संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|द्वितीयो भागः|अथ पौषमास:| ग्रहणप्रकार: अथ पौषमास: मकरसङ्क्रान्ति ग्रहणप्रकार: पौषमास: - ग्रहणप्रकार: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत प्रत्येकवर्षमेकैकरामग्रहणप्रकार: Translation - भाषांतर ॥ द्वादशवर्षाणि प्रत्येकवर्षमेकैकरामग्रहणप्रकार: ॥आचम्य देशकालौ सङ्कीर्त्य, श्रीसीतारामचन्द्रप्रीत्यर्थं मकरसङ्क्रान्तिदिनादारभ्य आगामिमकरसङ्क्रमणपर्यन्तं अमुक रामनाम्ना सकृदुञ्चरितश्रवणपूर्वकं भोजनजलपानादि करिष्ये । आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजनं तङ्गबाह्मणपूजनं च करिष्ये । गणपतिं सम्पूज्य, आसनादिना विप्रं सम्पूजयेत् । तत: ब्राह्मणात् प्रतिवर्षं प्रत्येकं द्वादशवर्षपर्यन्तं नामग्रहणं कार्यम् । यान्तुदे०गणपतिं विसृजेत् ।१. राम ।२. सीताराम ।३. जानकीजीवनराम । ४. पतितपावनराम । ५. अहिल्योद्धारिराम ।६. दाशरथिराम । ७. धनुर्धारिराम ।८. मारुतिवल्लभराम ।९. सीतापतिराम ।१०. त्राटिकामर्दनराम ।११. तुलसीत्रिभुवनराम ।१२. अयोध्यावासीराम ।अथोद्यापन प्रकार: । आचम्य देशकालौ सङकीर्त्य, श्रीसीतारामप्रीत्यर्थं मया कृतस्य एकवर्षीयमकरसङक्रममारभ्य परमकरसङक्रमणपर्यन्तं अमुक रामनाम्ना सकृदुञ्चरितश्रवणपूर्वकभोजनजलपानादि व्रतस्य साङगतासिध्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं ब्राह्मणाय तण्डुलपूरितताम्रपात्रस्थतिललडडुकदानमहं क० । तदङ्गत्वेन ब्राह्मणपूजनं क० । आसनादिना विप्रं सम्पूज्य, दानमन्त्र:-तण्डुलै: पूरितं ताम्रपात्रस्थं तिललडडुकम् । द्विजाय तुभ्यं दास्यामि सीतारामप्रतुष्टये ॥ इदं तण्डुलपूरितताम्रपात्रस्थतिलगुडमिश्रिततिललड्डुकदानं सदक्षिणाकं सताम्बूलं अमुकश० । प्रति०, प्र० । अनेन तिललड्डुकदानाख्येन कर्मणा श्रीसीतारामचन्द्र: प्रीयताम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP