संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्य-सूत्राणि| प्रथमोऽध्यायः चाणक्य-सूत्राणि प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः चाणक्य-सूत्राणि - प्रथमोऽध्यायः नीतिवर्णनात्मक संस्कृत ग्रंथांमध्ये, चाणक्य-नीतिदर्पण ग्रंथाचे महत्वपूर्ण स्थान आहे. जीवन सुखमय आणि ध्येयपूर्ण बनविण्यासाठी, विविध विषयांचे वर्णन या ग्रंथात आहे. व्यवहार संबंधी सूत्रे तसेच राजनीति संबंधी श्लोकांचा यात समावेश आहे. Tags : chanakyakautilyanitishastraकौटिल्यचाणक्यनीतिशास्त्र प्रथमोऽध्यायः Translation - भाषांतर १ - सुखस्य मूलं धर्मः ।२ - धर्मस्य मूलमर्थः ।३ - अर्थस्य मूलं राज्यम् ।४ - राज्यस्य मूलमिन्द्रियजयः ।५ - इन्द्रियजस्य मूलं विनयः ।६ - विनयस्य मूलं वृद्धोपसेवा ।७ - वृद्धोपसेवाया विज्ञानम् ।८ - विज्ञानेनात्मानं संपादयेत् ।९ - संपादितात्मा जितात्मा भवति ।१० - जितात्मा सर्वार्थैस्संयुज्यते ।११ - अर्थसंपत् प्रकृतिसंपदं करोति ।१२ - प्रकृतिसंपदा ह्यनायकमपि राज्यं नीयते ।१३ - प्रकृतिकोपस्सर्वकोपेभ्यो गरीयान् ।१४ - अविनीतस्वामिलाभात् अस्वामिलाभः श्रेयान् ।१५ - संपाद्यात्मानमन्विच्छेत् सहायान् ।१६ - नासहास्य मन्त्रनिश्चयः ।१७ - नैकं चक्र परिभ्रमति ।१८ - सहायः समसुखदुःखः ।१९ - मानी प्रतिमानिनमात्मनि द्वितीयं मन्त्रमुत्पादयेत् ।२० - अविनीतं स्नेहमात्रेण न मन्त्रे कुर्वीत ।२१ - श्रुतवन्तमुपधाशुद्धं मन्त्रिणं कुर्वीत ।२२ - मन्त्रमूलास्सर्वारम्भाः ।२३ - मन्त्ररक्षणे कार्यसिद्धिर्भवति ।२४ - मन्त्रनिःस्रावी सर्वमपि कार्यं नाशयति ।२५ - प्रमादात् द्विषतां वशमुपयास्यति ।२६ - सर्वाद्वारेभ्यो मन्त्रो रक्षितव्यः ।२७ - मन्त्रसंपदा राज्यं वर्धते ।२८ - श्रेष्ठतमां मन्त्रगुप्तिमाहुः ।२९ - कार्यान्धस्य प्रदीपो मन्त्रः ।३० - मन्त्रचक्षुषा परच्छिद्राण्यवलोकयन्ति ।३१ - मन्त्रकाले न मत्सरः कर्तव्यः ।३२ - कार्याकार्यतत्त्वार्थदर्शिनो मन्त्रिणः ।३३ - षट्कर्णाद्भिद्यते मन्त्रः ।३४ - त्रयाणामैकवाक्ये एवासम्प्रत्ययः ।३५ - आपत्सु स्नेहसंयुक्तं मित्रम् ।३६ - मित्रसङ्ग्रहेण बलं सम्पद्यते ।३७ - बलवानलब्धलाभे प्रयतते ।३८ - अलब्धलाभो नालसस्य ।३९ - अलसेन लब्धमपि रक्षितुं न शक्यते ।४० - न चालसस्य रक्षितं विवर्धते ।४१ - नासौ भृत्यान् पोषयति, न तीर्थं प्रतिपादयति च ।४२ - अलब्धलाभादिचतुष्टयं राज्यतन्त्रम् ।४३ - तच्च राज्यतन्त्रमायत्तं नीतिशास्त्रेषु ।४४ - राज्यतन्त्रेष्वायत्तौ तन्त्रावापौ ।४५ - तन्त्रं स्वविषयकृत्येष्वायत्तम् ।४६ - आवापो मण्डलनिविष्टः ।४७ - सन्धिविग्रहयोनिर्मण्डलः ।४८ - नीतिशास्त्रानुगो राजा ।४९ - अनन्तरप्रकृतिश्शत्रुः ।५० - एकान्तरितं मित्रमिष्यते ।५१ - हेतुश्शत्रुमित्रे भविष्यतः ।५२ - हीयमानस्सन्धिं कुर्वीत ।५३ - तेजो हि सन्धानहेतुस्तदर्थानाम् ।५४ - नातप्तलोहो लोहेन सन्धीयते ।५५ - बलवान् हीनेन विगृह्णीयात्, न ज्यायसा समेन वा ।५६ - गजेन पादयुद्धमिव बलवद्विग्रहः, आमपात्रमप्यामेन सह विनश्यति ।५७ - अरिप्रयत्नमभिसमीक्षेत ।५८ - सन्धायैकतो वा यायात् ।५९ - अमित्रविरोधादात्मरक्षामावसेत् ।६० - शक्तिहीनो बलवन्तमाश्रयेत् ।६१ - दुर्बलाश्रयो दुःखमावहति ।६२ - अग्निवद्राजानमाश्रयेत् ।६३ - राज्ञः प्रतिकूलं नाचरेत् ।६४ - उद्धतवेषधरो न भवेत् ।६५ - न देवचरितं चरेत् ।६६ - द्वयोरपीर्ष्यतोः द्वैधीभावकुर्वीत ।६७ - न व्यसनपरस्य कार्यावाप्तिः ।६८ - इन्द्रिवशवर्ती चतुरङ्गवानपि विनश्यति ।६९ - नास्ति कार्यं द्यूतप्रवृत्तस्य ।७० - मृगयापरस्य धर्मार्थौ विनश्यतः ।७१ - न कामासक्तस्य कार्यानुष्ठानम् ।७२ - अर्थेषणा न व्यसनेषु गण्यते ।७३ - अर्थतोषिणं हि राजानं श्रीः परित्यजति ।७४ - अग्निदहादपि विशिष्टं वाक्पारुष्यम् ।७५ - दण्डपारुष्यात् सर्वजनद्वेष्यो भवति ।७६ - अमित्रो दण्डनीत्यामायत्तः ।७७ - दण्डनीतिमधितिष्ठिन् प्रजास्संरक्षति ।७८ - दण्डस्सम्पदा योजयति ।७९ - दण्डाभावे त्रिवर्गाभावः ।८० - न दण्डादकार्याणि कुर्वन्ति ।८१ - दण्डनीत्यामायत्तमात्मरक्षणम् ।८२ - आत्मनि रक्षिते सर्वं रक्षितं भवति ।८३ - आत्मायत्तौ वृद्धिविनाशौ ।८४ - दण्डो हि विज्ञानेन प्रणीयते ।८५ - दुर्बलोऽपि राजा नावमन्तव्यम् ।८६ - नास्त्यग्नेर्दौर्बल्यम् ।८७ - दण्डे प्रणीयते वृत्तिः ।८८ - वृत्तिमूलमर्थलाभः ।८९ - अर्थमूलौ धर्मकामौ ।इति प्रथमोऽध्यायः N/A References : N/A Last Updated : October 04, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP