साङ्ख्यकारिका - कारिका ६१-७२
साङ्ख्यकारिका ग्रंथ ईश्वरकृष्ण यांनी लिहीलेला असून अतिशय चिंतन करण्याजोगा आहे.
प्रकृतेः कुकुमारतरन्न किञ्चिदस्तीति मे मतिर्भवति।
या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥६१॥
तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित्।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥६२॥
रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः।
सैव च पुरुषार्थम्प्रति विमोचयत्येकरूपेण ॥६३॥
एवन्तत्त्वभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥६४॥
तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वच्छः ॥६५॥
दृष्टा मयेत्युपेक्षक एको, दृष्टाऽहमित्युपरमत्यन्या।
सति संयोगेऽपि तयोः प्रयोजनन्नास्ति सर्गस्य ॥६६॥
सम्यग्ज्ञानाधिगमात् धर्मादीनामकारणाप्राप्तौ।
तिष्ठति संस्कारवशात्, चक्रभ्रमिवद्धृतशरीरः ॥६७॥
प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ।
एकान्तिकमात्यन्तिमुभयं कैवल्यमाप्नोति ॥६८॥
पुरुषार्थज्ञानमिदं गुह्यम्परमर्षिणा समाख्यातम्।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते तत्र भूतानाम् ॥६९॥
एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पयाप्रददौ।
आसुरिरपि पञ्चशिखाय, तेन च बहुधा कृतन्तन्त्रम् ॥७०॥
शिष्यपरम्परयाऽऽगतमीश्वरकृष्णेन चैतदार्याभिः।
संक्षिप्तमार्यमतिना सम्ग्विज्ञाय सिद्धान्तम् ॥७१॥
सप्तत्यां किल येऽर्थास्तेऽयोः कृत्स्नस्य षष्टितन्त्रस्य।
आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥७२॥
इति साङ्ख्यकारिका समाप्ता ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP