संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ५|पाद ४| खण्ड ५८ पाद ४ खण्ड ५८ पाद ४ - खण्ड ५८ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ५८ Translation - भाषांतर १ - ६ - पादशतग्रहणम् अनर्थकम् अन्यत्र अपि दर्शनात् ।२ - ६ - पादशतग्रहणम् अनर्थकम् ।३ - ६ - किम् कारणम् ।४ - ६ - अन्यत्र अपि दर्शनात् ।५ - ६ - अन्यत्र अपि हि वुन् दृश्यते ।६ - ६ - द्विमोदिकाम् ददाति ।१ - ४ - कन्प्रकरणे चञ्चद्ब्र्हतोः उपसङ्ख्यानम् ।२ - ४ - कन्प्रकरणे चञ्चद्ब्र्हतोः उपसङ्ख्यानम् कर्तव्यम् ।३ - ४ - चँचत्कः ।४ - ४ - बृहत्कः ।१ - १५ - अनत्यन्तगतौ क्तान्तात् तमादयः पूर्वविप्रतिषिद्धम् ।२ - १५ - अनत्यन्तगतौ क्तान्तात् तमादयः भवन्ति पूर्वविप्रतिषेधेन ।३ - १५ - अनत्यन्तगतौ क्तान्तात् कन् भवति इति अस्य अवकाशः अनत्यन्तगतेः वचनम् प्रकर्षस्य अवचनम् ।४ - १५ - भिन्नकम् ।५ - १५ - छिन्नकम् ।६ - १५ - तमादीनाम् अवकाशः प्रकर्षस्य वचनम् अनत्यन्तगतेः अवचनम् ।७ - १५ - पटुतरः ।८ - १५ - पटुतमः ।९ - १५ - उभयवचने उभयम् प्राप्नोति ।१० - १५ - भिन्नतरकम् ।११ - १५ - छिन्नतरकम् ।१२ - १५ - तमादयः भवन्ति पूर्वविप्रतिषेधेन ।१३ - १५ - तदन्तात् च स्वार्थे कन्वचनम् ।१४ - १५ - तदन्तात् च स्वार्थे कन् वक्तव्यः ।१५ - १५ - भिन्नतरकम् ।१ - ५ - सामिवचने प्रतिषेधानर्थक्यम् प्रकृत्यभिहितत्वात् ।२ - ५ - सामिवचने प्रतिषेधः अनर्थकः ।३ - ५ - किम् कारणम् ।४ - ५ - प्रकृत्यभिहितत्वात् ।५ - ५ - प्रकृत्यभिहितः सः अर्थः इति कृत्वा कन् न भविष्यति ।१ - ३९ - अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिः विग्रहाभावात् ।२ - ३९ - अध्युत्तरपदात् प्रत्ययविधेः अनुपपत्तिः ।३ - ३९ - किम् कारणम् ।४ - ३९ - विग्रहाभावात् ।५ - ३९ - विग्रहपूर्विका तद्धितोत्पत्तिः ।६ - ३९ - न च अध्युत्तरपदेन विग्रहः दृश्यते ।७ - ३९ - तस्मात् तत्र इदम् इति सधीनर् ।८ - ३९ - तस्मात् तत्र इदम् इति सधीनर् प्रत्ययः वक्तव्यः ।९ - ३९ - राजनि इदम् राजाधीनम् ।१० - ३९ - यदि सधीनर् क्रियते सकारस्य इत्सञ्ज्ञा न प्राप्नोति ।११ - ३९ - इह च श्र्यधीनः भ्र्वधीनः इति अङ्गस्य इति इयङुवङौ स्याताम् ।१२ - ३९ - सूत्रम् च भिद्यते ।१३ - ३९ - यथान्यासम् एव अस्तु ।१४ - ३९ - ननु च उक्तम् अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिः विग्रहाभावात् इति ।१५ - ३९ - न एषः दोषः ।१६ - ३९ - अस्ति कारणम् येन अत्र विग्रहः न भवति ।१७ - ३९ - किम् कारणम् ।१८ - ३९ - नित्यप्रत्ययः अयम् ।१९ - ३९ - के पुनः नित्यप्रत्ययाः ।२० - ३९ - तमादयः प्राक् कनः ञ्यादयः प्राक् वुनः आमादयः प्राक् मयटः बृहतीजात्यन्ताः समासान्ताः च इति ।२१ - ३९ - एवम् तर्हि न अयम् प्रत्ययविधिः उपालभ्यते ।२२ - ३९ - किम् तर्हि ।२३ - ३९ - प्रकृतिः उपालभ्यते ।२४ - ३९ - अध्युत्तरपदा प्रकृतिः न अस्ति ।२५ - ३९ - किम् कारणम् ।२६ - ३९ - विग्रहाभावात् ।२७ - ३९ - विग्रहपूर्विका समासवृत्तिः ।२८ - ३९ - न च अधिना विग्रहः दृश्यते ।२९ - ३९ - एवम् तर्हि बहुव्रीहिः भविष्यति ।३० - ३९ - किम् कृतम् भवति ।३१ - ३९ - भवति वै कः चित् अस्वपदविग्रहः अपि बहुव्रीहिः ।३२ - ३९ - तत् यथा शोभनम् मुखम् अस्याः सुमुखी इति ।३३ - ३९ - न एवम् शक्यम् ।३४ - ३९ - इह हि महदधीनम् इति आत्त्वकपौ प्रसज्येयाताम् ।३५ - ३९ - एवम् तर्हि अव्ययीभावः भविष्यति ।३६ - ३९ - एवम् अपि अधेः पूर्वनिपातः प्राप्नोति ।३७ - ३९ - राजदन्तादिषु पाठः करिष्यते ।३८ - ३९ - अथ वा सप्तमीसमासः अयम् ।३९ - ३९ - अधिः शौण्डादिषु पठ्यते ।१ - ८ - दिग्ग्रहणम् किमर्थम् ।२ - ८ - अस्त्रियाम् इति इयति उच्यमाने प्राचीना ब्राह्मणी अवाचीना शिखा इति अत्र अपि प्रसज्येत ।३ - ८ - दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति ।४ - ८ - अथ स्त्रीग्रहणम् किमर्थम् यावता दिक्शब्दः स्त्रीविषयः एव ।५ - ८ - भवति वै कः चित् दिक्शब्दः अस्त्रीविषयः अपि ।६ - ८ - तत् यथा प्राक् प्राचीनम् ।७ - ८ - प्रत्यक् प्रतीचीनम् ।८ - ८ - उचक् उदीचीनम् ।१ - ५ - स्त्रीग्रहणम् किमर्थम् न स्वार्थिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।२ - ५ - एवम् तर्हि सिद्धे सति यत् स्त्रीग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि ।३ - ५ - किम् एतस्य ज्ञापने प्रयोजनम् ।४ - ५ - गुडकल्पा द्राक्षा ।५ - ५ - तैलकल्पा प्रसन्ना पयस्कल्पा यवागूः इति एतत् सिद्धम् भवति ।१ - ४८ - सकृदादेशे अभ्यावृत्तिग्रहणम् निवर्त्यम् ।२ - ४८ - किम् प्रयोजनम् ।३ - ४८ - पुनः पुनः आवृत्तिः अभ्यावृत्तिः ।४ - ४८ - न च एकस्य पुनः पुनः आवृत्तिः भवति ।५ - ४८ - अथ क्रियाग्रहणम् अनुवर्तते आहोस्वित् न ।६ - ४८ - किम् च अर्थः अनुवृत्त्या ।७ - ४८ - बाढम् अर्थः ।८ - ४८ - इह मा भूत् एकः भुङ्क्ते इति ।९ - ४८ - अथ अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात् न भवति ।१० - ४८ - एकः पाकः इति ।११ - ४८ - पूर्वयोः च योगयोः कस्मात् न भवति ।१२ - ४८ - द्वौ पाकौ. त्रयः पाकाः ।१३ - ४८ - चत्वारः पाकाः ।१४ - ४८ - पञ्च पाकाः ।१५ - ४८ - दश पाकाः इति ।१६ - ४८ - न एतत् क्रियागणनम् ।१७ - ४८ - किम् तर्हि ।१८ - ४८ - द्रव्यगणनम् एतत् ।१९ - ४८ - कथम् ।२० - ४८ - कृदभिहितः भावः द्रव्यवत् भवति इति ।२१ - ४८ - इह अपि तर्हि द्रव्यगणनात् न प्राप्नोति ।२२ - ४८ - सकृत् भुक्त्वा ।२३ - ४८ - सकृत् भोक्तुम् इति ।२४ - ४८ - पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुम् त्रिः भुक्त्वा त्रिः भोक्तुम् पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुम् दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुम् इति द्रव्यगणनान् न प्राप्नोति ।२५ - ४८ - यदि खलु अपि पुनः पुनः आवृत्तिः अभ्यावृत्तिः द्विः आवृत्ते सकृत् इति स्यात् त्रिः आवृत्ते द्विः इति ।२६ - ४८ - एवम् तर्हि अनुवर्तते अभ्यावृत्तिग्रहणम् न तु पुनः पुनः आवृत्तिः अभ्यावृत्तिः ।२७ - ४८ - किम् तर्हि अभिमुक्ःी प्रवृत्तिः अभ्यावृत्तिः ।२८ - ४८ - पूर्वा च परे प्रति अभिमुक्ःी परे च पूर्वाम् प्रति अभिमुख्यौ ।२९ - ४८ - यत् अपि उच्यते अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात् न भवति ।३० - ४८ - एकः पाकः इति ।३१ - ४८ - पूर्वयोः च योगयोः कस्मात् न भवति ।३२ - ४८ - द्वौ पाकौ. त्रयः पाकाः ।३३ - ४८ - चत्वारः पाकाः ।३४ - ४८ - पञ्च पाकाः ।३५ - ४८ - दश पाकाः इति परिहृतम् एतत् ।३६ - ४८ - न एतत् क्रियागणनम् ।३७ - ४८ - किम् तर्हि ।३८ - ४८ - द्रव्यगणनम् एतत् ।३९ - ४८ - कथम् ।४० - ४८ - कृदभिहितः भावः द्रव्यवत् भवति इति ।४१ - ४८ - ननु च उक्तम् इह अपि तर्हि द्रव्यगणनात् न प्राप्नोति ।४२ - ४८ - सकृत् भुक्त्वा ।४३ - ४८ - सकृत् भोक्तुम् इति ।४४ - ४८ - पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुम् त्रिः भुक्त्वा त्रिः भोक्तुम् पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुम् दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुम् इति द्रव्यगणनान् न प्राप्नोति ।४५ - ४८ - न एषः दोषः ।४६ - ४८ - क्रियागणनात् भविष्यति ।४७ - ४८ - कथम् ।४८ - ४८ - कृदभिहितः भावः द्रव्यवत् अपि क्रियावत् अपि भवति ।१ - ९ - देवतान्तात् इति उच्यते ।२ - ९ - तत इदम् न सिध्यति ।३ - ९ - पितृदेवत्यम् इति ।४ - ९ - किम् कारणम् ।५ - ९ - न हि ल्पितरः देवता ।६ - ९ - न एषः दोषः ।७ - ९ - दिवेः ऐश्वर्यकर्मणः देवः ।८ - ९ - तस्मात् स्वार्थे तल् ।९ - ९ - एवम् च कृत्वा देवदेवत्यम् अपि सिद्धम् भवति ।१ - ९ - तलि स्त्रीलिङ्गवचनम् ।२ - ९ - तलि स्त्रीलिङ्गम् वक्तव्यम् ।३ - ९ - देवता ।४ - ९ - किम् पुनः कारणम् न सिध्यति ।५ - ९ - देवशब्दः अयम् पुंलिङ्गः स्वार्थिकः च अयम् ।६ - ९ - स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।७ - ९ - उक्तम् वा ।८ - ९ - किम् उक्तम् ।९ - ९ - स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।१ - ८८ - लोहितात् लिङ्गबाधनम् वा ।२ - ८८ - लोहितात् लिङ्गबाधनम् वा इति वक्तव्यम् ।३ - ८८ - लोहितिक ।४ - ८८ - लोहिनिका ।५ - ८८ - अक्षरसमूहे छन्दसः उपसङ्ख्यानम् ।६ - ८८ - अक्षरसमूहे छन्दसः उपसङ्ख्यानम् कर्तव्यम् ।७ - ८८ - ओ श्रावय इति चतुरक्षरम् ।८ - ८८ - अस्तु श्रौषट् इति चतुरक्षरम् ।९ - ८८ - ये यजामहे इति पञ्चाक्षरम् ।१० - ८८ - यज इति द्व्यक्षरम् ।११ - ८८ - द्व्यक्षरः वषट्कारः ।१२ - ८८ - एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञम् अनु विहितः ।१३ - ८८ - छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।१४ - ८८ - छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।१५ - ८८ - हस्तौ पृणस्व बहुविः वसव्यैः ।१६ - ८८ - अग्निरीशेवसव्यस्य ।१७ - ८८ - अग्निरीशेवसव्यस्य उपसङ्ख्यानम् कर्तव्यम् ।१८ - ८८ - उक्तम् वा ।१९ - ८८ - किम् उक्तम् ।२० - ८८ - स्वार्थविज्ञानात् सिद्धम् इति ।२१ - ८८ - अपस्यः वसानाः ।२२ - ८८ - अपः वसानाः ।२३ - ८८ - स्वे ओक्ये ।२४ - ८८ - स्वे ओके ।२५ - ८८ - कव्यः असि हव्यसूदन ।२६ - ८८ - कविः असि ।२७ - ८८ - रौद्रेण अनीकेन कव्यतायै ।२८ - ८८ - कवितयै ।२९ - ८८ - आमुष्यायणस्य ।३० - ८८ - अमुष्यपुत्रस्य ।३१ - ८८ - क्षेम्यस्य ईशे ।३२ - ८८ - क्षेमस्य ईशे ।३३ - ८८ - क्षेम्यम् अध्यवस्यति ।३४ - ८८ - क्षेमम् अध्यवस्यति ।३५ - ८८ - आयुः वर्चस्यम् ।३६ - ८८ - वर्चः एव वर्चस्यम् ।३७ - ८८ - निष्केवल्यम् ।३८ - ८८ - निष्केवलम् ।३९ - ८८ - उक्थ्यम् ।४० - ८८ - उक्थम् ।४१ - ८८ - जन्यम् ताभिः सजन्यम् ताभिः ।४२ - ८८ - जनम् ताभिः सजनं ताभिः ।४३ - ८८ - स्तोमैः जनयामि नव्यम् ।४४ - ८८ - नवम् ।४५ - ८८ - प्र नः नव्येभिः ।४६ - ८८ - नवैः ।४७ - ८८ - ब्रह्म पूर्व्यम् ।४८ - ८८ - पाथः पूर्व्यम् ।४९ - ८८ - तनुषु पूर्व्यम् ।५० - ८८ - पूर्वम् ।५१ - ८८ - पूर्व्याहः ।५२ - ८८ - पूर्वाहः ।५३ - ८८ - पूर्व्याः विशः ।५४ - ८८ - पूर्वाः विशः ।५५ - ८८ - पूर्व्यासः ।५६ - ८८ - पूर्वासः ।५७ - ८८ - सः प्र पूर्व्यः ।५८ - ८८ - सः प्र पूर्वः ।५९ - ८८ - अग्निम् वै पूर्व्यम् ।६० - ८८ - पूर्वम् ।६१ - ८८ - तम् जुषस्व यविष्ठ्य ।६२ - ८८ - यविष्ठ ।६३ - ८८ - होत्रवाहम् यविष्ठ्यम् ।६४ - ८८ - यविष्ठम् ।६५ - ८८ - त्वम् ह यत् यविष्ठ्य ।६६ - ८८ - यविष्ठ ।६७ - ८८ - समावत् वसति समावत् गृह्णाति ।६८ - ८८ - समम् वसति समम् गृह्णाति ।६९ - ८८ - समावत् देवयज्ञे हस्तौ ।७० - ८८ - समम् ।७१ - ८८ - समावत् वीर्यावहानि ।७२ - ८८ - समानि ।७३ - ८८ - समावत् वीर्याणि करोति ।७४ - ८८ - समानि ।७५ - ८८ - उ ईवते उ लोकम् ।७६ - ८८ - यः ईवते ब्रह्मणे ।७७ - ८८ - यः इयते ।७८ - ८८ - नवस्य नूत्नप्तनखाः च ।७९ - ८८ - नवस्य नू इति अयम् आदेशः वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः ।८० - ८८ - नूत्नम् ।८१ - ८८ - नूतनम् ।८२ - ८८ - नवीनम् ।८३ - ८८ - नः च पुराणे प्रात् ।८४ - ८८ - नः च पुराणे प्रात् वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः ।८५ - ८८ - प्रणम् ।८६ - ८८ - प्रत्नम् ।८७ - ८८ - प्रतनम् ।८८ - ८८ - प्रीणम् ।१ - ५१ - तत् इति अनेन किम् प्रतिनिर्दिश्यते ।२ - ५१ - वाक् एव ।३ - ५१ - यत् एव वाचा व्यवहिर्यते तत् कर्मणा क्रियते ।४ - ५१ - अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि ।५ - ५१ - अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।६ - ५१ - कौलालः ।७ - ५१ - वाऋउडः ।८ - ५१ - नैषादः ।९ - ५१ - चाण्डालः ।१० - ५१ - आमित्रः ।११ - ५१ - भागरूपनामभ्यः धेयः ।१२ - ५१ - भागरूपनामभ्यः धेयः वक्तव्यः ।१३ - ५१ - भागधेयम् ।१४ - ५१ - रूपधेयम् ।१५ - ५१ - नामधेयम् ।१६ - ५१ - मित्रात् छन्दसि ।१७ - ५१ - मित्रात् छन्दसि धेयः वक्तव्यः ।१८ - ५१ - मित्रधेये यतस्व ।१९ - ५१ - अण् अमित्रात् च ।२० - ५१ - अण् अमित्रात् च इति वक्तव्यम् ।२१ - ५१ - मैत्रः ।२२ - ५१ - आमित्रः ।२३ - ५१ - सान्नाय्यानुजावरानुषूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनानि निपात्न्यन्ते ।२४ - ५१ - सान्नाय्यम् ।२५ - ५१ - आनुजावरः ।२६ - ५१ - आनुषूकः ।२७ - ५१ - चातुष्प्राश्यः ।२८ - ५१ - राक्षोघ्नः ।२९ - ५१ - वैयातः ।३० - ५१ - वैकृतः ।३१ - ५१ - वारिवस्कृतः ।३२ - ५१ - आग्रायणः ।३३ - ५१ - आग्रहायणः ।३४ - ५१ - सान्तपनः ।३५ - ५१ - अग्नीध्रसाधारणात् अञ् ।३६ - ५१ - अग्नीध्रसाधारणात् अञ् वक्तव्यः ।३७ - ५१ - आग्नीध्रम् ।३८ - ५१ - साधारणम् ।३९ - ५१ - अयवसमरुद्भ्याम् छन्दसि ।४० - ५१ - अयवसमरुद्भ्याम् छन्दसि अञ् वक्तव्यः ।४१ - ५१ - आयवसे वर्धन्ते ।४२ - ५१ - मारुतम् शर्धः ।४३ - ५१ - नवसूरमर्तयविष्ठेभ्यः यत् ।४४ - ५१ - नवसूरमर्तयविष्ठेभ्यः यत् वक्तव्यः ।४५ - ५१ - नव्यः ।४६ - ५१ - सूर्यः ।४७ - ५१ - मर्त्यः ।४८ - ५१ - यविष्थ्यः ।४९ - ५१ - क्षेमात् यः ।५० - ५१ - क्षेमात् यः वक्तव्यः ।५१ - ५१ - क्षेम्यः तिष्ठन् प्रतरणः सुवीरः ।१ - ७ - बह्वल्पार्थात् मङ्गलवचनम् [ऋमङ्गलामङ्गलवचनम्] । बह्वल्पार्थात् मङ्गलवचनम् [मङ्गलामङ्गलवचनम् ] कर्तव्यम् ।२ - ७ - बहुशः देहि ।३ - ७ - अनिष्टेषु श्राद्धादिषु मा भूत् ।४ - ७ - इष्टेषु प्राशित्रादिषु यथा स्यात् ।५ - ७ - अल्पशः देहि ।६ - ७ - इष्टेषु प्राशित्रादिषु मा भूत् ।७ - ७ - अनिष्टेषु श्राद्धादिषु यथा स्यात् ।१ - ५ - तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानम् ।२ - ५ - तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।३ - ५ - आदितः ।४ - ५ - मध्यतः ।५ - ५ - अन्ततः ।१ - २१ - च्विविधौ अभूततद्भावग्रहणम् ।२ - २१ - च्विविधौ अभूततद्भावग्रहणम् कर्तव्यम् ।३ - २१ - इह मा भूत् ।४ - २१ - सम्पद्यन्ते यवाः ।५ - २१ - सम्पद्यन्ते शालयः इति ।६ - २१ - अथ क्रियमाणे अपि वा अभूततद्भावग्रहणे इह कस्मात् न भवति ।७ - २१ - सम्पद्यन्ते अस्मिन् क्षेत्र शालयः इति ।८ - २१ - प्रकृतिविवक्षाग्रहणम् च ।९ - २१ - प्रकृतिविवक्षाग्रहणम् च कर्तव्यम् ।१० - २१ - समीपादिभ्यः उपसङ्ख्यानम् ।११ - २१ - समीपादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।१२ - २१ - समीपी भवति ।१३ - २१ - अभ्याशी भवति ।१४ - २१ - अन्तिकी भवति ।१५ - २१ - किम् पुनः कारणम् न सिध्यति ।१६ - २१ - न हि असमीपम् समीपम् भवति ।१७ - २१ - किम् तर्हि ।१८ - २१ - असमीपस्थम् समीपस्थम् भवति ।१९ - २१ - तत् तर्हि वक्तव्यम् ।२० - २१ - न वक्तव्यम् ।२१ - २१ - तात्स्थ्यात् ताच्छब्द्यम् भविष्यति ।१ - १७ - किमर्थः चकारः ।२ - १७ - स्वरार्थः ।३ - १७ - चितः अन्तः उदात्तत्ः भवति इति उदात्तत्वम् यथा स्यात् ।४ - १७ - न एतत् अस्ति प्रयोजनम् ।५ - १७ - एकाच् अयम् ।६ - १७ - तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।७ - १७ - प्रत्ययस्वरेण एव सिद्धम् ।८ - १७ - अतः उत्तरम् पठति ।९ - १७ - डाचि चित्करणम् विशेषणार्थम् ।१० - १७ - डाचि चित्करणम् क्रियते विशेषणार्थम् ।११ - १७ - क्व विशेषणाऋथेन अर्थः ।१२ - १७ - लोहितादिडाज्भ्यः क्यष् इति ।१३ - १७ - डा इति हि उच्यमाने इडा अतः अपि प्रसज्येत ।१४ - १७ - अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति ।१५ - १७ - इह तर्हि प्राप्नोति ।१६ - १७ - नाभा पृथिव्याः निहितः दविद्युतत् ।१७ - १७ - तस्मात् चकारः कर्तव्यः ।१ - २ - भद्रात् च इति वक्तव्यम् ।२ - २ - भद्रा करोति ।१ - ७० - अन्तग्रहणम् किमर्थम् ।२ - ७० - अन्तः यथा स्यात् ।३ - ७० - न एअतत् अस्ति प्रयोजनम् ।४ - ७० - प्रत्यय्परत्वेन अपि एतत् सिद्धम् ।५ - ७० - इदम् तर्हि प्रयोजनम् ।६ - ७० - तद्ग्रहणेन ग्रहणम् यथा स्यात् ।७ - ७० - कानि पुनः तद्ग्रहणस्य प्रयोजनानि ।८ - ७० - प्रयोजनम् अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसञ्ज्ञाः ।९ - ७० - अव्ययीभावः प्रयोजनम् ।१० - ७० - प्रतिराजम् ।११ - ७० - उपराजम् ।१२ - ७० - अव्ययीभावः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् ।१३ - ७० - न एतत् अस्ति प्रयोजनम् ।१४ - ७० - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।१५ - ७० - इदम् तर्हि प्रयोजनम् ।१६ - ७० - न अव्ययीभावात् अतः अम् तु अपञ्चम्याः इति एषः विधिः यथा स्यात् ।१७ - ७० - अव्ययीभाव ।१८ - ७० - द्विगु ।१९ - ७० - द्विगुसञ्ज्ञा च प्रयोजनम् ।२० - ७० - पञ्चगवम् ।२१ - ७० - दशगवम् ।२२ - ७० - द्विगुः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् ।२३ - ७० - न एतत् अस्ति प्रयोजनम् ।२४ - ७० - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।२५ - ७० - इदम् तर्हि प्रयोजनम् ।२६ - ७० - द्विपुरी ।२७ - ७० - त्रिपुरी ।२८ - ७० - द्विगोः अकारान्तात् इति ईकारः यथा स्यात् ।२९ - ७० - एतत् अपि न अस्ति प्रयोजनम् ।३० - ७० - पुरशब्दः अयम् अकारान्तः ।३१ - ७० - तेन समासः भविष्यति ।३२ - ७० - आतः च अकारान्तः इति आह ।३३ - ७० - क्षेमे सुभिक्षे कृतसञ्चयानि पुराणि विनयन्ति कोपम् इति ।३४ - ७० - इदम् तर्हि प्रयोजनम् ।३५ - ७० - द्विधुरी त्रिधुरी ।३६ - ७० - द्विगोः अकारान्तात् इति ङीप् यथा स्यात् ।३७ - ७० - द्विगु ।३८ - ७० - द्वन्द्व ।३९ - ७० - द्वन्द्वसञ्ज्ञा च प्रयोजनम् ।४० - ७० - वाक्त्वचम् ।४१ - ७० - स्रक्त्वचम् ।४२ - ७० - द्वन्द्वः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् ।४३ - ७० - न एतत् अस्ति प्रयोजनम् ।४४ - ७० - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।४५ - ७० - इदम् तर्हि प्रयोजनम् ।४६ - ७० - इदम् तर्हि प्रयोजनम् ।४७ - ७० - कोशः च निषत् च कोशनिषदम् ।४८ - ७० - कोशनिषदिनी ।४९ - ७० - द्वन्द्वोपतापगर्ह्यात् प्राणिस्थात् इनिः इति इनिः यथा स्यात् ।५० - ७० - द्वन्द्व ।५१ - ७० - तत्पुरुष ।५२ - ७० - तत्पुरुषसञ्ज्ञा च प्रयोजनम् ।५३ - ७० - परमधुरा उत्तमधुरा ।५४ - ७० - परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति परवल्लिङ्गता यथा स्यात् ।५५ - ७० - न एतत् अस्ति प्रय्जोनम् ।५६ - ७० - उत्तरपदार्थप्रधानः तत्पुरुषः ।५७ - ७० - इदम् तर्हि प्रयोजनम् ।५८ - ७० - अर्धधुरा ।५९ - ७० - एतत् अपि न अस्ति प्रयोजनम् ।६० - ७० - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।६१ - ७० - इदम् तर्हि प्रयोजनम् ।६२ - ७० - इदम् तर्हि ।६३ - ७० - निर्धुरः ।६४ - ७० - अव्ययम् तत्पुरुषे प्रकृतिस्वरम् भवति इति एषः स्वरः यथा स्यात् ।६५ - ७० - तत्पुरुष ।६६ - ७० - बहुव्रीहि ।६७ - ७० - बहुव्रीहिसञ्ज्ञा च प्रयोजनम् ।६८ - ७० - उच्चधुरः ।६९ - ७० - नीचधुरः ।७० - ७० - बहुव्रीहौ प्रकृत्या पूर्वपदम् भवति इति एषः स्वरः यथा स्यात् ।१ - ८ - इदम् विप्रतिषिद्धम् ।२ - ८ - कः प्रतिषेधः ।३ - ८ - परिगणिताभ्यः प्रकृतिभ्यः समासान्तः विधीयते न च तत्र का चित् पूजनान्ता प्रकृतिः निर्दिश्यते ।४ - ८ - न एतत् विप्रतिषिद्धम् ।५ - ८ - न एवम् विज्ञायते ।६ - ८ - याभ्यः प्रकृतिभ्यः समासान्तः विधीयते न चेत् ताः पूजनान्ताः भवन्ति इति ।७ - ८ - कथम् तर्हि ।८ - ८ - न चेत् ताः पूजनात् पराः भवन्ति इति ।१ - १२ - पूजायाम् स्वतिग्रहणम् ।२ - १२ - पूजायाम् स्वतिग्रहणम् कर्तव्यम् ।३ - १२ - सुराजा ।४ - १२ - अतिराजा ।५ - १२ - क्व मा भूत् ।६ - १२ - परमगवः ।७ - १२ - उत्तमगवः ।८ - १२ - प्राग्बहुव्रीहिग्रहणम् च ।९ - १२ - प्राग्बहुव्रीहिग्रहणम् च कर्तव्यम् ।१० - १२ - इह मा भूत् ।११ - १२ - स्वक्षः ।१२ - १२ - अत्यक्षः इति ।१ - ५ - क्षेपे इति किमर्थम् ।२ - ५ - कस्य राजा किंराजा ।३ - ५ - क्षेपे इति शक्यम् अकर्तुम् ।४ - ५ - कस्मात् न भवति कस्य राजा किंराजा इति ।५ - ५ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।१ - १७ - डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् निस्त्रिंशाद्यर्थम् ।२ - १७ - डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् कर्तव्यम् ।३ - १७ - किम् प्रयोजनम् ।४ - १७ - निस्त्रिंशाद्यर्थम् ।५ - १७ - निस्त्रिंशानि वर्षाणि ।६ - १७ - निश्चत्वारिंशानि वर्षाणि ।७ - १७ - अन्यत्र अधिकलोपात् ।८ - १७ - अन्यत्र अधिकलोपात् इति वक्तव्यम् ।९ - १७ - इह मा भूत् ।१० - १७ - एकाधिका विंशतिः एकविंशतिः ।११ - १७ - द्व्यधिका विंशतिः द्वाविंशतिः ।१२ - १७ - अव्ययादेः इति वक्तव्यम् ।१३ - १७ - इह मा भूत् ।१४ - १७ - गोत्रिंशत् ।१५ - १७ - गोचत्वारिंशत् इति ।१६ - १७ - तत् तर्हि वक्तव्यम् ।१७ - १७ - यदि अपि एतत् उच्यते अथ वा एतर्हि अन्यत्र अधिकलोपात् इति एतत् न क्रियते ।१ - १५ - अनक्षे इति कथम् इदम् विज्ञायते ।२ - १५ - न चेत् अक्षधूरन्तः समासः इति आहोस्वित् न चेत् अक्षः समासार्थः इति ।३ - १५ - किम् च अतः ।४ - १५ - यदि विज्ञायते न चेत् अक्षधूरन्तः समासः इति सिद्धम् अक्षस्य धूः अक्षधूः इति ।५ - १५ - इदम् तु न सिध्यति ।६ - १५ - दृढधूः अयम् अक्षः ।७ - १५ - अस्तु तर्हि न चेत् अक्षः समासार्थः इति ।८ - १५ - सिद्धम् दृढधूः अक्षः इति ।९ - १५ - इदम् तु न सिध्यति ।१० - १५ - अक्षस्य धूः अक्षधूः इति ।११ - १५ - एवम् तर्हि न एवम् विज्ञायते न चेत् अक्षधूरन्तः समासः इति न अपि न चेत् अक्षः समासार्थः इति ।१२ - १५ - कथम् तर्हि ।१३ - १५ - न चेत् अक्षस्य धूः इति ।१४ - १५ - एवम् च कृत्वा न अपि न चेत् अक्षधूरन्तः समासः इति विज्ञायते न अपि न चेत् अक्षः समासार्थः इति ।१५ - १५ - अथ च उभयोः न भवति ।१ - ६ - अदर्शनात् इति उच्यते ।२ - ६ - तत्र इदम् न सिध्यति ।३ - ६ - कवराक्षम् ।४ - ६ - अदर्शनात् इति शक्यम् अकर्तुम् ।५ - ६ - कथम् ब्राह्मणक्षि क्षत्रियाक्षि ।६ - ६ - अप्राण्यङ्गात् इति वक्तव्यम् ।१ - २८ - आद्याः त्रयः बहुव्रीहयः ।२ - २८ - अद्रष्टा चतुर्णाम् अचतुरः ।३ - २८ - विद्रष्टा चतुर्णाम् विचतुरः ।४ - २८ - सुद्रष्टा चतुर्णाम् सुचतुरः ।५ - २८ - ततः परे एकादश द्वन्द्वाः ।६ - २८ - स्त्रीपुंस धेन्वनडुह ऋक्साम वाङ्मनस अक्षिभ्रुव दारगव ऊर्वष्ठीव पदष्ठीव नक्तन्दिव रात्रिन्दिव अहर्दिव ।७ - २८ - ततः अव्ययीभावः ।८ - २८ - सह रजसा सरजसम् ।९ - २८ - ततः तत्पुरुषः ।१० - २८ - निश्रितम् श्रेयः निःश्रेयसम् ।११ - २८ - ततः षष्ठीसमासः ।१२ - २८ - पुरुषस्य आयुः पुरुषायुषम् ।१३ - २८ - ततः द्विगू ।१४ - २८ - द्वे आयुषी द्व्यायुषम् ।१५ - २८ - त्रीणि आयूंषि त्र्यायुषम् ।१६ - २८ - ततः द्वन्द्वः ।१७ - २८ - ऋक् च यजुः च र्ग्यजुषम् ।१८ - २८ - जातादयः उक्षान्ताः समानाधिकरणाः ।१९ - २८ - जातः उक्षा जातोक्षः ।२० - २८ - महान् उक्षा महोक्षः ।२१ - २८ - वृद्धः उक्षा वृद्धोक्षः ।२२ - २८ - ततः अव्ययीभावः ।२३ - २८ - शुनः समीपम् उपशुनम् ।२४ - २८ - ततः सप्तमीसमासः गोष्ठे श्वा गोष्ठश्वः ।२५ - २८ - चतुरः अच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् ।२६ - २८ - चतुरः अच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् कर्तव्यम् ।२७ - २८ - त्रिचतुराः ।२८ - २८ - उपचतुराः ।१ - ३ - पल्यराजभ्याम् च इति वक्तव्यम् ।२ - ३ - पल्यवर्चसम् ।३ - ३ - राजवर्चसम् ।१ - ५ - अहर्ग्रहणम् द्वन्द्वार्थम् ।२ - ५ - अहर्ग्रहणम् द्वन्द्वार्थम् द्रष्टव्यम् ।३ - ५ - किम् उच्यते द्वन्द्वार्थम् इति न पुनः तत्पुरुषार्थम् अपि स्यात् ।४ - ५ - तत्पुरुषाभावात् ।५ - ५ - न हि रात्र्यन्तः अहरादिः तत्पुरुषः अस्ति ।१ - ५ - अह्नः अह्नवचनानर्थक्यम् च अह्नः टखोः नियमवचनात् ।२ - ५ - अह्नः अह्नवचनम् अनर्थकम् ।३ - ५ - किम् कारणम् ।४ - ५ - अह्नः टखोः नियमवचनात् ।५ - ५ - अह्नः टखोः एव इति एतत् नियमार्थम् भविष्यति ।१ - ५ - अनसन्तात् नपुंसकात् छन्दसि वा इति वक्तव्यम् ।२ - ५ - ब्रह्मसामम् ।३ - ५ - ब्रह्मसाम ।४ - ५ - देवच्छन्दसम् ।५ - ५ - देवच्छन्दः ।१ - ९ - किमर्थम् षच् प्रत्ययान्तरम् विधीयते न टच् प्रकृतः सः अनुवर्तिष्यते ।२ - ९ - अतः उत्तरम् पठति ।३ - ९ - षचि प्रत्ययान्तरकरणम् अनन्तोदात्तार्थम् ।४ - ९ - षचि प्रत्ययान्तरम् क्रियते ।५ - ९ - किम् प्रयोजनम् ।६ - ९ - अनन्तोदात्तार्थम् ।७ - ९ - अनन्तोदात्ताः प्रयोजयन्ति ।८ - ९ - चक्रसक्थम् ।९ - ९ - चक्रसक्थी ।१ - ६ - किमर्थम् मूर्ध्नः ष प्रत्ययान्तरम् विधीयते न षच् प्रकृतः सः अनुवर्तिष्यते ।२ - ६ - मूर्ध्नः च षवचनम् ।३ - ६ - किम् ।४ - ६ - अनन्तोदात्तार्थम् इति एव ।५ - ६ - द्विमूर्धः ।६ - ६ - त्रिमूर्धः ।१ - २२ - अपि प्रधानपूरणीग्रहणम् ।२ - २२ - अपि प्रधानपूरणीग्रहणम् कर्तव्यम् ।३ - २२ - प्रधानम् या पूरणी इति वक्तव्यम् ।४ - २२ - इह मा भूत् ।५ - २२ - कल्याणी पञ्चमी अस्य पक्षस्य कल्याणपञ्चमीकः पक्षः ।६ - २२ - अथ इह कथम् भवितव्यम् ।७ - २२ - कल्याणी पञ्चमी असाम् रात्रीणाम् इति ।८ - २२ - कल्याणीपञ्चमाः रात्रयः इति भवितव्यम् ।९ - २२ - रत्रयः अत्र प्रधानम् ।१० - २२ - नेतुः नक्षत्रे उपसङ्ख्यानम् ।११ - २२ - नेतुः नक्षत्रे उपसङ्ख्यानम् कर्तव्यम् ।१२ - २२ - पुष्यनेत्राः ।१३ - २२ - मृगनेत्राः ।१४ - २२ - छन्दसि च ।१५ - २२ - छन्दसि च नेतुः उपसङ्ख्यानम् कर्तव्यम् ।१६ - २२ - बृहस्पतिनेत्राः ।१७ - २२ - सोमनेत्राः ।१८ - २२ - मासात् भृतिप्रत्ययपूर्वपदात् ठज्विधिः ।१९ - २२ - मासात् भृतिप्रत्ययपूर्वपदात् ठच् विधेयः ।२० - २२ - पञ्चकमासिकः ।२१ - २२ - षट्कमासिकः ।२२ - २२ - दशकमासिकः ।१ - ५ - खरखुराभ्याम् च नस् वक्तव्यः ।२ - ५ - खरणाः ।३ - ५ - खुरणाः ।४ - ५ - शितिनाः अर्चनाः अहिनाः इति नैगमाः ।५ - ५ - शितिनाः अर्चनाः अहिनाः ।१ - २ - वेः ग्रः वक्तव्यः ।२ - २ - विग्रः ।१ - ३ - ऊधसः अनङि स्त्रीग्रहणम् ।२ - ३ - ऊधसः अनङि स्त्रीग्रहणम् कर्तव्यम् इह मा भूत् ।३ - ३ - महोधाः पर्जन्यः इति ।१ - ६ - गन्धस्य इत्त्वे तदेकान्तग्रहणम् ।२ - ६ - गन्धस्य इत्त्वे तदेकान्तग्रहणम् कर्तव्यम् इह मा भूत् ।३ - ६ - शोभनाः गन्धाः अस्य सुगन्धः आपणिकः इति ।४ - ६ - अथ अनुलिप्ते कथम् भवितव्यम् ।५ - ६ - यदि तावत् यत् अनुगतम् तत् अभिसमीक्षितम् सुगन्धिः इति भवितव्यम् ।६ - ६ - अथ यत् प्रविशीर्णम् सुगन्धः इति भवितव्यम् ।१ - २९ - शेषात् इति उच्यते ।२ - २९ - कः शेषः नाम ।३ - २९ - याभ्यः प्रकृतिभ्यः समासान्तः नि विधीयते सः शेषः ।४ - २९ - किमर्थम् पुनः शेषग्रहणम् क्रियते ।५ - २९ - याभ्यः प्रकृतिभ्यः समासान्तः विधीयते ताभ्यः मा भूत् इति ।६ - २९ - न एतत् अस्ति प्रयोजनम् ।७ - २९ - ये प्रतिपदम् विधीयन्ते ते तत्र बाधकाः भविष्यन्ति ।८ - २९ - अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशाः च समासान्ताः ।९ - २९ - कः अवकाशः ।१० - २९ - विभाषा कप् ।११ - २९ - यदा न कप् सः अवकाशः ।१२ - २९ - कपः प्रसङ्गे उभयम् प्राप्नोति ।१३ - २९ - परत्वात् कप् प्राप्नोति ।१४ - २९ - तस्मात् शेषग्रहणम् कर्तव्यम् ।१५ - २९ - किम् पुनः इदम् शेषग्रहणम् कबपेक्षम् यस्मात् बहुव्रीहेः कप् इति आहोस्वित् समासान्तापेक्षम् यस्मात् बहुव्रीहेः समासान्तः न विहितः इति ।१६ - २९ - किम् च अतः ।१७ - २९ - यदि विज्ञायते कबपेक्षम् अनृचः बह्वृचः इति अत्र अपि प्राप्नोति ।१८ - २९ - अथ समासान्तापेक्षम् अनृक्कम् बह्वृक्कम् सूक्तम् इति न सिध्यति ।१९ - २९ - अस्तु कबपेक्षम् ।२० - २९ - कथम् अनृचः बह्वृचः इति ।२१ - २९ - विशेषे एतत् वक्तव्यम् ।२२ - २९ - अनृचः माणवे बह्वृचः चरणशाखायाम् इति ।२३ - २९ - इदम् तर्हि ऊधसः अनङि स्त्रीग्रहणम् चोदितम् ।२४ - २९ - तस्मिन् क्रियमाणे अपि प्राप्नोति ।२५ - २९ - एवम् तर्हि न एव कबपेक्षम् शेषग्रहणम् न अपि समासान्तापेक्षम् ।२६ - २९ - किम् तर्हि अनन्तरः यः बहुव्रीह्यधिकारः सः अपेक्ष्यते ।२७ - २९ - अनन्तरे बहुव्रीह्यधिकारे यस्मात् बहुव्रीहेः समासान्तः न विहितः इति ।२८ - २९ - कथम् अनृचः बह्वृचः इति ।२९ - २९ - वक्तव्यम् एव अनृचः माणवे बह्वृचः चरणशाखायाम् इति ।१ - ६ - ईयसः उपसर्जनदीर्घत्वम् च ।२ - ६ - ईयसः उपसर्जनदीर्घत्वम् च वक्तव्यम् ।३ - ६ - बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी ।४ - ६ - विद्यमानश्रेयसी ।५ - ६ - पुंवद्वचनात् सिद्धम् ।६ - ६ - पुंवद्भावः अत्र भवति ईयसः बहुव्रीहौ पुंवद्वचनम् इति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP