संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ८|पाद २| खण्ड ८३ पाद २ खण्ड ८३ खण्ड ८४ पाद २ - खण्ड ८३ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ८३ Translation - भाषांतर १ - २४ - या इयम् सपादसप्ताध्यायी अनुक्रान्ता एतस्याम् अयम् पादोनः अध्यायः असिद्धः वेदितव्यः ।२ - २४ - यदि सपादायाम् सप्ताध्याय्याम् अयम् पादोनः अध्यायः असिद्धः इति उच्यते यः इह सप्तमीनिर्देशाः पञ्चमीनिर्देशाः च उच्यन्ते षष्ठीनिर्देशाः च उच्यन्ते ते अपि असिद्धाः स्यूः ।३ - २४ - तत्र कः दोषः ।४ - २४ - झलोझलि ह्रस्वादङ्गात् संयोगान्तस्यलोपः इति एतेषाम् निर्देशानाम् असिद्धत्वात् तस्मिन्नितिनिर्देष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति एताः परिभाषाः न प्रकल्पेरन् ।५ - २४ - न एषः दोषः ।६ - २४ - यदि अपि इदम् तत्र असिद्धम् तत् तु इह सिद्धम् ।७ - २४ - कथम् ।८ - २४ - कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।९ - २४ - झलोझलि ।१० - २४ - ह्रस्वादङ्गात् ।११ - २४ - संयोगान्तस्यलोपः ।१२ - २४ - उपस्थितम् इदम् भवति तस्मिन्नितिनिर्दिष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति ।१३ - २४ - यदि कार्यकालम् सञ्ज्ञापरिभाषम् इति उच्यते इयम् अपि परिभाषा अस्ति विप्रतिषेधे परम् इति सा अपि इह उपतिष्ठेत ।१४ - २४ - तत्र कः दोषः ।१५ - २४ - विस्फोर्यम् अवगोर्यम् इति गुणात् दीर्घत्वम् स्यात् विप्रतिषेधेन ।१६ - २४ - अतः उत्तरम् पठति ।१७ - २४ - पूर्वत्रासिद्धे न अस्ति विप्रतिषेधः अभावात् उत्तरस्य ।१८ - २४ - पूर्वत्रासिद्धे न अस्ति विप्रतिषेधः ।१९ - २४ - किम् कारणम् ।२० - २४ - अभावात् उत्तरस्य ।२१ - २४ - द्वयोः हि सावकाशयोः समवस्थितयोः विप्रतिषेधः भवति न च पूर्वत्रासिद्धे परम् पूर्वम् प्रति भवति ।२२ - २४ - यदि एवम् दोग्धा दोग्धुम् घत्वस्य असिद्धत्वात् ढत्वम् प्राप्नोति काष्ठतट् कूटतट् संयोगादिलोप्स्य असिद्धत्वात् संयोगान्तलोपः प्राप्नोति ।२३ - २४ - अपवादः वचनप्रामाण्यात् । अनवकाशौ एतौ वचनप्रामाण्यात् भविष्यतः ।२४ - २४ - तस्मात् कार्यकालम् सञ्ज्ञापरिभाषम् इति न दोषः१ - १० - पूर्वत्रासिद्धम् अधिकारः ।२ - १० - पूर्वत्रासिद्धम् इति अधिकारः अयम् द्रष्टव्यः ।३ - १० - किम् प्रयोजनम् ।४ - १० - परस्य परस्य पूर्वत्र पूर्वत्र असिद्धविज्ञानार्थम् । परः परः योगः पूर्वम् पूर्वम् योगम् प्रति असिद्धः यथा स्यात् ।५ - १० - अनधिकारे हि समुदाये असिद्धविज्ञानम् । अनधिकारे हि सति समुदायस्य समुदाये असिद्धत्वम् विज्ञायेत ।६ - १० - तत्र कः दोषः ।७ - १० - तत्र अयथेष्टप्रसङ्गः । तत्र अयथेष्टम् प्रसज्येत ।८ - १० - योधुङ्मान् गुडलिण्मान् इति ।९ - १० - घत्वढत्वयोः कृतयोः झयः इति वत्वम् प्रसज्येत ।१० - १० - तस्मात् अधिकारः । तस्मात् अधिकारः अयम् द्रष्टव्यः१ - १४ - असिद्धवचनम् किमर्थम् ।२ - १४ - असिद्धवचने उक्तम् ।३ - १४ - किम् उक्तम् ।४ - १४ - तत्र तावत् उक्तम् षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च इति ।५ - १४ - एवम् इह अपि पूर्वत्रासिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च ।६ - १४ - आदेशलक्षणप्रतिषेधार्थम् तावत् ।७ - १४ - राजभिः तक्षभिः राजभ्याम् तक्षभ्याम् राजसु तक्षसु इति नलोपे कृते अतः इति ऐस्भावादयः प्राप्नुवन्ति ।८ - १४ - असिद्धत्वात् न भवन्ति ।९ - १४ - उत्सर्गलक्षणभावार्थम् च ।१० - १४ - अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् इति अत्र मुभावे कृते अतः इति स्मायादयः न प्राप्नुवन्ति ।११ - १४ - असिद्धत्वात् भवन्ति ।१२ - १४ - सुपर्वाणौ सुपर्वाणः ।१३ - १४ - णत्वे कृते नोपधायाः इति दीर्घत्वम् न प्रप्नोति ।१४ - १४ - असिद्धत्वात् भवति१ - ४ - सुब्विधिम् प्रति नलोपः असिद्धः भवति इति उच्यते ।२ - ४ - भवेत् इह राजभिः तक्षभिः इति नलोपे कृते अतः इति ऐस्भावः न स्यात् ।३ - ४ - इह तु खलु राजभ्याम् तक्षभ्याम् राजसु तक्षसु इति नलोपे कृते दीर्घत्वैत्त्वे प्राप्नुतः. न एषः दोषः ।४ - ४ - सुब्विधिः इति सर्वविभक्त्यन्तः समासः सुपः विधिः सुब्विधिः , सुपि विधिः सुब्विधिः इति१ - २४ - अथ सञ्ज्ञाविधौ किम् उदाहरणम् ।२ - २४ - पञ्च सप्त ।३ - २४ - पञ्च सप्त इति अत्र नलोपे कृते ष्णान्ताषट् इति षट्सञ्ज्ञा न प्राप्नोति ।४ - २४ - असिद्धत्वात् भवति ।५ - २४ - सञ्ज्ञाग्रहणानर्थक्यम् च तन्निमित्तत्वात् लोपस्य ।६ - २४ - सञ्ज्ञाग्रहणम् च अनर्थकम् ।७ - २४ - किम् कारणम् ।८ - २४ - तन्निमित्तत्वात् लोपस्य ।९ - २४ - न अकृतायाम् षट्सञ्ज्ञायाम् जश्शसोः लुक् न च अकृते लुकि पदसञ्ज्ञा न च अकृतायाम् पदसञ्ज्ञायाम् नलोपः प्राप्नोति ।१० - २४ - तत् एतत् आनुपूर्व्या सिद्धम् भवति ।११ - २४ - इदम् तर्हि प्रयोजनम् पञ्चभिः सप्तभिः इति षट्त्रिचतुर्भ्योहलादिः झल्युपोत्तमम् इति एषः स्वरः यथा स्यात् ।१२ - २४ - स्वरे अवधारणात् च । स्वरे अवधारणात् च सञ्ज्ञाग्रहणम् अनर्थकम् ।१३ - २४ - स्वरे अवधारणम् क्रियते स्वरविधिम् प्रति इति ।१४ - २४ - तुग्विधौ किम् उदाहरणम् ।१५ - २४ - वृत्रहभ्याम् वृत्रहभिः ।१६ - २४ - नलोपे कृते ह्रस्वस्यपितिकृतितुक् इति तुक् प्राप्नोति ।१७ - २४ - असिद्धत्वात् न भवति ।१८ - २४ - तुग्विधौ च उक्तम् । किम् उक्तम् ।१९ - २४ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।२० - २४ - इदम् तर्हि प्रयोजनम् ।२१ - २४ - कृति इति वक्ष्यामि ।२२ - २४ - इह मा भूत् ।२३ - २४ - ब्रह्महच्छत्रम् भ्रूणहच्छाया ।२४ - २४ - न एषः सन्निपातलक्षणः१ - २९ - इह ने यत् कार्यम् प्राप्नोति तत् प्रति मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत् न प्राप्नोति ।२ - २९ - एवम् तर्हि न मु टादेशे ।३ - २९ - न मु टादेशे इति वक्तव्यम् ।४ - २९ - किम् इदम् टादेशः इति ।५ - २९ - टायाः आदेशः टादेशः इति ।६ - २९ - यदि तर्हि टायाः आदेशे इति उच्यते टायाम् आदेशे अप्रसिद्धिः ।७ - २९ - तत्र कः दोषः ।८ - २९ - अमुना इति अत्र मुभावस्य असिद्धत्वात् अतोदीर्घोयञि सुपिच इति दीर्घत्वम् प्रसज्येत ।९ - २९ - न एषः दोषः ।१० - २९ - सर्वविभक्त्यन्तः समासः टायाः आदेशः टादेशः , टायाम् आदेशः टादेशः इति ।११ - २९ - सिध्यति ।१२ - २९ - सूत्रम् तर्हि भिद्यते ।१३ - २९ - यथान्यासम् एव अस्तु ।१४ - २९ - ननु च उक्तम् ने यत् कार्यम् प्राप्नोति तस्मिन् मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत् न प्राप्नोति इति ।१५ - २९ - न एषः दोषः ।१६ - २९ - इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रनिबन्धेन आचार्याणाम् अभिप्रायः लक्ष्यते ।१७ - २९ - एतत् एव ज्ञापयति भवति अत्र नाभावः इति यत् अयम् ने परतः असिद्धत्वप्रतिषेधम् शास्ति ।१८ - २९ - अथ वा द्विगताः अपि हेतवः भवन्ति ।१९ - २९ - तत् यथा ।२० - २९ - आम्राः च सिक्ताः पितरः च प्रीणिताः भवन्ति ।२१ - २९ - तथा वाक्यानि अपि द्विगतानि दृश्यन्ते ।२२ - २९ - श्वेतः धावति ।२३ - २९ - अलम्बुसानाम् याता इति ।२४ - २९ - अथ वा वृद्धकुमारीवाक्यवत् इदम् द्रष्टव्यम् ।२५ - २९ - तत् यथा ।२६ - २९ - वृद्धकुमारी इन्द्रेण उक्ता वरम् वृणीष्व इति सा वरम् अवृणीत पुत्राः मे बहुक्षीरघृतम् ओदनम् कांस्यपात्र्याम् भुञ्जीरन् इति ।२७ - २९ - न च तावत् अस्याः पतिः भवति कुतः पुत्राः कुतः गावः कुतः धान्यम् ।२८ - २९ - तत्र्स् अनया एकेन वाक्येन पतिः पुत्राः गावः धान्यम् इति सर्वम् सङ्गृहीतम् भवति ।२९ - २९ - एवम् इह अपि ने असिद्धत्वप्रतिषेधम् ब्रुवता नाभावः अपि सङ्गृहीतः भवति१ - २६ - यण्स्वरः यणादेशे स्वरितयणः स्वरितार्थम् ।२ - २६ - यण्स्वरः यणादेशे सिद्धः वक्तव्यः ।३ - २६ - किम् प्रयोजनम् ।४ - २६ - स्वरितयणः स्वरितार्थम् ।५ - २६ - स्वरितयणः स्वरितत्वम् यथा स्यात् ।६ - २६ - खलप्वि अटति ।७ - २६ - खल्प्वि अश्नाति ।८ - २६ - तत् तर्हि वक्तव्यम् ।९ - २६ - न वक्तव्यम् ।१० - २६ - आह अयम् स्वरितयणः इति न च अस्ति सिद्धः स्वरितः तत्र आश्रयात् सिद्धत्वम् भविष्यति ।११ - २६ - आश्रयात् सिद्धत्वम् इति चेत् उदात्तात् स्वरिते दोषः । आश्रयात् सिद्धत्वम् इति चेत् उदात्तात् स्वरिते दोषः भवति ।१२ - २६ - दध्याश ।१३ - २६ - मध्वाश ।१४ - २६ - एवम् तर्हि योगविभागः करिष्यते ।१५ - २६ - उदात्तयणः परस्य अनुदात्तस्य स्वरितः भवति ।१६ - २६ - ततः स्वरितयणः ।१७ - २६ - स्वरितयणः च परस्य अनुदात्तस्य स्वरितः भवति ।१८ - २६ - उदात्तयणः इति एव ।१९ - २६ - अथ वा स्वरितग्रहणम् न करिष्यते ।२० - २६ - केन इदानीम् स्वरितयणः परस्य अनुदात्तस्य स्वरितः भविष्यति ।२१ - २६ - उदात्तयणः इति एव ।२२ - २६ - ननु च स्वरितयणा व्यवहितत्वात् न प्राप्नोति ।२३ - २६ - स्वरविधौ व्यञ्जनम् अविद्यमानवत् इति न अस्ति व्यवधानम् ।२४ - २६ - अथ वा न एवम् विज्ञायते स्वरितस्य यण् स्वरितयण् स्वरितयणः इति ।२५ - २६ - कथम् तर्हि ।२६ - २६ - स्वरिते यण् स्वरितयण् स्वरितयणः इति१ - १४ - स्वरितग्रहणम् शक्यम् अकर्तुम् ।२ - १४ - कथम् ।३ - १४ - अनुदात्ते परतः पदादौ वा उदात्तः इति एव सिद्धम् ।४ - १४ - केन इदानीम् स्वरितः भविष्यति ।५ - १४ - गाङ्गे अनूपे इति ।६ - १४ - आन्तर्यतः उदात्तानुदात्तयोः एकादेशः स्वरितः भविष्यति ।७ - १४ - इदम् तर्हि प्रयोजनम् तेन वर्ज्यमानता मा भूत् ।८ - १४ - अथ क्रियमाणे अपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मात् न भवति ।९ - १४ - कन्या अनूपे इति ।१० - १४ - बहिरङ्गलक्षणत्वात् ।११ - १४ - असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एवम् न भविष्यति ।१२ - १४ - यथा एव तर्हि क्रियमाणे स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता न भवति एवम् अक्रियमाणे अपि न भविष्यति ।१३ - १४ - तस्मात् न अर्थः स्वरितग्रहणेन ।१४ - १४ - बहिरङ्गलक्षणत्वात् सिद्धम्१ - २०८ - एकादेशस्वरः अन्तरङ्गः ।२ - २०८ - एकादेशस्वरः अन्तरङ्गः सिद्धः वक्तव्यः ।३ - २०८ - किम् प्रयोजनम् ।४ - २०८ - अयवायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम् । अय् ।५ - २०८ - वृक्षे इदम् प्लक्षे इदम् ।६ - २०८ - उदात्तानुदात्तयोः एकादेशः ।७ - २०८ - तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति ।८ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः अयादेशः यथा स्यात् ।९ - २०८ - अवादेशः न अस्ति ।१० - २०८ - आय् ।११ - २०८ - कुमार्यै इदम् ।१२ - २०८ - उदात्तानुदात्तयोः एकादेशः ।१३ - २०८ - तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति ।१४ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आयादेशः यथा स्यात् ।१५ - २०८ - न एतत् अस्ति प्रयोजनम् ।१६ - २०८ - एकादेशे कृते उदात्तयणोहल्पूर्वात् इति उदात्तत्वम् भविष्यति ।१७ - २०८ - इदम् इह सम्प्रधार्यम् ।१८ - २०८ - उदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।१९ - २०८ - परत्वात् उदात्तत्वम् ।२० - २०८ - नित्यः एकादेशः ।२१ - २०८ - कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति ।२२ - २०८ - एकादेशः अपि अनित्यः ।२३ - २०८ - अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।२४ - २०८ - अन्तरङ्गः तर्हि एकादेशः ।२५ - २०८ - का अन्तरङ्गता ।२६ - २०८ - वर्णौ आश्रित्य एकादेशः पदस्य उदात्तत्वम् ।२७ - २०८ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।२८ - २०८ - आट् क्रियताम् उदात्तत्वम् इति किम् अत्र कर्तव्यम् ।२९ - २०८ - परत्वात् आडागमः ।३० - २०८ - नित्यम् उदात्तत्वम् ।३१ - २०८ - कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति ।३२ - २०८ - आट् अपि नित्यः ।३३ - २०८ - कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति ।३४ - २०८ - अनित्यः आट् ।३५ - २०८ - अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।३६ - २०८ - उदात्तत्वम् अपि अनित्यम् ।३७ - २०८ - अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते प्राप्नोति शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।३८ - २०८ - उभयोः अनित्ययोः परत्वात् आडागमः आटि कृते अन्तरङ्गः एकादेशः ।३९ - २०८ - आव् ।४० - २०८ - वृक्षविदम् ।४१ - २०८ - उदात्तानुदात्तयोः एकादेशः ।४२ - २०८ - तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।४३ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आवादेशः यथा स्यात् ।४४ - २०८ - एकादेशस्वर ।४५ - २०८ - गाङ्गे अनूपे इति ।४६ - २०८ - उदात्तानुदात्तयोः एकादेशः ।४७ - २०८ - तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।४८ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् स्वरितोवानुदात्तेपदादौ इति एतत् यथा स्यात् ।४९ - २०८ - शतृस्वर ।५० - २०८ - तुदति नुदति ।५१ - २०८ - उदात्तानुदात्तयोः एकादेशः ।५२ - २०८ - तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।५३ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् शतुः अनुमः नद्यजादिः अन्तोदात्तात् इति एषः स्वरः यथा स्यात् ।५४ - २०८ - न एतत् अस्ति प्रयोजनम् ।५५ - २०८ - आचार्यप्रवृत्तिः ज्ञापयति सिद्धः एकादेशस्वरः शतृस्वरः इति यत् अयम् अनुमः इति प्रतिषेधम् शास्ति ।५६ - २०८ - कथम् कृत्वा ज्ञापकम् ।५७ - २०८ - न हि अन्तरेण उदात्तानुदात्तोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति ।५८ - २०८ - ननु च इदम् अस्ति यन्ती वन्ती ।५९ - २०८ - एतत् अपि निघाते कृते न अन्तरेण उदात्तानुदात्तयोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति ।६० - २०८ - इदम् इह सम्प्रधार्यम् ।६१ - २०८ - निघातः क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।६२ - २०८ - परत्वात् निघातः ।६३ - २०८ - नित्यः एकादेशः ।६४ - २०८ - कृते अपि निघाते प्राप्नोति अकृते अपि प्राप्नोति ।६५ - २०८ - एकादेशः अपि अनित्यः ।६६ - २०८ - अन्यथास्वरस्य कृते निघाते प्राप्नोति अन्यथास्वरस्य अकृते निघाते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।६७ - २०८ - अन्तरङ्गः तर्हि एकादेशः ।६८ - २०८ - का अन्तरङ्गता ।६९ - २०८ - वर्णौ आश्रित्य एकादेशः पदस्य निघातः ।७० - २०८ - निघातः अपि अन्तरङ्गः ।७१ - २०८ - कथम् ।७२ - २०८ - उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति ।७३ - २०८ - उभयोः अन्तरङ्गयोः परत्वात् निघातः निघाते कृते एतत् अपि न अन्तरेण उदात्तानुदात्तयोः एकादेशम् अन्तोदात्तम् भवति ।७४ - २०८ - शतृस्वर ।७५ - २०८ - एकानुदात्त ।७६ - २०८ - तुदन्ति लिखन्ति. उदात्तानुदात्तयोः एकादेशः ।७७ - २०८ - तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।७८ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् तेन वर्ज्यमानता यथा स्यात् ।७९ - २०८ - सर्वानुदात्त ।८० - २०८ - ब्राह्मणाः तुदन्ति ।८१ - २०८ - ब्राह्मणाः लिखन्ति ।८२ - २०८ - उदात्तानुदात्तयोः एकादेशः ।८३ - २०८ - तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति ।८४ - २०८ - तस्य सिद्धत्वम् वक्तव्यम् ।८५ - २०८ - किम् प्रयोजनम् ।८६ - २०८ - तिङतिङः इति निघातः यथा स्यात् ।८७ - २०८ - किम् उच्यते अन्तरङ्गः इति ।८८ - २०८ - यः हि बहिरङ्गः असिद्धः एव असौ भवति ।८९ - २०८ - प्रपचतिति ।९० - २०८ - सोमसुत् पचतिति ।९१ - २०८ - तत् तर्हि वक्तव्यम् ।९२ - २०८ - न वक्तव्यम् ।९३ - २०८ - सर्वत्र एव नुम्प्रतिषेधः ज्ञापकः सिद्धः एकादेशस्वरः अन्तरङ्गः इति ।९४ - २०८ - संयोगान्तलोपः रोः उत्त्वे हरिवः मेदिनम् त्वा । संयोगान्तलोपः रोः उत्त्वे सिद्धः वक्तव्यः ।९५ - २०८ - किम् प्रयोजनम् ।९६ - २०८ - हरिवः मेदिनम् त्वा ।९७ - २०८ - संयोगान्तलोपस्य असिद्धत्वात् हशि इति उत्त्वम् न प्राप्नोति ।९८ - २०८ - प्लुतिः च । प्लुतिः च उत्त्वे सिद्धा वक्तव्या ।९९ - २०८ - सुस्रोत३ अत्र नु असि इति अत्र प्लुतेः असिद्धत्वात् अतः अति इति उत्त्वम् प्राप्नोति ।१०० - २०८ - अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति ।१०१ - २०८ - न एतत् अस्ति प्रयोजनम् ।१०२ - २०८ - क्रियते न्यासे एव ।१०३ - २०८ - सिज्लोपः एकादेशे । सिज्लोपः एकादेशे सिद्धः वक्तव्यः ।१०४ - २०८ - अलावीत् अपावीत् ।१०५ - २०८ - सिज्लोपस्य असिद्धत्वात् सवर्णदीर्घत्वम् न प्राप्नोति ।१०६ - २०८ - यदि पुनः इडादेः सिचः लोपः उच्येत ।१०७ - २०८ - न एवम् शक्यम् ।१०८ - २०८ - इह हि मा हि लावित् मा हि पावित् यदि अत्र इट् न स्यात् अनुदात्तस्य ईटः श्रवणम् प्रसज्येत ।१०९ - २०८ - इटि पुनः सति उक्तम् एतत् अर्थवत् तु चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् इति तत्र एकादेशे उदात्तेनोदात्तः इति उदात्तत्वम् सिद्धम् भवति ।११० - २०८ - संयोगादिलोपः संयोगान्तलोपे । संयोगादिलोपः संयोगान्तस्य लोपे सिद्धः वक्तव्यः ।१११ - २०८ - काष्ठतट् कूटतट् ।११२ - २०८ - संयोगादिलोपस्य असिद्धत्वात् संयोगान्तलोपः प्राप्नोति ।११३ - २०८ - न एषः दोषः ।११४ - २०८ - उकम् एतत् अपवादः वचनप्रामाण्यात् इति ।११५ - २०८ - निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु । निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धः वक्तव्यः ।११६ - २०८ - वृक्णः वृक्णवान् ।११७ - २०८ - निष्ठादेशस्य असिद्धत्वात् झलि इति षत्वम् प्राप्नोति ।११८ - २०८ - स्वर ।११९ - २०८ - क्षिवः ।१२० - २०८ - निष्ठादेशस्य असिद्धत्वात् निष्ठाचद्व्यजनात् इति एषः स्वरः न प्राप्नोति ।१२१ - २०८ - प्रत्यय ।१२२ - २०८ - क्षीवेण तरति क्षीविकः ।१२३ - २०८ - निष्ठादेशस्य असिद्धत्वात् द्व्यचः ठन् इति ठन् न प्राप्नोति ।१२४ - २०८ - इड्विधि ।१२५ - २०८ - निष्ठादेशस्य असिद्धत्वात् वलादिलक्षणः इट् प्राप्नोति ।१२६ - २०८ - ननु च यः प्रत्ययविधौ सिद्धः सिद्धः असौ इड्विधौ ।१२७ - २०८ - इदम् तर्हि प्रयोजनम् ।१२८ - २०८ - ओलस्जी लग्नः ।१२९ - २०८ - निष्ठादेशः सिद्धः वक्तव्यः नेड्वशिकृति इति इट्प्रतिषेधः यथा स्यात् ।१३० - २०८ - ईदित्करणम् न कर्तव्यम् भवति ।१३१ - २०८ - एतत् अपि न अस्ति प्रयोजनम् ।१३२ - २०८ - क्रियते एतत् न्यासे एव ।१३३ - २०८ - वस्वादिषु दत्वम् सौ दीर्घत्वे । वस्वादिषु दत्वम् सौ दीर्घत्वे सिद्धम् वक्तव्यम् ।१३४ - २०८ - उखास्रत् ।१३५ - २०८ - पर्णध्वत् ।१३६ - २०८ - दत्वस्य असिद्धत्वात् अत्वसन्तस्य इति दीर्घत्वम् प्राप्नोति ।१३७ - २०८ - अधातोः इति न वक्तव्यम् भवति ।१३८ - २०८ - न एतत् अस्ति प्रयोजनम् ।१३९ - २०८ - क्रियते न्यासे एव ।१४० - २०८ - अदसः ईत्त्वोत्वे स्वरे बहिष्पदलक्षणे । अदसः ईत्त्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये ।१४१ - २०८ - अमी अत्र ।१४२ - २०८ - अमी आसते ।१४३ - २०८ - अमू अत्र ।१४४ - २०८ - अमू आसाते ।१४५ - २०८ - ईत्त्वोत्वयोः असिद्धत्वात् एचः इति अयावेकादेशाः प्राप्नुवन्ति ।१४६ - २०८ - किम् उच्यते बहिष्पदलक्षणे इति ।१४७ - २०८ - यः हि अन्यः असिद्धः एव असौ भवति ।१४८ - २०८ - अमुया अमुयोः इति ।१४९ - २०८ - प्रगृह्यसञ्ज्ञायाम् च । प्रगृह्यसञ्ज्ञायाम् च सिद्धे वक्तव्ये ।१५० - २०८ - अमी अत्र ।१५१ - २०८ - अमी आसते ।१५२ - २०८ - अमू अत्र ।१५३ - २०८ - अमू आसाते ।१५४ - २०८ - ईत्त्वोत्वयोः असिद्धत्वात् अदसोमात् इति प्रगृह्यसञ्ज्ञा न प्राप्नोति ।१५५ - २०८ - किम् अर्थम् इदम् उभयम् उच्यते न प्रगृह्यसञ्ज्ञायाम् इति एव स्वरे अपि बहिष्पदलक्षणे चोदितम् स्यात् ।१५६ - २०८ - पुरस्तात् इदम् आचार्येण दृष्टम् स्वरे बहिष्पदलक्षणे इति तत् पठितम् ।१५७ - २०८ - ततः उत्तरकालम् इदम् दृष्टम् प्रगृह्यसञ्ज्ञायाम् च इति तद् अपि पठितम् ।१५८ - २०८ - न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति ।१५९ - २०८ - प्लुतिः तुग्विधौ छे । प्लुतिः तुग्विधौ छे सिद्धा वकव्या ।१६० - २०८ - अग्न३इ च्छत्त्रम् ।१६१ - २०८ - पट३उ च्छत्त्रम् ।१६२ - २०८ - प्लुतेः असिद्धत्वात् छेच इति तुक् न प्राप्नोति ।१६३ - २०८ - किम् उच्यते छे इति ।१६४ - २०८ - यः हि अन्यः असिद्धः एव असौ भवति ।१६५ - २०८ - अग्निचि३त् सोमसु३त् ।श्चुत्वम् धुट्त्वे । श्चुत्वम् धुट्त्वे सिद्धम् वक्तव्यम् ।१६६ - २०८ - अट् श्च्योतति ।१६७ - २०८ - पट् स्च्योतति ।१६८ - २०८ - श्चुत्वस्य असिद्धत्वात् डःसिधुट् इति धुट् प्रसज्येत ।१६९ - २०८ - अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः । अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः सिद्धम् वक्तव्यम् ।१७० - २०८ - बभणतुः बभणुः ।१७१ - २०८ - अभ्यासादेशस्य असिद्धत्वात् एत्त्वम् प्राप्नोति ।१७२ - २०८ - उचिच्छिषति ।१७३ - २०८ - अभ्यासादेशस्य असिद्धत्वात् छेच इति तुक् प्राप्नोति ।१७४ - २०८ - द्विर्वचने परसवर्णत्वम् । द्विर्वचने परसवर्णत्वम् सिद्धम् वक्तव्यम् ।१७५ - २०८ - सय्म्̐यन्ता सव्म्̐वत्सरः तल्म्̐ लोकम् यल्म्̐ लोकम् इति परसवर्णस्य असिद्धत्वात् यरः इति द्विर्वचनम् न प्राप्नोति ।१७६ - २०८ - पदाधिकारः चेत् लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि । पदाधिकारः चेत् लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि ।१७७ - २०८ - लत्व गरः गरः ।१७८ - २०८ - गलः गलः ।१७९ - २०८ - लत्व. घत्व ।१८० - २०८ - द्रोग्धा द्रोग्धा ।१८१ - २०८ - द्रोढा द्रोढा ।१८२ - २०८ - घत्व ।१८३ - २०८ - नत्व. नुन्नः नुन्नः ।१८४ - २०८ - नुत्तः नुत्तः ।१८५ - २०८ - नत्व ।१८६ - २०८ - रुत्व ।१८७ - २०८ - अभिनः अभिनः ।१८८ - २०८ - अभिनत् अभिनत् ।१८९ - २०८ - रुत्व षत्व ।१९० - २०८ - मातुःष्वसा मातुःष्वसा ।१९१ - २०८ - मातुःस्वसा मातुःस्वसा पितुःष्वसा पितुःष्वसा ।१९२ - २०८ - पितुःस्वसा पितुःस्वसा ।१९३ - २०८ - षत्व ।१९४ - २०८ - णत्व ।१९५ - २०८ - माषवापाणि माषवापाणि ।१९६ - २०८ - माषवापानि माषवापानि ।१९७ - २०८ - णत्व ।१९८ - २०८ - अनुनासिक ।१९९ - २०८ - नाङ्नयनम् नाङ्नयनम् ।२०० - २०८ - वाग्नयनम् वाग्नयनम् ।२०१ - २०८ - अनुनासिक ।२०२ - २०८ - छत्व ।२०३ - २०८ - वाक्छयनम् वाक्छयनम् ।२०४ - २०८ - वाक्शयनम् वाक्शयनम् ।२०५ - २०८ - उभयथा च अयम् दोषः यदि अपि स्थाने द्विर्वचनम् अथ अपि द्विःप्रयोगः ।२०६ - २०८ - कथम् ।२०७ - २०८ - यदि तावत् स्थाने द्विर्वचनम् सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य लत्वाद्यभावः ।२०८ - २०८ - अथ द्विःप्रयोगः असिद्धत्वात् लत्वादीनि निवर्तेरन्१ - १० - अन्तग्रहणम् किमर्थम् ।२ - १० - नलोपे अन्तग्रहणम् पदाधिकारस्य विशेषणत्वात् ।३ - १० - नलोपे अन्तग्रहणम् क्रियते ।४ - १० - किम् कारणम् ।५ - १० - पदाधिकारस्य विशेषणत्वात् ।६ - १० - पदाधिकारः विशेषणम् ।७ - १० - कथम् ।८ - १० - पदस्य इति न एषा स्थानषष्ठी ।९ - १० - का तर्हि ।१० - १० - विशेषणषष्ठी१ - २० - अह्नः नलोपप्रतिषेधः ।२ - २० - अह्नः नलोपप्रतिषेधः वक्तव्यः ।३ - २० - अहोभ्याम् अहोभिः इति ।४ - २० - सः तर्हि प्रतिषेधः वक्तव्यः ।५ - २० - न वक्तव्यः ।६ - २० - रुः अत्र बाधकः भविष्यति ।७ - २० - असिद्धः रुः तस्य असिद्धत्वात् नलोपः प्राप्नोति ।८ - २० - अनवकाशः रुः नलोपम् बाधिष्यते ।९ - २० - सावकाशः रुः ।१० - २० - कः अवकाशः ।११ - २० - अनन्त्यः अकारः ।१२ - २० - आचार्यप्रवृत्तिः ज्ञापयति न अनन्त्यस्य रुः भवति इति यत् अयम् अहन्ग्रहणम् करोति ।१३ - २० - अहन्ग्रहणात् इति चेत् सम्बुद्ध्यर्थम् वचनम् । अहन्ग्रहणात् इति चेत् सम्बुद्ध्यर्थम् एतत् स्यात् ।१४ - २० - हे अहः इति ।१५ - २० - यत् तर्हि रुत्वम् शास्ति ।१६ - २० - एतत् अपि सम्बुद्ध्यर्थम् एव स्यात् ।१७ - २० - हे दीर्घाहः अत्र ।१८ - २० - यत् तर्हि रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् करोति तत् ज्ञापयति आचार्यः न अनन्त्यस्य रुः भवति इति ।१९ - २० - कथम् कृत्वा ज्ञापकम् ।२० - २० - न हि अस्ति विशेषः रूपरात्रिरथन्तरेषु अनन्त्यस्य रौ वा रे वा१ - ३६ - न ङिसम्बुद्ध्योः अनुत्तरपदे ।२ - ३६ - न ङिसम्बुद्ध्योः अनुत्तरपदे इति वक्तव्यम् ।३ - ३६ - इह मा भूत् ।४ - ३६ - चर्मणि तिला अस्य चर्मतिलः इति ।५ - ३६ - राजन् वृन्दारक राजवृन्दारक इति ।६ - ३६ - वा नपुंसकानाम् । वा नपुंसकानाम् इति वक्तव्यम् ।७ - ३६ - हे चर्म हे चर्मन् ।८ - ३६ - हे वर्म हे वर्मन् ।९ - ३६ - तत् तर्हि अनुत्तरपदे इति वक्तव्यम् ।१० - ३६ - न वक्तव्यम् ।११ - ३६ - न ङिसम्बुद्ध्योः इति उच्यते न च अत्र ङिसम्बुद्धी पश्यामः ।१२ - ३६ - प्रत्ययलक्षणेन ।१३ - ३६ - न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।१४ - ३६ - न क्वचित् ङिः लोपेन लुप्यते सर्वत्र लुमता एव ।१५ - ३६ - यथा एव इह भवति आर्द्रे चर्मन् लोहिते चर्मन् इति एवम् इह अपि स्यात् चर्मणि तिला अस्य चर्मतिलः इति ।१६ - ३६ - तस्मात् उपसङ्ख्यानम् कर्तव्यम् ।१७ - ३६ - एवम् तर्हि ङ्यर्थेन तावत् न अर्थः ।१८ - ३६ - भत्वात् तु ङौ प्रतिषेधानर्थक्यम् । ङौ प्रतिषेधः अनर्थकः ।१९ - ३६ - किम् कारणम् ।२० - ३६ - भत्वात् ।२१ - ३६ - भसञ्ज्ञा अत्र भविष्यति ।२२ - ३६ - यदि तर्हि भसञ्ज्ञा अत्र भवति रथन्तरे सामन् इति अत्र अल्लोपः अनः इति अल्लोपः प्राप्नोति ।२३ - ३६ - न एषः दोषः ।२४ - ३६ - उक्तम् उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते तद् यथा सः सुष्टुभा सः ऋक्वता गणेन पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति ।२५ - ३६ - एवम् इह अपि पदत्वात् अल्लोपः न भत्वात् नलोपः न भविष्यति ।२६ - ३६ - तस्मात् न अर्थः ङिग्रहणेन ।२७ - ३६ - सम्बुद्ध्यर्थेन च अपि न अर्थः ।२८ - ३६ - कथम् ।२९ - ३६ - सम्बुद्ध्यन्तानाम् असमासः ।३० - ३६ - राजवृन्दारक इति ।३१ - ३६ - किम् वक्तव्यम् एतत् ।३२ - ३६ - न हि ।३३ - ३६ - कथम् अनुच्यमानम् गंस्यते ।३४ - ३६ - इह समानार्थेन वाक्येन भवितव्यम् समासेन च यः च इह अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन गम्यते ।३५ - ३६ - अवयवसम्बोधनम् वाक्येन गम्यते समुदायसम्बोधनम् समासेन ।३६ - ३६ - वा नपुंसकानाम् इति एतत् वक्तव्यम् एव१ - १० - अनन्त्ययोः अपि निष्ठामतुपोः आदेशः ।२ - १० - निष्ठामतुपोः आदेशः अनन्त्ययोः अपि इति वक्तव्यम् ।३ - १० - भिन्नवन्तौ भिन्नवन्तः ।४ - १० - वृक्षवन्तौ वृक्षवन्तः ।५ - १० - न वक्तव्यम् ।६ - १० - वचनात् भविष्यति ।७ - १० - अस्ति वचने प्रयोजनम् ।८ - १० - किम् ।९ - १० - भिन्नवान् छिन्नवान् ।१० - १० - वृक्षवान् प्लक्षवान्१ - ६ - नार्मते प्रतिषेधः ।२ - ६ - नार्मते प्रतिषेधः वक्तव्यः ।३ - ६ - नृमतः नार्मतः इति ।४ - ६ - उक्तम् वा । किम् उक्तम् ।५ - ६ - निष्ठामतुपोः तावत् उक्तम् न वा पदाधिकारस्य विशेषणत्वात् इति ।६ - ६ - नार्मते अपि उक्तम् न वा बहिरङ्गलक्षणत्वात् इति१ - ११ - किम् अयम् एकयोगः आहोस्वित् नानायोगौ ।२ - ११ - किम् च अतः ।३ - ११ - यदि एकयोगः हीवती कपीवती अत्र न प्राप्नोति ।४ - ११ - अथ नानायोगौ इक्षुमती द्रुमती अत्र अपि प्राप्नोति ।५ - ११ - यथा इच्छसि तथा अस्तु ।६ - ११ - अस्तु तावत् एकयोगः ।७ - ११ - कथम् अहीवती कपीवती ।८ - ११ - आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् वत्वम् इति यत् अयम् अन्तोऽवत्याः ईवत्याः इति आह ।९ - ११ - अथ वा पुनः अस्तु नानायोगौ ।१० - ११ - ननु च उक्तम् इक्षुमती द्रुमती अत्र अपि प्राप्नोति इति ।११ - ११ - यवादिषु पाथः करिष्यते१ - २८ - छन्दसि इरः इति उच्यते तत्र ते विश्वकर्माणम् ते सप्तर्षिमन्तम् इति अत्र अपि प्राप्नोति ।२ - २८ - न एषः दोषः ।३ - २८ - न एवम् विज्ञायते छन्दसि इरः इति ।४ - २८ - कथम् तर्हि ।५ - २८ - छन्दसि ईरः इति ।६ - २८ - एवम् अपि त्विषीमान् पतीमान् इति अत्र अपि प्राप्नोति ।७ - २८ - न एषः दोषः ।८ - २८ - विहितविशेषणम् ईकारग्रहङम् ।९ - २८ - ईकारान्तात् यः विहितः इति ।१० - २८ - एवम् अपि सूरम् ते द्यावापृथिवीमन्तम् इति अत्र अपि प्राप्नोति ।११ - २८ - इह च न प्राप्नोति त्रिवतीः याज्यानुवाक्याः भवन्ति इति ।१२ - २८ - एवम् तर्हि परिगणनम् कर्तव्यम् ।१३ - २८ - त्रिहर्यधिपत्यग्निरे ।१४ - २८ - त्रिवतीः याज्यानुवाक्याः भवन्ति ।१५ - २८ - त्रि ।१६ - २८ - हरि ।१७ - २८ - हरिवः मेदिनम् त्वा ।१८ - २८ - हरि ।१९ - २८ - अधिपति ।२० - २८ - अधिपतिवतीः जुहोति ।२१ - २८ - अधिपति ।२२ - २८ - अग्नि ।२३ - २८ - चरुः अग्निवान् इव ।२४ - २८ - अग्नि ।२५ - २८ - रे ।२६ - २८ - आ रेवन् एतु नो विश इति ।२७ - २८ - यदि तर्हि परिगणनम् क्रियते सरस्वतीवान् भारतीवान् अपूपवान् दधिवान् चरुः इति अत्र न प्राप्नोति ।२८ - २८ - एवम् तर्हि छन्दसि इरः बहुलम् इति वक्तव्यम्१ - ४६ - यदि पुनः अयम् नुट् पूर्वान्तः क्रियेत ।२ - ४६ - अनः नुकि विनामरुविधिप्रतिषेधः ।३ - ४६ - अनः नुकि सति विनामः विधेयः ।४ - ४६ - अक्षण्वान् ।५ - ४६ - पदान्तस्य न इति प्रतिषेधः प्राप्नोति ।६ - ४६ - रुः च प्रतिषेध्यः ।७ - ४६ - सुपथिन्तरः ।८ - ४६ - नश्छव्यप्रशान् इति रुः प्राप्नोति ।९ - ४६ - अस्तु तर्हि परादिः ।१० - ४६ - परादौ वत्वप्रतिषेधः अवग्रहः च । यदि परादिः वत्वस्य प्रतिषेधः वक्तव्यः ।११ - ४६ - अक्षण्वान् ।१२ - ४६ - मादुपधायाश्चमतोर्वोऽयवादिभ्यः इति वत्वम् प्राप्नोति ।१३ - ४६ - अवग्रहः च अनिष्टे देशे प्राप्नोति ।१४ - ४६ - अक्षण्वान् ।१५ - ४६ - अस्तु तर्हि पूर्वान्तः ।१६ - ४६ - ननु च उक्तम् अनः नुकि विनामरुविधिप्रतिषेधः इति ।१७ - ४६ - भत्वात् सिद्धम् । भसञ्ज्ञा वक्तव्या ।१८ - ४६ - यदि तर्हि भसञ्ज्ञा अल्लोपोऽनः इति अल्लोपः प्राप्नोति ।१९ - ४६ - अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि । अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् ।२० - ४६ - इह तर्हि सुपथिन्तरः नान्तस्य टिः तद्धिते लुप्यते इति लोपः प्राप्नोति ।२१ - ४६ - घग्रहणम् च । घग्रहणम् च कर्तव्यम् ।२२ - ४६ - तत् तर्हि इदम् बहु वक्तव्यम् ।२३ - ४६ - नुक् वक्तव्यः ।२४ - ४६ - भसञ्ज्ञा च वक्तव्या ।२५ - ४६ - अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् ।२६ - ४६ - घग्रहणम् च कर्तव्यम् इति ।२७ - ४६ - न कर्तव्यम् ।२८ - ४६ - यत् तावत् उच्यते नुक् वक्तव्यः इति नुकः एषः परिहारः भत्वात् सिद्धम् इति ।२९ - ४६ - भसञ्ज्ञा वक्तव्या इति क्रियते न्यासे एव अयस्मयादीनि छन्दसि इति ।३० - ४६ - यत् अपि उच्यते अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि घग्रहणम् च कर्तव्यम् इति न कर्तव्यम् ।३१ - ४६ - उभयसञ्ज्ञानि अपि हि छन्दांसि दृश्यन्ते ।३२ - ४६ - तत् यथा ।३३ - ४६ - सः सुष्टुभा स ऋक्वता गणेन ।३४ - ४६ - पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति ।३५ - ४६ - एवम् इह अपि पदत्वात् अल्लोपटिलोपौ न भत्वात् विनामरुविधिप्रतिषेधौ भविष्यतः ।३६ - ४६ - सिध्यति ।३७ - ४६ - सूत्रम् तर्हि भिद्यते ।३८ - ४६ - यथान्यासम् एव अस्तु ।३९ - ४६ - ननु च उक्तम् परादौ वत्वप्रतिषेधः अवग्रहः च इति ।४० - ४६ - यत् तावत् उच्यते वत्वप्रतिषेधः इति निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।४१ - ४६ - यः तर्हि निर्दिश्यते तस्य न प्राप्नोति ।४२ - ४६ - किम् कारणम् ।४३ - ४६ - नुटा व्यवहितत्वात् ।४४ - ४६ - असिद्धः नुट् तस्य असिद्धत्वात् भविष्यति ।४५ - ४६ - अवग्रहे अपि न लक्षणेन पदकाराः अनुवर्त्याः पदकारैः नाम लक्षणम् अनुवर्त्यम् ।४६ - ४६ - यथालक्षणम् पदम् कर्तव्यम्१ - ५ - ईत् रथिनः ।२ - ५ - रथिनः ईत् वक्तव्यः ।३ - ५ - रथीतरः ।४ - ५ - भूरिदाव्नः तुट् । भुरिदाव्नः तुट् वक्तव्यः ।५ - ५ - भूरिदावत्तरः जनः१ - १५ - कृपणादीनाम् प्रतिषेधः वक्तव्यः ।२ - १५ - कृपणः कृपाणः कृपीटम् ।३ - १५ - वालमूललघ्वलमड्गुलीनाम् वा लः रम् आपद्यते इति वक्तव्यम् ।४ - १५ - अश्ववालः अश्ववारः ।५ - १५ - मूलदेवः मूरदेवः ।६ - १५ - वरुणस्य लघुस्यदः वरुणस्य रघुस्यदः ।७ - १५ - अलम् भक्ताय अरम् भक्ताय ।८ - १५ - सुबाहुः स्वङ्गुलिः सुबाहुः स्वङ्गुरिः ।९ - १५ - सञ्ज्ञाछन्दसोः वा कपिलकादीनाम् इति वक्तव्यम् ।१० - १५ - कपिरकः कपिलकः ।११ - १५ - तिल्विरीकः तिल्विलीकः ।१२ - १५ - रोमाणि लोमानि ।१३ - १५ - पांसुरम् पांसुलम् ।१४ - १५ - कर्म कल्म ।१५ - १५ - शुक्रः शुक्लः१ - २८ - किम् इदम् अयतिग्रहणम् रेफविशेषणम् अयतिपरस्य रेफस्य लः भवति सः चेत् उपसर्गस्य भवति इति ।२ - २८ - आहोस्वित् उपसर्गविशेषणम् अयतिपरस्य उपसर्गस्य यः रेफः तस्य लः भवति इति ।३ - २८ - कः च अत्र विशेषः ।४ - २८ - रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् ।५ - २८ - रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् कर्तव्यम् ।६ - २८ - पल्ययते ।७ - २८ - वचनात् भविष्यति ।८ - २८ - अस्ति वचने प्रयोजनम् ।९ - २८ - किम् ।१० - २८ - प्लायते पलायते ।११ - २८ - अस्तु तर्हि उपसर्गविशेषणम् ।१२ - २८ - उपसर्गस्य इति चेत् एकादेशे अप्रसिद्धिः । उपसर्गस्य इति चेत् एकादेशे अप्रसिद्धिः भवति ।१३ - २८ - प्लायते पलायते ।१४ - २८ - एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति ।१५ - २८ - अन्तादिवत् भावेन व्यपवर्गः ।१६ - २८ - उभयतः आश्रये न अन्तादिवत् ।१७ - २८ - एवम् तर्हि एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः ।१८ - २८ - प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति ।१९ - २८ - दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति ।२० - २८ - अथ वा पुनः अस्तु रेफविशेषणम् ।२१ - २८ - ननु च उक्तम् रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् इति ।२२ - २८ - वचनात् भविष्यति ।२३ - २८ - ननु च उक्तम् अस्ति वचने प्रयोजनम् किम् प्लायते पलायते इति ।२४ - २८ - अत्र अपि अकारेण व्यवहितत्वात् न प्राप्नोति ।२५ - २८ - एकादेशे कृते न अस्ति व्यवधानम् ।२६ - २८ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।२७ - २८ - प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति ।२८ - २८ - दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति१ - १३ - णौ उपसङ्ख्यानम् कर्तव्यम् ।२ - १३ - इह अपि यथा स्यात् ।३ - १३ - निगार्यते निगाल्यते ।४ - १३ - किम् पुनः कारणम् न सिध्यति ।५ - १३ - अचि इति उच्यते न च अत्र अजादिम् पश्यामः ।६ - १३ - प्रत्ययलक्षणेन ।७ - १३ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।८ - १३ - एवम् तर्हि स्थानिवद्भावात् भविष्यति ।९ - १३ - प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति ।१० - १३ - अतः उत्तरम् पठति ।११ - १३ - गिरतेः लत्वे णौ उक्तम् ।१२ - १३ - किम् उक्तम् ।१३ - १३ - तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति१ - ३ - योगे च इति वक्तव्यम् ।२ - ३ - इह अपि यथा स्यात् ।३ - ३ - परियोगः पलियोगः१ - २७ - सङि लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि ।२ - २७ - सङि इति प्रकृत्य लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि वक्तव्यानि ।३ - २७ - किम् प्रयोजनम् ।४ - २७ - प्रयोजनम् गिरौ गिरः पयः धावति द्विष्टराम् दृषत्स्थानम् काष्ठशक्स्थाता क्रुञ्चा धुर्यः इति । गिऋऔ गिरः इति अत्र अचिविभाषा इति लत्वम् प्राप्नोति ।५ - २७ - सङि इति वचनात् न भवति ।६ - २७ - न एतत् अस्ति प्रयोजनम् ।७ - २७ - उक्तम् एतत् धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् इति ।८ - २७ - पयः धावति इति अत्र धिच इति सलोपः प्राप्नोति सङि इति वचनात् न भवति ।९ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।१० - २७ - वक्ष्यति एतत् धिसकारे सिचः लोपः इति ।११ - २७ - द्विष्टराम् इति अत्र ह्रस्वात् अङ्गात् इति सलोपः प्राप्नोति सङि इति वचनात् न भवति ।१२ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।१३ - २७ - अत्र अपि सिचः इति एव अनुवर्तिष्यते ।१४ - २७ - दृषत्स्थानम् इति अत्र झलोझलि इति सलोपः प्राप्नोति सङि इति वचनात् न भवति ।१५ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।१६ - २७ - अत्र अपि सिचः इति एव अनुवर्तिष्यते ।१७ - २७ - काष्ठशक्स्थाता इति अत्र स्कोःसंयोगाद्योरन्तेच इति ककारलोपः प्राप्नोति सङि इति वचनात् न भवति ।१८ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।१९ - २७ - काष्ठशक् एव न अस्ति कुतः यः काष्ठशकि तिष्ठेत् ।२० - २७ - क्रुञ्चा इति अत्र चोःकुः झलि इति कुत्वम् प्राप्नोति सङि इति वचनात् न भवति ।२१ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।२२ - २७ - निपातनात् एतत् सिद्धम् ।२३ - २७ - किम् निपातनम् ।२४ - २७ - ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाम् इति ।२५ - २७ - धुर्यः इति अत्र हलिच इति दीर्घत्वम् प्राप्नोति सङि इति वचनात् न भवति ।२६ - २७ - एतत् अपि न अस्ति प्रयोजनम् ।२७ - २७ - नभकुर्छुराम् इति प्रतिषेधः भविष्यति ।१ - १० - संयोगान्तस्य लोपे यणः प्रतिषेधः । संयोगान्तस्य लोपे यणः प्रतिषेधः वक्तव्यः ।२ - १० - दधि अत्र मधु अत्र इति ।३ - १० - संयोगादिलोपे च यणः प्रतिषेधः वक्तव्यः ।४ - १० - काकी अर्थम् वासी अर्थम् ।५ - १० - न वा झलः लोपात् ।६ - १० - न वा वक्तव्यः ।७ - १० - किम् कारणम् ।८ - १० - झलः लोपात् ।९ - १० - झलः लोपः संयोगान्तलोपः वक्तव्यः ।१० - १० - बहिरङ्गलक्षणत्वात् वा । अथ वा बहिरङ्गः यणादेशः अन्तरङ्गः लोपः असिद्धम् बहिरङ्गम् अन्तरङ्गे१ - ३४ - संयोगान्तलोपे सग्रहणम् ।२ - ३४ - संयोगान्तलोपे सग्रहणम् कर्तव्यम् ।३ - ३४ - संयोगान्तलोपः सस्य च इति वक्तव्यम् ।४ - ३४ - इह अपि यथा स्यात् ।५ - ३४ - श्रेयान् भूयान् ज्यायान् ।६ - ३४ - किम् पुनः कारणम् न सिध्यति ।७ - ३४ - परत्वात् रुः प्राप्नोति ।८ - ३४ - असिद्धः रुः तस्य असिद्धत्वात् लोपः भविष्यति ।९ - ३४ - न सिध्यति ।१० - ३४ - किम् कारणम् ।११ - ३४ - रुविधानस्य अनवकाशत्वात् । अनवकासः रुः लोपम् बाधेत ।१२ - ३४ - सावकाशः रुः ।१३ - ३४ - कः अवकाशः ।१४ - ३४ - पयः शिरः ।१५ - ३४ - ननु च अत्र अपि जश्त्वम् प्राप्नोति ।१६ - ३४ - सः यथा एव रुः जश्त्वम् बाधते एवम् लोपम् अपि बाधेत ।१७ - ३४ - न बाधते ।१८ - ३४ - किम् कारणम् ।१९ - ३४ - येन नाप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते जश्त्वे रुः आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च ।२० - ३४ - योगविभागात् सिद्धम् । अथ वा योगविभागः करिष्यते ।२१ - ३४ - एवम् वक्ष्यामि ।२२ - ३४ - संयोगान्तस्य लोपः अरात् ।२३ - ३४ - संयोगान्तस्य लोपः भवति अरात् ।२४ - ३४ - ततः सस्य ।२५ - ३४ - सस्य च लोपः भवति संयोगान्तस्य ।२६ - ३४ - किम् अर्थम् पुनः इदम् उच्यते ।२७ - ३४ - प्रतिषिद्धार्थम् रुबाधनार्थम् च ।२८ - ३४ - अथ वा यत् एतत् रात् सस्य इति सग्रहणम् तत् पुरस्तात् अपक्रक्ष्यते ।२९ - ३४ - संयोगान्तस्य लोपः ।३० - ३४ - ततः सस्य ।३१ - ३४ - सस्य च संयोगान्तस्य लोपः भवति ।३२ - ३४ - ततः रात् ।३३ - ३४ - रात् सस्य एव संयोगान्तस्य लोपः भवति ।३४ - ३४ - अथ वा रात् सस्य इति अत्र संयोगान्तस्य लोपः इति एतत् अनुवर्तिष्यते१ - ६२ - धि सकारे सिचः लोपः ।२ - ६२ - धि सकारे सिचः लोपः वक्तव्यः ।३ - ६२ - किम् प्रयोजनम् ।४ - ६२ - चकाद्धि इति प्रयोजनम् । इह मा भूत् ।५ - ६२ - चकाद्धि पलितम् शिरः ।६ - ६२ - यदि तर्हि सिचः लोपः इति उच्यते ।७ - ६२ - आशाध्वम् तु कथम् ते स्यात् । आशाध्वम् इति अत्र न प्राप्नोति ।८ - ६२ - जश्त्वम् सस्य भविष्यति । जश्त्वम् अत्र सकारस्य भविष्यति ।९ - ६२ - सर्वत्र एवम् प्रसिद्धम् स्यात् । सर्वत्र एवम् जश्त्वेन सिद्धम् स्यात् ।१० - ६२ - इह अपि आयन्ध्वम् अरन्ध्वम् इति जश्त्वेन एव सिद्धम् ।११ - ६२ - श्रुतिः च अपि न भिद्यते । श्रुतिकृतः च अपि न कः चित् भेदः भवति ।१२ - ६२ - लुङः च अपि न मूर्धन्ये ग्रहणम् । तत्र अयम् अपि अर्थः इणःषीध्वंलुङ्लिटान्धोऽङ्गात् इति अत्र लुङ्ग्रहणम् न कर्तव्यम् ।१३ - ६२ - इह अपि अच्योड्ढ्वम् अप्लोड्ढ्वम् इति षत्वे सिचः धस्य ष्टुत्वे च कृते जश्त्वेन सिद्धम् ।१४ - ६२ - सेटि दुष्यति । सेटि दोषः भवति ।१५ - ६२ - इदम् एव रूपम् स्यात् अलविड्ढ्वम् इदम् न स्यात् अलविध्वम् इति ।१६ - ६२ - तस्मात् सिचः ग्रहणम् कर्तव्यम् ।१७ - ६२ - यदि तर्हि सिचः ग्रहणम् क्रियते ।१८ - ६२ - घसिभस्योः न सिध्येत् तु । घसिभस्योः न सिध्यति ।१९ - ६२ - सग्धिः च मे सपीतिः च मे, बब्धाम् ते हरी धानाः इति अत्र न प्राप्नोति ।२० - ६२ - तस्मात् सिज्ग्रहणम् न तत् । तस्मात् धिच इति अत्र सिचः ग्रहणम् न कर्तव्यम् ।२१ - ६२ - कथम् चकाद्धि पलितम् शिरः इति ।२२ - ६२ - एवम् तर्हि सिज्ग्रहणम् कर्तव्यम् ।२३ - ६२ - कथम् सग्धिः च मे सपीतिः च मे , बब्धम् ते हरी धानाः इति ।२४ - ६२ - इह तावत् सग्धिः इति न एतत् घसेः रूपम् ।२५ - ६२ - किम् तर्हि सघेः एतत् रूपम् ।२६ - ६२ - बब्धाम् ते हरी धानाः इति न एतत् भसेः रूपम् ।२७ - ६२ - किम् तर्हि बन्धेः एतत् रूपम् ।२८ - ६२ - छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे । अथ वा छान्दसः वर्णलोपः भविष्यति यथा इष्कर्तारमध्वरे ।२९ - ६२ - तत् यथा ।३० - ६२ - तुभ्येदम् अग्ने ।३१ - ६२ - तुभ्यम् इदम् अग्ने इति प्राप्ते ।३२ - ६२ - आम्बानाम् चरुः ।३३ - ६२ - नाम्बानाम् चरुः इति प्राप्ते ।३४ - ६२ - आव्याधिनीः उगणाः ।३५ - ६२ - आव्याधिनीः सुगणाः इति प्राप्ते ।३६ - ६२ - इष्कर्तारम् अध्वरस्य ।३७ - ६२ - निष्कर्तारम् इति प्राप्ते ।३८ - ६२ - शिवा उद्रस्य भेषजी ।३९ - ६२ - शिवा रुद्रस्य भेषजीति प्राप्ते ।४० - ६२ - तस्मात् सिज्ग्रहणम् कर्तव्यम् ।४१ - ६२ - न कर्तव्यम् ।४२ - ६२ - यत् एतत् रात्सस्य इति सकारग्रहणम् तत् सिचः ग्रहणम् विज्ञास्यते ।४३ - ६२ - कथम् ।४४ - ६२ - रात्सस्य इति उच्यते न च अन्यः रेफात् परः सकारः अस्ति अन्यत् अतः सिचः ।४५ - ६२ - ननु च अयम् अस्ति मातुः पितुः इति ।४६ - ६२ - तस्मात् सिचः ग्रहणम् कर्तव्यम् ।४७ - ६२ - न कर्तव्यम् ।४८ - ६२ - कस्मात् न भवति चकाद्धि पलितम् शिरः इति ।४९ - ६२ - इष्टम् एव एतत् सङ्गृहीतम् ।५० - ६२ - चकाधि इति एव भवितव्यम् ।५१ - ६२ - धि सकारे सिचः लोपः ।५२ - ६२ - चकाद्धि इति प्रयोजनम् ।५३ - ६२ - आशाध्वम् तु कथम् ते स्यात् ।५४ - ६२ - जश्त्वम् सस्य भविष्यति ।५५ - ६२ - सर्वत्र एवम् प्रसिद्धम् स्यात् ।५६ - ६२ - श्रुतिः च अपि न भिद्यते ।५७ - ६२ - लुङः च अपि न मूर्धन्ये ग्रहणम् ।५८ - ६२ - सेटि दुष्यति ।५९ - ६२ - घसिभस्योः न सिध्येत् तु ।६० - ६२ - तस्मात् सिज्ग्रहणम् न तत् ।६१ - ६२ - छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे ।६२ - ६२ - दादेः धातोः घः ।"http: - - sa.wikibooks.org - wiki - %E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%B0% N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP