पाद ४ - खण्ड ८७
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - ४४ - रषाभ्याम् णत्वे ऋकारग्रहणम् ।
२ - ४४ - रषाभ्याम् णत्वे ऋकारग्रहणम् कर्तव्यम् ।
३ - ४४ - रषाभ्याम् नः णः समानपदे ऋकारात् च इति वक्तव्यम् ।
४ - ४४ - इह अपि यथा स्यात् मातृ̄णाम् , पितृ̄णाम् इति ।
५ - ४४ - तत् तर्हि वक्तव्यम् ।
६ - ४४ - न वक्तव्यम् ।
७ - ४४ - यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति ।
८ - ४४ - न सिध्यति ।
९ - ४४ - किम् कारणम् ।
१० - ४४ - न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते ।
११ - ४४ - एकदेशे नुडादिषु च उक्तम् । किम् उक्तम् ।
१२ - ४४ - अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारग्रहणम् इति ।
१३ - ४४ - तस्मात् गृह्यन्ते ।
१४ - ४४ - एवम् अपि न सिध्यति ।
१५ - ४४ - किम् कारणम् ।
१६ - ४४ - अननन्तरत्वात् ।
१७ - ४४ - यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति ।
१८ - ४४ - अड्व्यवाये इति एवम् भविष्यति ।
१९ - ४४ - न सिध्यति ।
२० - ४४ - किम् कारणम् ।
२१ - ४४ - वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते ।
२२ - ४४ - ये व्यपवृक्ताः अपि वर्णाः भवन्ति ।
२३ - ४४ - यत् च अत्र रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् दृश्यते ।
२४ - ४४ - एवम् तर्हि योगविभागः करिष्यते ।
२५ - ४४ - रषाभ्याम् नः णः समानपदे ।
२६ - ४४ - ततः व्यवाये ।
२७ - ४४ - व्यवाये च रषाभ्याम् नः णः भवति इति ।
२८ - ४४ - ततः अट्कुप्वाङ्नुम्भिः इति ।
२९ - ४४ - इदम् इदानीम् किमर्थम् ।
३० - ४४ - नियमार्थम् ।
३१ - ४४ - एतैः एव अक्षरसमाम्नायिकैः व्यवाये न अन्यैः इति ।
३२ - ४४ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात् णत्वम् इति यत् अयम् क्षुभ्नादिषु नृनमनशब्दम् पठति ।
३३ - ४४ - न एतत् अस्ति ज्ञापकम् ।
३४ - ४४ - वृद्ध्यर्थम् एतत् स्यात् ।
३५ - ४४ - नार्नमनिः इति ।
३६ - ४४ - यत् तर्हि तत्र एव तृप्नोतिशब्दम् पठति ।
३७ - ४४ - यत् च अपि नृनमनशब्दम् पठति ।
३८ - ४४ - ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति ।
३९ - ४४ - बहिरङ्गा वृद्धिः ।
४० - ४४ - अन्तरङ्गम् णत्वम् ।
४१ - ४४ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
४२ - ४४ - अथ वा उपरिष्टात् योगविभागः करिष्यते ।
४३ - ४४ - ऋतः नः णः भवति ।
४४ - ४४ - ततः छन्दसि अवग्रहात् ऋतः इति एव
१ - २० - अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः ।
२ - २० - अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः वक्तव्यः ।
३ - २० - आदर्शेन अक्षदर्शेन ।
४ - २० - न वा अन्येन व्यपेतत्वात् । न वा वक्तव्यः ।
५ - २० - किम् कारणम् ।
६ - २० - अन्येन व्यपेतत्वात् ।
७ - २० - अन्येन अत्र व्यवायः ।
८ - २० - यदि अपि अत्र अन्येन व्यवायः अटा अपि तु व्यवायः अस्ति तत्र अस्ति अड्व्यवाये इति प्राप्नोति ।
९ - २० - अटा एव व्यवाये भवति ।
१० - २० - किम् वक्तव्यम् एतत् ।
११ - २० - न हि ।
१२ - २० - कथम् अनुच्यमानम् गंस्यते ।
१३ - २० - अड्ग्रहणसामर्थ्यात् ।
१४ - २० - यदि हि यत्र अटा च अन्येन च व्यवायः तत्र स्यात् अड्ग्रहणम् अनर्थकम् स्यात् ।
१५ - २० - व्यवाये नः णः भवति इति एव ब्रूयात् ।
१६ - २० - अस्ति अन्यत् अड्ग्रहणस्य प्रयोजनम् ।
१७ - २० - किम् ।
१८ - २० - यः अनिर्दिष्टैः एव व्यवायः तत्र मा भूत् ।
१९ - २० - कृत्स्नम् मृत्स्ना इति ।
२० - २० - यदि एतावत् प्रयोजनम् स्यात् शर्व्यवाये न इति एव ब्रूयात्
१ - १९ - तत्समुदाये णत्वाप्रसिद्धिः यथा अन्यत्र ।
२ - १९ - तत्समुदाये व्यवायसमुदाये णत्वस्य अप्रसिद्धिः ।
३ - १९ - अर्केण अर्घेण ।
४ - १९ - यथा अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति ।
५ - १९ - क्व अन्यत्र ।
६ - १९ - नुम्विसर्जनीयशर्व्यवायेऽपि निंस्से निंस्स्व इति ।
७ - १९ - किम् पुनः कारणम् अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति ।
८ - १९ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति ।
९ - १९ - तत् यथा ।
१० - १९ - गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः ।
११ - १९ - ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।
१२ - १९ - तत् यथा ।
१३ - १९ - गर्गाः शतम् दण्ड्यन्ताम् इति ।
१४ - १९ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।
१५ - १९ - यदि एवम् एकेन व्यवाये न प्राप्नोति ।
१६ - १९ - किरिणा रिरिणा इति ।
१७ - १९ - उभयथा अपि वाक्यपरिसमाप्तिः दृश्यते ।
१८ - १९ - तत् यथा ।
१९ - १९ - गर्गैः सह न भोक्तव्यम् इति प्रत्येकम् च न सम्भुज्यते समुदितैः च
१ - २२ - कुव्यवाये हादेशेषु प्रतिषेधः ।
२ - २२ - कुव्यवाये हादेशेषु प्रतिषेधः वकव्यः ।
३ - २२ - किम् प्रयोजनम् ।
४ - २२ - प्रयोजनम् वृत्रघ्नः स्रुघ्नः प्राघानि इति । हन्तेरत्पूर्वस्य इति अत्पूर्वग्रहणम् न कर्तव्यम् भवति ।
५ - २२ - नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः । नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः वक्तव्यः ।
६ - २२ - प्रेन्वनम् प्रेन्वनीयम् ।
७ - २२ - अनागमे च णत्वम् । अनागमे च णत्वम् वक्तव्यम् ।
८ - २२ - तृम्पणीयम् ।
९ - २२ - अनुस्वारव्यवायवचनात् तु सिद्धम् । अनुस्वारव्यवाये नः णः भवति इति वक्तव्यम् ।
१० - २२ - तदनुस्वारग्रहणम् कर्तव्यम् ।
११ - २२ - न कर्तव्यम् ।
१२ - २२ - क्रियते न्यासे एव ।
१३ - २२ - नकारे अनुस्वारः परसवर्णीभूतः निर्दिश्यते ।
१४ - २२ - इह अपि तर्हि प्राप्नोति ।
१५ - २२ - प्रेन्वनम् प्रेन्वनीयम् ।
१६ - २२ - अनुस्वारविशेषणम् नुम्ग्रहणम् ।
१७ - २२ - नुमः यः अनुस्वारः इति ।
१८ - २२ - इह अपि तर्हि न प्राप्नोति ।
१९ - २२ - तृम्पणम् तृम्पणीयम् ।
२० - २२ - एवम् तर्हि अयोगवाहानाम् अविशेषेण उपदेशः चोदितः तत्र अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम् ।
२१ - २२ - यदि एवम् न अर्थः नुम्ग्रहणेन ।
२२ - २२ - अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम्
१ - ११ - पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् ।
२ - ११ - पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् कर्तव्यम् ।
३ - ११ - किम् प्रयोजनम् ।
४ - ११ - तद्धितपूर्वपदस्थाप्रतिषेधार्थम् । तद्धितस्थस्य पूर्वपदस्थस्य च प्रतिषेधः मा भूत् ।
५ - ११ - खारपायणः करणप्रियः ।. तत् तर्हि वक्तव्यम् ।
६ - ११ - न वक्तव्यम् ।
७ - ११ - पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ ।
८ - ११ - सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् भवति ।
९ - ११ - तत्र सम्बन्धात् एतत् गन्तव्यम् यत् प्रति पूर्वपदम् इति एतत् भवति तत्स्थस्य नियमः इति ।
१० - ११ - किम् च प्रति एतत् भवति ।
११ - ११ - उत्तरपदम् प्रति
१ - २५ - सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमप्रतिषेधः ।
२ - २५ - सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमस्य अयम् प्रतिषेधः विज्ञायते अगः इति ।
३ - २५ - तत्र कः दोषः ।
४ - २५ - तत्र नित्यम् णत्वप्रसङ्गः । तत्र पूर्वेण सञ्ज्ञायाम् च असञ्ज्ञायाम् च नित्यम् णत्वम् प्राप्नोति ।
५ - २५ - योगविभागात् सिद्धम् । योगविभागः करिष्यते ।
६ - २५ - पूर्वपदात् सञ्ज्ञायाम् ।
७ - २५ - ततः अगः ।
८ - २५ - गान्तात् पूर्वपदात् या च यावती णत्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः ।
९ - २५ - अप्रतिषेधः वा यथा सर्वनामसञ्ज्ञायाम् । न वा अर्थः प्रतिषेधेन ।
१० - २५ - णत्वम् कस्मात् न भवति ।
११ - २५ - यथा सर्वनामसञ्ज्ञायाम् ।
१२ - २५ - उक्तम् च सर्वनामसञ्ज्ञायाम् सर्वनामसञ्ज्ञायाम् निपातनात् णत्वाभावः इति ।
१३ - २५ - यथा पुनः तत्र निपातनम् क्रियते सर्वादीनि सर्वनामानि इति इह इदानीम् किम् निपातनम् ।
१४ - २५ - इह अपि निपातनम् अस्ति ।
१५ - २५ - किम् ।
१६ - २५ - अणृगयनादिभ्यः इति ।
१७ - २५ - न एव वा पुनः अत्र पूर्वेण णत्वम् प्राप्नोति ।
१८ - २५ - किम् कारणम् ।
१९ - २५ - समानपदे इति उच्यते न च एतत् समानपदम् ।
२० - २५ - समासे कृते समानपदम् ।
२१ - २५ - समानम् एव यत् नित्यम् न च एतत् नित्यम् समानपदम् एव ।
२२ - २५ - किम् वक्तव्यम् एतत् ।
२३ - २५ - न हि ।
२४ - २५ - कथम् अनुच्यमानम् गंस्यते ।
२५ - २५ - समानग्रहणसामर्थ्यात्. यदि हि यत् समानम् च असमानम् च तत्र स्यात् समनग्रहणम् अनर्थकम् स्यात्
१ - ५ - द्व्यक्षरत्र्यक्षरेभ्यः इति वक्तव्यम् ।
२ - ५ - इह मा भूत् ।
३ - ५ - देवदारुवनम् ।
४ - ५ - इरिकादिभ्यः प्रतिषेधः वक्तव्यः ।
५ - ५ - इरिकावनम् तिमिरवनम्
१ - ९ - अदन्तात् अदन्तस्य इति वक्तव्यम् ।
२ - ९ - इह मा भूत् ।
३ - ९ - दीर्घाह्नी शरत् इति ।
४ - ९ - तत् तर्हि वक्तव्यम् ।
५ - ९ - न वक्तव्यम् ।
६ - ९ - न एषा अहन्शब्दात् षष्ठी ।
७ - ९ - का तर्हि ।
८ - ९ - अह्नशब्दात् प्रथमा पूर्वसूत्रनिर्देशः च ।
९ - ९ - अथ वा युवादिषु पाठः करिष्यते
१ - ६ - आहितोपस्थितयोः इति वक्तव्यम् ।
२ - ६ - इह अपि यथा स्यात् ।
३ - ६ - इक्षुवाहणम् शरवाहणम् ।
४ - ६ - अपरः आह वाहनम् वाह्यात् इति वक्तव्यम् ।
५ - ६ - यदा हि गर्गाणाम् वाहनम् अपविद्धम् तिष्ठति तदा मा भूत् ।
६ - ६ - गर्गवाहनम् इति
१ - ४ - वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् ।
२ - ४ - वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।
३ - ४ - गिरिणदी गिरिनदी ।
४ - ४ - चक्रणितम्बा चक्रनितम्बा
१ - १३ - प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् ।
२ - १३ - प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् कर्तव्यम् ।
३ - १३ - किम् प्रयोजनम् ।
४ - १३ - असमासान्तप्रतिषेधार्थम् ।
५ - १३ - असमासान्तस्य मा भूत् ।
६ - १३ - गर्गभगिनी दक्षभगिनी इति ।
७ - १३ - न वा भवति गर्गभगिणी इति ।
८ - १३ - भवति यदा एतत् वाक्यम् गर्गाणाम् भगः गर्गभगः गर्गभगः अस्याः अस्ति इति ।
९ - १३ - यदा तु एतत् वाक्यम् भवति गर्गाणाम् भगिनी गर्गभगिनी इति तदा न भवितव्यम् ।
१० - १३ - तदा मा भूत् इति ।
११ - १३ - यदि समासान्तग्रहणम् क्रियते माषवापिणी वृईहिवापिणी अत्र न प्राप्नोति ।
१२ - १३ - लिङ्गविशिष्टग्रहणे च उक्तम् । किम् उक्तम् ।
१३ - १३ - गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् प्राक् सुबुत्पत्तेः इति
१ - ३ - तत्र युवादिप्रतिषेधः ।
२ - ३ - तत्र युवादीनाम् प्रतिषेदः वक्तव्यः ।
३ - ३ - आर्ययूना क्षत्रिययूना प्रपक्वानि परिपक्वानि दीर्घाह्नी शरत् इति
१ - ५ - अथ इह कथम् भवितव्यम् ।
२ - ५ - माषकुम्भवापेण व्रीहिकुम्भवापेण इति ।
३ - ५ - किम् नित्यम् णत्वेन भवितव्यम् आहोस्वित् विभाषया ।
४ - ५ - यदा तावत् एतत् वाक्यम् भवति कुम्भस्य वापः कुम्भवापः माषाणाम् कुम्भवापः माषकुम्भवाप इति तदा नित्यम् णत्वेन भवितव्यम् ।
५ - ५ - यदा तु एतत् वाक्यम् भवति माषाणाम् कुम्भः माषकुम्भः माषकुम्भस्य वापः माषकुम्भवापः इति तदा विभाषया भवितव्यम्
१ - २० - असमासग्रहणम् किमर्थम् ।
२ - २० - समासे इति वर्तते असमासे अपि यथा स्यात् ।
३ - २० - प्रणमति परिणमति ।
४ - २० - क्व पुनः समासग्रहणम् प्रकृतम् ।
५ - २० - पूर्वपदात्सञ्ज्ञायामगः इति ।
६ - २० - कथम् पुनः तेन समासग्रहणम् शक्यम् विज्ञातुम् ।
७ - २० - पूर्वपदग्रहणसामर्थ्यात् ।
८ - २० - समासे एव एतत् भवति पूर्वपदम् उत्तरपदम् इति ।
९ - २० - अथ अपिग्रहणम् किमर्थम् ।
१० - २० - समासे अपि यथा स्यात् ।
११ - २० - प्रणामकः परिणामकः ।
१२ - २० - यदि तर्हि समासे च असमासे च इष्यते न अर्थः असमासेपिग्रहणेन ।
१३ - २० - निवृत्तम् पूर्वपदात् इति ।
१४ - २० - अविशेषेण उपसर्गात् णत्वम् वक्ष्यामि ।
१५ - २० - समासे नियमात् न प्राप्नोति ।
१६ - २० - असिद्धम् उपसर्गात् णत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति ।
१७ - २० - एवम् तर्हि सिद्धे सति यत् असमासे अपिग्रहणम् करोति तत् ज्ञापयति आचार्यः न योगे योगः असिद्धः ।
१८ - २० - किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति ।
१९ - २० - किम् एतस्य ज्ञपने प्रयोजनम् ।
२० - २० - यत् तत् उक्तम् निष्कृतम् निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति सः न दोषः भवति
१ - १७ - णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः ।
२ - १७ - अगमकः निर्देशः अनिर्देशः ।
३ - १७ - यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च णोपदेशम् प्रति क्रियायोगः ।
४ - १७ - एवम् तर्हि आह अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति न च णोपदेशम् प्रति उपसर्गः अस्ति तत्र वचनात् भविष्यति ।
५ - १७ - वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः । वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः वक्तव्यः ।
६ - १७ - प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः इति ।
७ - १७ - सिद्धम् तु यम् प्रति उपसर्गः तत्स्थस्य इति वचनात् । सिद्धम् एतत् ।
८ - १७ - कथम् ।
९ - १७ - यम् प्रति उपसर्गः तत्स्थस्य णः भवति इति वक्तव्यम् ।
१० - १७ - सिध्यति ।
११ - १७ - सूत्रम् तर्हि भिद्यते ।
१२ - १७ - यथान्यासम् एव अस्तु ।
१३ - १७ - ननु च उक्तम् णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः इति ।
१४ - १७ - न एषः दोषः ।
१५ - १७ - णोपदेशः इति न एवम् विज्ञायते णः उपदेशः णोपदेशः णोपदेशस्य इति ।
१६ - १७ - कथम् तर्हि ।
१७ - १७ - णः उपदेशः अस्य सः अयम् णोपदेशः णोपदेशस्य इति
१ - १३ - हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् ।
२ - १३ - हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् कर्तव्यम् ।
३ - १३ - प्रहिणोति प्रमीणीते ।
४ - १३ - वचनात् भविष्यति ।
५ - १३ - अस्ति वचने प्रयोजनम् ।
६ - १३ - किम् ।
७ - १३ - प्रहिणुतः प्रमीणाति ।
८ - १३ - सिद्धम् अचः स्थानिवत्त्वात् । सिद्धम् एतत् ।
९ - १३ - कथम् ।
१० - १३ - अचः स्थानिवत्त्वात् ।
११ - १३ - स्थानिवद्भावात् अत्र णत्वम् भविष्यति ।
१२ - १३ - प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासेद्धे न स्थानिवत् इति ।
१३ - १३ - दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति
१ - १७ - लोट् इति किमर्थम् ।
२ - १७ - प्रहिमानि कुलानि ।
३ - १७ - प्रवपानि मांसानि ।
४ - १७ - आनि लोड्ग्रहणानर्थक्यम् अर्थवद्ग्रहणात् ।
५ - १७ - आनि लोड्ग्रहणम् अनर्थकम् ।
६ - १७ - किम् कारणम् ।
७ - १७ - अर्थवद्ग्रहणात् ।
८ - १७ - अर्थवतः आनिशब्दस्य ग्रहणम् न एषः अर्थवान् ।
९ - १७ - अनुपसर्गात् वा । अथ वा यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् आनिशब्दम् प्रति क्रियायोगः ।
१० - १७ - इह अपि तर्हि न प्राप्नोति ।
११ - १७ - प्रयाणि परियाणि इति ।
१२ - १७ - अत्र अपि न आनिशब्दम् प्रति क्रियायोगः ।
१३ - १७ - आनिशब्दम् प्रति अत्र क्रियायोगः ।
१४ - १७ - कथम् ।
१५ - १७ - यत्क्रिययुक्ताः इति न एवम् विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति ।
१६ - १७ - कथम् तर्हि ।
१७ - १७ - या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति
१ - १३ - नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् ।
२ - १३ - नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् ।
३ - १३ - प्रण्यगदत् परिण्यगदत् ।
४ - १३ - आङा च इति वक्तव्यम् ।
५ - १३ - प्रण्यागदत् ।
६ - १३ - ननु च अयम् अट् गदादिभक्तः गदादिग्रहणेन ग्राहिष्यते ।
७ - १३ - न सिध्यति ।
८ - १३ - अङ्गस्य अट् उच्यते विकरणान्तम् च अङ्गम् सः असौ सङ्घातभक्तः अशक्यः गदादिग्रहणेन ग्रहीतुम् ।
९ - १३ - एवम् तर्हि अड्व्यवाये इति वर्तते ।
१० - १३ - क्व प्रकृतम् ।
११ - १३ - अट्कुप्वाङ्नुम्व्यवाये अपि इति ।
१२ - १३ - तत् वै कार्यिविशेषणम् निमित्तविशेषणेन च इह अर्थः ।
१३ - १३ - तत्र अपि निमित्तविशेषणम् एव
१ - १८ - अन्तग्रहणम् किमर्थम् ।
२ - १८ - अनितेः अन्तग्रहणम् सम्बुद्ध्यर्थम् ।
३ - १८ - अनितेः अन्तग्रहणम् क्रियते सम्बुद्ध्यर्थम् ।
४ - १८ - हे प्राण् ।
५ - १८ - अप्ररः आह ।
६ - १८ - अनितेः अन्तः पदान्तस्य ।
७ - १८ - अनितेः अन्तग्रहणम् क्रियते पदान्तस्य न इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् ।
८ - १८ - यः वा तस्मात् अनन्तरः । अथ वा अयम् अन्तशब्दः अस्ति एव अवयववाची ।
९ - १८ - तत् यथा वस्त्रान्तः वसनान्तः इति ।
१० - १८ - अस्ति सामीप्ये वर्तते ।
११ - १८ - तत् यथा ।
१२ - १८ - उदकान्तम् गतः ।
१३ - १८ - उदकसमीपम् गतः इति गम्यते ।
१४ - १८ - तत् यः सामीप्ये वर्तते तस्य ग्रहणम् विज्ञायते ।
१५ - १८ - अनितेः समीपे यः रेफः तस्मात् नस्य यथा स्यात् ।
१६ - १८ - प्राणिति ।
१७ - १८ - इह मा भूत् ।
१८ - १८ - पर्यनिति
१ - ३ - साभ्यासस्य द्वयोः इष्टम् ।
२ - ३ - साभ्यासस्य द्वयोः णत्वम् इष्यते ।
३ - ३ - प्राणिणिषति
१ - ५ - अत्पूर्वस्य इति किमर्थम् ।
२ - ५ - प्रघ्नन्ति परिघ्नन्ति ।
३ - ५ - हन्तेः अत्पूर्वस्य वचने उक्तम् ।
४ - ५ - किम् उक्तम् ।
५ - ५ - कुव्यवाये हादेशेषु प्रतिषेधः इति
१ - १२ - कथम् इदम् विज्ञयते ।
२ - १२ - ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति ।
३ - १२ - आहोस्वित् ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति ।
४ - १२ - किम् च अतः ।
५ - १२ - यदि विज्ञयते ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति प्र नः मुञ्चतम् अत्र अपि प्राप्नोति ।
६ - १२ - अथ विज्ञायते ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति प्र णः वनिः देवकृता अत्र न प्राप्नोति ।
७ - १२ - उभयथा च प्रक्रमे दोषः भवति ।
८ - १२ - प्र नः* मुञ्चतम् , प्र नः मुञ्चतम् ।
९ - १२ - प्र* उ नः , प्र उ नः ।
१० - १२ - भाविनि अपि ओति न इष्यते ।
११ - १२ - भाविनि अपि ओकारे णत्वम् न इष्यते ।
१२ - १२ - एवम् तर्हि उपसर्गात् बहुलम् इति वक्तव्यम्
१ - ३ - कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् ।
२ - ३ - कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् कर्तव्यम् ।
३ - ३ - निर्विण्णः अहम् अनेन वासेन
१ - ६ - णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् ।
२ - ६ - णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् कर्तव्यम् ।
३ - ६ - प्राप्यमाणम् प्राप्यमानम् ।
४ - ६ - तद्विधानात् सिद्धम् । विहितविशेषणम् णिग्रहणम् ।
५ - ६ - ण्यन्तात् यः विहितः इति ।
६ - ६ - अडधिकारात् वा । अथ वा अड्व्यवाये इति वर्तते
१ - ३७ - किमर्थम् इदम् उच्यते न कृत्यचः इति एव सिद्धम् ।
२ - ३७ - नियमार्थः अयम् आरम्भः ।
३ - ३७ - इजादेः एव च सनुम्कात् न अन्यस्मात् सनुम्कात् इति ।
४ - ३७ - क्व मा भूत् ।
५ - ३७ - प्रमङ्कनम् परिमङ्कनम् ।
६ - ३७ - सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् ।
७ - ३७ - सनुमः णत्वे अवधारणस्य अप्राप्तिः ।
८ - ३७ - किम् कारणम् ।
९ - ३७ - विधेयभावात् ।
१० - ३७ - कैमर्थक्यात् नियमः भवति ।
११ - ३७ - विधेयम् न अस्ति इति कृत्वा ।
१२ - ३७ - इह च अस्ति विधेयम् ।
१३ - ३७ - किम् ।
१४ - ३७ - ण्यन्तात् विभाषा प्राप्ता तत्र नित्यम् णत्वम् विधेयम् ।
१५ - ३७ - तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः विधिः भविष्यति न नियमः ।
१६ - ३७ - सिद्धम् तु प्रतिषेधाधिकारे सनुम्ग्रहणात् । सिद्धम् एतत् ।
१७ - ३७ - कथम् ।
१८ - ३७ - प्रतिषेधाधिकारे सनुम्ग्रहणात् ।
१९ - ३७ - प्रतिषेधाधिकारे सनुम्ग्रहणम् कर्तव्यम् ।
२० - ३७ - न भाभूपूकमिगमिप्यायिवेपिसनुमाम् इति ।
२१ - ३७ - इह अपि तर्हि न प्राप्नोति ।
२२ - ३७ - प्रेङ्गणम् प्रेङ्गणीयम् ।
२३ - ३७ - कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् । कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् कर्तव्यम् ।
२४ - ३७ - सिध्यति सूत्रम् तर्हि भिद्यते ।
२५ - ३७ - यथान्यासम् एव अस्तु ।
२६ - ३७ - ननु च उक्तम् सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् इति ।
२७ - ३७ - न एषः दोषः ।
२८ - ३७ - हलः इति वर्तते ।
२९ - ३७ - क्व प्रकृतम् ।
३० - ३७ - हलश्चेजुपधात् इति ।
३१ - ३७ - तत् वै तत्र आदिविशेषणम् अन्तविशेषणेन च इह अर्थः ।
३२ - ३७ - कथम् पुनः ज्ञायते तत्र आदिविशेषणम् इति ।
३३ - ३७ - इजुपधात् इति उच्यते अत्र न अर्थः अन्तविशेषणेन ।
३४ - ३७ - तत्र आदिविशेषणम् सत् इह अन्तविशेषणम् भविष्यति ।
३५ - ३७ - कथम् ।
३६ - ३७ - इजादेः इति उच्यते तत्र न अर्थः आदिविशेषणेन ।
३७ - ३७ - अथ वा इजादेः सनुमः इति अत्र णेर्विभाषा इति एतत् अनुवर्तिष्यते
१ - ९ - भादिषु पूञ्ग्रहणम् ।
२ - ९ - भादिषु पूञ्ग्रहणम् कर्तव्यम् ।
३ - ९ - इह मा भूत् ।
४ - ९ - प्रपवणम् सोमस्य इति ।
५ - ९ - ण्यन्तस्य च उपसङ्ख्यनम् । ण्यन्तस्य च उपसङ्ख्यानम् कर्तव्यम् ।
६ - ९ - किम् पूञः एव ।
७ - ९ - न इति आह ।
८ - ९ - अविशेषेण ।
९ - ९ - प्रभापनम् परिभापनम्
१ - ११ - षात् पदादिपरवचनम् ।
२ - ११ - षात्पदादिपरग्रहणम् कर्तव्यम् ।
३ - ११ - इह एव यथा स्यात् ।
४ - ११ - निष्पानम् दुष्पानम् ।
५ - ११ - इह मा भूत् ।
६ - ११ - ससर्पिष्केण सयजुष्केण ।
७ - ११ - तत् तर्हि वक्तव्यम् ।
८ - ११ - न वक्तव्यम् ।
९ - ११ - न एवम् विज्ञायते पदस्य अन्तः पदान्तः पदान्तात् इति ।
१० - ११ - कथम् तर्हि ।
११ - ११ - पदे अन्तः पदान्तः पदान्तात् इति
१ - ८ - नशेः अशः ।
२ - ८ - नशेः अशः इति वक्तव्यम् ।
३ - ८ - इह अपि यथा स्यात् ।
४ - ८ - प्रनङ्क्ष्यति परिनङ्क्ष्यति ।
५ - ८ - तत् तर्हि वक्तव्यम् ।
६ - ८ - न वक्तव्यम् ।
७ - ८ - इह नशेः षः इति इयता सिद्धम् ।
८ - ८ - सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तस्य एतत् प्रयोजनम् षान्तभूतपूर्वस्य अपि यथा स्यात्
१ - ९ - पदव्यवाये अतद्धिते ।
२ - ९ - पदव्यवाये अतद्धिते इति वक्तव्यम् ।
३ - ९ - इह मा भूत् ।
४ - ९ - आर्द्रगोमयेण शुष्कगोमयेण इति ।
५ - ९ - तत् तर्हि वक्तव्यम् ।
६ - ९ - न वक्तव्यम् ।
७ - ९ - न एवम् विज्ञायते पदेन व्यवाये पदव्यवाये इति ।
८ - ९ - कथम् तर्हि ।
९ - ९ - पदे व्यवायः पदव्यवायः पद्व्यवाये इति
१ - १ - अविहितलक्षणः णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः
१ - ५ - किमर्थम् तृतीयानिर्देशः क्रियते न श्चौ इति एव उच्येत ।
२ - ५ - आनन्तर्यमात्रे श्चुत्वम् यथा स्यात् ।
३ - ५ - यज्ञः राज्ञः याच्ञा ।
४ - ५ - अथ सङ्ख्यातानुदेशः कस्मात् न भवति ।
५ - ५ - आचार्यप्रवृत्तिः ज्ञापयति सङ्ख्यातानुदेशः न इह इति यत् अयम् शात् प्रतिषेधम् शास्ति
१ - ५ - किमर्थम् त्र्तीयानिर्देशः क्रियते न ष्टौ इति एव उच्येत ।
२ - ५ - आनन्तर्यमात्रे ष्टुत्वम् यथा स्यात् ।
३ - ५ - पेष्टा लेढा ।
४ - ५ - अथ सङ्ख्यातानुदेशः कस्मात् न भवति ।
५ - ५ - आचार्यप्रवृत्तिः ज्ञापयति न इह सङ्ख्यातानुदेशः भवति इति यत् अयम् तोःषि इति प्रतिषेधम् शास्ति
१ - ४ - अनाम् इति किम् ।
२ - ४ - षण्णाम् भवति कश्यपः ।
३ - ४ - अत्यल्पम् इदम् उच्यते अनाम् इति ।
४ - ४ - अनान्नवतिनगरीणाम् च इति वक्तव्यम् षण्णाम् , षण्णवतिः , षण्णगरी
१ - ४ - यरः अनुनासिके प्रत्यये भाषायाम् नित्यवचनम् ।
२ - ४ - यरः अनुनासिके प्रत्यये भाषायाम् नित्यम् इति च वक्तव्यम् ।
३ - ४ - वाङ्मयम् ।
४ - ४ - त्वङ्मयम् इति
१ - १९ - द्विर्वचने यणः मयः । द्विर्वचने यणः मयः इति वक्तव्यम् ।
२ - १९ - किम् उदाहरणम् ।
३ - १९ - यदि यणः इति पञ्चमी मयः इति षष्ठी उल्क्का वल्म्मीकम् इति उदहरणम् ।
४ - १९ - अथ मयः इति पञ्चमी यणः इति षष्ठी दध्य्यत्र मध्व्वत्र इति उदाहरणम् ।
५ - १९ - शरः खयः ।
६ - १९ - शरः खयः इति वक्तव्यम् ।
७ - १९ - किम् उदाहरणम् ।
८ - १९ - यदि शरः इति पञ्चमी खयः इति षष्ठी स्थ्थाली स्थ्थाता इति उदाहरणम् ।
९ - १९ - अथ खयः इति पञ्चमी शरः इति षष्ठी वत्स्सः क्ष्षीरम् अप्स्सराः इति उदाहरणम् ।
१० - १९ - अवसाने च । अवसाने च द्वे भवतः इति वक्तव्यम् ।
११ - १९ - वाक्क् वाक् ।
१२ - १९ - त्वक्क् त्वक् ।
१३ - १९ - स्रुक्क् स्रुक् ।
१४ - १९ - तत् तर्हि वक्तव्यम् ।
१५ - १९ - न वक्तव्यम् ।
१६ - १९ - न अयम् प्रसज्यप्रतिषेधः ।
१७ - १९ - अचि न इति ।
१८ - १९ - किम् तर्हि पर्युदसः अयम् ।
१९ - १९ - यत् अन्यत् अचः इति
१ - ३ - न आदिनि आक्रोशे पुत्रस्य इति तत्परे च ।
२ - ३ - न आदिनि आक्रोशे पुत्रस्य इति अत्र तत्परे च इति वक्तव्यम् ।
३ - ३ - पुत्रपुत्रादिनि
१ - ४ - वा हतजग्धपरे च ।
२ - ४ - वा हतजग्धपरे इति वक्तव्यम् ।
३ - ४ - पुत्रहती पुत्त्रहती ।
४ - ४ - पुत्रजग्धी पुत्त्रजग्धी
१ - ३ - चयः द्वितीयाः शरि पौष्करसादेः ।
२ - ३ - चयः द्वितीयाः भवन्ति शरि परतः पौष्करसादेः आचार्यस्य मतेन ।
३ - ३ - वथ्सः , ख्षीरम् , अफ्सराः
१ - ३ - उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् ।
२ - ३ - उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।
३ - ३ - अघ्न्ये दूरम् उत्कन्द
१ - २ - रोगे च इति वक्तव्यम् ।
२ - २ - उत्कन्दकः रोगः
१ - ५ - छत्वम् अमि तच्छ्लोकेन तच्छ्मश्रुणा इति प्रयोजनम् ।
२ - ५ - छत्वम् अमि इति वक्तव्यम् ।
३ - ५ - किम् प्रयोजनम् ।
४ - ५ - तच्छ्लोकेन ।
५ - ५ - तच्छ्मश्रुणा इति
१ - ७ - सवर्णग्रहणम् किमर्थम् ।
२ - ७ - झरः झरि सवर्णग्रहणम् समसङ्ख्यप्रतिषेधार्थम् ।
३ - ७ - झरः झरि सवर्णग्रहणम् क्रियते समसङ्ख्यप्रतिषेधार्थम् ।
४ - ७ - सङ्ख्यातानुदेशः मा भूत् इति ।
५ - ७ - किम् च स्यात् ।
६ - ७ - इह न स्यात् ।
७ - ७ - शिण्ढि पिण्ढि इति
१ - ५१ - किमर्थम् इदम् उच्यते ।
२ - ५१ - अकारः अयम् अक्षरसमाम्नाये विवृतः उपदिष्टः तस्य संवृतताप्रत्यापत्तिः क्रियते ।
३ - ५१ - किम् पुनः कारणम् विवृतः उपदिश्यते ।
४ - ५१ - आदेशार्थम् सवर्णार्थम् अकारः विवृतः स्मृतः ।
५ - ५१ - आकारस्य तथा ह्रस्वः तदर्थम् पाणिनेः अ अ ।
६ - ५१ - आदेशार्थम् तावत् ।
७ - ५१ - वृक्षाभ्याम् , देवदत्ता३ ।
८ - ५१ - आन्तर्यतः विवृतस्य विवृतौ दीर्घप्लुतौ यथा स्याताम् ।
९ - ५१ - सवर्णार्थम् च ।
१० - ५१ - अकारः सवर्णग्रहणेन आकारम् अपि यथा गृह्णीयात् ।
११ - ५१ - आकारस्य तथा ह्रस्वः ।
१२ - ५१ - तथा च अतिखट्वः , अतिमालः इति अत्र आकारस्य ह्रस्वः उच्यमानः विवृतः प्राप्नोति सः संवृतः स्यात् इति एवमर्था प्रयापत्तिः ।
१३ - ५१ - अस्ति प्रयोजनम् एतत् ।
१४ - ५१ - किम् तर्हि इति ।
१५ - ५१ - अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः । अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः ।
१६ - ५१ - खट्वा माला ।
१७ - ५१ - न एषः दोषः ।
१८ - ५१ - यथा एव प्रकृतितः सवर्णग्रहणम् एवम् आदेशतः अपि भवितव्यम् तत्र आन्तर्यतः ह्रस्वस्य ह्रस्वः दीर्घस्य दीर्घः भविष्यति ।
१९ - ५१ - आदेशस्य च अनण्त्वात् न सवर्णग्रहणम् । आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति ।
२० - ५१ - केषाम् ।
२१ - ५१ - उदात्तानुदात्तस्वरितानुनासिकानाम् ।
२२ - ५१ - सिद्धम् तु तपरनिर्देशात् । सिद्धम् एतत् ।
२३ - ५१ - कथम् ।
२४ - ५१ - तपरनिर्देशात् ।
२५ - ५१ - तपरनिर्देशः कर्तव्यः ।
२६ - ५१ - अत् अ* इति ।
२७ - ५१ - अपरः आह अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः ।
२८ - ५१ - अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः खट्वा माला ।
२९ - ५१ - न एषः दोषः ।
३० - ५१ - दीर्घोच्चारणसामर्थ्यात् न भविष्यति ।
३१ - ५१ - इदम् तर्हि प्रयोजनम् ।
३२ - ५१ - वृक्षाभ्याम् प्लक्षाभ्याम् ।
३३ - ५१ - अत्र अपि दीर्घवचनसामर्थ्यात् न भविष्यति ।
३४ - ५१ - इदम् तर्हि ।
३५ - ५१ - अपि काकः श्येनायते ।
३६ - ५१ - ननु च अत्र अपि दीर्घवचनसमर्थ्यात् एव न भविष्यति ।
३७ - ५१ - अस्ति अन्यत् दीर्घवचने प्रयोजनम् ।
३८ - ५१ - किम् ।
३९ - ५१ - दधीयति मधूयति ।
४० - ५१ - अत्र एव च एषः दोषः आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति ।
४१ - ५१ - केषाम् ।
४२ - ५१ - उदात्तानुदात्तस्वरितानुनासिकानाम् ।
४३ - ५१ - सिद्धम् तु तपरनिर्देशात् ।
४४ - ५१ - सिद्धम् एतत् ।
४५ - ५१ - कथम् ।
४६ - ५१ - तपरनिर्देशात् ।
४७ - ५१ - तपरनिर्देशः कर्तव्यः ।
४८ - ५१ - अत् अत् इति ।
४९ - ५१ - एकशेषनिर्देशात् वा स्वरभिन्नानाम् भगवतः पाणिनेः सिद्धम् । एकशेषनिर्देशात् वा स्वरभिन्नानम् भगवतः पाणिनेः आचार्यस्य सिद्धम् ।
५० - ५१ - एकशेषनिर्देसः अयम् ।
५१ - ५१ - अ , अ , अ इति
N/A
References : N/A
Last Updated : January 17, 2018
TOP