गोरक्ष-शतकम् -२
प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.
हठ-योग-ॐ-शतक-प्रारम्भः ।
श्री-गुरुं परमानन्दं वन्दे स्वानन्द-विग्रहम् ।
यस्य संनिध्य-मात्रेण चिदानन्दायते तनुः ॥१॥
अन्तर्-निश्चलितात्म-दीप-कलिका-स्वाधार-बन्धादिभिः
यो योगी युग-कल्प-काल-कलनात् त्वं जजेगीयते ।
ज्ञानामोद-महोदधिः समभवद् यत्रादिनाथः स्वयं
व्यक्ताव्यक्त-गुणाधिकं तम् अनिशं श्री-मीननाथं भजे ॥२॥
नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम् ।
अभीष्टं योगिनां ब्रूते परमानन्द-कारकम् ॥३॥
गोरक्षः शतकं वक्ति योगिनां हित-काम्यया ।
ध्रुवं यस्यावबोधेन जायते परमं पदम् ॥४॥
एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम् ।
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ॥५॥
द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम् ।
शमनं भव-तापस्य योगं भजति सज्जनः ॥६॥
आसनं प्राण-संयामः प्रत्याहारोथ धारणा ।
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥७॥
आसनानि तु तावन्ति यावत्यो जीव-जातयः ।
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः ॥८॥
चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम् ।
ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥९॥
आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते ।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥१०॥
योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् ।
स्थाणुः संयमितेन्द्रियोचल-दृशा पश्यन् भ्रुवोरन्तरम्
एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥११॥
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्
एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ॥१२॥
षट्-चक्रं षोडशाधारं त्रिलक्षं व्योम-पञ्चकम् ।
स्व-देहे ये न जानन्ति कथं सिध्यन्ति योगिनः ॥१३॥
एक-स्तम्भं नव-द्वारं गृहं पञ्चाधिदैवतम् ।
स्व-देहं ये न जानन्ति कथं सिध्यन्ति योगिनः ॥१४॥
चतुर्दलं स्याद् आधारः स्वाधिष्ठानं च षट्-दलम् ।
नाभौ दश-दलं पद्मं सूर्य-सङ्ख्य-दलं हृदि ॥१५॥
कण्ठे स्यात् षोडश-दलं भ्रू-मध्ये द्विदलं तथा ।
सहस्र-दलम् आख्यातं ब्रह्म-रन्ध्रे महा-पथे ॥१६॥
आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ।
योनि-स्थानं द्वयोर्मध्ये काम-रूपं निगद्यते ॥१७॥
आधाराख्यं गुद-स्थानं पङ्कजं च चतुर्-दलम् ।
तन्-मध्ये प्रोच्यते योनिः कामाक्षा सिद्ध-वन्दिता ॥१८॥
योनि-मध्ये महा-लिङ्गं पश्चिमाभिमुखं स्थितम् ।
मस्तके मणिवद् बिम्बं यो जानाति स योगवित् ॥१९॥
तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत् ।
त्रिकोणं तत्-पुरं वह्नेरधो-मेढ्रात् प्रतिष्ठितम् ॥२०॥
यत् समाधौ परं ज्योतिरनन्तं विश्वतो-मुखम् ।
तस्मिन् दृष्टे महा-योगे यातायातं न विद्यते ॥२१॥
स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः ।
स्वाधिष्ठानात् पदाद् अस्मान् मेढ्रम् एवाभिधीयते ॥२२॥
तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया ।
तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम् ॥२३॥
द्वादशारे महा-चक्रे पुण्य-पाप-विवर्जिते ।
तावज् जीवो भ्रमत्य् एव यावत् तत्त्वं न विन्दति ॥२४॥
ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः खगाण्डवत् ।
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ॥२५॥
तेषु नाडि-सहस्रेषु द्विसप्ततिरुदाहृताः ।
प्रधानं प्राण-वाहिन्यो भूयस्तत्र दश स्मृताः ॥२६॥
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ।
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ॥२७॥
अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता ।
एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ॥२८॥
इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा ।
सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ॥२९॥
दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे ।
यशस्विनी वाम-कर्णे चासने वाप्यलम्बुषा ॥३०॥
कुहूश्च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी ।
एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश-नाडिकाः ॥३१॥
इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः ।
सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ॥३२॥
प्राणोपानः समानश्चोदानो व्यानौ च वायवः ।
नागः कूर्मोथ कृकरो देवदत्तो धनञ्जयः ॥३३॥
हृदि प्राणो वसेन् नित्यं अपानो गुद-मण्डले ।
समानो नाभि-देशे स्याद् उदानः कण्ठ-मध्यगः ॥३४॥
उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः ।
कृकरः क्षुत-कृज् ज्ञेयो देवदत्तो विजृम्भणे ॥३५॥
न जहाति मृतं चापि सर्व-व्यापि धनञ्जयः ।
एते सर्वासु नाडीषु भ्रमन्ते जीव-रूपिणः ॥३६॥
आक्षिप्तो भुज-दण्डेन यथोच्चलति कन्दुकः ।
प्राणापान-समाक्षिप्तस्तथा जीवो न तिष्ठति ॥३८॥
प्राणापान-वशो जीवो ह्य् अधश्चोर्ध्वं च धावति ।
वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते ॥३९॥
रज्जु-बद्धो यथा श्येनो गतोप्याकृष्यते ।
गुण-बद्धस्तथा जीवः प्राणापानेन कृष्यते ॥४०॥
अपानः कर्षति प्राणः प्राणोपानं च कर्षति ।
ऊर्ध्वाधः संस्थिताव् एतौ संयोजयति योगवित् ॥४१॥
ह-कारेण बहिर्याति स-कारेण विशेत् पुनः ।
हंस-हंसेत्य् अमुं मन्त्रं जीवो जपति सर्वदा ॥४२॥
षट्-शतानित्वहो-रात्रे सहस्राण्य् एक-विंशतिः ।
एतत् सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा ॥४३॥
अजपा नाम गायत्री योगिनां मोक्ष-दायिनी ।
अस्याः सङ्कल्प-मात्रेण सर्व-पापैः प्रमुच्यते ॥४४॥
अनया सदृशी विद्या अनया सदृशो जपः ।
अनया सदृशं ज्ञानं न भूतं न भविष्यति ॥४५॥
कुन्दलिन्याः समुद्भूता गायत्री प्राण-धारिणी ।
प्राण-विद्या महा-विद्या यस्तां वेत्ति स योगवित् ॥४६॥
कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृति ।
ब्रह्म-द्वार-मुखं नित्यं मुखेनाच्छाद्य तिष्ठति ॥४७॥
येन द्वारेण गन्तव्यं ब्रह्म-स्थानम् अनामयम् ।
मुखेनाच्छाद्य तद्-द्वारं प्रसुप्ता परमेश्वरी ॥४८॥
प्रबुद्धा वह्नि-योगेन मनसा मारुता हता ।
सूचीवद् गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया ॥४९॥
प्रस्फुरद्-भुजगाकारा पद्म-तन्तु-निभा शुभा ।
प्रबुद्धा वह्नि-योगेन व्रत्य ऊर्ध्वं सुषुम्णया ॥५०॥
उद्घटयेत् कपातं तु यथा कुञ्चिकया हठात् ।
कुण्डलिन्या तथा योगी मोक्ष-द्वारं प्रभेदयेत् ॥५१॥
कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तत् प्रेक्षितम् ।
वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोच्चारयेत् पूरितं
मुञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रबोधान् नरः ॥५२॥
अङ्गानां मर्दनं कुर्याच् छ्रम-जातेन वारिणा ।
कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत् ॥५३॥
ब्रह्मचारी मिताहारी त्यागी योग-परायणः ।
अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा ॥५४॥
सुस्निग्धं मधुराहारं चतुर्थांश-विवर्जितम् ।
भुज्यते सुर-सम्प्रीत्यै मिताहारः स उच्यते ॥५५॥
कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृतिः ।
बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता ॥५६॥
महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम् ।
मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम् ॥५७॥
शोधनं नाडि-जालस्य चालनं चन्द्र-सूर्ययोः ।
रसानां शोषणं चैव महा-मुद्राभिधीयते ॥५८॥
वक्षो-न्यस्त-हनुर्निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा
हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् ।
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद्
एषा पातक-नाशिनी सुमहती मुद्रा न्णां प्रोच्यते ॥५९॥
चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत् पुनः ।
यावत् तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत् ॥६०॥
न हि पथ्यम् अपथ्यं वा रसाः सर्वेपि नीरसाः ।
अपि मुक्तं विषं घोरं पीयूषम् अपि जीर्यते ॥६१॥
क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः ।
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योभ्यसेत् ॥६२॥
कथितेयं महामुद्रा महा-सिद्धि-करा न्णाम् ।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥६३॥
कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा ।
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥६४॥
न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा ।
न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् ॥६५॥
पीड्यते न स रोगेण लिप्यते न च कर्मणा ।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥६६॥
चित्तं चरति खे यस्माज् जिह्वा चरति खे गता ।
तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ॥६७॥
बिन्दु-मूलं शरीरं तु शिरास्तत्र प्रतिष्ठिताः ।
भावयन्ति शरीरं या आपाद-तल-मस्तकम् ॥६८॥
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः ।
न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च ॥६९॥
यावद् बिन्दुः स्थितो देहे तावत् काल-भयं कुतः ।
यावद् बद्धा नभो-मुद्रा तावद् बिन्दुर्न गच्छति ॥७०॥
चलितोपि यदा बिन्दुः सम्प्राप्तश्च हुताशनम् ।
व्रजत्य् ऊर्ध्वं हृतः शक्त्या निरुद्धो योनि-मुद्रया ॥७१॥
स पुनर्द्विविधो बिन्दुः पण्डुरो लोहितस्तथा ।
पाण्डुरं शुक्रम् इत्य् आहुर्लोहितं तु महाराजः ॥७२॥
सिन्दूर-द्रव-सङ्काशं रवि-स्थाने स्थितं रजः ।
शशि-स्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम् ॥७३॥
बिन्दुः शिवो रजः शक्तिर्बिन्दुम् इन्दू रजो रविः ।
उभयोः सङ्गमाद् एव प्राप्यते परमं पदम् ॥७४॥
वायुना शक्ति-चारेण प्रेरितं तु महा-रजः ।
बिन्दुनैति सहैकत्वं भवेद् दिव्यं वपुस्तदा ॥७५॥
शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम् ।
तयोः समरसैकत्वं योजानाति स योगवित् ॥७६॥
उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः ।
उड्डीयानं तद् एव स्यात् तव बन्धोभिधीयते ॥७७॥
उदरात् पश्चिमे भागे ह्य् अधो नाभेर्निगद्यते ।
उड्डीयनस्य बन्धोयं तत्र बन्धो विधीयते ॥७८॥
बध्नाति हि सिराजालम् अधो-गामि शिरो-जलम् ।
ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः ॥७९॥
जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे ।
पीयूषं न पतत्य् अग्नौ न च वायुः प्रकुप्यति ॥८०॥
पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम् ।
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धोभिधीयते ॥८१॥
अपान-प्राणयोरैक्यात् क्षयान् मूत्र-पुरीषयोः ।
युवा भवति वृद्धोपि सततं मूल-बन्धनात् ॥८२॥
पद्मासनं समारुह्य सम-काय-शिरो-धरः ।
नासाग्र-दृष्टिरेकान्ते जपेद् ओङ्कारम् अव्ययम् ॥८३॥
भूर्भुवः स्वरिमे लोकाः सोम-सूर्याग्नि-देवताः ।
यस्या मात्रासु तिष्ठन्ति तत् परं ज्योतिरोम् इति ॥८४॥
त्रयः कालास्त्रयो वेदास्त्रयो लोकास्त्रयः स्वेराः ।
त्रयो देवाः स्थिता यत्र तत् परं ज्योतिरोम् इति ॥८५॥
क्रिया चेच्छा तथा ज्ञाना ब्राह्मी रौद्री च वैष्णवी ।
त्रिधा शक्तिः स्थिता यत्र तत् परं ज्योतिरोम् इति ॥८६॥
आकाराश्च तथो-कारो म-कारो बिन्दु-संज्ञकः ।
तिस्रो मात्राः स्थिता यत्र तत् परं ज्योतिरोम् इति ॥८७॥
वचसा तज् जयेद् बीजं वपुषा तत् समभ्यसेत् ।
मनसा तत् स्मरेन् नित्यं तत् परं ज्योतिरोम् इति ॥८८॥
शुचिर्वाप्यशुचिर्वापि यो जपेत् प्रणवं सदा ।
लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥८९॥
चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् ।
योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत् ॥९०॥
यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते ।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥९१॥
यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम् ।
यावद् दृष्टिर्भ्रुवोर्मध्ये तावत् काल-भयं कुतः ॥९२॥
अतः काल-भयाद् ब्रह्मा प्राणायाम-परायणः ।
योगिनो मुनयश्चैव ततो वायुं निरोधयेत् ॥९३॥
षट्-त्रिंशद्-अङ्गुलो हंसः प्रयाणं कुरुते बहिः ।
वाम-दक्षिण-मार्गेण ततः प्राणोभिधीयते ॥९४॥
शुद्धिम् एति यदा सर्वं नाडी-चक्रं मलाकुलम् ।
तदैव जायते योगी प्राण-संग्रहणे क्षमः ॥९५॥
बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ॥९६॥
अमृतं दधि-सङ्काशं गो-क्षीर-रजतोपमम् ।
ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत् ॥९७॥
दक्षिणो श्वासम् आकृष्य पूरयेद् उदरं शनैः ।
कुम्भयित्वा विधानेन पुरश्चन्द्रेण रेचयेत् ॥९८॥
प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम् ।
ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत् ॥९९॥
प्राणं चोदिडया पिबेन् परिमितं भूयोन्यया रेचयेत्
पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया ।
सूर्य-चन्द्रमसोरनेन विधिना बिम्ब-द्वयं ध्यायतः
शुद्धा नाडि-गणा भवन्ति यमिनो मास-त्रयाद् ऊर्ध्वतः ॥१००॥
यथेष्ठं धारणं वायोरनलस्य प्रदीपनम् ।
नादाभिव्यक्तिरारोग्यं जायते नाडि-शोधनात् ॥१०१॥
इति ॐ-शतकं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : October 04, 2011
TOP