सत्कर्मसंग्रहः - नौली
प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.
अमन्दावर्तवेगेन जठरं दक्षवामयोः ॥११०॥
चचालयेच्छंशुना प्रोक्तं तत्र लक्ष्म्यधिदेवता।
बाह्यनौलिरियं प्रोक्ता जठरानलदीपिनी ॥१११॥
अग्निसंधायका कुंभकरी भुक्तान्नपाचिनी।
एकीकृत्य नलौ सम्यगुत्थाप्य गुरुमार्गतः ॥११२॥
ऊर्ध्वमाकर्षयेत्तेन नालनौली शिवोदिता।
इदं रहस्यं परमं न देयं यस्य कस्यचित् ॥११३॥
त्रिपदासनकं बध्वा बस्तितुन्दविघर्षणात्।
आन्त्रनौलिरियं प्रोक्ता मणिबन्धप्रसिद्धिदा ॥११४॥
अथ गण्डूषः।
शुद्धं तोयं मुखे कृत्वा गण्डूषं च पुनः पुनः।
कुर्यादेतद्धि तत्कर्म गण्डूषमुपयोक्ष्यते ॥११५॥
मुखपाके तु रैरयतोयैर्जातीजलेन वा।
वारुणौ दन्तदोषध्नस्तैलगण्डूष उत्तमः ॥११६॥
अथ स्नेहम्।
घृतं वा तैलमथवा यथादोषं यथामलम्।
पीयते स्नेहनं प्रोक्तं शिवेनाखिलवेदिना ॥११७॥
अथ स्वेदनं वह्निदैवत्यं वह्निना साध्यते तु तत्।
स्नेहनं तु पुरा कृत्वा स्वेदनं कारयेन्मुनिः ॥११८॥
लवणैर्वालुकाभिर्वा भेषजै रुग्विनाशनैः।
स्विन्नै शयनं स्वेद्यं गर्ते वा गुरुयुक्तितः ॥११९॥
वातदोषहरं जेदं स्वेदनं गाङ्गपुण्यदम्।
अथ धूमः।
धूमस्तु द्विविधः प्रोक्तो व्रणशोधनरोपणः ॥१२०॥
दैहिकः स तु विज्ञेयः परो वक्त्रेण गृह्यते।
ब्रह्मपत्रांघ्रिसिन्धूत्थं समचूर्णेन योजयेत् ॥१२१॥
शिलाभेदकचूर्णं तु श्रेष्ठमेतद्धि धूपनम्।
व्रणे कुष्ठे क्षते योज्यं सद्यो नाशयति व्यथाम् ॥१२२॥
वक्त्रग्रह्यस्तु विस्तारन्मिश्रके प्रोचितो मया।
अथ नस्यम्।
सैन्धवं च वचा व्याघ्री सुरसा चोपदन्तिका ॥१२३॥
गोमूत्रैः साधयेत्तैलं नासिकायां प्रवेशयेत्।
नश्यन्ति पूतिनासाद्या नस्यभेतत्समीरितम् ॥१२४॥
विशेषो मिश्रके वाच्यो व्यापदां हरणे मया।
अथ कवलग्रहः।
कवलीकृत्य यद्वस्तु मुखमध्ये विधारयेत् ॥१२५॥
मुखरोगस्य हरणं कवलग्रह उच्यते।
ताम्बूलादिकृतः सोऽपि मुखदौर्गन्ध्यनाशनः ॥१२६॥
कर्पूरं शीतमरिचं चन्दनं सुरदारुणा।
मरिचं तोयकृष्णैलै गायत्रीभिः सुसाधितैः ॥१२७॥
मुखपाकं हरेच्छीघ्रं दौर्गन्धअयमपि तत्क्षणात्।
विडङ्गचूर्णकेनैव दन्तकीटान्विनाशयेत् ॥१२८॥
बकुलत्वक्कृतः सोऽपि दन्तपीडां हरेत्पराम्।
विस्तरो मिश्रके वाच्यः कवलग्रह ईरितः ॥१२९॥
N/A
References : N/A
Last Updated : October 04, 2011
TOP