आषाढमास: - विष्णुशयनोत्सव:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


आषाढशुक्लैकादश्यां रात्रौ विष्णुशयनोत्सव: । द्वादश्यां पारणाहे रात्रौ अनुराधाया: प्रथमे पादे वा यथाचारं कार्य: । तत्रसन्ध्यायां कृतनित्यक्रियो देशकालौ स्मृत्वा, मम महापातकाद्यशेषपातकनिवृत्तिपूर्वकश्रीमहाविष्णुप्रसादसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं आषाढशुक्लैकादश्यां विष्णुशयनोत्सवं करिष्ये । इति सङकल्प्य, देवं विविधोपचारै: सम्पूज्य घण्टामङ्गलवाद्यमन्त्रधोषपुर: सरं स्वास्तृते सोपधाने शुभ्रवस्त्राच्छन्ने रम्ये पर्यङ्के देवं शाययित्वा प्रार्थयेत्‌ । वासुदेव जगद्योगे प्राप्तेयं द्वादशी तव । भुजङ्गशयनेऽब्धौ च सुखं स्वपिहि माधव ॥ इयं तु द्वादशी देव शयनार्थं विनिर्मिता । अस्यां सुप्ते जगन्नाथे जगत्सुप्तं भवेदिदम्‌ ॥ सुप्ते त्वयि जगन्नाथे जगत्सुप्तं भवेदिदम्‌ । विबुद्धेत्वयि बुध्येत सर्वमेतच्चराचरम्‌ ॥ इति सम्प्रार्थ्य पुष्पाञ्जलिं दद्यात्‌ । तत:पुराणश्रवणादिना रात्रौ जागरणं कुर्यादिति ॥
अस्यामेवैकादश्यां द्वादशीपौर्णमासीकर्कसङ्क्रमणदिनान्यतमदिनेषु वा चातुर्मास्यव्रतारम्भ: । समाप्तिस्तु कार्तिकशुक्लद्वादश्यामेवेति । अथ व्रतग्रहणप्रकार: । जातीकुसुममालाभिर्विष्णोर्महापूजां कृत्वा प्रार्थयेत् । श्वेतद्वीपे भोगितल्पे स्थिते त्वयि जनार्दन । चातुर्मास्यव्रतेऽनुज्ञां देहि लक्ष्मीपते मम ॥ इति प्रार्थ्य देशकालौ स्मृत्वा, मम सर्वपापक्षयपूर्वकश्रीमहाविष्णुप्रीतिद्वारा श्रीपरमेश्वरप्रीत्यर्थं आषाढशुक्लैकादशीमारभ्य कार्तिकशुक्लद्वादशीपर्यन्तममुकचातुर्मास्यव्रतं करिष्ये । तत: कृताञ्जलिर्देवमीक्षमाणो मन्त्रान्‌ पठेत्‌ । चतुरो वार्षिकान्‌ मासान्‌ देवस्योत्थापनावधि । इमं करिष्ये नियमं निर्विघ्नं कुरु मेऽच्युत ॥ इदं व्रतं मया देव गृहीतं पुरतस्तव ॥ निर्विघ्नं सिद्धिमायातु प्रसादात्तव केशव ॥ गृहीतेऽस्मिन्‌ व्रते देव पञ्चत्वं यदि मे भवेत्‌ । तदा भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन ॥ अत्र इममित्यस्य स्थाने करिष्यमाणव्रतनिर्देश:कार्य: । नियमाश्च ग्रन्थान्तरे द्रष्टव्या: ।
अथ सर्वेषु मासेषु तिथिवर्ज्यान्युक्तानि तथापि विशेषतश्चातुर्मास्ये तिथिवर्ज्यान्याह-प्रतिपदादितिथिषु इमे पदार्थान भक्षणीया इति तत्तिथिपालनव्रतमुच्यते । भाषया तत्तत्पदार्थनामानि वक्ष्यन्ते ।

१. कूष्माण्डम् कोंहळा ।
२. बृहतीफलम्‌ डोर्ली ।
३. लवणम्‌ मीठ ।
४. मूलकम्‌ मुळा ।
५. पनसम फणस ।
६. तैलम्‌ तेल ।
७. आमलकम्‌ आंवळे ।
८. नारिकेलम्‌ खोबर ।
९. तुम्बीफलम्‌ दुधाभोंपळा ।
१०. पटोलकम्‌पडवळ, परवर ।
११. निष्पावा: पावटे ।
१२. मसूरिका मसुरी ।
१३. वृन्ताकम्‌ वांगी ।
१४. मधु मध ।
१५. द्यूतम्‌ सोंगटी ।
१६. मैथुनम्‌ स्त्रीसंग ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP