धर्मार्थाङ्गविद्याकालाननःउपरोधयन्कामसूत्रं तदङ्गविद्याश्च पुरुषोऽधीयीत ॥१॥
प्राग्यौवनात्स्त्री । प्रत्ता च पत्युरभिप्रायात् ॥२॥
योषितां शास्त्रग्रहणस्याभावादनःअर्थकं इह शास्त्रे स्त्रीशासनं इत्याचार्याः ॥३॥
प्रयोगग्रहणं त्वासाम् । प्रयोगस्य च शास्त्रपूर्वकत्वादिति वात्स्यायनः ॥४॥
तन्न केवलं इहैव । सर्वत्र हि लोके कति चिदेव शास्त्रज्ञाः । सर्वजनविषयश्च प्रयोगः ॥५॥
प्रयोगस्य च दूरस्थं अपि शास्त्रं एव हेतुः ॥६॥
अस्ति व्याकरणं इत्यवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते ॥७॥
अस्ति ज्यौतिषं इति पुण्याहेषु कर्म कुर्वते ॥८॥
तथाश्वारोहा गजारोहाश्चाश्वान्गजांश्चानःअधिगतशास्त्रा अपि विनयन्ते ॥९॥
तथास्ति राजेति दूरस्था अपि जनपदा न मर्यादां अतिवर्तन्ते तद्वदेतत् ॥१०॥
सन्त्यपि खलु शास्त्रप्रहतबुद्धयो गणिका राजपुत्र्यो महामात्रदुहितरश्च ॥११॥
तस्माद्वैश्वासिकाज्जनाद्रहसि प्रयोगाञ् छास्त्रं एकदेशं वा स्त्री गृह्णीयात् ॥१२॥
अभ्यासप्रयोज्यांश्च चातुःषष्टिकान्योगान्कन्या रहस्येकाकिन्यभ्यसेत् ॥१३॥
आचार्यास्तु कन्यानां प्रवृत्तपुरुषसंप्रयोगा सहःसंप्रवृद्धा धात्रेयिका । तथाःभूता वा निरःअत्ययसंभाषणा सखी । सवयाश्च मातृश्वसा । विस्रब्धा तत्स्थानीया वृद्धदासी । पूर्वसंसृष्टा वा भिक्षुकी । स्वसा च विश्वासप्रयोगात् ॥१४॥
गीतं (१), वाद्यं (२), नृत्यं (३), आलेख्यं (४), विशेषकच्छेद्यं (५), तण्डुलकुसुमवलि विकाराः (६), पुष्पास्तरणं (७), दशनवसनागरागः (८), मणिभूमिकाकर्म (९), शयनरचनं (१०), उदकवाद्यं (११), उदकाघातः (), चित्राश्च योगाः (१३), माल्यग्रथन विकल्पाः (१४), शेखरकापीडयोजनं (१५), नेपथ्यप्रयोगाः (१६), कर्णपत्त्र भङ्गाः (१७), गन्धयुक्तिः (१८), भूषणयोजनं (१९), ऐन्द्रजालाः (२०), कौचुमाराश्च (२१), हस्तलाघवं (२२), विचित्रशाकयूषभक्ष्यविकारक्रिया (२३), ।पानकरसरागासवयोजनं (२४), सूचीवानकर्माणि (२५), सूत्रक्रीडा (२६), वीणाडमरुकवाद्यानि (२७), प्रहेलिका (२८), प्रतिमाला (२९), दुर्वाचकयोगाः (३०), पुस्तकवाचनं (३१), नाटकाख्यायिकादर्शनं (३२), काव्यसमस्यापूरणं (३३), पट्टिकावानवेत्रविकल्पाः (३४),तक्षकर्माणि (३५), तक्षणं (३६), वास्तुविद्या (३७), रूप्यपरीक्षा (३८), धातुवादः (३९), मणिरागाकरज्ञानं (४०), वृक्षायुर्वेदयोगाः (४१), मेषकुक्कुटलावकयुद्धविधिः (४२), शुकसारिकाप्रलापनं (४३), उत्सादने संवाहने केशमर्दने च कौशलं (४४),अक्षरमुष्तिकाकथनम् (४५), म्लेच्छितविकल्पाः (४६), देशभाषाविज्ञानं (४७), पुष्पशकटिका (४८), निमित्तज्ञानं (४९), यन्त्रमातृका (५०), धारणमातृका (५१), सम्पाठ्यं (५२), मानसी काव्यक्रिया (५३), अभिधानकोशः (५४), छन्दोज्ञानं (५५), क्रियाकल्पः (५६), छलितकयोगाः (५७), वस्त्रगोपनानि (५८), द्यूतविशेषः (५९), आकर्षक्रीडा (६०), बालक्रीडनकानि (६१), वैनयिकीनां (६२), वैजयिकीनां (६३), व्यायामिकीनां च (६४) विद्यानां ज्ञानं इति चतुःषष्टिरङ्गविद्या । कामसूत्रावयविन्यः ॥१५॥
पाञ्चालिकी च चतुःषष्टिरपरा । तस्याः प्रयोगानन्ववेत्य सांप्रयोगिके वक्ष्यामः । कामस्य तदात्मकत्वात् ॥१६॥
वाभिरभ्युच्छ्रिता वेश्या शीलरूपगुणान्विता । लभते गणिकाशब्दं स्थानं च जनसंसदि ॥१७॥
व्पूजिता सा सदा राज्ञा गुणवद्भिश्च संस्तुता । प्रार्थनीयाभिगम्या च लक्ष्यभूता च जायते ॥१८॥
व्योगज्ञा राजपुत्री च महामात्रसुता तथा । सहस्रान्तःपुरं अपि स्ववशे कुरुते पतिम् ॥१९॥
व्तथा पतिवियोगे च व्यसनं दारुणं गता । देशान्तरेऽपि विद्याभिः सा सुखेनैव जीवति ॥२०॥
व्नरः कलासु कुशलो वाचालश्चाटुकारकः । अःसंस्तुतोऽपि नारीणां चित्तं आश्वेव विन्दति ॥२१॥
व्कलानां ग्रहणादेव सौभाग्यं उपजायते । देशकालौ त्वपेक्ष्यासां प्रयोगः संभवेन्न वा ॥२२॥
चिति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे विद्यासमुद्देशः तृतीयोऽध्यायः ॥३॥