१ - ३३ - एकवत् च अलुक् भवति इति वक्तव्यम् ।
२ - ३३ - किम् प्रयोजनम् ।
३ - ३३ - स्तोकाभ्याम् मुक्तः , स्तोकेभ्यः मुक्तः इति विगृह्य स्तोकान्मुक्तः इति एव यथा स्यात् ।
४ - ३३ - एकवद्व्चनम् अनर्थकम् ।
५ - ३३ - एकवद्भावः च अनर्थकः ।
६ - ३३ - द्विबह्वोः अलुक् कस्मात् न भवति ।
७ - ३३ - द्विबहुषु असमासः ।
८ - ३३ - द्विवचनबहुवचनानाम् असमासः ।
९ - ३३ - किम् वक्तव्यम् एतत् ।
१० - ३३ - न हि अनुच्यमानं गंस्यते ।
११ - ३३ - उक्तम् वा ।
१२ - ३३ - किम् उक्तम् ।
१३ - ३३ - अनभिधानात् इति ।
१४ - ३३ - तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।
१५ - ३३ - एकवद्वचने हि गोषुचरे अतिप्रसङ्गः ।
१६ - ३३ - एकवद्वचने हि गोषुचरे अतिप्रसङ्गः स्यात् गोषुचरः ।
१७ - ३३ - वर्षाभ्यः च जे ।
१८ - ३३ - वर्षाभ्यः च जे अतिप्रसङ्गः भवति ।
१९ - ३३ - वर्षासुजः ।
२० - ३३ - अपः योनियन्मतिषु च ।
२१ - ३३ - अपः योनियन्मतिषु च उपसङ्ख्यानम् कर्तव्यम् ।
२२ - ३३ - जे चरे च ।
२३ - ३३ - जे चरे च अतिप्रसङ्गः भवति ।
२४ - ३३ - योनि ।
२५ - ३३ - अप्सुयोनिः ।
२६ - ३३ - यत् ।
२७ - ३३ - अप्सव्यम् ।
२८ - ३३ - मति ।
२९ - ३३ - अप्सुमतिः ।
३० - ३३ - जे ।
३१ - ३३ - अप्सुजः ।
३२ - ३३ - चरे ।
३३ - ३३ - अप्सुचरः गह्वरेष्ठाः ।
१ - ७ - पञ्चमीप्रकरणे ब्राह्मणाच्छंसिनः उपसङ्ख्यानम् ।
२ - ७ - पञ्चमीप्रकरणे ब्राह्मणाच्छंसिनः उपसङ्ख्यानम् कर्तव्यम् ।
३ - ७ - ब्राह्मणाच्छंसी । अन्यार्थे च ।
४ - ७ - अन्यार्थे च एषा पञ्चमी द्रष्टव्या ।
५ - ७ - ब्राह्मणानि शंसति इति ब्राह्मणाच्छंसी ।
६ - ७ - अथ वा युक्तः एव अत्र पञ्चम्यर्थः ।
७ - ७ - ब्राह्मणेभ्यः गृहीत्वा , आहृत्य आहृत्य शंसति इति ब्राह्मणाच्छंसी ।
१ - ६ - अञ्जसः उपसङ्ख्यानम् ।
२ - ६ - अञ्जसः उपसङ्ख्यानम् कर्तव्यम् ।
३ - ६ - अञ्जसाकृतम् ।
४ - ६ - पुंसानुजः जनुषान्धः विकृताक्षः इति च ।
५ - ६ - पुंसानुजः जनुषान्धः विकृताक्षः इति च उपसङ्ख्यानम् कर्तव्यम् ।
६ - ६ - पुंसानुजः , जनुषान्धः , विकृताक्षः ।
१ - ११ - आत्मनः च पूरणे ।
२ - ११ - आत्मनः च पूरणे उपसङ्ख्यानम् कर्तव्यम् ।
३ - ११ - आत्मनापञ्चमः , आत्मनादशमः ।
४ - ११ - अन्यार्थे च ।
५ - ११ - अन्यार्थे च एषा तृतीया द्रष्टव्या ।
६ - ११ - आत्मा पञ्चमः अस्य आत्मापञ्चमः ।
७ - ११ - अथ वा युक्तः एव अत्र तृतीयार्थः ।
८ - ११ - आत्मना कृतम् तत् तस्य येन असौ पञ्चमः ।
९ - ११ - कथम् जनार्दनः तु आत्मचतुर्थः एव इति ।
१० - ११ - बहुव्रीः अयम् ।
११ - ११ - आत्मा चतुर्थः अस्य इति ।
१ - १४ - आत्मनेभाषपरस्मैभाषयोः उपसङ्ख्यानम् ।
२ - १४ - आत्मनेभाषपरस्मैभाषयोः उपसङ्ख्यानम् कर्तव्यम् ।
३ - १४ - आत्मनेभाषः , परस्मैभाषः ।
४ - १४ - तत् कथम् कर्तव्यम् ।
५ - १४ - यदि व्याकरणे भवा वैयाकरणी , वैयाकरणी आख्या वैयाकरणाख्या वैयाकरणख्यायाम् इति ।
६ - १४ - अथ हि वैयाकरणानाम् आख्या वैयाकरणाख्या न अर्थः उपसङ्ख्यानेन ।
७ - १४ - यदि अपि व्याकरणे भवा वैयाकरणी , वैयाकरणी आख्या वैयाकरणाख्या एवम् अपि न अर्थः उपसङ्ख्यानेन ।
८ - १४ - वचनात् भविष्यति ।
९ - १४ - अस्ति वचने प्रयोजनम् ।
१० - १४ - किम् ।
११ - १४ - आत्मनेपदम् ।
१२ - १४ - निपातनात् एतत् सिद्धम् ।
१३ - १४ - किम् निपातनम् ।
१४ - १४ - अनुदात्तङितः आत्मनेपदम् , शेषात् कर्तरि परस्मैपदम् इति ।
१ - ३२ - हृद्द्युभ्याम् ङेः उपसङ्ख्यानम् ।
२ - ३२ - हृद्द्युभ्याम् ङेः उपसङ्ख्यानम् कर्तव्यम् ।
३ - ३२ - हृदिस्पृक् , दिविस्पृक् ।
४ - ३२ - अन्यार्थे च ।
५ - ३२ - अन्यार्थे च एषा सप्तमी द्रष्टव्या ।
६ - ३२ - हृदयम् स्पृशति इति हृदिस्पृक् ।
७ - ३२ - दिवम् श्प्र्शति इति दिविस्पृक् ।
८ - ३२ - हलदन्ताधिकारे गोः उपसङ्ख्यानम् ।
९ - ३२ - हलदन्ताधिकारे गोः उपसङ्ख्यानम् कर्तव्यम् ।
१० - ३२ - गविष्थिरः ।
११ - ३२ - न कर्तव्यम् ।
१२ - ३२ - लुकः अवादेशः विप्रतिषेधेन ।
१३ - ३२ - लुक् क्रियताम् अवादेशः इति अवादेशः भविष्यति विप्रतिषेधेन ।
१४ - ३२ - अवादेशे कृते हलन्तात् इति एव सिद्धम् ।
१५ - ३२ - लुकः अवादेशः विप्रतिषेधेन इति चेत् भूमिपाशे अतिप्रसङ्गः ।
१६ - ३२ - लुकः अवादेशः विप्रतिषेधेन इति चेत् भूमिपाशे अतिप्रसङ्गः भवति ।
१७ - ३२ - भूम्याम् पाशः , भूमिपाशः ।
१८ - ३२ - अकः अतः इति वा सन्ध्यक्षरार्थम् ।
१९ - ३२ - एवम् तर्हि अविशेषेण सप्तम्याः अलुकम् उक्त्वा अकः अतः इति वक्ष्यामि ।
२० - ३२ - तत् नियमार्थम् भविष्यति ।
२१ - ३२ - अकः अतः इति एव भवति न अन्यतः इति ।
२२ - ३२ - तेन सन्ध्यक्षराणाम् सिद्धम् भवति ।
२३ - ३२ - सिध्यति ।
२४ - ३२ - सूत्रम् तर्हि भिद्यते ।
२५ - ३२ - यथान्यासम् एव अस्तु ।
२६ - ३२ - ननु च उक्तम् हलदन्ताधिकारे गोः उपसङ्ख्यानम् इति ।
२७ - ३२ - न एषः दोषः ।
२८ - ३२ - निपातनात् एतत् सिद्धम् ।
२९ - ३२ - किम् निपातनम् ।
३० - ३२ - गविष्ठिरशब्दः विदादिषु पठ्यते ।
३१ - ३२ - असकृत् खलु अपि निपातनम् क्रियते ।
३२ - ३२ - गवियुधिभ्या स्थिरः इति ।
१ - ३१ - किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।
२ - ३१ - कथम् च प्राप्ते कथम् च अप्राप्ते ।
३ - ३१ - यदि सञ्ज्ञायाम् इति वर्तते ततः प्राप्ते ।
४ - ३१ - अथ निवृत्तम् ततः अप्राप्ते ।
५ - ३१ - कः च अत्र विशेषः ।
६ - ३१ - कारनाम्नि वावचनार्थम् चेत् अजादौ अतिप्रसङ्गः ।
७ - ३१ - कारनाम्नि वावचनार्थम् चेत् अजादौ अतिप्रसङ्गः भवति ।
८ - ३१ - इह अपि प्राप्नोति ।
९ - ३१ - अविकटे उरणः दातव्यः अविकटोरणः ।
१० - ३१ - अस्तु तर्हि अप्राप्ते ।
११ - ३१ - अप्राप्ते समासविधानम् ।
१२ - ३१ - यदि अप्राप्ते समासः विधेयः ।
१३ - ३१ - प्राप्ते पुनः सति सञ्ज्ञायाम् इति एव समासः सिद्धः ।
१४ - ३१ - न एषः दोषः ।
१५ - ३१ - एतत् एव ज्ञापयति भवति अत्र समासः इति यत् अयम् कारनाम्नि सप्तम्याः अलुकम् शास्ति ।
१६ - ३१ - यदि अपि तावत् ज्ञापकात् समासः स्यात् स्वरः तु न सिध्यति ।
१७ - ३१ - यत् हि तत् सप्तमीपूर्वपदम् प्रकृतिस्वरम् भवति इति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् तत् ।
१८ - ३१ - न एव अत्र अनेन स्वरेण भवितव्यम् ।
१९ - ३१ - किम् तर्हि सप्तमीहारिणौ धर्म्ये अहरणे इति अनेन अत्र स्वरेण भवितव्यम् ।किम् च भोः सञ्ज्ञाः अपि लोके क्रियन्ते न लोकः सञ्ज्ञासु प्रमाणम् ।
२० - ३१ - लोके च कारनाम सञ्ज्ञा ।
२१ - ३१ - ननु च उक्तम् कारनाम्नि वावचनार्थम् चेत् अजादौ अतिप्रसङ्गः इति ।
२२ - ३१ - न एषः दोषः ।
२३ - ३१ - योगविभागात् सिद्धम् ।
२४ - ३१ - योगविभागः करिष्यते ।
२५ - ३१ - कारनाम्नि च प्राचाम् , ततः हलादौ ।
२६ - ३१ - हलादौ च कारनाम्नि सप्तम्याः अलुक् भवति ।
२७ - ३१ - इदम् इदानीम् किमर्थम् ।
२८ - ३१ - नियमार्थम् ।
२९ - ३१ - हलादौ एव कारनाम्नि न अन्यत्र ।
३० - ३१ - क्व मा भूत् ।
३१ - ३१ - अविकटे उरणः दातव्यः अविकटोरणः ।
१ - ३ - गुरौ अन्तात् च ।
२ - ३ - गुरौ अन्तात् च इति वक्तव्यम् ।
३ - ३ - अन्तेगुरुः ।
१ - १४ - स्वाङ्गग्रहणम् अनुवर्तते उताहो न ।
२ - १४ - किम् च अतः ।
३ - १४ - यदि अनुवर्तते सिद्धम् हस्तेबन्धः , हस्तबन्धः ।
४ - १४ - चक्रेभन्दः , चक्रबन्धः इति न सिध्यति ।
५ - १४ - अथ निवृत्तम् सिद्धम् चक्रेभन्दः , चक्रबन्धः ।
६ - १४ - हस्तेबन्धः , हस्तबन्धः इति न सिध्यति ।
७ - १४ - किम् कारणम् ।
८ - १४ - न इन्सिद्धबध्नातिषु इति प्रतिषेधः प्राप्नोति ।
९ - १४ - न एषः दोषः ।
१० - १४ - सर्वत्र एव अत्र उत्तरपदाधिकरे तत्पुरुषेद् कृति बहुलम् इति प्राप्ते न इन्सिद्धबध्नातिषु इति प्रतिषेधः उच्यते ।
११ - १४ - तस्मिन् नित्ये प्राप्ते इयम् विभाषा आरभ्यते ।
१२ - १४ - एवम् अपि न ज्ञायते कस्मिन् विषये विभाषा कस्मिन् विषये प्रतिषेधः इति ।
१३ - १४ - घञन्तस्य इदम् बन्धशब्दस्य ग्रहणम् प्रतिषेधे पुनः धातुग्रहणम् ।
१४ - १४ - घञन्ते विभाषा अन्यत्र प्रतिषेधः ।
१ - २१ - तत्पुरुषे कृति बहुलम् अकर्मधारये ।
२ - २१ - तत्पुरुषे कृति बहुलम् इति अत्र अकर्मधारये इति वक्तव्यम् ।
३ - २१ - इह मा भूत् ।
४ - २१ - परमे कारके परमकारके इति ।
५ - २१ - तत् तर्हि वक्तव्यम् ।
६ - २१ - न वक्तव्यम् ।
७ - २१ - बहुलवचनात् न भविष्यति ।
८ - २१ - अथ किमर्थम् लुगलुगनुक्रमणम् क्रियते न तत्पुरुषे कृति बहुलम् इति एव सिद्धम् ।
९ - २१ - लुगलुगनुक्रमणम् बहुलवचनस्य अकृत्स्नत्वात् ।
१० - २१ - लुगलुगनुक्रमणम् क्रियते अकृत्स्नम् बहुलवचनम् इति ।
११ - २१ - यदि अकृत्स्नम् यत् अनेन कृतम् अकृतम् तत् ।
१२ - २१ - एवम् तर्हि न ब्रूमः अकृत्स्नम् इति ।
१३ - २१ - कृत्स्नम् च कारकम् च साधकम् च निर्वर्तकम् च ।
१४ - २१ - यत् च अनेन कृतम् सुक्तृतम् तत् ।
१५ - २१ - किमर्थम् तर्हि लुगलुगनुक्रमणम् क्रियते ।
१६ - २१ - उदाहरणभूयस्त्वात् ।
१७ - २१ - ते खलु अपि विधयः सुपरिगृहीताः भवन्ति येषु लक्षणम् प्रपञ्चः च ।
१८ - २१ - केवलम् लक्षणम् केवलः प्रपञ्चः वा न तथा कारकम् भवति ।
१९ - २१ - अवश्यम् खलु अस्माभिः इदम् वक्तव्यम् बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति ।
२० - २१ - सर्ववेदपाऋइषदम् हि इदम् शास्त्रम् ।
२१ - २१ - तत्र न एकः पन्थाः शक्य आस्थातुम् ।
१ - १७ - षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु उपसङ्ख्यानम् ।
२ - १७ - षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु उपसङ्ख्यानम् कर्तव्यम् ।
३ - १७ - वाचोयुक्तिः , दिशोदण्डः , पश्यतोहरः ।
४ - १७ - आमुष्यायणामुष्य्पुत्रिका इति उपसङ्ख्यानम् ।
५ - १७ - आमुष्यायणामुष्य्पुत्रिका इति उपसङ्ख्यानम् कर्तव्यम् ।
६ - १७ - आमुष्यायणः , आमुष्यपुत्रिका ।
७ - १७ - आमुष्यकुलिका इति च वक्तव्यम् ।
८ - १७ - आमुष्यकुलिका ।
९ - १७ - देवानाम्प्रियः इति च ।
१० - १७ - देवानाम्प्रियः इति च उपसङ्ख्यानम् कर्तव्यम् ।
११ - १७ - देवानाम्प्रियः ।
१२ - १७ - शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायाम् ।
१३ - १७ - शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायाम् उपसङ्ख्यानम् कर्तव्यम् ।
१४ - १७ - शुनःशेफः , शुनःपुच्छः , शुनोलाङ्गूलः ।
१५ - १७ - दिवः च दासे ।
१६ - १७ - दिवः च दासे उपसङ्ख्यानम् कर्तव्यम् ।
१७ - १७ - दिवोदासाय गायत ।
१ - ५ - विद्यायोनिसम्बन्धेभ्यः तत्पूर्वपदोत्तरपदग्रहणम् ।
२ - ५ - विद्यायोनिसम्बन्धेभ्यः तत्पूर्वपदोत्तरपदग्रहणम् कर्तव्यम् , विद्यासम्बन्धेभ्यः विद्यासम्बन्धेषु यथा स्यात् , योनिसम्बन्धेभ्यः योनिसम्बन्धेषु यथा स्यात् , व्यतिकरः मा भूत् ।
३ - ५ - अथ एषाम् व्यतिकरेण भवितव्यम् ।
४ - ५ - बाढम् भवितव्यम् ।
५ - ५ - होतुःपुत्रः , पितुःन्तेवासी ।
१ - ११ - क्व अयम् नकारः श्रूयते ।
२ - ११ - न क्व चित् श्रूयते ।
३ - ११ - लोपः अस्य भवति नलोपः प्रातिपदिकस्य इति ।
४ - ११ - यदि न श्रूयते किमर्थम् उच्चार्यते ।
५ - ११ - रपरत्वम् मा भूत् इति ।
६ - ११ - क्रियमाणे अपि वै नकारे रपरत्वम् प्राप्नोति ।
७ - ११ - किम् कारणम् ।
८ - ११ - नलोपे कृते एषः अपि हि उः स्थाने अण् शिष्यते ।
९ - ११ - न एषः दोषः ।
१० - ११ - उः स्थाने अण् प्रसज्य्मानः एव रपरः भवति इति उच्यते न च अयम् उः स्थाने अण् एव शिष्यते ।
११ - ११ - किम् तर्हि अण् च अनण् च ।
१ - ४२ - कथम् पुनः इदम् विज्ञायते ऋकारान्तानाम् यः द्वन्द्वः इति आहोस्वित् द्वन्द्वे ऋकारस्य इति ।
२ - ४२ - कः च अत्र विशेषः ।
३ - ४२ - ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम् ।
४ - ४२ - ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम् कर्तव्यम् ।
५ - ४२ - पितापुत्रौ ।
६ - ४२ - कार्यी च अनिर्दिष्टः ।
७ - ४२ - कार्यी च अनिर्दिष्टः भवति ।
८ - ४२ - ऋकारान्तानाम् द्वन्द्वे न ज्ञायते कस्य आनङा भवितव्यम् इति ।
९ - ४२ - अस्तु तर्हि द्वन्दे ऋकारस्य इति ।
१० - ४२ - अविशेषेण पितृपितामहादिषु अतिप्रसङ्गः ।
११ - ४२ - अविशेषेण पितृपितामहादिषु अतिप्रसङ्गः भवति ।
१२ - ४२ - पितृपितामहौ इति ।
१३ - ४२ - अस्तु तर्हि ऋकारान्तानाम् यः द्वन्द्वः इति ।
१४ - ४२ - ननु च उक्तम् ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम् इति ।
१५ - ४२ - न एषः दोषः ।
१६ - ४२ - पुत्रग्रहणम् अपि प्रकृतम् अनुवर्तते ।
१७ - ४२ - क्व प्रकृतम् ।
१८ - ४२ - पुत्रे अन्यतरस्याम् इति ।
१९ - ४२ - यदि तत् अनुवर्तते विभाषा स्वसृपत्योः पुत्रे च इति पुत्रे अपि विभाषा प्राप्नोति ।
२० - ४२ - न एषः दोषः ।
२१ - ४२ - सम्बन्धम् अनुवर्तिष्यते ।
२२ - ४२ - षष्ठ्याः आक्रोशे ।
२३ - ४२ - पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे ।
२४ - ४२ - ऋतः विद्यायोनिसम्बन्धेभ्यः पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे ।
२५ - ४२ - विभाषा स्वसृपत्योः पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे ।
२६ - ४२ - आनङ् ऋतः द्वन्द्वे ।
२७ - ४२ - पुत्रग्रहणम् अनुवर्तते ।
२८ - ४२ - षष्ठ्याः आक्रोशे इति निवृत्तम् ।
२९ - ४२ - यत् अपि उच्यते कार्यी च अनिर्दिष्टः इति ।
३० - ४२ - कार्यी च निर्दिष्टः ।
३१ - ४२ - कथम् ।
३२ - ४२ - उत्तरपदे इति वर्तते ।
३३ - ४२ - ङित् च अयम् क्रियते ।
३४ - ४२ - सः अन्तरेण अपि कार्यिनिर्देशम् ऋकारान्तस्य एव भविष्यति ।
३५ - ४२ - पुत्रे तर्हि कार्यी अनिर्दिष्टः ।
३६ - ४२ - पुत्रे च कार्यी निर्दिष्टः ।
३७ - ४२ - कथम् ।
३८ - ४२ - ऋकारग्रहणम् अपि प्रकृतम् अनुवर्तते ।
३९ - ४२ - क्व प्रकृतम् ।
४० - ४२ - ऋतः विद्यायोनिसम्बन्धेभ्यः ।
४१ - ४२ - तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।
४२ - ४२ - पुत्रे इति एषा सप्तमी ऋतः इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।
१ - ११ - देवताद्वन्द्वे उभयत्र वायोः प्रतिषेधः ।
२ - ११ - देवताद्वन्द्वे उभयत्र वायोः प्रतिषेधः वक्तव्यः ।
३ - ११ - वाय्वग्नी , अग्निवायू ।
४ - ११ - ब्रह्मप्रजापत्यादीनाम् च ।
५ - ११ - ब्रह्मप्रजापत्यादीनाम् च प्रतिषेधः वक्तव्यः ।
६ - ११ - ब्रह्मप्रजापती , शिववैश्रवणौ , स्कन्द्विशाखौ ।
७ - ११ - सः तर्हि प्रतिषेधः वक्तव्यः ।
८ - ११ - न वक्तव्यः ।
९ - ११ - द्वन्द्वे इति वर्तमाने पुनः द्वन्द्रग्रहणस्य एतत् प्रयोजनम् लोकवेदयोः यः द्वन्द्वः तत्र यथा स्यात् ।
१० - ११ - कः च लोकवेदयोः द्वन्द्वः ।
११ - ११ - वेदे ये सहनिर्वापनिर्दिष्टाः न च एते सहनिर्वापनिर्दिष्टाः ।
१ - ३ - इद् वृद्धौ विष्णोः प्रतिषेधः ।
२ - ३ - इद् वृद्धौ विष्णोः प्रतिषेधः वक्तव्यः ।
३ - ३ - आग्नावैष्णवम् चरुम् निर्वपेत् ।
१ - ५ - किम् निपात्यते ।
२ - ५ - पूर्वपदोत्तरपदयोः ऋकारस्य अरारौ निपात्येते ।
३ - ५ - मातरपितरौ भोजयतः ।
४ - ५ - मातरपितरौ आनय ।
५ - ५ - अ मा गन्ताम् पितरामातरा च अ मा सोमः अमृतत्वय गम्यात् ।
१ - २० - भाषितपुंस्कात् इति कथम् इदम् विज्ञायते ।
२ - २० - समानायाम् आकृतौ यत् भाषितपुंस्कम् आहोस्वित् क्व चित् भाषितपुंस्कम् इति ।
३ - २० - किम् च अतः ।
४ - २० - यदि विज्ञायते समानायाम् आकृतौ यत् भाषितपुंस्कम् इति गर्भिभार्यः , प्रजातभार्यः , प्रसूतभारः इति अत्र न प्राप्नोति ।
५ - २० - अथ विज्ञायते क्व चित् भाषितपुंस्कम् इति द्रोणीभार्यः , कुटीभार्यः , पात्रीभार्यः अत्र अपि प्राप्नोति ।
६ - २० - अस्तु समानायाम् आकृतौ यत् भाषितपुंस्कम् इति ।
७ - २० - कथम् गर्भिभार्यः , प्रजातभार्यः , प्रसूतभारः इति ।
८ - २० - कर्तव्यः अत्र यत्नः ।
९ - २० - अथ किमर्थम् ऊङः पृथक् प्रतिषेधः उच्यते न यत्र एव अन्यः प्रतिषेधः तत्र एव अयम् उच्येत ।
१० - २० - न कोपधायाः इति उक्त्वा ततः ऊङः च इति उच्येत ।
११ - २० - तत्र अपि अयम् अर्थः द्विः प्रतिषेधः न वक्तव्यः भवति ।
१२ - २० - न एवम् शक्यम् ।
१३ - २० - पठिष्यति हि आचार्यः पुंवत् कर्मधारये प्रतिषिद्धार्थम् इति ।
१४ - २० - सः पुंवद्भावः यथा इह भवति कारिका वृन्दारिका कारकवृन्दारिका इति एवम् इह अपि स्यात् ब्रह्मबन्धूः वृन्दारिका ब्रह्मबन्दूवृन्दारिका इति ।
१५ - २० - अथ पृथक् प्रतिषेधे अपि उच्यमाने यावता सः प्रतिषिद्धार्थः आरम्भः कस्मात् एव अत्र न भवति ।
१६ - २० - पृथक्प्रतिषेधवचनसामर्थ्यात् ।
१७ - २० - अथ वा अनूङ् इति तत्र अनुवर्तिष्यते ।
१८ - २० - अथ वा न अयम् प्रसज्यप्रतिषेधः ।
१९ - २० - किम् तर्हि पर्युदासः अयम् यत् अन्यत् अनूङ् इति ।
२० - २० - सः च प्रतिषेधाऋथः आरम्भः ।
१ - १६२ - किम् पुनः इदम् पुंवद्भावे स्त्रीग्र्हणम् स्त्रीप्रत्ययग्रहणम् आहोस्वित् स्त्रीशब्द्ग्रहणम् आहोस्वित् स्त्र्यर्थग्रहणम् ।
२ - १६२ - कः च अत्र विशेषः ।
३ - १६२ - पुंवद्भावे स्त्रीग्रहणम् स्त्रीप्रत्ययग्रहणम् चेत् तत्र पुंवत् इति उत्तरपदे तत्प्रतिषेधविज्ञानम् ।
४ - १६२ - पुंवद्भावे स्त्रीग्रहणम् स्त्रीप्रत्ययग्रहणम् चेत् तत्र पुंवत् इति उत्तरपदे तत्प्रतिषेधः अयम् विज्ञायेत ।
५ - १६२ - कस्य ।
६ - १६२ - स्त्रीप्रत्ययस्य प्रतिषेधः ।
७ - १६२ - किम् उच्यते स्त्रीप्रत्ययस्य प्रतिषेधः इति ।
८ - १६२ - न पुनः अन्यत् अपि किम् चित् पुंसः प्रतिपदम् कार्यम् उच्यते यत् समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य अतिदिश्येत ।
९ - १६२ - अनारम्भात् पुंसि ।
१० - १६२ - न हि किम् चित् पुंसः प्रतिपदम् कार्यम् उच्यते यत् समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य अतिदिश्येत ।
११ - १६२ - तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः स्त्रीप्रत्ययप्रतिषेधात् ।
१२ - १६२ - कथम् पुनः पुंवत् इति अनेन स्त्रीप्रत्ययस्य प्रतिषेधः शक्यः विज्ञातुम् ।
१३ - १६२ - वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।
१४ - १६२ - तत् यथा ।
१५ - १६२ - उशीनरवत् मद्रेषु यवाः ।
१६ - १६२ - सन्ति न सन्ति इति ।
१७ - १६२ - मातृवत् अस्याः कलाः ।
१८ - १६२ - सन्ति न सन्ति ।
१९ - १६२ - एवम् इह अपि पुंवत् भवति पुंवत् न भवति इति वाक्यशेषम् समर्थयिष्यामहे ।
२० - १६२ - यथा पुंसः स्त्रीप्रत्ययः न भवति एवम् समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य न भवति इति ।
२१ - १६२ - प्रातिपदिकस्य च प्रत्यापत्तिः ।
२२ - १६२ - प्रातिपदिकस्य च प्रत्यापत्तिः वक्तव्या ।
२३ - १६२ - एनी भार्या अस्य , एतभार्यः , श्येतभार्यः ।
२४ - १६२ - पुंवद्भावेन किम् क्रियते ।
२५ - १६२ - स्त्रीप्रत्ययस्य निवृत्तिः ।
२६ - १६२ - अर्थः अनिवृत्तः स्त्रीत्वम् ।
२७ - १६२ - तस्य अनिवृत्तत्वात् केन नशब्दः न श्रूयेत ।
२८ - १६२ - स्त्रियाम् इति उच्यमानः प्राप्नोति ।
२९ - १६२ - स्थानिवत्प्रसङ्गः च ।
३० - १६२ - स्थानिवभावः च प्राप्नोति ।
३१ - १६२ - पट्वीभारा अस्य पटुभार्यः ।
३२ - १६२ - पुंवद्भावेन किम् क्रियते ।
३३ - १६२ - स्त्रीप्रत्ययस्य निवृत्तिः ।
३४ - १६२ - तस्य स्थानिवभावात् यणादेशः प्राप्नोति ।
३५ - १६२ - किमर्थम् इदम् उभयम् उच्यते न प्रातिपदिकस्य च प्रत्यापत्तिः इति एव स्थानिवभावः अपि चोदितः स्यात् ।
३६ - १६२ - पुरस्तात् इदम् आचार्येण दृष्टम् स्थानिवत्प्रसङ्गः च इति तत् पठितम् ।
३७ - १६२ - ततः उत्तरकालम् इदम् दृष्टम् प्रातिपदिकस्य च प्रत्यापत्तिः इति ।
३८ - १६२ - तत् अपि पठितम् ।
३९ - १६२ - न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति ।
४० - १६२ - वतण्ड्यादिषु पुंवद्वचनम् ।
४१ - १६२ - वतण्ड्यादिषु पुंवद्भावः वक्तव्यः ।
४२ - १६२ - के पुनः वतण्ड्यादयः ।
४३ - १६२ - लुगलुगस्त्रीविषयद्विस्त्रीप्रत्ययाः ।
४४ - १६२ - लुक् ।
४५ - १६२ - गार्ग्यः वृन्दारिका गर्गवृन्दारिका ।
४६ - १६२ - पुंवद्भावेन किम् क्रियते ।
४७ - १६२ - स्त्रीप्रत्ययस्य निवृत्तिः ।
४८ - १६२ - अर्थः अनिवृत्तः स्त्रीत्वम् ।
४९ - १६२ - तस्य अनिवृत्तत्वात् केन यशब्दः न श्रूयेत ।
५० - १६२ - अस्त्रियाम् इति हि लुक् उच्यते ।
५१ - १६२ - लुक् ।
५२ - १६२ - अलुक् ।
५३ - १६२ - वतण्डी वृन्दारिका वातण्ड्यवृन्दारिका ।
५४ - १६२ - पुंवद्भावेन किम् क्रियते ।
५५ - १६२ - स्त्रीप्रत्ययस्य निवृत्तिः ।
५६ - १६२ - अर्थः अनिवृत्तः स्त्रीत्वम् ।
५७ - १६२ - तस्य अनिवृत्तत्वात् लुक् स्त्रियाम् वतण्डात् इति यकारस्य लुक् प्राप्नोति ।
५८ - १६२ - यदि पुनः अयम् ईकारे एव लुक् उच्येत ।
५९ - १६२ - तत् ईकारग्रहणम् कर्तव्यम् ।
६० - १६२ - न कर्तव्यम् ।
६१ - १६२ - क्रियते न्यासे एव ।
६२ - १६२ - प्रश्लिष्टनिर्देशः अयम् ।
६३ - १६२ - स्त्री , ई स्त्री , स्त्रियाम् ।
६४ - १६२ - ईकारविधौ वै अप्रत्ययकस्य पाठः क्रियते वतण्ड इति ।
६५ - १६२ - शार्ङ्गरवादौ सप्रत्ययकस्य पाठः करिष्यते ।
६६ - १६२ - सः वै सप्रत्ययकस्य पाठः कर्तव्यः ।
६७ - १६२ - अन्तरङ्गत्वात् च लुक् प्राप्नोति ।
६८ - १६२ - अलुक् ।
६९ - १६२ - अस्त्रीविषय ।
७० - १६२ - कौण्डीवृसी वृन्दारिका कौण्डीवृस्यवृन्दारिका ।
७१ - १६२ - पुंवद्भावेन किम् क्रियते ।
७२ - १६२ - स्त्रीप्रत्ययस्य निवृत्तिः ।
७३ - १६२ - अर्थः अनिवृत्तः स्त्रीत्वम् ।
७४ - १६२ - तस्य अनिवृत्तत्वात् केन यशब्दः श्रूयेत ।
७५ - १६२ - अस्त्रियाम् इति हि ञ्यः विधीयते ।
७६ - १६२ - अस्त्रीविषय ।
७७ - १६२ - द्विस्त्रीप्रत्यय ।
७८ - १६२ - गार्ग्यायणी वृन्दारिका गार्ग्यवृन्दारिका ।
७९ - १६२ - अत्र पुंवद्भावः न प्राप्नोति ।
८० - १६२ - किम् कारणम् ।
८१ - १६२ - भाषितपुंस्कात् अनूङः समानाधिकरणे उत्तरपदे पुंवद्भावः भवति इति उच्यते ।
८२ - १६२ - यः च अत्र भाषितपुंस्कात् अनूङ् न असौ उत्तरपदे यः च उत्तरपदे न असौ भाषितपुंस्कात् अनूङ् इति ।
८३ - १६२ - अस्तु तर्हि स्त्रीशब्दग्रहणम् ।
८४ - १६२ - स्त्रीशब्दस्य पुंशब्दातिदेशः इति चेत् सर्वप्रसङ्गः अविशेषात् ।
८५ - १६२ - स्त्रीशब्दस्य पुंशब्दातिदेशः इति चेत् सर्वस्य स्त्रीशब्दस्य पुंशब्दातिदेशः प्राप्नोति ।
८६ - १६२ - अस्य अपि प्राप्नोति , अङ्गारकाः नाम शकुनयः ।
८७ - १६२ - तेषाम् कालिकाः स्त्रियः ।
८८ - १६२ - कालिकावृन्दारिकाः ।
८९ - १६२ - अङ्गारकवृन्दारिकाः प्राप्नुवन्ति ।
९० - १६२ - क्षेमवृद्धयः क्षत्रियाः ।
९१ - १६२ - तेषाम् तनुकेश्यः स्त्रियः ।
९२ - १६२ - तनुकेशीवृन्दारिकाः ।
९३ - १६२ - क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति ।
९४ - १६२ - हंसस्य वरटा ।
९५ - १६२ - कच्छपस्य डुली ।
९६ - १६२ - ऋश्यस्य रोहित् ।
९७ - १६२ - अश्वस्य वडवा ।
९८ - १६२ - पुरुषस्य योषित् ।
९९ - १६२ - किम् कारणम् ।
१०० - १६२ - अविशेषात् ।
१०१ - १६२ - न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य स्त्रीशब्दस्य पुंशब्दातिदेशः भवति इति ।
१०२ - १६२ - अनुपादीयमाने विशेषे सर्वत्र प्रसङ्गः ।
१०३ - १६२ - कथम् च नाम न उपादीयते यावता भाषितपुंस्कात् इति उच्यते ।
१०४ - १६२ - भाषितपुंस्कानुपपत्तिः च ।
१०५ - १६२ - ह्यर्थे च अयम् चः पठितः ।
१०६ - १६२ - सर्वः हि शब्दः भाषितपुंस्कात् परः शक्यः कर्तुम् ।
१०७ - १६२ - अस्तु तर्हि अर्थग्रहणम् ।
१०८ - १६२ - अर्थातिदेशे विप्रतिषेधानुपपत्तिः ।
१०९ - १६२ - अर्थातिदेशे विप्रतिषेधः न उपपद्यते ।
११० - १६२ - पठिष्यति हि आचार्यः विप्रतिषेधम् पुंवद्भावात् ह्रस्वत्वम् खिद्घादिकेषु इति ।
१११ - १६२ - सः विप्रतिषेधः न उपपद्यते ।
११२ - १६२ - द्विकार्ययोगः हि नाम विप्रतिषेधः न च अत्र एकः द्विकार्ययुक्तः ।
११३ - १६२ - शब्दस्य ह्रस्वत्वम् अर्थस्य पुंवद्भावः ।
११४ - १६२ - किम् च सर्वप्रसङ्गः अविशेषात् इति ।
११५ - १६२ - सर्वस्य स्त्रीशब्दस्य पुंशब्दातिदेशः प्राप्नोति ।
११६ - १६२ - अस्य अपि प्राप्नोति , अङ्गारकाः नाम शकुनयः ।
११७ - १६२ - तेषाम् कालिकाः स्त्रियः ।
११८ - १६२ - कालिकावृन्दारिकाः ।
११९ - १६२ - अङ्गारकवृन्दारिकाः प्राप्नुवन्ति ।
१२० - १६२ - क्षेमवृद्धयः क्षत्रियाः ।
१२१ - १६२ - तेषाम् तनुकेश्यः स्त्रियः ।
१२२ - १६२ - तनुकेशीवृन्दारिकाः ।
१२३ - १६२ - क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति ।
१२४ - १६२ - हंसस्य वरटा ।
१२५ - १६२ - कच्छपस्य डुली ।
१२६ - १६२ - ऋश्यस्य रोहित् ।
१२७ - १६२ - अश्वस्य वडवा ।
१२८ - १६२ - पुरुषस्य योषित् ।
१२९ - १६२ - किम् कारणम् ।
१३० - १६२ - अविशेषात् ।
१३१ - १६२ - न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य स्त्रीशब्दस्य पुंशब्दातिदेशः भवति इति ।
१३२ - १६२ - कथम् च नाम न उपादीयते यावता भाषितपुंस्कात् इति उच्यते ।
१३३ - १६२ - भाषितपुंस्कानुपपत्तिः हि भवति ।
१३४ - १६२ - न हि अर्थेन् पौर्वापर्यम् अस्ति ।
१३५ - १६२ - अयम् तावत् अदोषः यत् उच्यते अर्थातिदेशे विप्रतिषेधानुपपत्तिः इति ।
१३६ - १६२ - न अवश्यम् द्विकारयोगः एव विप्रतिषेधः ।
१३७ - १६२ - किम् तर्हि ।
१३८ - १६२ - असम्भवः अपि ।
१३९ - १६२ - सः च अत्र अस्ति असम्भवः ।
१४० - १६२ - कः असम्भवः ।
१४१ - १६२ - पुंवद्भावः अभिनिर्वर्तमानः ह्रस्वत्वस्य निमित्तम् विहन्ति ।
१४२ - १६२ - ह्रस्वत्वम् अभिनिर्वर्तमानम् पुंवद्भावम् बाधते ।
१४३ - १६२ - सति असम्भवे युक्तः विप्रतिषेधः ।
१४४ - १६२ - अयम् तर्हि दोषः सर्वप्रसङ्गः अविशेषात् इति ।
१४५ - १६२ - तस्मात् अस्तु सः एव मध्यमः पक्षः ।
१४६ - १६२ - ननु च उक्तम् स्त्रीशब्दस्य पुंशब्दातिदेशः इति चेत् सर्वप्रसङ्गः अविशेषात् इति ।
१४७ - १६२ - न एषः दोषः ।
१४८ - १६२ - समासनिर्देशः अयम् भाषितपुंस्कात् अनूङ् यस्मिन् सः अयम् भाषितपुंस्कादनूङ् इति ।
१४९ - १६२ - यदि एवम् लुक् प्राप्नोति ।
१५० - १६२ - निपातनात् न भविष्यति ।
१५१ - १६२ - अथ वा अलुक् प्रकृतः सः अनुवर्तिष्यते ।
१५२ - १६२ - कथम् पुनः अनूङ् इति अन्येन स्त्रीप्रत्ययग्रहणम् शक्यम् विज्ञातुम् ।
१५३ - १६२ - नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः ।
१५४ - १६२ - नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।
१५५ - १६२ - तथा हि अर्थः गम्यते ।
१५६ - १६२ - तत् यथा अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशः आनीयते ।
१५७ - १६२ - न असौ लोष्टम् आनीय कृती भवति ।
१५८ - १६२ - एवम् इह अपि अनूङ् इति ऊङ्प्रतिषेधात् अन्यस्मिन् ऊङ्सदृशे कार्यम् विज्ञायते ।
१५९ - १६२ - किम् च अन्यत् अनूङ् ऊङ्सदृशम् ।
१६० - १६२ - स्त्रीप्रत्ययः ।
१६१ - १६२ - एवम् अपि इडबिड् वृन्दारिका , ऐडबिड्वृन्दारिका , पृथ् वृन्दारिका , पार्थवृन्दारिका , दरत् वृन्दारिका , दारदवृन्दारिका , उशिक् वृन्दारिका , औशिजवृन्दारिका , अत्र पुंवद्भावः न प्राप्नोति ।
१६२ - १६२ - कर्तव्यः अत्र यत्नः ।
१ - ११ - अथ इह कथम् भवितव्यम् ।
२ - ११ - पट्वीमृद्व्यौ भार्ये अस्य पट्वीमृदुभार्यः , आहोस्वित् पटुमृदुभार्यः इति ।
३ - ११ - पट्वीमृदुभार्यः इति भवितव्यम् ।
४ - ११ - पुंवद्भावः कस्मात् न भवति ।
५ - ११ - भाषितपुंस्कात् इति उच्यते ।
६ - ११ - ननु च भोः पटुशब्दः मृदुशब्दः पुंसि भाष्येते ।
७ - ११ - समानायाम् आकृतौ यत् भाषितपुंस्कम् आकृत्यन्तरे च एतौ भाषितपुंस्कौ ।
८ - ११ - समानायाम् आकृतौ अपि एतौ भाषितपुंस्कौ ।
९ - ११ - कथम् ।
१० - ११ - आरभ्यते मतुब्लोपः ।
११ - ११ - एवम् तर्हि भाषितपुंस्कात् अनूङ् समानाधिकरणे उत्तरपदे कृतः तस्य पुंवद्भावः यस्य च अकृतः न असौ भाषितपुंस्कात् अनूङ् समानाधिकरणे उत्तरपदे ।
१ - ७ - पूरण्याम् प्रधानपूरणीग्रहणम् ।
२ - ७ - पूरण्याम् प्रधानपूरणीग्रहणम् कर्तव्यम् ।
३ - ७ - इह मा भूत् ।
४ - ७ - कल्याणी पञ्चमी अस्य पक्षस्य कल्याणपञ्चमीकः पक्षः इति ।
५ - ७ - अथ इह कथम् भवितव्यम् कल्याणी पञ्चमी आसाम् रात्रीणाम् इति ।
६ - ७ - कल्याणीपञ्चमाः रात्रयः इति भवितव्यम् ।
७ - ७ - रात्रयः अत्र प्रधानम् ।
१ - ६८ - इह के चित् तसिलादयः आ कृत्वसुचः पठ्यन्ते येषु पुंवद्भावः न इष्यते के चित् च अन्यत्र पठ्यन्ते येषु पुंवद्भावः इष्यते ।
२ - ६८ - तत्र किम् न्याय्यम् ।
३ - ६८ - परिगणनम् कर्तव्यम् । तसिलादी त्रतसौ ।
४ - ६८ - त्रतसौ तसिलादी द्रष्टव्यौ ।
५ - ६८ - तस्याम् शालायाम् वसति ।
६ - ६८ - तत्र वसति ।
७ - ६८ - तस्याः , ततः , यस्याम् , यत्र, यस्याः , यतः ।
८ - ६८ - तरतमपौ ।
९ - ६८ - तरतमपौ तसिलादी द्रष्टव्यौ ।
१० - ६८ - दर्शनीयतरा दर्शनीयतमा ।
११ - ६८ - चरड्जातीयरौ ।
१२ - ६८ - चरड्जातीयरौ तसिलादी द्रष्टव्यौ ।
१३ - ६८ - पटुचरी , पटुजातीया ।
१४ - ६८ - कल्पब्देशीयरौ ।
१५ - ६८ - कल्पब्देशीयरौ तसिलादी द्रष्टव्यौ ।
१६ - ६८ - दर्शनीयकल्पा , दर्शनीयदेशीया ।
१७ - ६८ - रूपप्पाशपौ ।
१८ - ६८ - रूपप्पाशपौ तसिलादी द्रष्टव्यौ ।
१९ - ६८ - दर्शनीयरूपा , दर्शनीयपाशा ।
२० - ६८ - थम्थालौ ।
२१ - ६८ - थम्थालौ तसिलादी द्रष्टव्यौ ।
२२ - ६८ - कया आकृत्या कथम् , यया यथा ।
२३ - ६८ - दार्हिलौ ।
२४ - ६८ - दार्हिलौ तसिलादी द्रष्टव्यौ ।
२५ - ६८ - तस्याम् वेलायाम् , तदा , तर्हि । तिल्थ्यनौ ।
२६ - ६८ - तिल्थ्यनौ तसिलादी द्रष्टव्यौ ।
२७ - ६८ - वृकी वृकतिः , अजथ्या यूथिः ।
२८ - ६८ - शसि बह्वल्पार्थस्य ।
२९ - ६८ - शसि बह्वल्पार्थस्य पुंवद्भावः वक्तव्यः ।
३० - ६८ - बह्वीभ्यः देहि ।
३१ - ६८ - बहुशः देहि ।
३२ - ६८ - अल्पशः ।
३३ - ६८ - त्वतलोः गुणवचनस्य ।
३४ - ६८ - त्वतलोः गुणवचनस्य पुंवद्भावः वक्तव्यः ।
३५ - ६८ - पट्व्याः भावः पटुत्वम् , पटुता ।
३६ - ६८ - गुणवचनस्य इति किमर्थम् ।
३७ - ६८ - कठ्याः भावः कठीत्वम् , कठीता ।
३८ - ६८ - भस्य अढे तद्धिते ।
३९ - ६८ - भस्य अढे तद्धिते पुंवद्भावः वक्तव्यः ।
४० - ६८ - हस्तिनीनाम् समूहः हास्तिकम् ।
४१ - ६८ - अढे इति किमर्थम् ।
४२ - ६८ - श्यैनेयः , रौहिणेयः ।
४३ - ६८ - यदि अढे इति उच्यते , अग्नायी देवता अस्य , आग्नेयः स्थालीपाकः , अत्र न प्राप्नोति ।
४४ - ६८ - इह च प्राप्नोति , कौण्डिन्यः , सापत्नः इति ।
४५ - ६८ - यदि पुनः अनपत्ये इति उच्येत ।
४६ - ६८ - न एवम् शक्यम् ।
४७ - ६८ - इह हि न स्यात् ।
४८ - ६८ - गार्ग्यायण्याः अपत्यम् माणवकः गार्गः जाल्मः ।
४९ - ६८ - अस्तु तर्हि अढे इति एव ।
५० - ६८ - कथम् कौण्डिन्यः , सापत्नः इति ।
५१ - ६८ - कौण्डिन्ये निपातनात् सिद्धम् ।
५२ - ६८ - किम् निपातनम् ।
५३ - ६८ - आगस्त्यकौण्डिन्ययोः इति ।
५४ - ६८ - सापत्नशब्दः प्रकृतयतरम् ।
५५ - ६८ - [ऋ ६१३सापत्नः प्रकृत्यन्ततत्वात् ।
५६ - ६८ - सापत्नशब्दः प्रकृतयतरम् अस्ति ।] कथम् अग्नायी देवता अस्य स्थालीपाकस्य , आग्नेयः स्थालीपाकः इति ।
५७ - ६८ - अस्तु तर्हि अनपत्ये इति ।
५८ - ६८ - कथम् गार्गः जाल्मः ।
५९ - ६८ - गार्गाग्नेयौ न संवदेते ।
६० - ६८ - कर्तव्यः अत्र यत्नः ।
६१ - ६८ - ठक्छसोः च ।
६२ - ६८ - ठक्छसोः च पुंवद्भावः वक्तव्यः ।
६३ - ६८ - भवत्याः छात्राः , भावत्काः , भवदीयाः ।
६४ - ६८ - ठग्ग्रहणम् किमर्थम् न इके कृते अजादौ इति ।
६५ - ६८ - न एवम् शक्यम् ।
६६ - ६८ - अजादिलक्षणे हि माथितिकादिवत् प्रसङ्गः ।
६७ - ६८ - अजादिलक्षणे हि माथिकादिवत् प्रसज्येत ।
६८ - ६८ - तत् यथ मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः न भवति एवम् इह अपि न स्यात् ।
१ - ७ - मनिन्ग्रहणम् किमर्थम् ।
२ - ७ - मानिन्ग्रहणम् अस्त्र्यर्थम् असमानाधिकरणार्थम् च ।
३ - ७ - मानिन्ग्रहणम् क्रियते अस्त्र्यर्थम् असमानाधिकरणार्थम् च ।
४ - ७ - अस्त्र्यर्थम् तावत् ।
५ - ७ - दर्शनीयाम् मन्यते देवदत्तः यज्ञदत्ताम् दर्शनीयमानी अयम् अस्याः ।
६ - ७ - असमानाधिकरणार्थम् ।
७ - ७ - दर्शनीयाम् मन्यते देवदत्ता यज्ञदत्ताम् दर्शनीयमानिनी इयम् अस्याः ।
१ - १६ - किम् इदम् एवमादि अनुक्रमणम् आद्यस्य योगस्य विषये आहोस्वित् पुंवद्भावमात्रस्य ।
२ - १६ - किम् च अतः ।
३ - १६ - यदि आद्यस्य योगस्य विषये माध्यम्कीयः , शालूकिकीयः , अत्र न प्राप्नोति ।
४ - १६ - विधीः अपि अत्र न सिध्यति ।
५ - १६ - किम् कारणम् ।
६ - १६ - भाषितपूंश्कात् अनूङ् इति उच्यते ।
७ - १६ - न हि एतत् भवति भाषितपूंश्कात् अनूङ् ।
८ - १६ - इदम् तर्हि विलेपिकायाः धर्म्यम् वैलेपिकम् ।
९ - १६ - विधिः च सिद्धः भवति प्रतिषेधः च न प्राप्नोति ।
१० - १६ - अथ पुंवभावमात्रस्य विषये हस्तिनीनाम् समूहः हास्तिकम् , जातिलक्षणः पुंवभावप्रतिषेधः प्राप्नोति ।
११ - १६ - एवम् तर्हि न कोपधायाः इति एषः योगः पुंवभावमात्रस्य उत्तरम् एवमादि अनुक्रमणम् आद्यस्य योगस्य विषये ।
१२ - १६ - न कोपधप्रतिषेधे तद्धितवुग्रहणम् ।
१३ - १६ - न कोपधप्रतिषेधे तद्धितवुग्रहणम् कर्तव्यम् ।
१४ - १६ - तद्धितस्य यः ककारः वोः च यः ककारः तस्य ग्रहणम् कर्तव्यम् ।
१५ - १६ - इह मा भूत् ।
१६ - १६ - पाकभार्यः , भेकभार्यः ।
१ - ५ - स्वाङ्गात् च ईतः अमानिनि ।
२ - ५ - स्वाङ्गात् च ईतः अमानिनि इति वक्तव्यम् इह अपि यथा स्यात् ।
३ - ५ - दीर्घमुखमानी , श्लक्ष्णमुखमानिनी ।
४ - ५ - यदि अमानिनि इति उच्यते दीर्घमुखमानिनी , श्लक्ष्णमुखमानिनिनी इति न सिध्यति ।
५ - ५ - प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एवम् भविष्यति ।
१ - १९ - किमर्थम् इदम् उच्यते ।
२ - १९ - पुंवत् कर्मधारये प्रतिषिद्धार्थम् ।
३ - १९ - प्रतिषिद्धाऋथः अयम् आरम्भः ।
४ - १९ - न कोपधायाः इति उक्तम् ।
५ - १९ - तत्र अपि पुंवत् भवति ।
६ - १९ - कारिका वृन्दारिका कारकवृन्दारिका कारकजातीया कारकदेशीया ।
७ - १९ - सञ्ज्ञापूरणयोः च इति उक्तम् ।
८ - १९ - तत्र अपि पुंवत् भवति ।
९ - १९ - दत्ता वृन्दारिका दत्तवृन्दारिका दत्तजातीया दत्तदेशीया ।
१० - १९ - पञ्चमी वृन्दारिका पञ्चमवृन्दारिका पञ्चमजातीया पञ्चमदेशीया ।
११ - १९ - वृद्धिनिमित्तस्य इति उक्तम् ।
१२ - १९ - तत्र अपि पुंवत् भवति ।
१३ - १९ - स्रौघ्नी वृन्दारिका स्रौघ्नवृन्दारिका स्रौघ्नजातीया स्रौघ्नदेशीया ।
१४ - १९ - स्वाङ्गात् च ईतः अमानिनि इति उक्तम् ।
१५ - १९ - तत्र अपि पुंवत् भवति ।
१६ - १९ - श्लक्ष्णमुखी वृन्दारिका श्लक्ष्णमुखवृन्दारिका श्लक्ष्णमुखजातीया श्लक्ष्णमुखदेशीया ।
१७ - १९ - जातेः च इति उक्तम् ।
१८ - १९ - तत्र अपि पुंवत् भवति ।
१९ - १९ - कठी वृन्दारिका कठवृन्दारिका कठजातीया कठदेशीया ।
१ - २१ - कुक्कुट्यादीनाम् अण्डादिषु पुंवद्वचनम् ।
२ - २१ - कुक्कुट्यादीनाम् अण्डादिषु पुंवद्भावः वक्तव्यः ।
३ - २१ - कुक्कुट्याः अण्डम् कुक्कुटाण्डम् , मृग्याः पदम् मृगपदम् , काक्याः शावः काकशावः ।
४ - २१ - न वा अस्त्रीपूर्वपदविवक्षितत्वात् ।
५ - २१ - न वा वक्तव्यम् ।
६ - २१ - किम् कारणम् अस्त्रीपूर्वपदविवक्षितत्वात् ।
७ - २१ - न अत्र स्त्रीपूर्वपदम् विवक्षितम् ।
८ - २१ - किम् तर्हि ।
९ - २१ - अस्त्रीपूर्वपदम् ।
१० - २१ - उभयोः अण्डम् उभयोः पदम् उभयोः शावः ।
११ - २१ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् इह तु कथम् ।
१२ - २१ - मृग्याः क्षीरम् मृघक्षीरम् इति ।
१३ - २१ - अत्र अपि न वा अस्त्रीपूर्वपदविवक्षितत्वात् इति एव ।
१४ - २१ - कथम् पुनः सतः नाम अवाविवक्षा स्यात् ।
१५ - २१ - सतः अपि अविवक्षा भवति ।
१६ - २१ - तत् यथा ।
१७ - २१ - अलोमिका एडका ।
१८ - २१ - अनुदरा कन्या इति ।
१९ - २१ - असतः च विवक्षा भवति ।
२० - २१ - समुद्रः कुण्डिका ।
२१ - २१ - विन्ध्यः वर्धितकम् इति ।
१ - ३३ - अग्नेः ईत्त्वात् वरुणस्य वृद्धिः विप्रतिषेधेन ।
२ - ३३ - अग्नेः ईत्त्वात् वरुणस्य वृद्धिः भवति विप्रतिषेधेन ।
३ - ३३ - अग्नेः ईत्त्वस्य अवकाशः , अग्नीषोमौ ।
४ - ३३ - वरुणस्य वृद्धेः अवकाशः , वायुवारुणम् ।
५ - ३३ - इह उभयम् प्राप्नोति , आग्निवारुणीम् अनड्वाहीम् आलभेत ।
६ - ३३ - वरुणस्य वृद्धिः भवति विप्रतिषेधेन ।
७ - ३३ - न एषः युक्तः विप्रतिषेधः ।
८ - ३३ - द्विकार्ययोगः हि विप्रतिषेधः न च अत्र एकः द्विकार्ययुक्तः ।
९ - ३३ - कथम् ।
१० - ३३ - अग्नेः ईत्त्वम् वरुणस्य वृद्धिः ।
११ - ३३ - न अवश्यम् द्विकारयोगः एव विप्रतिषेधः ।
१२ - ३३ - किम् तर्हि ।
१३ - ३३ - असम्भवः अपि ।
१४ - ३३ - सः च अत्र अस्ति असम्भवः ।
१५ - ३३ - कः असौ असम्भवः ।
१६ - ३३ - अग्नेः ईत्त्वम् अभिनिर्वर्तमनम् वरुणस्य वृद्धिम् बाधते ।
१७ - ३३ - वरुणस्य वृद्धिः अभिनिर्वर्तमना अग्नेः ईत्त्वम् बाधते ।
१८ - ३३ - एषः असम्भवः ।
१९ - ३३ - सति असम्भवे युक्तः विप्रतिषेधः ।
२० - ३३ - पूंवद्भावात् ह्रस्वत्वम् खिद्घादिषु ।
२१ - ३३ - पूंवद्भावात् ह्रस्वत्वम् भवति विप्रतिषेधेन खिद्घादिषु ।
२२ - ३३ - पूंवद्भावस्य अवकाशः , पटुभार्यः , मृदुभार्यः ।
२३ - ३३ - खिति ह्रस्वः भवति इति अस्य अवकाशः , कालिम्मन्यः , हरिणिम्मन्यः ।
२४ - ३३ - इह उभयम् प्राप्नोति , कालिम्मन्या , हरिणिम्मन्या ।
२५ - ३३ - घादिषु नद्याः ह्रस्वः भवति इति अस्य अवकाशः , नर्तकितरा , नर्तकितमा ।
२६ - ३३ - पूंवद्भावस्य अवकाशः , दर्शनीयतरा , दर्शनीयतमा ।
२७ - ३३ - इह उभयम् प्राप्नोति , पट्वितरा , पट्वितमा ।
२८ - ३३ - के ह्रस्वः भवति इति अस्य अवकाशः , नर्तकिक ।
२९ - ३३ - पूंवद्भावस्य अवकाशः , दारदिका ।
३० - ३३ - इह उभयम् प्राप्नोति , पट्विका , मृद्विका ।
३१ - ३३ - ह्रस्वत्वम् भवति विप्रतिषेधेन ।
३२ - ३३ - अथ इदानीम् ह्रस्वत्वे कृते पुनःप्रसङ्गविज्ञानात् पुंवद्भावः कस्मात् न भवति ।
३३ - ३३ - सकृत् गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।
१ - २८ - ङीग्रहणम् किमर्थम् ।
२ - २८ - अनेकाचः ह्रस्वः इति इयति उच्यमाने खट्वातरा मालातरा , अत्र अपि प्रसज्येत ।
३ - २८ - न एतत् अस्ति प्रयोजनम् ।
४ - २८ - भाषितपुंस्कात् इति वर्तते ।
५ - २८ - एवम् अपि दत्तातरा गुप्तातरा , अत्र अपि प्राप्नोति ।
६ - २८ - ईतः इति वर्तते ।
७ - २८ - एवम् अपि ग्रामणीतरः , सेनाणीतरः अत्र अपि प्राप्नोति ।
८ - २८ - स्त्रियाम् इति वर्तते ।
९ - २८ - एवम् अपि ग्रामणीतरा , सेनाणीतरा अत्र अपि प्राप्नोति ।
१० - २८ - स्त्रियाः स्त्रियाम् इति वर्तते ।
११ - २८ - शेषप्रक्ल्̥प्त्यर्थम् तर्हि ङीग्रहणम् कर्तव्यम् , नद्याः शेषस्य अन्यतरस्याम् इति ।
१२ - २८ - कः शेषः ।
१३ - २८ - आङीच या नदी ङ्यन्तम् च यत् एकाच् ।
१४ - २८ - अन्तरेण अपि ङीग्रहणम् क्ल्̥प्तः शेषः ।
१५ - २८ - कथम् ।
१६ - २८ - ईतः इति वर्तते ।
१७ - २८ - अनीत् च या नदी , ईदन्तम् च यत् एकाच् ।
१८ - २८ - शेषग्रहणम् च अपि शक्यम् अकर्तुम् ।
१९ - २८ - कथम् ।
२० - २८ - अविशेषेण घादिषु नद्याः अन्यतरस्याम् ह्रस्वत्वम् उत्सर्गः ।
२१ - २८ - तस्य अनेकाचः नित्यम् ह्रस्वत्वम् अपवादः ।
२२ - २८ - तस्मिन् नित्ये प्राप्ते उगितः विभाषा आरभ्यते ।
२३ - २८ - यदि एवम् लक्ष्मितरा तन्त्रितरा इति न सिध्यति ।
२४ - २८ - लक्ष्मीतरा तन्त्रीतरा इति प्राप्नोति ।
२५ - २८ - इष्टम् एव एतद् सङ्गृहीतम् ।
२६ - २८ - लक्ष्मीतरा तन्त्रीतरा इति एव भवितव्यम् ।
२७ - २८ - एवम् हि सौनागाः पठन्ति ।
२८ - २८ - घादिषु नद्याः ह्रस्वत्वे कृन्नद्याः प्रतिषेधः ।