संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः ५०

पूर्वार्धम् - अध्यायः ५०

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
अधःप्रमाणमूर्द्ध्वञ्च वर्ण्यमानं निबोधत।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
अनन्तधातवो ह्येते व्यापकास्तु प्रकीर्तिताः ॥१॥

जननी सर्वभूतानां सर्व भूतधरा धरा।
नानाजनपदाकीर्णा नानाधिष्ठानपत्तना ॥२॥

नानानदनदीशैला नैकजातिसमाकुला।
अनन्ता गीयते देवी पृथिवी बहुविस्तरा ॥३॥

नदीनदसमुद्रस्थास्तथा क्षुद्राश्रयाः स्थिताः।
पर्वताकाशसंस्थाश्च अन्तर्भूमिगताश्च याः ॥४॥

आपोऽनन्ताश्च विज्ञेयास्तथाग्निः सर्वलौकिकः।
अनन्तः पठ्यते चैव व्यापकः सर्वसम्भवः ॥५॥

तथाकाशमनालम्बं रम्यं नानाश्रयं स्मृतम्।
अनन्तं प्रथितं सर्वं वायुश्चाकाशसम्भवः ॥६॥

आपः पृथिव्यामुदके पृथिवी चोपरि स्थिता।
आकाशञ्चापरमधः पुनर्भूमिः पुनर्ज्जलम् ॥७॥

एवमन्तमनन्तस्य भौतिकस्य न विद्यते।
पुरा सुरैरभिहितं निश्चितन्तु निबोधत ॥८॥

भूमिर्जलमथाकाशमिति ज्ञेया परम्परा।
स्थितिरेषा तु विज्ञेया सप्तमेऽस्मिन् रसातले ॥९॥

दशयोजनसाहस्रमेकभौमं रसातलम्।
साधुभिः परिविख्यातमेकैकं बहुविस्तरम् ॥१०॥

प्रथममतलञ्चैव सुतलन्तु ततः परम्।
ततः परतरं विद्याद्वितलं बहुविस्तरम् ॥११॥

ततो गभस्तलं नाम परतश्च महातलम्।
श्रीतलञ्च ततः प्राहुः पातालं सप्तमंस्मृतम् ॥१२॥

कृष्णभौमञ्च प्रथमं भूमिभागञ्च कीर्त्तितम्।
पाण्डुभौमं द्वितीयन्तु तृतीयं रक्तमृत्तिकम् ॥१३॥

पीतभौमञ्चतुर्थन्तु पञ्चमं शर्करातलम्।
षष्ठं सिलामयञ्चैव सौवर्णं सप्तमन्तलम् ॥१४॥

प्रथमे तु तले ख्यातमसुरेन्द्रस्य मन्दिरम्।
नमुचेरिन्द्रशत्रोर्हि महानादस्य चालयम् ॥१५॥

पुरञ्च शङ्कुकर्णस्य कबन्धस्य च मन्दिरम्।
निष्कुलादस्य च पुरं प्रहृष्टजनसङ्कुलम् ॥१६॥

राक्षसस्य च भीमस्य शूलदन्तस्य चालयम्।
लोहिताक्षकलिङ्गानां नगरं श्वापदस्य तु ॥१७॥

धनञ्जयस्य च पुरं माहेन्द्रस्य महात्मनः ।
कालियस्य च नागस्य नगरं कलसस्य च ॥१८॥

एवं पुरसहस्राणिं नागदानवरक्षसाम्।
तले ज्ञेयानि प्रथमे कृष्णभौमे न संशयः ॥१९॥

द्वितीयेऽपि तले विप्रा दैत्येन्द्रस्य सुरक्षसः।
महाजम्भस्य च तथा नगरं प्रथमस्य तु ॥२०॥

हयग्रीवस्य कृष्णस्य निकुम्भस्य च मन्दिरम्।
शङ्खाख्येयस्य च पुरं नगरं गोमुखस्य च ॥२१॥

राक्षसस्य च नीलस्य मेघस्य क्रथनस्य च।
पुरञ्च कुरुपादस्य महोष्णीषस्य चालयम् ॥२२॥

कम्बलस्य च नागस्य पुरमश्वतरस्य च।
कद्रुपुत्रस्य च पुरं तक्षकस्य महात्मनः ॥२३॥

एवं पुरसहस्राणि नागदानवरक्षसाम्।
द्वितीयेऽस्मिन् तले विप्राः पाण्डुभौमे न संशयः ॥२४॥

तृतीये तु तलेख्यातं प्रह्लादस्य महात्मनः।
अनुह्लादस्य च पुरं देत्येन्द्रस्य महात्मनः ॥२५॥

तारकाख्‌यस्य च पुरं पुरं त्रिशिरसस्तथा।
शिशुमारस्य च पुरं हृष्टपुष्टजनाकुलम् ॥२६॥

च्यवनस्य च विज्ञेयं राक्षसस्य च मन्दिरम्।
राक्षसेन्द्रस्य च पुरंकुम्भिलस्य खरस्यच ॥२७॥

विराधस्य च क्रूरस्य पुरमुल्कामुखस्य च।
हेमकस्य च नागस्य तथा पाण्डुरकस्य च ॥२८॥

मणिमन्त्रस्य च पुरं कपिलस्य च मन्दिरम्।
नन्दस्य चोरगपतेर्विशालस्य च मन्दिरम् ॥२९॥

एवं पुरसहस्राणि नागदानवरक्षसाम्।
तृतीयेऽस्मिस्तले विप्राः पीतभौमे न संशयः ॥३०॥

चतुर्थे दैत्यसिंहस्य कालनेमेर्महात्मनः।
गजकर्णस्य च पुरं नगरं कुञ्जरस्य च ॥३१॥

राक्षसेन्द्रस्य च पुरं सुमालेर्बहुविस्तरम्।
मुञ्जस्य लोकनाथस्य वृकवक्त्रस्य चालयम् ॥३२॥

बहुयोजनसाहस्रं बहुपक्षिसमाकुलम् ।
नगरं वैनतेयस्य चतुर्थेऽस्मिन् रसातले ॥३३॥

पञ्चमे शर्कराभौमे बहुयोजनविस्तृते।
विरोचनस्य नगरं दैत्यसिंहस्य धीमतः ॥३४॥

वैढूर्य्यस्याग्निजिह्वस्य हिरण्याक्षस्य चालयम्।
पुरञ्च विद्युज्जिह्वस्य राक्षसस्य च धीमतः ॥३५॥

महामेघस्य च पुरं राक्षसेन्द्रस्य शालिनः।
कर्म्मारस्य च नागस्य स्वस्तिकस्य जयस्य च ॥३६॥

एवं पुरसहस्राणि नागदानवरक्षसाम्।
पञ्चमेऽपि तथा ज्ञेयं शर्करानिलये सदा ॥३७॥

षष्ठे तले दैत्यपतेः केसरेर्नगरोत्तमम्।
सुपर्व्वणः सुलोम्नश्च नगरं महिषस्य च।
राक्षसेन्द्रस्य च पुरमुत्क्रोशस्य महात्मनः ॥३८॥

तत्रास्ते सुरसापुत्रः शतशीर्षो मुदा युतः।
कश्यपस्य सुतः श्रीमान् वासुकिर्नाम नागराट् ॥३९॥

एवं पुरसहस्राणि नागदानवरक्षसाम् ।
षष्ठे तलेऽस्मिन् विख्याते शिलाभौमे रसातले ॥४०॥

सप्तमे तु तले ज्ञेयं पाताले सर्व्वपश्चिमे ।
पुरं बलेः प्रमुदितं नरनारीसमाकुलम् ॥४१॥

असुराशीविषैः पूर्णमुद्धृतैर्द्देवशत्रुभिः।
मुचुकुन्दस्य दैत्यस्य तत्र वै नगरं महत् ॥४२॥

अनेकैर्दितिपुत्राणां समुदीर्णैर्महापुरैः।
तथैव नागनगरैऋद्धिमद्भिः सहस्रशः ॥४३॥

दैत्यानां दानवानाञ्च समुदीर्णै र्महापुरैः।
उदीर्णै राक्षसावासैरनेकैश्च समाकुलम् ॥४४॥

पातालान्ते च विप्रेन्द्रा विस्तीर्णे बहुयोजने।
आस्ते रक्तारविन्दाक्षो महात्मा ह्यजरामरः ॥४५॥

धौतशङ्खोदरवपुर्नीलवासा महाभुजः।
विशालभोगो द्युतिमांश्चित्रमालाधरो बली ॥४६॥

रुक्मश्रृङगावदातेन दीप्तास्येन विराजता।
प्रभुर्मुखसहस्रेण शोभते वै स कुण्डली ॥४७॥

स जिह्वामालया देवो लोलज्वालानलार्चिषा।
ज्वालामालापरिक्षिप्तः कैलास इव लक्ष्यते ॥४८॥

स तु नेत्रसहस्रेण द्विगुणेन विराजता।
बालसूर्य्याभिताम्रेण शोभते स्मिग्धमण्डलः ॥४९॥

तस्य कुन्देन्दुवर्णस्य अक्षमाला विराजते ।
तरुणादि त्यमालेव श्वेतपर्व्वतमूर्द्धनि ॥५०॥

जटाकरालो द्युतिमान् लक्ष्यते शयनासने।
विस्तीर्ण इव मेदिन्यां सहस्रशिखरो गिरिः ॥५१॥

महाभोगैर्महाभागै र्महानागैर्महाबलैः।
उपास्यते महातेजा महानागपतिः स्वयम् ॥५२॥

स राजा सर्वनागानां शेषो नाम महाद्युतिः।
सा वैष्णवी ह्यहितनुर्मर्यादायां व्यवस्थिता ॥५३॥

सप्तैवमेते कथिता व्यवहार्या रसातलाः ।
देवासुरमहानागराक्षसाध्युषिताः सदा ॥५४॥

अतःपरमनालोक्यमगम्यं सिद्धसाधुभिः।
देवा मानप्यविदितं व्यवहारविवर्ज्जितम् ॥५५॥

पृथिव्यग्न्यम्बुवायूनां नभसश्च द्विजोत्तमाः।
महत्त्वमेवमृषिभिर्वर्ण्यते नात्र संशयः ॥५६॥

अत ऊर्द्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम्।
सूर्याचन्द्रमसावेतौ भ्रमन्तौ यावदेव तु।
प्रकाशतः स्वभाभिस्तौ मण्डलाभ्यां समास्थितौ ॥५७॥

सप्तानाञ्च समुद्राणां द्वीपानान्तु स विस्तरः।
विस्तरार्द्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥५८॥

पर्यासपारिमाण्यन्तु चान्द्रादित्यौ प्रकाशतः।
पर्यासपारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम् ॥५९॥

अवति त्रीनिमान् लोकान् यस्मात् सूर्यः परिभ्रमन्।
अवधातुः प्रकाशाख्यो ह्यवनात्स रविः स्मृतः ॥६०॥

अतः परं प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः।
महितत्वान्महीशब्दो ह्यस्मिन् वर्षे निपात्यते ॥६१॥

अस्य भारतवर्षस्य विष्कम्भन्तु सुविस्तरम्।
मण्डलं भास्करस्याथ योजनानां निबोधत ॥६२॥

नवयोजनसाहस्रो विस्तारो भास्करस्य तु।
विस्तारात्र्रिगुणश्चास्य परिणाहोऽथ मण्डलम्।
विष्कम्बो मण्जलस्यैव भास्कराद् द्विगुणः शशी ॥६३॥

अतः पृथिव्यां वक्ष्यामि प्रमाणं योजनैः सह।
सप्तद्वीपसमुद्राया विस्तारो मण्जलञ्च यत् ॥६४॥

इत्येतदिह सङ्ख्यातं पुराणं परिमाणतः।
तद्वक्ष्यामि प्रसङ्ख्याय साम्प्रतैरभिमानिभिः ॥६५॥

अभिमानिव्यतीता ये तुल्यास्ते साम्प्रतैरिह।
देवा ये वै ह्यतीतास्ते रूपैर्नामभिरेव च ॥६६॥

तस्मात्तु साम्प्रतैर्देवैर्वक्ष्यामि वसुधातलम्।
दिवस्तु सन्निवेशो वै साम्प्रतैरेव कृत्स्नशः ॥६७॥

शतार्द्ध कोटिविस्तारा पृथिवी कृत्स्नतः स्मृता।
तस्या वार्धप्रमाणेन मेरोर्वै चातुरन्तरम् ॥६८॥

पृथिव्या वार्धविस्तारो योजनाग्रात्प्रकीर्त्तितः ।
मेरुमध्यात् प्रति दिशं कोटिरेकादश स्मृताः ॥६९॥

तथा शतसहस्राणि एकोननवतिः पुनः।
पञ्चाशच्च सहस्राणि पृथिव्या वार्धविस्तरः ॥७०॥

पृथिव्या विस्तरं कृत्स्नं योजनैस्तन्निबोधत।
तिस्रः कोट्यस्तु विस्तारः संख्यातः स चतुर्दिशम् ॥७१॥

तथा शतसहस्राणामेकोनाशीतिरुच्यते।
सप्तद्वीपसमुद्रायाः पृथिव्यास्त्वेष विस्तरः ॥७२॥

विस्तारात् त्रिगुण़ञ्चैव पृथिव्यन्तस्य मण्डलम्।
गणितं योजनाग्रन्तु कोट्यस्त्वेकादश स्मृताः ॥७३॥

तथा शतसहस्रन्तु सप्त त्रिंशाधिकानि तु।
इत्येतद्वै प्रसङ्ख्यातं पृथिव्यन्तस्य मण्डलम् ॥७४॥

तारकासन्निवेशस्य दिवि यावद्धि मण्डलम्।
पर्यासः सन्निवेशस्य भूमस्तावत्तु मण्डलम् ॥७५॥

पर्यासपारिमाण्डेन भूमेस्तुल्यं दिवं स्मृतम्।
सप्तानामपि लोकानामेतन्मानं प्रकीर्तितम् ॥७६॥

पर्यासपारिमाण्डेन मण्डलानुगतेन च।
उपर्युपरि लोकानां छत्रवत्परिमण्डलम् ॥७७॥

संस्थितिर्विहिता सर्वा येषु तिष्ठन्ति जन्तवः।
एतदण्डकटाहस्य प्रमाणं परिकीर्त्तितम् ॥७८॥

अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी।
भूर्लोकस्व भुवश्चैव तृतीयः स्वरिति स्मृतः ।
महर्लोको जनश्चैव तपः सत्यश्च सप्तमः ॥७९॥

एते सप्त कृता लोकाश्छत्राकारा व्यवस्थिताः।
स्वकैरावरणैः सूक्ष्मैर्धार्यमाणाः पृथक् पृथक् ॥८०॥

दशभागाधिकाभिश्च ताभिः प्रकृतिभिर्बहिः।
धार्यमाणा विशेषैश्च समुत्पन्नैः परस्परम् ॥८१॥

अस्याण्डस्य समन्ताच्च सन्निविष्टो घनोदधिः।
पृथिवीमण्डलं कृत्स्नं घनतोयेन धार्यते ॥८२॥

घनोदधिपरेणाथ धार्य्यते घनतेजसा।
बाह्यतो घनतेजस्तु तिर्य्यगूर्द्ध्वन्तु मण्डलम् ॥८३॥

समन्ताद्वनवातेन धार्य्यमाणं प्रतिष्ठितम्।
घनवातात्तथाकाशमाकाशञ्च महात्मना ॥८४॥

भूतादिना वृतं सर्व्वं भूताधिर्महता वृतः ।
वृतो महाननन्तेन प्रधानेनाव्ययात्मना ॥८५॥

पुराणि लोकपालानां प्रवक्ष्यामि यथाक्रमम् ।
ज्योतिर्गणप्रचारस्य प्रमाणं परिवक्ष्यते ॥८६॥

मेरोः प्राच्यां दिशि तथा मानसस्यैव मूर्द्धनि।
वस्वोकसारा माहेन्द्री पुण्या हेमपरिष्कृता । ५०.८७॥

दक्षिणेन पुनर्मेरोर्मानसस्यैव मूर्द्धनि।
वैवस्वतो निवसति यमः संयमने पुरे ॥८८॥

प्रतीच्यान्तु पुनर्मेरोर्मानसस्यैव मूर्द्धनि।
सुखा नाम पुरी रम्या वरुणस्याथ धीमतः ॥८९॥

दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्द्धनि।
तुल्या माहेन्द्रपुर्य्या तु सोमस्यापि विभावरी ॥९०॥

मानसोत्तरपृष्ठे तु लोकपालाश्चतुर्द्दिशम्।
स्थिता धर्म्मव्यवस्थायै लोकसंरक्षणाय च ॥९१॥

लोकपालोपरिष्टात्तु सर्व्वतो दक्षिणायने।
काष्ठागतस्य सूर्य्यस्य गतिर्या तां निबोधत ॥९२॥

दक्षिणे प्रक्रमे सूर्य्यः क्षिप्तेषुरिव सर्पति।
ज्योतिषाञ्चक्रमादाय सततं परिगच्छति ॥९३॥

मध्यगश्चामरावत्यां यदा भवति भास्करः।
वैवस्वते संयमने उदयस्तत्र उच्यते ॥९४॥

सुखायामर्द्धरात्रञ्च मध्यगः स्याद्रविर्यदा।
सुखायामथ वारुण्यामुत्तिष्ठन् स तु दृश्यते ॥९५॥

विभायामर्द्धरात्रं स्यान्माहेन्द्य्रामस्तमेति च।
तदा दक्षिणपूर्व्वेषामपराह्नो विधीयते ॥९६॥

दक्षिणापर देश्यानां पूर्व्वाह्नः परिकीर्त्त्यते।
तेषामपररात्रञ्च ये जना उत्तरापथे ॥९७॥

देशा उत्तरपूर्व्वा ये पूर्व्वरात्रन्तु तान् प्रति।
एवमेवोत्तरेष्वर्को भवनेषु विराजते ॥९८॥

सुखायामथ वारुण्यां मध्याह्ने चार्य्यमा यदा।
विभावर्य्यां सोमपुर्य्यामुत्तिष्ठति विभावसुः ॥९९॥

रात्र्यर्द्धं चामरावत्यामस्तमेति यमस्य च।
सोमपुर्यां विभायान्तु मध्याह्ने स्याद्धिवाकरः ॥१००॥

महेन्द्रस्यामरावत्यामुत्तिष्ठति यदा रविः।
अर्द्धरात्रं संयमने वारुण्यामस्तमेति च ॥१०१॥

स शीग्रमेति पर्य्येति भास्करोऽलातचक्रवत्।
भ्रमन् वै भ्रममाणानि ऋक्षाणि गगने रविः ॥१०२॥

एवं चतुर्षु द्वीपेषु दक्षिणान्तेन सर्पति।
उदयास्तमनेनासावुत्तिष्ठति पुनः पुनः ॥१०३॥

पूर्व्वाह्ने चापराह्ने तु द्वौ द्वौ देवालयौ तु सः।
तपत्येकन्तु मध्याह्ने तैरेव तु सरश्मिभिः ॥१०४॥

उदितो वर्द्धमानाभिरामध्याह्नं तपन् रविः।
अतः परं ह्रसन्तीभिर्गोभिरस्तं स गच्छति ॥१०५॥

उदयास्तमयाभ्यां हिस्मृते पूर्वापरे दिशो।
यावत्पुरस्तात्तपति तावत् पृष्ठे तु पार्श्वयोः ॥१०६॥

यत्रोद्यन् दृश्यते सूर्यस्तेषां स उदयः स्मृतः।
यत्र प्रणाशमायाति तेषामस्तः स उच्यते ॥१०७॥

सर्वेषामुत्तरे मेरुर्लोकालोकस्तु दक्षिणे।
विदूरभावादर्कस्य भूमेर्लेखावृतस्य च।
ह्रियन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते ॥१०८॥

ग्रहनक्षत्रताराणां दर्शनं भास्करस्य च।
उच्छ्रायस्य प्रमाणेन ज्ञेयमस्तमनोदयम् ॥१०९॥

शुक्लच्छायोग्निरापश्च कृष्णच्छाया च मेदिनी।
विदूरभावादर्कस्य उद्यातस्य विरश्मिता।
रक्ताबावो विरश्मित्वाद्रक्तत्वाच्चाप्यनुष्णता ॥११०॥

लेखयावस्थितः सूर्यो यत्र यत्र तु दृश्यते।
ऊर्द्ध्वं गतः सहस्रन्तु योजनानां स दृश्यते ॥१११॥

प्रभा हि सौरी पादेन अस्तङ्गच्छति भास्करे।
अग्निमाविशते रात्रौ तस्माद्दूरात् प्रकाशते ॥११२॥

उदितस्तु पुनः सूर्यः अस्तमाग्नेयमाविशत्।
संयुक्तो वह्निना सूर्यस्ततः स तपते दिवा ॥११३॥

प्राकाश्यञ्च तथौष्ण्यञ्च सूर्याग्नेयी च तेजसी।
परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥११४॥

उत्तरे चैव भूम्यर्द्धे तथा तस्मिंश्च दक्षिणे।
उत्तिष्ठति तथा सूर्ये रात्रिराविशते त्वपः ।
तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ॥११५॥

अस्तं याति पुनः सूर्ये दिनं वै प्रविशत्यपः।
तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् ॥११६॥

एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे।
उदयास्तमनेऽर्कस्य अहोरात्रं विशत्यपः ॥११७॥

दिनं सूर्यप्रकाशाख्यं तामसी रात्रिरुच्यते।
तस्माद्व्यवस्थिता रात्रिः सूर्यावेक्ष्यमहः स्मृतम् ॥११८।
एवं पुष्करमध्येन यदा सर्पति भास्करः।
त्रिंशां शकन्तु मेदिन्या मुहूर्तेनैव गच्छति ॥११९॥

योजनाग्रान्मुहूर्त्तस्य इमां सङ्ख्यां निबोधत।
पूर्णं शतसहस्राणामेकत्रिंशत्तु सा स्मृता ॥१२०॥

पञ्चाशत्तु तथान्यानि सहस्राण्यधिकानि तु।
मौहूर्त्तिकी गतिर्ह्येषा सूर्यस्य तु विधीयते ॥१२१॥

एतेन गतियोगेन यदा काष्ठान्तु दक्षिणाम्।
पर्य्यागच्छेत्तदादित्यो माघे काष्ठान्तमेव हि ॥१२२॥

सर्पते दक्षिणायान्तु काष्ठायां तन्निबोधत।
नवकोट्यः प्रसङ्ख्याता योजनैः परिमण्डलम् ॥१२३॥

तथा शतसहस्राणि चत्वारिंशच्च पञ्च च।
अहोरात्रात्पतङ्गस्य गतिरेषा विधीयते ॥१२४॥

दक्षिणाद्विनिवृत्तोऽसौ विषुवस्थो यदा रविः।
क्षीरोदस्य समुद्रस्य उत्तरान्ता दिशश्चरन् ॥१२५॥

मण्डलं विषुवद्यापि योजनैस्तन्निबोधत।
तिस्रः कोट्यस्तु विस्तीर्णा विषुवद्यापि सा स्मृता ॥१२६॥

तथा शतसहस्राणामशीत्येकाधिका पुनः ।
श्रवणे चोत्तरां काष्ठाञ्चित्रभानुर्यदा भवेत् ।
शाकद्वीपस्य षष्ठस्य उत्तरान्ता दिशश्चरन् ॥१२७॥

उत्तरायाञ्च काष्ठायां प्रमाणं मण्‍डलस्य च।
योजनाग्रात्प्रसङ्ख्याता कोटिरेका तु सा द्विजैः ॥१२८॥

अशीतिर्नियुतानीह योजनानां तथैव च।
अष्टपञ्चाशतञ्चैव योजनान्यधिकानि तु ॥१२९॥

नागवीथ्युत्तरावीथी अजवीथी च दक्षिणा।
मूलं चैव तथाषाडे ह्यजवीथ्युदयास्त्रयः।
अभिजित्पूर्वतः स्वातिर्नागवीथ्युदयास्त्रयः ॥१३०॥

काष्ठयोरन्तरं यच्च तद्वक्ष्ये योजनैः पुनः।
एतच्छतसहस्राणामेकत्रिंशोत्तरं शतम् ॥१३१॥

त्रयस्त्रिंशाधिकाश्चान्ये त्रयस्त्रिंशच्च योजनैः।
काष्ठयोरन्तरं ह्येतद्योजनाग्रात् प्रतिष्ठितम् ॥१३२॥

काष्ठयोर्लेखयोश्चैव अन्तरे दक्षिणोत्तरे ।
ते तु वक्ष्यामि सङ्ख्याय योजनैस्तन्निबोधत ॥१३३॥

एकैकमन्तरन्तस्या नियुतान्येकसप्ततिः।
सहस्राण्यतिरिक्ताश्च ततोऽन्या पञ्चसप्ततिः ॥१३४॥

लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोः स्मृतम्।
अभ्यन्तरन्तु पर्येति मण्डलान्युत्तरायणे ॥१३५॥

बाह्यतो दक्षिणे चैव सततन्तु यथाक्रमम्।
मण्डलानां शतं पूर्णमशीत्यधिकमुत्तरम् ॥१३६॥

चरते दक्षिणे चापि तावदेव विभावसुः।
प्रमाणं मण्डलस्याथ योजनाग्रान्निबोधत ॥१३७॥

एकविंशद्योजनानां सहस्राणि समासतः।
शते द्वे पुनरप्यन्ये योजनानां प्रकीर्त्तिते ॥१३८॥

एकविंशतिभिश्चैव योजनैरधिकैर्हि ते।
एतत्प्रमाणमाख्यातं योजनैर्मण्डलं हि तत् ॥१३९॥

विष्कम्भो मण्डलस्यैष तिर्यक् स तु विधीयते।
प्रत्यहञ्चरते तानि सूर्यो वै मण्डलक्रमम् ॥१४०॥

कुलालचक्रपर्यन्तो यथा शीघ्रं निवर्त्तते।
दक्षिणे प्रक्रमे सूर्यस्तथा शीघ्रं निवर्त्तते ॥१४१॥

तस्मात् प्रकृष्टां भूमिञ्च कालेनाल्पेन गच्छति।
सूर्यो द्वादशभिः शीघ्रं मुहूर्त्तेर्दक्षिणोत्तरे ॥१४२॥

त्रयोदशार्द्धमृक्षाणामह्नानुचरते रविः।
मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥१४३॥

कुलालचक्रमध्यस्तु यथा मन्दं प्रसर्पति।
तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥१४४॥

त्रयोदशार्द्धमर्द्धेन ऋक्षाणां चरते रविः।
तस्माद्दीर्घेण कालेन भूमिमिल्पां निगच्छति ॥१४५॥

अष्टादशमुहूर्त्तैस्तु उत्तरायणपश्चिमम्।
अहर्भवति तच्चापि चरते मन्दविक्रमः ॥१४६॥

त्रयोदशार्द्धमर्धेन ऋक्षाणाञ्चरते रविः।
मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥१४७॥

ततो मन्दतरं ताभ्याञ्चक्रं भ्रमति वै यथा।
मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै यथा ॥१४८॥

त्रिंशन्मुहूर्त्ताने वाहुरहोरात्रं ध्रुवो भ्रमन् ।
उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि सः ॥१४९॥

कुलालचक्रनाभिस्तु यथा तत्रैव वर्त्तते।
ध्रुवस्तथा हि विज्ञेयस्तत्रैव परिवर्त्तते ॥१५०॥

उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु।
दिवा नक्तञ्च सूर्यस्य मन्दा शीघ्रा च वै गतिः ॥१५१॥

उत्तरे प्रक्रमे त्विन्दो र्दिवा मन्दा गतिः स्मृता।
तथैव च पुनर्नक्तं शीघ्रा सूर्यस्य वै गतिः ॥१५२॥

दक्षिणे प्रक्रमे चैव दिवा शीघ्रं विधीयते ।
गतिः सूर्यस्य नक्तं वै मन्दा चापि तथा स्मृता ॥१५३॥

एवं गतिविशेषेण विभजन् रात्र्यहानि तु।
तथा विचरते मार्गं समेन विषमेण च ॥१५४॥

लोकालोके स्थिता ये ते लोकपालाश्चतुर्दिशम्।
अगस्त्यश्चरते तेषामुपरिष्टाज्जवेन तु ।
भजन्नसावहोरात्रमेवङ्गतिविशेषणैः ॥१५५॥

दक्षिणे नागवीथ्यायां लोकालोकस्य चोत्तरम्।
लोकसन्तारको ह्येष वैश्वानरपथाद्बहिः ॥१५६॥

पृष्ठे यावत् प्रभा सौही पुरस्तात् सम्प्रकाशते।
पार्श्वयोः पृष्ठतस्तावल्लोकालोकस्य सर्वतः ॥१५७॥

योजनानां सहस्राणि दशोर्द्द्वन्तूच्छ्रितो गिरिः।
प्रकाशश्चाप्रकाशश्च सर्वतः परिमण्डलः ॥१५८॥

नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह।
अभ्यन्तरं प्रकाशन्ते लोकालोकस्य वै गिरेः ॥१५९॥

एतावानेव लोकस्तु निरालोकस्त्वतः परम्।
लोकालोक एकधा तु निरालोकस्त्वनेकधा ॥१६०॥

लोकालोकन्तु सन्धत्ते यस्मात् सूर्यः परिग्रहम्।
तस्मात्सन्ध्येति तामाहुरुषाव्युष्ट्योर्यदन्तरम् ।
उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि त्वहः स्मृतम् ॥१६१॥

सूर्यं हि ग्रसमानानां सन्ध्याकाले हि रक्षसाम्।
प्रजापतिनियोगेन शापस्तेषां दुरात्मनाम् ।
अक्षयत्वञ्च देहस्य प्रापिता मरणं तथा ॥१६२॥

तिस्रः कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः।
प्रार्थयन्ति सहस्रांशुमुदयन्ति दिने दिने।
तापयन्तो दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥१६३॥

अथ सूर्यस्य तेषाञ्च युद्धमासीत् सुदारुणम्।
ततो ब्रह्मा च देवाश्च ब्राह्मणाश्चैव सत्तमाः।
सन्ध्येति समुपासन्तः क्षेपयन्ति महाजलम् ॥१६४॥

ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम्।
तेन दह्यन्ति ते दैत्या वज्रभूतेन वारिणा ॥१६५॥

ततः पुनर्महातेजा महाद्युतिपराक्रमः.
योजनानां सह स्राणि ऊर्द्ध्वमुत्तिष्ठते शतम् ॥१६६॥

ततः प्रयाति भगवान् ब्राह्मणैः परिवारितः।
वालखिल्यैश्च मुनिभिः कृतार्थैः समरीचिभिः ॥१६७॥

काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत् कलान्तम् ।
त्रिंशत् कलाश्चैव भवेन्मुहूर्त्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥१६८॥

ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमम्।
सन्ध्या मुहूर्तमानन्तु ह्रासे वृद्धौ समा स्मृता ॥१६९॥

लेखाप्रभृत्यथादित्ये त्रिमुहूर्त्तागते तु वै।
प्रातस्तनः स्मृतः कालो भागस्त्वह्नः स पञ्चमः ॥१७०॥

तस्मात् प्रातस्तनात्कालात् त्रिमुहूर्त्तस्तु सङ्गवः।
मध्याह्नस्त्रिमुहूर्त्तस्तु तस्मात्कालाच्च सङ्गवात् ॥१७१॥

तस्मान्मध्यन्दिनात् कालादपराह्न इति स्मृतः ।
त्रय एव मुहूर्त्तास्तु तस्मात् कालाच्च मध्यमात् ॥१७२॥

अपराह्ने व्यतीपाते काल- सायाह्न उच्यते।
दशपञ्चमुहूर्त्ताद्वै मुहूर्त्तास्त्रय एव च ॥१७३॥

दशपञ्चमुहूर्त्तं वै अहर्विषुवति स्मृतम्।
दशपञ्चमुहूर्त्ताद्वै रात्रिन्दिवमिति स्मृतम् ॥१७४॥

वर्ध्धते ह्रसते चैव अयने दक्षिणोत्तरे।
अहस्तु ग्रसते रात्रिं रात्रिस्तु ग्रसते त्वहः ॥१७५॥

शरद्वसन्तयोर्मध्ये विषुवन्तद्विभाव्यते।
अहोरात्रं कलाश्चैव सप्त सोमः समश्रुते ॥१७६॥

तथा पञ्चदशाहानि पक्ष इत्याभिधीयते।
द्वौ पक्षौ च भवेन्मासो द्वौ मासावन्तरावृतुः।
ऋतुत्रयमयनं स्याद्द्वैऽयने वर्षमुच्यते ॥१७७॥

निमेषादिकृतः कालः काष्ठाया दश पञ्च च।
कलायास्त्रिंशतः काष्ठा मात्राघीतिद्वयात्मिका ॥१७८॥

शतघ्नैकोनकास्त्रिंशन्मात्रात्रिशत् षडुत्तरा।
द्विषष्टिभाक् त्रयोविंशन्मात्रायाञ्च चला भवेत् ॥१७९॥

चत्वारिंशत्सहस्राणि शतान्यष्टौ च विद्युतिः।
सप्ततिञ्चापि तत्रैव नवतिं विद्धि निस्वये ॥१८०॥

चत्वार्येव शतान्याहुर्विद्युतौ वैधसंयुगे।
चरांशो ह्येष विज्ञेयो नालिका चात्र कारणम् ॥१८१॥

संवत्सरादयः पञ्च चतुर्मानविकल्पिताः।
निश्चयः सर्वकालस्य युग इत्यभिधीयते ॥१८२॥

संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः।
इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः।
पञ्चमो वत्सरस्तेषां कालस्तु परिसंज्ञितः ॥१८३॥

विंशशतं भवेत्पूर्णं पर्वणां तु रवेर्युगम्।
एतान्यष्टादशस्त्रिंशदुदयो भास्करस्य च ॥१८४॥

ऋतवस्त्रिंशतः सौरा अयनानि दशैव तु।
पञ्चत्रिंशत् शतं चापि षष्टिर्मासाश्च भास्करः ॥१८५॥

त्रिंशदेव त्वहोरात्रं स तु मासश्च भास्करः।
एकषष्टिस्त्वहोरात्रा दनुरेको निभाव्यते ॥१८६॥

अह्नान्तु त्र्यधिकाशीतिः शतं चाप्यधिकं भवेत्।
मानं तच्चित्रभानोस्तु विज्ञेयं भुवनस्य तु ॥१८७॥

सौरसौम्यं तु विज्ञेयं नक्षत्रं सावनं तथा।
नामान्येतानि चत्वारि यैः पुराणं विभाव्यते ॥१८८॥

खे तस्योत्तरतश्चैव श्रृङ्गवान्नाम पर्वतः।
त्रीणि तस्य तु श्रृङ्गाणि स्पृशन्तीव नभस्तलम् ॥१८९॥

तैश्चापि श्रृङ्गवान्नाम सर्वतश्चैव विश्रुतः।
एकमार्गश्च विस्तारो विष्कम्भश्चापि कीर्तितः ॥१९०॥

तस्य वै सर्वतः श्रृङ्गं मध्यमन्तद्धिरण्मयम्।
दक्षिणं राजतञ्चैव श्रृङ्गं तु स्फटिकप्रभम् ॥१९१॥

सर्वरत्नमयं चैकं श्रृङ्गमुत्तरमुत्तमम्।
एवं कूटैस्रिभिः शैलैः श्रृङ्गवानिति विश्रुतः ॥१९२॥

यत्तद्विषुवतं श्रृङ्गन्तदर्कः प्रतिपद्यते।
शरद्वसन्तयोर्मध्ये मध्यमां गतिमास्थितः।
अहस्तुल्यामथो रात्रिं करोति तिमिरापहः ॥१९३॥

हरिताश्च हया दिव्यास्ते नियुक्ता महारथे।
अनुलिप्ता इवाभान्ति पझरक्तैर्गभस्तिभिः ॥१९४॥

मेषान्ते च तुलान्ते च भास्करोदयतः स्मृताः ।
मुहूर्त्ता दश पञ्चैव अहोरात्रिश्च तावती ॥१९५॥

कृत्तिकानां यदा सूर्यः प्रथमांशगतो भवेत् ।
विशाखानां तथा ज्ञेयश्चतुर्थांशे निशाकरः॥ ५०.१९६॥

विशाखायां यदा सूर्य श्च्रतेंऽशं तृतीयकम्।
तदा चन्द्रं विजानीयात् कृत्तिकाशिरसि स्थितम् ॥१९७॥

विषुवन्तं तदा विद्यादेवमाहुर्महर्षयः।
सूर्येण विषुवं विद्यात् कालं सोमेन लक्षयेत् ॥१९८॥

समा रात्रिरहश्चैव यदा तद्विषुवद्भवेत्।
तदा दानानि देयानि पितृभ्यो विषुवत्यपि।
ब्राह्मणेभ्यो विशेषेण मुखमेतत्तु दैवतम् ॥१९९॥

ऊनरात्राधिमासौ च कलाकाष्ठामुहूर्त्तकाः।
पौर्णमासी तथा ज्ञेया अमावास्या तथैव च।
सिनीवाली कुहूश्चैव राका चानुमति स्तथा ॥२००॥

तपस्तपस्यौ मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात्।
नभो नभश्योऽथ इषुः सहोर्जः सहःसहस्याविति दक्षिणं स्यात् ॥२०१॥

संवत्सरास्ततो ज्ञेयाः पञ्चाब्दा ब्रब्मणः सुताः।
तस्मात्तु ऋतवो ज्ञेया ऋतवो ह्यन्तराः स्मृताः ॥२०२॥

तस्मादनुमुखा ज्ञेया अमावास्यास्य पर्वणः.
तस्मात्तु विषुवं ज्ञेयं पितृदैवहितं सदा ॥२०३॥

एवं ज्ञात्वा न मुह्येत दैवे पित्र्ये च मानवः।
तस्मात् स्मृतं प्रजानां वै विषुवत्सर्वगं सदा ॥२०४॥

आलोकान्तः स्मृतो लोको लोकान्तो लोक उच्यते।
लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः ॥२०५॥

चत्वारस्ते महात्मानस्तिष्ठन्त्याभूतसम्प्लवात्।
सुधामा चैव वैराजः कर्द्दमः शङ्‌कृपस्तथा।
हिरण्यलोमा पर्ज्जन्यः केतुमान् जातनिश्चयः ॥२०६॥

निर्द्वन्द्वा निरभीमाना निस्तन्त्रा निष्परिग्रहाः।
लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ॥२०७॥

उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम्।
पितृयाणः स वै पन्था वैश्वानरपथाद्बहिः ॥२०८॥

तत्रासते प्रजावन्तो मुनयो ह्यग्निहोत्रिणः ।
लोकस्य सन्तानकराः पितृयाणे पथि स्थिताः ॥२०९॥

भूतारम्भ कृतं कर्म आशिषा ऋत्विगुच्यते ।
प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणः ॥२१०॥

चलितन्ते पुनर्द्धर्मं स्थापयन्ति युगे युगे।
सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥२११॥

जायमानास्तु पूर्वे वै पश्चिमानां गृहेषु च।
पश्चिमाश्चैव जायन्ते पूर्वेषां निधनेष्वपि।
एव मावर्त्तमानास्ते तिष्ठन्त्याभूतसम्प्लवात् ॥२१२॥

अष्टाशीतिसहस्राणि मुनीनां गृहमेधिनाम्।
सवितुर्द्दक्षिणं मार्गं श्रिता ह्याचन्द्रतारकम्।
क्रियावतां प्रसङ्ख्येया ये श्मशानानि भेजिरे ॥२१३॥

लोकशंव्यवहारेण भूतारम्भकृतेन च।
इच्छाद्वेषप्रकृत्या च मैथुनोपगमेन च ॥२१४॥

तथा कायकृतेनेह सेवनाद्विषयस्य च।
एतैस्तैः कारणैः सिद्धाः श्मशानानि हि भेजिरे।
प्रजैषिणस्ते मुनयो द्वापरेष्विह जज्ञिरे ॥२१५॥

नागवीथ्युत्तरे यच्च सप्तर्षिभ्यश्च दक्षिणम् ।
उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ॥२१६॥

यत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः।
सततन्ते जुगुप्सन्ते तस्मान्मृत्युर्ज्जितस्तु तैः ॥२१७॥

अष्टाशीतिसहस्राणि तेषामप्यूर्द्ध्वरेतसाम्।
उदकूपन्थानमर्यम्णः श्रिता ह्याभूतसम्प्लवात् ॥२१८॥

इत्येतैः कारणैः शुद्धैस्तेऽ म़तत्वं हि भेजिरे।
आभूतसम्प्लवस्थानममृतत्वं विभाव्यते ॥२१९॥

त्रैलोक्यस्थितिकालोऽयमपुनर्मार्गगामिनः।
ब्रह्महत्याश्वमेधाभ्यां पुण्यापापकृतोऽपरम्।
आभूतसम्प्लवान्ते तु क्षीयन्ते ह्यूर्द्ध्वरेतसः ॥२२०॥

ऊर्द्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्रास्ति वै स्मृतम्।
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥२२१॥

तत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम्।
धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः ॥२२२॥

इति श्रीमहापुराणे वायुप्रोक्ते ज्योतिष्प्रचारो नाम पञ्चाशोऽद्यायः ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP