वासरै: पूर्वसंख्यया ॥व्रतस्योद्यापनं कार्यं एकर्विशतिवासरे ॥६१॥मोदकाश्च प्रकर्तव्या एकर्विशतिसंख्यया ॥निवेद्यैकं गणेशाय दद्याद्विप्राय वै दश ॥६२॥दश स्वयं च भुञ्जीत सगुडान् घृतपाचितान् ॥ एवं व्रतं प्रकर्तव्यं गणेशप्रीतये प्रिये ॥६३॥अस्य प्रसादात्संप्राप्तं राज्यमेतदकण्टकम् ॥ अतिरूपवतीं भार्यां त्वाद्दशीं प्राप्तवानहम् ॥६४॥मनोविनायकस्यैतत्कुरुष्व व्रतमुत्तमम् ॥व्रतस्यास्य प्रभावेण मातुस्ते संभविष्यति ॥६५॥पुत्र: सुभोभनस्तस्माद्व्रतं च त्वं कुरु प्रिये ॥इति भर्तु: वच: श्रुत्वा सा चक्रे व्रतमुत्तमम् ॥६६॥तत्प्रभावादभूत्तस्य मातु: पुत्र: सुभोभन: ॥तस्या अपि बभूवाथ सुतो लोकनमस्कृत: ॥६७॥हरिहरविधिवन्द्यं सर्वलोकैकपूज्यं इति परमभक्त्या विघ्नराजं प्रपूज्य ॥सुतमसुखदं तं सा व्रतस्य प्रभावात् स्वयमपि जननीव प्राप्य तुष्टा बभूव ॥६८॥उशीनरसुता पत्या वियुक्ता जितवत्यपि ॥ जाता कान्तेन संयुक्ता सुखिनी ससुता नृप ॥६९॥इति मनोविनायकव्रतम् । N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP