संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ५|पाद २| खण्ड ५४ पाद २ खण्ड ५४ खण्ड ५५ पाद २ - खण्ड ५४ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ५४ Translation - भाषांतर १ - ४३ - तिलादिभ्यः खञ् च ।२ - ४३ - तिलादिभ्यः खञ् च इति वक्तव्यम् ।३ - ४३ - तिल्यम् ।४ - ४३ - तैलीनम् ।५ - ४३ - किमर्थम् इदम् उच्यते न यता मुक्ते धान्यानाम् भवने क्षेत्रे खञ् इति एव सिद्धम् ।६ - ४३ - न सिध्यति ।७ - ४३ - किम् कारणम् ।८ - ४३ - उमाभङ्गयोः अधान्यत्वात् ।९ - ४३ - धान्यानाम् भवने क्षेत्रे खञ् इति उच्यते ।१० - ४३ - न च उमाभङ्गे धान्ये ।११ - ४३ - चमेषु यत् पठ्यते तत् धान्यम् ।१२ - ४३ - न च एते तत्र पठ्येते ।१३ - ४३ - तत् तर्हि खञ्ग्रहणम् कर्तव्यम् ।१४ - ४३ - न कर्तव्यम् ।१५ - ४३ - प्रकृतम् अनुवर्तते ।१६ - ४३ - क्व प्रकृतम् ।१७ - ४३ - धान्यानाम् भवने क्षेत्रे खञ् इति ।१८ - ४३ - यदि तत् अनुवर्तते व्रीहिशालयोः ढक् यवयवकषष्टिकात् यत् इति खञ् च इति खञ् अपि प्राप्नोति ।१९ - ४३ - सम्बन्धम् अनुवर्तिष्यते ।२० - ४३ - धान्यानाम् भवने क्षेत्रे खञ् ।२१ - ४३ - व्रीहिशालयोः ढक् भवति ।२२ - ४३ - धान्यानाम् भवने क्षेत्रे खञ् ।२३ - ४३ - यवयवकषष्टिकात् यत् भवति ।२४ - ४३ - धान्यानाम् भवने क्षेत्रे खञ् भवति ।२५ - ४३ - विभाषा तिलमाषोमाभङ्गणुभ्यः ।२६ - ४३ - भवनेक्षेत्रेग्रहणम् अनुवर्तते ।२७ - ४३ - धान्यानाम् इति निवृत्तम् ।२८ - ४३ - अथ वा मण्डूकप्लुतयः अधिकाराः ।२९ - ४३ - यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।३० - ४३ - अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः ।३१ - ४३ - अन्यस्य प्रत्ययस्य वचनात् चकारस्य च अनुकर्षणार्थस्य अकरणात् प्रकृतस्य खञः ढग्यतौ बाधकौ भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति ।३२ - ४३ - अथ वा एतत् ज्ञापयति अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति ।३३ - ४३ - किम् तर्हि ।३४ - ४३ - यत्नात् भवन्ति ।३५ - ४३ - अथ वा यता मुक्ते धान्यानाम् भवने क्षेत्रे खञ् इति एव सिद्धम् ।३६ - ४३ - ननु च उक्तम् ।३७ - ४३ - न सिध्यति ।३८ - ४३ - किम् कारणम् ।३९ - ४३ - उमाभङ्गयोः अधान्यत्वात् इति ।४० - ४३ - न एषः दोषः ।४१ - ४३ - धिनोतेः धान्यम् ।४२ - ४३ - एते च अपि धिनुतः ।४३ - ४३ - अथ वा शणसप्तदशानि धान्यानि ।१ - ४ - सम्मुख इति किम् निपात्यते ।२ - ४ - सम्मुख इति समस्य अन्तलोपः ।३ - ४ - सम्मुख इति समस्य अन्तलोपः निपात्यते ।४ - ४ - सममुखस्य दर्शनः सम्मुखीनः ।१ - ६ - अयानयम् नेयः इति उच्यते ।२ - ६ - तत्र न ज्ञायते कः अयः कः अनयः इति ।३ - ६ - अयः प्रदक्षिणम् ।४ - ६ - अनयः प्रसव्यम् ।५ - ६ - प्रदक्षिणप्रसव्यगमिनाम् शाराणाम् यस्मिन् परैः पदानाम् असमावेशः सः अयानयः ।६ - ६ - अयानयम् नेयः अयानयीनः शारः ।१ - १२ - परोवर इति किम् निपात्यते ।२ - १२ - परोवर इति परसोत्ववचनम् ।३ - १२ - परोवर इति परस्य ओत्वम् निपात्यते ।४ - १२ - यदि एवम् परस्यौत्ववचनम् इति प्राप्नोति ।५ - १२ - शकन्धुन्यायेन निर्देशः ।६ - १२ - अथ वा न एवम् विज्ञायते परस्य ओत्वम् निपात्यते इति ।७ - १२ - कथम् तर्हि ।८ - १२ - परस्य शब्दरूपस्य आदेः उत्वम् निपात्यते इति ।९ - १२ - परान् च अवरान् च अनुभवति परोवरीणः ।१० - १२ - अथ परम्पर इति किम् निपात्यते ।११ - १२ - परपरतराणाम् परम्परभावः । परपरतराणाम् परम्परभावः निपात्यते ।१२ - १२ - परान् च परतरान् च अनुभवति परम्परीणः ।१ - १४ - इह समांसमीना गौः सुपः धातुप्रातिपदिकयोः इति सुब्लुक् प्राप्नोति ।२ - १४ - समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् ।३ - १४ - समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् भविष्यति ।४ - १४ - यत् अयम् यलोपम् शास्ति तत् ज्ञापयति आचार्यः न अत्र लुक् भवति इति ।५ - १४ - समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् इति चेत् उत्तरपदस्य लुग्वचनम् ।६ - १४ - समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् इति चेत् उत्तरपदस्य लुक् वक्तव्यः ।७ - १४ - सिद्धम् तु पूर्वपदस्य यलोपवचनात् ।८ - १४ - सिद्धम् एतत् ।९ - १४ - कथम् ।१० - १४ - पूर्वपदस्य यलोपः वक्तव्यः ।११ - १४ - अनुत्पत्तौ उत्तरपदस्य च वावचनम् ।१२ - १४ - अनुत्पत्तौ पूर्वपदस्य उत्तरपदस्य च यलोपः वा वक्तव्यः ।१३ - १४ - समाम् समाम् विजायते ।१४ - १४ - समायाम् समायाम् विजायते इति ।१ - ४ - आगवीनः इति किम् निपात्यते ।२ - ४ - गोः आङ्पूर्वात् अ तस्य गोः प्रतिदानात् कारिणि खः ।३ - ४ - गोः आङ्पूर्वात् अ तस्य गोः प्रतिदानात् कारिणि खः निपात्यते ।४ - ४ - अ तस्य गोः प्रतिदानात् कर्मकारी आगवीनः कर्मकरः ।१ - ५ - किम् यः शालायाम् अधृष्टः सः शालीनः कूपे वा यत् अकार्यम् तत् कौपीनम् ।२ - ५ - न इति आह ।३ - ५ - उत्तरपदलोपः अत्र द्रष्टव्यः ।४ - ५ - शालाप्रवेशनम् अर्हति अधृष्टः सः शालीनः ।५ - ५ - कूपावतरणम् अर्हति अकार्यम् तत् कौपीनम् ।१ - ५ - व्रातेन जीवति इति उच्यते ।२ - ५ - किम् व्रातम् नाम ।३ - ५ - नानाजातीयाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः ।४ - ५ - तेषाम् कर्म व्रातम् ।५ - ५ - व्रातकर्मणा जीवति इति व्रातीनः ।१ - ७ - हैयङ्गवीनम् इति किम् निपात्यते ।२ - ७ - ह्योगोदोहस्य हियङ्ग्वादेशः सञ्ज्ञायाम् तस्य विकारे ।३ - ७ - ह्योगोदोहस्य हियङ्ग्वादेशः निपात्यते सञ्ज्ञायाम् विषये तस्य विकारे इति एतस्मिन् अर्थे ।४ - ७ - ह्योगोदोहस्य विकारः हैयङ्गवीनम् घृतम् ।५ - ७ - सञ्ज्ञायाम् इति किमर्थम् ।६ - ७ - ह्योगोदोहस्य विकारः उदश्वित् ।७ - ७ - अत्र मा भूत् इति ।१ - ९ - इह नाना इति सहार्थः गम्येत ।२ - ९ - द्वौ हि प्रतिषेधौ प्रकृतम् अर्थम् गमयतः ।३ - ९ - न न सः सह एव इति ।४ - ९ - न एषः दोषः ।५ - ९ - न अयम् प्रत्ययार्थः ।६ - ९ - किम् तर्हि प्रकृतिविशेषणम् एतत् ।७ - ९ - वि नञ् इति एताभ्याम् असहवाचिभ्याम् नानाञौ भवतः ।८ - ९ - कस्मिन् अर्थे ।९ - ९ - स्वाऋथे ।१ - २३ - कस्मिन् अर्थे शालजादयः भवन्ति ।२ - २३ - न सह इति वर्तते ।३ - २३ - भवेत् सिद्धम् विशाले शृङ्गे विशङ्कटे शृङ्गे इति ।४ - २३ - इह खलु सङ्कटम् इति सङ्गतार्थः गम्यते ।५ - २३ - प्रकटम् इति प्रगरार्थः गम्यते ।६ - २३ - उत्कटम् इति उद्गतार्थः गम्यते ।७ - २३ - एवम् तर्हि साधने शालजादयः भवन्ति ।८ - २३ - किम् वक्तव्यम् एतत् ।९ - २३ - न हि ।१० - २३ - कथम् अनुच्यमानम् गंस्यते ।११ - २३ - उपसर्गेभ्यः इमे विधीयन्ते ।१२ - २३ - उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाचै शब्दः प्रयुज्यते तत्र क्रियाविशेषम् आहुः ।१३ - २३ - यत्र हि न प्रयुज्यते ससाधनम् तत्र क्रियाम् आहुः ।१४ - २३ - ते एते उपसर्गेभ्यः विधीयमानाः ससाधनायाम् क्रियायाम् भविष्यन्ति ।१५ - २३ - एवम् अपि भवेत् सिद्धम् विशाले शृङ्गे इति ।१६ - २३ - इदम् तु न सिध्यति ।१७ - २३ - विशालः ।१८ - २३ - विशङ्कटः इति ।१९ - २३ - एतत् अपि सिद्धम् ।२० - २३ - कथम् ।२१ - २३ - अकारः मत्वर्थीयः ।२२ - २३ - विशाले अस्य स्तः विशालः ।२३ - २३ - विशङ्कटे अस्य स्तः विशङ्कटः इति ।१ - ४४ - कटच्प्रकरणे अलाबूतिलोमाभ्यः रजसि उपसङ्ख्यानम् ।२ - ४४ - कटच्प्रकरणे अलाबूतिलोमाभ्यः रजसि अभिधेये उपसङ्ख्यानम् कर्तव्यम् ।३ - ४४ - अलाबूकटः ।४ - ४४ - तिलकटः ।५ - ४४ - उमाकटः ।६ - ४४ - भङ्गायाः च ।७ - ४४ - भङ्गायाः च इति वक्तव्यम् ।८ - ४४ - भङ्गाकटः ।९ - ४४ - गोष्ठादयः स्थानादिषु पशुनामादिभ्यः ।१० - ४४ - गोष्ठादयः प्रत्ययाः स्थानादिषु अर्थेषु पशुनामादिभ्यः वक्तव्याः ।११ - ४४ - गोगोष्ठम् ।१२ - ४४ - अविगोष्ठम् ।१३ - ४४ - कटच् च वक्तव्यः ।१४ - ४४ - अविकटः उष्ट्रकटः ।१५ - ४४ - पटच् च वक्तव्यः ।१६ - ४४ - अविपटः उष्ट्रपटः ।१७ - ४४ - गोयुगशब्दः च प्रत्ययः वक्तव्यः ।१८ - ४४ - उष्ट्रगोयुगम् ।१९ - ४४ - खरगोयुगम् ।२० - ४४ - तैलशब्दः च प्रत्ययः वक्तव्यः ।२१ - ४४ - इङ्गुदतैलम् ।२२ - ४४ - सर्षपतैलम् ।२३ - ४४ - शाकटशब्दः च प्रत्ययः वक्तव्यः ।२४ - ४४ - इक्षुशाकटम् ।२५ - ४४ - मूलशाकटम् ।२६ - ४४ - शाकिनशब्दः च प्रत्ययः वक्तव्यः ।२७ - ४४ - इक्षुशाकिनम् मूलशाकिनम् ।२८ - ४४ - उपमानात् वा सिद्धम् ।२९ - ४४ - उपमानात् वा सिद्धम् एतत् ।३० - ४४ - गवाम् स्थानम् गोष्ठम् ।३१ - ४४ - यथा गवम् तद्वत् उष्ट्राणाम् ।३२ - ४४ - कटच् वक्तव्यः इति ।३३ - ४४ - यथा नानाद्रव्याणाम् सङ्घातः कटः एवम् अवयः संहताः अविकटः ।३४ - ४४ - पटत् च वक्तयः इति ।३५ - ४४ - यथा पटः प्रस्तीर्णः एवम् अवयः प्रस्तीर्णाः अविपटः ।३६ - ४४ - गोयुगशब्दः च प्रत्ययः वक्तव्यः इति ।३७ - ४४ - गोः युगम् गोयुगम् ।३८ - ४४ - यथा गोः तद्वत् उष्ट्रस्य ।३९ - ४४ - उष्ट्रगोयुगम् ।४० - ४४ - तैलशब्दः च प्रत्ययः वक्तव्यः इति ।४१ - ४४ - प्रकृत्यन्तरम् तैलशब्दः विकारे वर्तते ।४२ - ४४ - एवम् च कृत्वा तिलतैलम् इति अपि सिद्धम् भवति ।४३ - ४४ - शाकटशब्दः च प्रत्ययः वक्तव्यः एव ।४४ - ४४ - शाकिनशब्दः च प्रत्ययः वक्तव्यः एव ।१ - १६ - इनच्पिटच्काः प्रत्ययाः वक्तव्याः चिकचिचिक् इति एते च प्रकृत्यादेशाः वक्तव्याः ।२ - १६ - चिकिनः ।३ - १६ - चिपिटः ।४ - १६ - चिक्कः ।५ - १६ - क्लिन्नस्य चिल्पिल् लः च अस्य चक्षुषी ।६ - १६ - क्लिन्नस्य चिल् पिल् इति एतौ प्रकृत्यादेशौ वक्तव्यौ लः च प्रत्ययः अस्य चक्षुषी इति एतस्मिन् अर्थे ।७ - १६ - क्लिन्ने अस्य चक्षुषी चिल्लः ।८ - १६ - पिल्लः ।९ - १६ - चुल् च वक्तव्यः ।१० - १६ - चुल्लः ।११ - १६ - यदि अस्य इति उच्यते चिल्ले चक्षुषी पिल्ले चक्षुषी इति न सिध्यति ।१२ - १६ - तस्मान् न अर्थः अस्य ग्रहणे ।१३ - १६ - कथम् चिल्लः पिल्लः इति ।१४ - १६ - अकारः मत्वर्थीयः ।१५ - १६ - चिल्ले अस्य स्तः चिल्लः ।१६ - १६ - पिल्ले अस्य स्तः पिल्लः इति ।१ - ५४ - प्रमाणे इति किमयम् प्रत्ययार्थः ।२ - ५४ - प्रमाणम् प्रत्ययार्थः न । प्रमाणे इति न अयम् प्रत्ययार्थः ।३ - ५४ - क्व तर्हि प्रत्ययाः भवन्ति ।४ - ५४ - तद्वति ।५ - ५४ - कुतः एतत् ।६ - ५४ - अस्य इति वर्तनात् ।७ - ५४ - अस्य इति वर्तते ।८ - ५४ - क्व प्रकृतम् ।९ - ५४ - तद् अस्य सञ्जातम् तारकादिभ्यः इतच् इति ।१० - ५४ - प्रथमः च द्वितीयः च ऊर्ध्वमाने मतौ मम ।११ - ५४ - ऊरुद्वयसम् ।१२ - ५४ - ऊरुदघ्नम् ।१३ - ५४ - प्रमाणे लः ।१४ - ५४ - प्रमाणे लः वक्तव्यः शमः , दिष्टिः , वितस्तिः ।१५ - ५४ - द्विगोः नित्यम् ।१६ - ५४ - द्विगोः नित्यम् लः वक्तव्यः ।१७ - ५४ - द्विशतम् ।१८ - ५४ - त्रिशतम् ।१९ - ५४ - द्विदिष्टिः ।२० - ५४ - त्रिदिष्टिः ।२१ - ५४ - द्विवितस्तिः ।२२ - ५४ - त्रिवितस्तिः ।२३ - ५४ - किमर्थम् इदम् उच्यते ।२४ - ५४ - संशये श्राविणम् वक्ष्यति यस्य अस्यम् पुरस्तात् अपकर्षः ।२५ - ५४ - डट् स्तोमे ।२६ - ५४ - डट् स्तोमे वक्तव्यः ।२७ - ५४ - पञ्चदशः स्तोमः ।२८ - ५४ - शच्शनोः डिनिः ।२९ - ५४ - शच्शनोः डिनिः वक्तव्यः ।३० - ५४ - त्रिंशिनः मासाः ।३१ - ५४ - पञ्चदशिनः अर्धमासाः ।३२ - ५४ - विंशतेः च इति वक्तव्यम् ।३३ - ५४ - विंशिनः अङ्गिरसः ।३४ - ५४ - प्रमाणपरिमाणाभ्याम् सङ्ख्यायाः च संशये ।३५ - ५४ - मात्रच् वक्तव्यः ।३६ - ५४ - शममात्रम् ।३७ - ५४ - दिष्टिमात्रम् ।३८ - ५४ - वितस्तिमात्रम् ।३९ - ५४ - कुडवमात्रम् ।४० - ५४ - पञ्चमात्राः ।४१ - ५४ - दशमात्राः ।४२ - ५४ - वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम् ।४३ - ५४ - वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम् वक्तव्यौ ।४४ - ५४ - तावत् एव तावद्द्वयसम् ।४५ - ५४ - तावन्मात्रम् ।४६ - ५४ - यावत् एव यावद्द्वयसम् ।४७ - ५४ - यावन्मात्रम् ।४८ - ५४ - [प्रमाणम् प्रत्ययार्थः न तद्वति अस्य इति वर्तनात् ।४९ - ५४ - प्रथमः च द्वितीयः च ऊर्ध्वमाने मतौ मम ।५० - ५४ - प्रमाणे लः ।५१ - ५४ - द्विगोः नित्यम् ।५२ - ५४ - डट् स्तोमे ।५३ - ५४ - शच्शनोः डिनिः ।५४ - ५४ - प्रमाणपरिमाणाभ्याम् सङ्ख्यायाः च संशये (ऋ ईV.११८)]१ - ९ - किमर्थम् परिमाणे इति उच्यते न प्रमाणे इति वर्तते ।२ - ९ - एवम् तर्हि सिद्धे सति यत् परिमाणग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत् प्रमाणम् अन्यत् परिमाणम् इति ।३ - ९ - डावतौ अर्थवैशेष्यात् निर्देशः पृथक् उच्यते ।४ - ९ - न एतत् ज्ञापकसाध्यम् अन्यत् प्रमाणम् अन्यत् परिमाणम् इति ।५ - ९ - उक्तः अत्र विशेषः ।६ - ९ - मात्राद्यप्रतिघाताय ।७ - ९ - एवम् च कृत्वा मात्रादीनाम् प्रतिघातः न भवति ।८ - ९ - भावः सिद्धः च डावतोः ।९ - ९ - डावत्वन्तात् मात्रजादीनाम् भावः सिद्धः भवति ।१ - १० - वतुप्प्रकरणे युष्मदस्मद्भ्याम् छन्दसि सादृशे उपसङ्ख्यानम् ।२ - १० - वतुप्प्रकरणे युष्मदस्मद्भ्याम् छन्दसि सादृशे उपसङ्ख्यानम् कर्तव्यम् ।३ - १० - न त्वावान् अन्यः दिव्यः न पर्थिवः न जातः न जनिष्यते ।४ - १० - त्ववतः पुरूवसो ।५ - १० - यज्ञम् विप्रस्य मवतः ।६ - १० - त्वत्सदृशस्य ।७ - १० - मत्सदृशस्य इति ।८ - १० - [डावतौ अर्थवैशेष्यात् निर्देशः पृथक् उच्यते ।९ - १० - मात्राद्यप्रतिघाताय ।१० - १० - भावः सिद्धः च डावतोः (ऋ ईV.१२०)]१ - ६ - केन विहितस्य किमिदम्भ्याम् वतुपः वः घत्वम् उच्यते ।२ - ६ - एतत् एव ज्ञापयति आचार्यः भवति किमिदम्भ्याम् वतुप् इति यत् अयम् किमिदम्भ्याम् उत्तरस्य वतुपः वः घत्वम् शास्ति ।३ - ६ - अथ वा योगविभागः करिष्यते ।४ - ६ - किमिदम्भ्याम् वतुप् भवति ।५ - ६ - ततः वः घः इति ।६ - ६ - वः च अस्य घः भवति इति ।१ - १० - बहुषु इति वक्तव्यम् ।२ - १० - इह मा भूत् ।३ - १० - कियान् ।४ - १० - कियन्तौ ।५ - १० - तत् तर्हि वक्तव्यम् ।६ - १० - न वक्तव्यम् ।७ - १० - किम् इति एतत् परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातम् च बहुषु ।८ - १० - द्व्येकयोः पुनः निर्ज्ञातम् ।९ - १० - निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नः न भवति ।१० - १० - परिप्रश्नाभावात् किम् एव तावत् न अस्ति कुतः प्रत्ययः ।१ - २१ - इह कस्मात् न भवति ।२ - २१ - बहवः अवयवाः अस्याः सङ्ख्यायाः इति ।३ - २१ - अवयवे या सङ्ख्या इति उच्यते ।४ - २१ - न च का चित् सङ्ख्या अस्ति यस्याः बहुशब्दः अवयवः स्यात् ।५ - २१ - ननु च इयम् अस्ति सङ्ख्या इति एव ।६ - २१ - न एषा सङ्ख्या ।७ - २१ - सञ्ज्ञा एषा ।८ - २१ - अवयवविधाने अवयविनि प्रत्ययः ।९ - २१ - अवयवविधाने अवयविनि प्रत्ययः भवति इति वक्तव्यम् ।१० - २१ - इह मा भूत् ।११ - २१ - पञ्च अवयवाः ।१२ - २१ - दश अवयवाः इति ।१३ - २१ - अथ अवयविनि इति उच्यमाने अवयवस्वामिनि कस्मात् न भवति ।१४ - २१ - पञ्च पश्ववयवाः देवदत्तस्य इति ।१५ - २१ - अवयवशब्दः अयम् गुणशब्दः अस्य इति च वर्तते ।१६ - २१ - तेन यम् प्रति अवयवः गुणः तस्मिन् अवयविनि प्रत्ययेन भवितव्यम् ।१७ - २१ - कम् च प्रति अवयवः गुणः ।१८ - २१ - समुदायम् ।१९ - २१ - यदि एवम् अवयविनि इति अपि न वक्तव्यम् ।२० - २१ - अवयवेषु कस्मात् न भवति ।२१ - २१ - अस्य इति वर्तते ।१ - ११ - किमर्थम् उदात्तः इति उच्यते ।२ - ११ - उदात्तः यथा स्यात् ।३ - ११ - न एतत् अस्ति प्रयोजनम् ।४ - ११ - प्रत्ययस्वरेण अपि एषः स्वरः सिद्धः ।५ - ११ - न सिध्यति ।६ - ११ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् प्रसज्येत ।७ - ११ - अथ उदात्तः इति उच्यमाने कुतः एतत् आदेः उदात्तत्वम् भविष्यति न पुनः अन्तस्य इति ।८ - ११ - उदात्तवचनसामर्थ्यात् यस्य अप्राप्तः स्वरः तस्य भविष्यति ।९ - ११ - कस्य च अप्राप्तः ।१० - ११ - आदेः ।११ - ११ - अन्तस्य पुनः चित्स्वरेण एव सिद्धम् ।१ - २६ - इह कस्मात् न भवति ।२ - २६ - एकादश माषाः अधिकाः अस्मिन् कार्षापणशते इति ।३ - २६ - अधिके समानजातौ ।४ - २६ - समानजातौ अधिके इष्यते ।५ - २६ - अथ इह कस्मात् न भवति ।६ - २६ - एकादश कार्षापणाः अधिकाः अस्याम् कार्षापणत्रिंसति इति ।७ - २६ - इष्टम् शतसहस्रयोः ।८ - २६ - शतसहस्रयोः अधिके इष्यते ।९ - २६ - अथ एकादशम् शतसहस्रम् इति कस्य आधिक्ये भवितव्यम् ।१० - २६ - यस्य सङ्ख्या तदाधिक्ये डः कर्तव्यः मतः मम ।११ - २६ - यदि तावत् शतानि सङ्ख्यायन्ते शताधिक्ये भवितव्यम् ।१२ - २६ - अथ सहस्राणि सङ्ख्यायन्ते सहस्राधिक्ये भवितव्यम् ।१३ - २६ - डविधाने परिमाणशब्दानाम् आधिक्यस्य अधिकरणाभावात् अनिर्देशः ।१४ - २६ - डविधाने परिमाणशब्दानाम् आधिक्यस्य अधिकरणाभावात् अनिर्देशः ।१५ - २६ - अगमकः निर्देशः अनिर्देशः ।१६ - २६ - न हि एकादशानाम् शतम् अधिकरणम् ।१७ - २६ - सिद्धम् तु पञ्चमीनिर्देशात् ।१८ - २६ - सिद्धम् एतत् ।१९ - २६ - कथम् ।२० - २६ - पञ्चमीनिर्देशात् ।२१ - २६ - पञ्चमीनिर्देशः कर्तव्यः ।२२ - २६ - तत् अस्मात् अधिकम् इति ।२३ - २६ - सः तर्हि पञ्चमीनिर्देशः कर्तव्यः ।२४ - २६ - न कर्तव्यः ।२५ - २६ - यदि अपि तावत् व्यापके वैषयिके वा अधिकरणे सम्भवः न अस्ति औपश्लेषिकम् अधिकरणम् विज्ञास्यते ।२६ - २६ - एकादश कार्षापणाः उपश्लिष्टाः अस्मिन् शते एकादशम् शतम् ।१ - २० - किमर्थम् शद्ग्रहणे अन्तग्रहणम् ।२ - २० - शद्ग्रहणे अन्तग्रहणम् प्रत्ययग्रहणे यस्मात् सः तदादेः अधिकार्थम् ।३ - २० - शद्ग्रहणे अन्तग्रहणम् क्रियते ।४ - २० - प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य ग्रहणम् भवति इति इह न प्राप्नोति एकत्रिंशम् शतम् ।५ - २० - इष्यते च अत्र अपि स्यात् इति ।६ - २० - तत् च अन्तरेण यत्नम् न सिध्यति इति अन्तग्रहणम् ।७ - २० - एवमर्थम् इदम् उच्यते ।८ - २० - अस्ति प्रयोजनम् एतत् ।९ - २० - किम् तर्हि इति ।१० - २० - सङ्ख्याग्रहणम् च ।११ - २० - सङ्ख्याग्रहणम् च कर्तव्यम् ।१२ - २० - इह मा भूत् ।१३ - २० - गोत्रिंशत् अधिकर्म् अस्मिन् शते इति ।१४ - २० - विंशतेः च ।१५ - २० - विंशतेः च अन्तग्रहणम् कर्तव्यम् ।१६ - २० - इह अपि यथा स्यात् ।१७ - २० - एकविंशम् शतम् ।१८ - २० - चकारात् सङ्ख्याग्रहणम् च कर्तव्यम् ।१९ - २० - इह मा भूत् ।२० - २० - गोविंशतिः अधिकम् अस्मिन् शते इति ।१ - ४७ - निमाने गुणिनि ।२ - ४७ - निमाने गुणिनि इति वक्तव्यम् ।३ - ४७ - किम् प्रयोजनम् ।४ - ४७ - गुणेषु मा भूत् ।५ - ४७ - भूयसः ।६ - ४७ - भूयसः इति च वक्तव्यम् ।७ - ४७ - किम् प्रयोजनम् ।८ - ४७ - भूयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः यथा स्यात् अल्पीयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः मा भूत् इति ।९ - ४७ - एकः अन्यतरः ।१० - ४७ - एकः चेत् अन्यतरः भवति इति वक्तव्यम् ।११ - ४७ - इह मा भूत् ।१२ - ४७ - द्वौ यवानाम् त्रयः उदश्वितः इति ।१३ - ४७ - समानानाम् ।१४ - ४७ - समानानाम् च इति वक्तव्यम् ।१५ - ४७ - इह मा भूत् ।१६ - ४७ - एकः यवानाम् अध्यर्धः उदश्वितः इति ।१७ - ४७ - तत् तर्हि बहु वक्तव्यम् ।१८ - ४७ - न वक्तव्यम् ।१९ - ४७ - यत् तावत् उच्यते ।२० - ४७ - गुणिनि इति वक्तव्यम् इति ।२१ - ४७ - न वक्तव्यम् ।२२ - ४७ - गुणेषु कस्मात् न भवति ।२३ - ४७ - अस्य इति वर्तते ।२४ - ४७ - यत् उक्तम् भूयसः इति वक्तव्यम् इति ।२५ - ४७ - न वक्तव्यम् ।२६ - ४७ - अल्पीयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः कस्मात् न भवति ।२७ - ४७ - अनभिधानात् ।२८ - ४७ - यत् उक्तम् एकः चेत् अन्यतरः भवति इति वक्तव्यम् इति ।२९ - ४७ - न वक्तव्यम् ।३० - ४७ - कस्मात् न भवति द्वौ यवानाम् त्रयः उदश्वितः इति ।३१ - ४७ - तन्त्रम् विभक्तिनिर्देशः ।३२ - ४७ - यत् अपि उच्यते समानानाम् च इति वक्तव्यम् इति ।३३ - ४७ - न वक्तव्यम् ।३४ - ४७ - कस्मात् न भवति एकः यवानाम् अध्यर्धः उदश्वितः इति ।३५ - ४७ - अनभिधानात् ।३६ - ४७ - निमेये च अपि दृश्यते ।३७ - ४७ - निमेये च अपि प्रत्ययः दृश्यते ।३८ - ४७ - द्विमयाः यवाः ।३९ - ४७ - त्रिमयाः ।४० - ४७ - किम् पुनः इह निमानम् किम् निमेयम् यावता उभयम् त्यज्यते ।४१ - ४७ - सत्यम् एवम् एतत् ।४२ - ४७ - क्व चित् तु का चित् प्रसृततरा गतिः भवति ।४३ - ४७ - तत् यथा ।४४ - ४७ - समाने त्यागे धान्यम् विक्रीणिते यवान् विक्रीणीते इति उच्यते ।४५ - ४७ - न कः चित् आह कार्षापणम् विक्रीणिते इति ।४६ - ४७ - अथ वा येन अधिगम्यते तत् निमानम् ।४७ - ४७ - यत् अधिमयते तत् निमेयम् ।१ - ५० - तस्य पूरणे इति अतिप्रसङ्गः ।२ - ५० - तस्य पूरणे इति अतिप्रसङ्गः भवति ।३ - ५० - इह अपि प्रप्नोति ।४ - ५० - पञ्चानाम् उष्ट्रिकाणाम् पूरणः घटः ।५ - ५० - सिद्धम् तु सङ्ख्यापूरणे इति वचनात् ।६ - ५० - सिद्धम् एतत् ।७ - ५० - कथम् ।८ - ५० - सङ्ख्यापूरणे इति वक्तव्यम् ।९ - ५० - एवम् अपि घटे प्राप्नोति ।१० - ५० - सङ्ख्येयम् हि असौ अद्भिः पूरयति ।११ - ५० - सङ्ख्यापूरणे इति ब्रूमः न सङ्ख्येयपूरणे इति ।१२ - ५० - यस्य वा भावात् अन्यसङ्ख्यात्वम् तत्र ।१३ - ५० - अथ वा यस्य भावात् अन्या सङ्ख्या प्रवर्तते तत्र इति वक्तव्यम् ।१४ - ५० - एवम् अपि द्वितीये अध्याये अष्टमः इति प्राप्नोति ।१५ - ५० - सर्वेषाम् हि तेषाम् भावात् सङ्ख्या प्रवर्तते ।१६ - ५० - चरमोपजाते पूर्वस्मिन् च अनपगते इति वक्तव्यम् ।१७ - ५० - एवम् अपि एकादशीद्वादश्यौ सौविष्टकृती ।१८ - ५० - इदम् द्वितीयम् इदम् तृतीयम् ।१९ - ५० - दश दशमानि इति न सिध्यति ।२० - ५० - सूत्रम् च भिद्यते ।२१ - ५० - यथान्यासम् एव अस्तु ।२२ - ५० - ननु च उक्तम् तस्य पूरणे इति अतिप्रसङ्गः इति ।२३ - ५० - परिहृतम् एतत् सिद्धम् सङ्ख्यापूरणे इति वचनात् इति ।२४ - ५० - तत् तर्हि सङ्ख्याग्रहणम् कर्तव्यम् ।२५ - ५० - न कर्तव्यम् ।२६ - ५० - प्रकृतम् अनुवर्तते ।२७ - ५० - क्व प्रकृतम् ।२८ - ५० - सङ्ख्यायाः गुणस्य निमाने मयट् इति ।२९ - ५० - एवम् तर्हि न इयम् वृत्तिः उपालभ्यते ।३० - ५० - किम् तर्हि ।३१ - ५० - वृत्तिस्थानम् उपालभ्यते ।३२ - ५० - वृत्तिः एव अत्र न प्राप्नोति ।३३ - ५० - किम् कारणम् ।३४ - ५० - प्रत्ययार्थाभावात् ।३५ - ५० - न एषः दोषः ।३६ - ५० - वचनात् स्वाऋथिकः भविष्यति ।३७ - ५० - अथ वा पूर्वस्याः सङ्ख्यायाः परापेक्षायाः उत्पत्तिः वक्तव्या उत्तरा च साङ्ख्या आदेशः वक्तव्यः ।३८ - ५० - अथ वा न्यूने अयम् कृत्स्नशब्दः द्रष्टव्यः चतुर्षु पञ्चशब्दः ।३९ - ५० - अथ वा सर्वे एव द्व्यादयः अन्योन्यम् अपेक्षन्ते ।४० - ५० - यदि एवम् द्वितीये अध्याये अष्टमः इति प्राप्नोति ।४१ - ५० - भवति एव ।४२ - ५० - प्रकृत्यर्थात् बहिः सर्वा वृत्तिः प्रायेण लक्ष्यते ।४३ - ५० - पूरणे स्यात् कथम् वृत्तिः ।४४ - ५० - वचनात् इति लक्ष्यताम् ।४५ - ५० - तस्याः पूर्वा तु या सङ्ख्या तस्याः [ऋ तस्याम् ] भवतु तद्धितः ।४६ - ५० - आदेशः च ओत्तरा सङ्ख्या तथा न्याय्या भविष्यति ।४७ - ५० - न्यूने वा कृत्स्नशब्दः अयम् पूर्वस्याम् उत्तराम् यदि सामर्थ्यम् च तया तस्याः तथा न्याय्या भविष्यति ।४८ - ५० - अन्योन्यम् वा व्यपाश्रित्य सर्वस्मिन् द्व्यादयः यदि प्रवर्तन्ते तथा न्याय्या वृत्तिः भवति पूरणे ।४९ - ५० - बहूनाम् वाचिका सङ्ख्या पूरणः च एकः इष्यते ।५० - ५० - अन्यत्वात् उभयोः न्याय्या वार्क्षी शाखा निदर्शनम् ।१ - २१ - मडादिषु यस्य आदिः तन्निर्देर्देशः ।२ - २१ - मडादिषु यस्य आदिः क्रियते तन्निर्देर्देशः कर्तव्यः ।३ - २१ - अस्य आदिः भवति इति वक्तव्यम् ।४ - २१ - अकिर्यमाणे हि प्रत्ययाधिकारात् प्रत्ययः अयम् विज्ञायेत ।५ - २१ - तत्र कः दोषः ।६ - २१ - प्रत्ययान्तरे हि स्वरे दोषः ।७ - २१ - प्रत्ययान्तरे हि सति स्वरे दोषः स्यात् ।८ - २१ - विंशतितमः ।९ - २१ - एषः स्वरः प्रसज्येत ।१० - २१ - विंशतितमः इति च इष्यते ।११ - २१ - सः तर्हि तथा निर्देशः कर्तव्यः ।१२ - २१ - न कर्तव्यः ।१३ - २१ - प्रकृतम् डड्ग्रहणम् अनुवर्तते ।१४ - २१ - क्व प्रकृतम् ।१५ - २१ - तस्य पूरणे डट् इति ।१६ - २१ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च अर्थः ।१७ - २१ - नान्तात् इति पञ्चमी डट् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति ।१८ - २१ - तस्मात् इति उत्तरस्य इति ।१९ - २१ - प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।२० - २१ - न अयम् प्रत्ययविधिः ।२१ - २१ - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।१ - ४ - चतुरः छयतौ आद्यक्षरलोपः च ।२ - ४ - चतुरः छयतौ वक्तव्यौ आद्यक्षरलोपः च वक्तव्यः ।३ - ४ - तुरीयम् ।४ - ४ - तुर्यम् ।१ - १२ - अथ किमर्थम् थट्थुकौ पृथक् क्रियेते न सर्वम् थट् एव स्यात् थुक् एव वा ।२ - १२ - थट्थुकोः पृथक्करणम् पदान्तविधिप्रतिषेधाऋथम् ।३ - १२ - थट्थुकोः पृथक्करणम् क्रियते पदान्तविधिप्रतिषेधाऋथम् ।४ - १२ - पदान्तविध्यर्थम् पदान्तप्रतिषेधाऋथम् च ।५ - १२ - पदान्तविध्यर्थम् तावत् ।६ - १२ - पर्णमयानि पञ्चथानि भवन्ति ।७ - १२ - रथः सप्तथः ।८ - १२ - पदन्तस्य इति नलोपः यथा स्यात् ।९ - १२ - पदान्तप्रतिषेधाऋथम् ।१० - १२ - षष्ठः ।११ - १२ - पदान्तस्य इति जश्त्वम् मा भूत् ।१२ - १२ - इह चतुर्थः इति पदान्तस्य इति विसर्जनीयः मा भूत् इति ।१ - ३४ - बहुकतिपयवतूनाम् लिङ्गविशिष्टात् उत्पत्तिः ।२ - ३४ - बहुकतिपयवतूनाम् लिङ्गविशिष्टाद् उत्पत्तिः वक्तव्या ।३ - ३४ - इह अपि यथा स्यात् ।४ - ३४ - बह्वीनाम् पूरणी बहुतिथी ।५ - ३४ - कतिपयानाम् पूरणी कतिपयथी ।६ - ३४ - तावतीनाम् पूरणी तावतिथी ।७ - ३४ - बहुकतिपयवतूनाम् लिङ्गविशिष्टाद् उत्पत्तिः सिद्धा ।८ - ३४ - कथम् ।९ - ३४ - प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति ।१० - ३४ - पुंवद्वचनम् च । पुंवद्भावः च वक्तव्यः ।११ - ३४ - बह्वीनाम् पूरणी बहुतिथी ।१२ - ३४ - किमर्थम् न भस्य अढे तद्धिते पुंवत् भवति इति सिद्धम् ।१३ - ३४ - भस्य इति उच्यते ।१४ - ३४ - यजादौ च भम् भवति ।१५ - ३४ - न च अत्र यजादिम् पश्यामः ।१६ - ३४ - किम् कारणम् ।१७ - ३४ - तिथुका व्यविहितत्वात् न प्राप्नोति ।१८ - ३४ - इदम् इह सम्प्रधार्यम् ।१९ - ३४ - तिथुक् क्रियताम् पुंवद्भावः इति ।२० - ३४ - किम् अत्र कर्तव्यम् ।२१ - ३४ - परत्वात् पुंवद्भावः ।२२ - ३४ - नित्यः तिथुक् ।२३ - ३४ - कृते अपि पुंवद्भावे प्राप्नोति अकृते अपि प्राप्नोति ।२४ - ३४ - तिथुक् अपि अनित्यः ।२५ - ३४ - अन्यस्य कृते पुंवद्भावे प्राप्नोति अन्यस्य अकृते ।२६ - ३४ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।२७ - ३४ - अन्तरङ्गः तर्हि तिथुक् ।२८ - ३४ - का अन्तरङ्गता ।२९ - ३४ - उत्पत्तिसन्नियोगेन तिथुक् उच्यते उत्पन्ने प्रत्यय्ते प्रकृतिप्रत्ययौ आश्रित्य पुंवद्भावः ।३० - ३४ - पुंवद्भावः अपि अन्तरङ्गः ।३१ - ३४ - कथम् ।३२ - ३४ - उक्तम् एतत् सिद्धः च प्रत्ययविधौ इति ।३३ - ३४ - उभयोः अन्तरङ्गयोः परत्वात् पुंवद्भावः ।३४ - ३४ - पुंवद्भावे कृते पुनःप्रसङ्गविज्ञानात् तिथुक् सिद्धः बहुतिथी ।१ - १६ - असङ्ख्यादेः इति किमर्थम् ।२ - १६ - इह मा भूत् ।३ - १६ - एकषष्टः ।४ - १६ - द्विषष्टः ।५ - १६ - असङ्ख्यादेः इति शक्यम् अवक्तुम् ।६ - १६ - कस्मात् न भवति एकषष्टः ।७ - १६ - द्विषष्टः इति ।८ - १६ - षष्टिशब्दात् प्रत्ययः विधीयते ।९ - १६ - कः प्रसङ्गः यत् एकषष्टिशब्दात् स्यात् ।१० - १६ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।११ - १६ - तदन्तविधिना प्राप्नोति ।१२ - १६ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।१३ - १६ - एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।१४ - १६ - किम् एतस्य ज्ञापने प्रयोजनम् ।१५ - १६ - एकविंशतितमः ।१६ - १६ - एतत् सिद्धम् भवति ।१ - ३४ - छप्रकरणे अनेकपदात् अपि ।२ - ३४ - छप्रकरणे अनेकपदात् अपि इति वक्तव्यम् ।३ - ३४ - इह अपि यथा स्यात् अस्यवामीयम् , कयाशुभीयम् ।४ - ३४ - किम् पुनः कारणम् न सिध्यति ।५ - ३४ - अप्रातिपदिकत्वात् ।६ - ३४ - सिद्धम् तु प्रातिपदिकविज्ञानात् ।७ - ३४ - सिद्धम् एतत् ।८ - ३४ - कथम् ।९ - ३४ - प्रातिपदिकविज्ञानात् ।१० - ३४ - कथम् प्रातिपदिकविज्ञानम् ।११ - ३४ - स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति वचनात् ।१२ - ३४ - स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा भवति इति ।१३ - ३४ - एवम् यः असौ आम्नाये अस्यवामशब्दः पठ्यते सः अस्य पदार्थः ।१४ - ३४ - किम् पुनः अन्ये आम्नायशब्दाः अन्ये इमे ।१५ - ३४ - ओम् इति आह ।१६ - ३४ - कुतः एतत् ।१७ - ३४ - आम्नायशब्दानाम् अन्यभाव्यम् स्वरवर्णानुपूर्वीदेशकालनियतत्वात् ।१८ - ३४ - स्वरः नियतः आम्नाये अस्यवामशब्दस्य ।१९ - ३४ - वर्णानुपूर्वी खलु अपि आम्नाये नियता अस्यवामशब्दस्य ।२० - ३४ - देशः खलु अपि आम्नाये नियतः ।२१ - ३४ - श्मशाने न अध्येयम् ।२२ - ३४ - चतुष्पथे न अध्येयम् इति ।२३ - ३४ - कालः खलु अपि आम्नाये नियतः ।२४ - ३४ - न अमावास्यायाम् न चतुर्दशायाम् इति ।२५ - ३४ - पदैकदेशसुबलोपदर्शनात् च ।२६ - ३४ - पदैकदेशः खलु अपि आम्नाये दृश्यते ।२७ - ३४ - अस्यवामीयम् ।२८ - ३४ - ननु च एषः सुब्लोपः स्यात् ।२९ - ३४ - सुबलोपदर्शनात् च ।३० - ३४ - सुबलोपः खलु अपि दृश्यते ।३१ - ३४ - अस्यवामीयम् इति ।३२ - ३४ - यदि तर्हि अन्ये आम्नायशब्दाः अन्ये इमे मत्वर्थः न उपपद्यते ।३३ - ३४ - अस्यवामशब्दः अस्मिन् अस्ति इति ।३४ - ३४ - न सञ्ज्ञा सञ्ज्ञिनम् व्यभिचरति ।१ - ८ - अध्यायानुवाकाभ्याम् वा लुक् ।२ - ८ - अध्यायानुवाकाभ्याम् वा लुक् वक्तव्यः ।३ - ८ - स्तम्भः ।४ - ८ - स्तम्भीयः ।५ - ८ - गर्दभाण्डः ।६ - ८ - गर्दभाण्डीयः ।७ - ८ - अनुकः ।८ - ८ - अनुकीयः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP