चन्द्रालोकः - नवमो मयूखः

‘चंद्रलोक’ कवी जयदेव यांची एक सुमधुर रचना आहे.


मुख्यार्थस्याविवक्षायां पूर्वार्वाची च रूढितः ।
प्रयोजनाच्च संबद्धं वदन्ती लक्षणा मता ॥१॥

लक्षणीयस्वशब्दस्य मीलनामीलनाद्द्विधा ।
लक्षणा सा त्रिधा सिद्ध-साध्यसाध्याङ्गभेदतः ॥२॥

स्फुटास्फुटप्रभेदेन प्रयोजनं अपि द्विधा ।
विदुः स्फुटं तटस्थत्वादर्थगत्वाद्द्विधा बुधाः ॥३॥

अस्फुटं चार्थनिष्ठत्वात्तटस्थत्वादपि द्विधा ।
लक्ष्यलक्षकनिष्ठत्वादर्थसंस्थं अपि द्विधा ॥४॥

लक्षकस्थं स्फुटं यत्र सा विचक्षणलक्षणा ।
अस्फुटत्वं तटस्थत्वं लक्ष्यस्थत्वं अमुष्य च ॥५॥

अन्यास्तिस्र इति व्यक्ता शक्तितः सा चतुर्विधा ।
इन्दुरेवैष तद्वक्त्रं उत्कर्षो लक्ष्यते मुखे ॥६॥

प्रदीपं वर्धयेत्यत्र तटस्थं मङ्गलोदयः ।
पटोऽयं दग्ध इत्यादौ स्फुटं नास्ति प्रयोजनम् ॥७॥

अमृतं सूक्तं इत्यादौ लक्ष्यस्थं अतिहृद्यता ।
आभिमुख्यात्संनिधानात्तथाकारप्रतीतितः ॥८॥

कार्यकारणभावात्सा वाच्यवाचकभावतः ।
इत्येवमादेः संबन्धात्किंचान्यस्माच्चतुष्टयात् ॥९॥

सादृश्यात्समवायात्सा वैपरीत्यात्क्रियान्वयात् ।
सारोपाध्यवसानाख्ये गौणशुद्धे पृथक्पृथक् ॥१०॥

गौणं सारोपं उद्दिष्टं इन्दुर्मुखं इतीदृशम् ।
गौणं साध्यवसानं स्यादिन्दुरेवेदं ईदृशम् ॥११॥

शुद्धं सारोपं उद्दिष्टं आयुर्घृतं इतीदृशम् ।
शुद्धं साध्यवसानं स्यादायुरेवेदं ईदृशम् ॥१२॥
उपादानार्पणद्वारे द्वे चान्ये इति षड्विधा ।
कुन्ता विशन्ति गङ्गायां घोषो निवसतीति च ॥१३॥

लक्ष्यलक्षकवैशिष्ट्य-वैशिष्ट्याद्द्विविधा पुनः ।
सरसं काव्यं अमृतं विद्या स्थिरतरं धनम् ॥१४॥

तथा सहेतुरतथाभेदभिन्ना च कुत्रचित् ।
सौन्दर्येणैष कन्दर्पः सा च मूर्तिमती रतिः ॥१५॥

शब्दे पदार्थे वाक्यार्थे संख्यायां कारके तथा ।
लिङ्गे चेयं अलङ्काराङ्कुरबीजतया स्थिता ॥१६॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति नवसंख्यः सुखयतु ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP