अधिकरणम् ५ - अध्यायः ५
महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.
न राज्ञां महामात्राणां वा परभवनप्रवेशो विद्यते ।महाजनेन हि चरितं एषां दृश्यतेऽनुविधीयते च ॥१॥
सवितारं उद्यन्तं त्रयो लोकाः पश्यन्ति अनूद्यन्ते च । गच्छन्तं अपि पश्यन्त्यनुप्रतिष्ठन्ते च ॥२॥
तस्मादःशक्यत्वाद्गर्हणीयत्वाच्चेति न ते वृथा किं चिदाचरेयुः ॥३॥
अःवश्यं त्वाचरितव्ये योगान्प्रयुञ्जीरन् ॥४॥
ग्रामाधिपतेरायुक्तकस्य हलोत्थवृत्तिपुत्रस्य((१४५)) यूनो ग्रामीणयोषितो वचनमात्र साध्याः । ताश्चर्षण्य((१४६)) इत्याचक्षते विटाः ॥५॥
ताभिः सह विष्टिकर्मसु कोष्ठागारप्रवेशे द्रव्याणां निष्क्रमणप्रवेशनयोर्भवनप्रतिसंस्कारे क्षेत्रकर्मणि कर्पासोर्णातसीशणवल्कलादाने सूत्रप्रतिग्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च कर्मसु प्रयोगः ॥६॥
तथा व्रजयोषिद्भिः गवाध्यक्षस्य ॥७॥
विधवानाथाप्रव्रजिताभिः सह सूत्राध्यक्षस्य ॥८॥
मर्मज्ञात्वाद्रात्रावटने चाटन्तीभिर्नागरस्य ॥९॥
क्रयविक्रये पण्याध्यक्षस्य ॥१०॥
अष्टमीचन्द्रकौमुदीसुःवसन्तकादिषु पत्तननगरखर्वटयोषितां ईश्वरभवने सहान्तःःपुरिकाभिः प्रायेण क्रीडा ॥११॥
तत्र चापानकान्ते नगरस्त्रियो यथापरिचयं अन्तःःपुरिकानां पृथक्पृथग्भोगावासकान्प्रविश्य कथाभिरासित्वा पूजिताः प्रतीताश्चोपप्रदोषं निष्क्रामयेयुः ॥१२॥
तत्र प्रणिहिता राजदासी प्रयोज्यायाः पूर्वसंसृष्टा तां तत्र संभाषेत ॥१३॥
रामणीयकदर्शनेन योजयेत् ॥१४॥
प्रागेव स्वभवनस्थां ब्रूयात् । अमुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयकानि दर्शयिष्यामीति काले च योजयेत् । बहिःःप्रवालकुट्टिमं((१४७)) ते दर्शयिष्यामि ॥१५॥
मणिभूमिकां वृक्षवाटिकां मृद्वीकामण्डपं((१४८)) समुद्रगृहप्रासादान्गूढभित्तिसंचारांश्चित्रकर्माणि क्रीडामृगान्यन्त्राणि शकुनान्व्याघ्रसिंहपञ्जरादीनि च यानि पुरस्ताद्वर्णितानि स्युः ॥१६॥
एकान्ते च तद्गतं ईश्वरानुरागं श्रावयेत् ॥१७॥
संप्रयोगे चातुर्यं चाभिवर्णयेत् ॥१८॥
अःमन्त्रश्रवं च प्रतिपन्नां योजयेत् ॥१९॥
अःप्रतिपद्यमानां स्वयं एवेश्वर आगत्योपचारैः सान्त्वितां रञ्जयित्वा संभूय च सानुरागं विसृजेत् ॥२०॥
प्रयोज्यायाश्च पत्युरनुग्रहोचितस्य दारान्नित्यं अन्तःःपुरं औचित्यात्प्रवेशयेत् । तत्र प्रणिहिता राजदासीति समानं पूर्वेण ॥२१॥
अन्तःःपुरिका वा प्रयोज्यया सह स्वःचेटिकासंप्रेषणेन प्रीतिं कुर्यात् । प्रसृतप्रीतिं च सापदेशं दर्शने नियोजयेत् । प्रविष्टां पूजितां पीतवतीं प्रणिहिता राजदासीति समानं पूर्वेण ॥२२॥
यस्मिन्वा विज्ञाने प्रयोज्या विख्याता स्यात्तद्दर्शनार्थं अन्तःःपुरिका सोपचारं तां आह्वयेत् । प्रविष्टां प्रणिहिता राजदासीति समानं पूर्वेण ॥२३॥
उद्भूतानःअर्थस्य भीतस्य वा भार्यां भिक्षुकी ब्रूयातसावन्तःःपुरिका राजनि सिद्धा गृहीतवाक्या मम वचनं शृणोति । स्वभावतश्च कृपाशीला तां अनेनोपायेनाधिगमिष्यामि । अहं एव ते प्रवेशं कारयिष्यामि । सा च ते भर्तुर्महान्तं अनःअर्थं निवर्तयिष्यतीति प्रतिपन्नां द्विस्त्रिरिति प्रवेशयेत् । अन्तःःपुरिका चास्या अःभयं दद्यात् । अःभयश्रवणाच्च संप्रहृष्टां प्रणिहिता राजदासीति समानं पूर्वेण ॥२४॥
एतया वृत्त्यर्थिनां महामात्राभितप्तानां बलाद्विगृहीतानां व्यवहारे दुरःबलानां स्वभोगेनाःसंतुष्टानां राजनि प्रीतिकामानां राज्यजनेषु पङ्क्तिं इच्छतां सजातैर्बाध्यमानानां सःजातान्बाधितुकामानां सूचकानां अन्येषां कार्यवशिनां जाया व्याख्याताः ॥२५॥
अन्येन वा प्रयोज्यां सह संसृष्टां संग्राह्य दास्यं उपनीतां क्रमेणान्तःपुरं प्रवेशयेत् ॥२६॥
प्रणिधिना चायतिं अस्याः संदूष्य राजनि विद्विष्ट इति कलत्रावग्रहोपायेनैनां अन्तःपुरं प्रवेशयेत् । इति प्रच्छन्नयोगाः((१४९)) । एते राजपुत्रेषु प्रायेण ॥२७॥
न त्वेवं परभवनं ईश्वरः प्रविशेत् ॥२८॥
आभीरं कोट्टराजं((१५०)) परभवनगतं भ्रातृप्रयुक्तो रजको जघान । काशिराजं जयसेनं अश्वाध्यक्ष इति ॥२९॥
प्रकाशकामितानि तु देशप्रवृत्तियोगात् ॥३०॥
प्रत्ता जनपदकन्या दशमेऽहनि किं चिदौपायनिकं उपगृह्य प्रविशन्त्यन्तःःपुरं उपभुक्ता एव विसृज्यन्त इत्यान्ध्राणाम्((१५१)) ॥३१॥
महामात्रेश्वराणां अन्तःःपुराणि निशि सेवार्थं राजानं उपगच्छन्ति वात्सगुल्मकानाम् ॥३२॥
रूपवतीर्जनपदयोषितः प्रीत्यपदेशेन मासं मासार्धं वातिवासयन्त्यन्तःःपुरिका वैदर्भाणाम् ॥३३॥
दर्शनीयाः स्वभार्याः प्रीतिदायं एव महामात्रराजभ्यो ददत्यपरान्तकानाम् ॥३४॥
राजक्रीडार्थं नगरस्त्रियो जनपदस्त्रियश्च सङ्घश एकशश्च राजकुलं प्रविशन्ति सौराष्ट्रकाणां इति ॥३५॥
श्लोकावत्र भवतः ॥३६॥
वेते चान्ये च बहवः प्रयोगाः पारदारिकाः । देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः ॥३६॥
व्न त्वेवैतान्प्रयुञ्जीत राजा लोकहिते रतः । निगृहीतारिषड्वर्गस्तथा विजयते महीम्((१५२)) ॥३७॥
इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे ईश्वरकामितं पञ्चमोऽध्यायः ॥५॥
N/A
References : N/A
Last Updated : June 27, 2014
TOP