संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ४|पाद २| खण्ड ४७ पाद २ खण्ड ४७ खण्ड ४८ पाद २ - खण्ड ४७ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ४७ Translation - भाषांतर १ - ६ - रागात् इति किम् ।२ - ६ - देवदत्तेन रक्तम् वस्त्रम् ।३ - ६ - रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाध्यानर्थक्यम् ।४ - ६ - रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् ।५ - ६ - न हि अरागात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् ।६ - ६ - अनभिधानात् ततः उत्पत्तिः न भविष्यति ।१ - २० - ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम् ।२ - २० - ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम् कर्तव्यम् ।३ - २० - शाकलिकम् कार्दमिकम् ।४ - २० - नील्याः अन् ।५ - २० - नील्याः अन् वक्तव्यः ।६ - २० - नील्या रक्तम् नीलम् ।७ - २० - पीतात् कन् ।पीतात् कन् वक्तव्यः ।८ - २० - पीतेन रक्तम् पीतकम् ।९ - २० - पीतकशब्दः वा प्रकृत्यन्तरम् ।१० - २० - तस्मात् लुक् वक्तव्यः ।११ - २० - हरिद्रामहारजनाभ्याम् अञ् ।१२ - २० - हरिद्रामहारजनाभ्याम् अञ् वक्तव्यः ।१३ - २० - हारिद्रम् माहारजनम् ।१४ - २० - रागात् इति उच्यते ।१५ - २० - तत्र इदम् न सिध्यति ।१६ - २० - हारिद्रौ कुक्कुटस्य पादौ ।१७ - २० - काषायौ गर्दभस्य कर्णौ इति ।१८ - २० - उपमानात् सिद्धम् ।१९ - २० - हरिद्रौ इव हरिद्रौ ।२० - २० - काषायौ इव काषायौ१ - २६ - अयुक्तः अयम् निर्देशः ।२ - २६ - योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः ।३ - २६ - न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः ।४ - २६ - नित्ये हि कालनक्षत्रे ।५ - २६ - कथम् तर्हि निर्देशः कर्तव्यः ।६ - २६ - नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययविधानम् ।७ - २६ - नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययः भवति इति वक्तव्यम् ।८ - २६ - पुष्येण युक्तः पुष्ययुक्तः , पुष्ययुक्तः चन्द्रमाः अस्मिन् काले पौषम् अहः , पौषी रात्रिः ।९ - २६ - तत्र उत्तरपदलोपः ।१० - २६ - तत्र उत्तरपदलोपः वक्तव्यः ।११ - २६ - पुष्ययुक्तशब्दात् हि प्रत्ययः विधीयते ।१२ - २६ - लिङ्गवचनानुपपत्तिः च ।१३ - २६ - लिङ्गवचनयोः च अनुपपत्तिः ।१४ - २६ - चन्द्रमसः यत् लिङ्गम् वचनम् च तत् युक्तवद्भावेन प्राप्नोति ।१५ - २६ - कालयोगात् सिद्धम् ।१६ - २६ - अस्तु नक्ष्त्रेण युक्तः कालः इति एव ।१७ - २६ - नन् च उक्तम् अयुक्तः अयम् निर्देशः ।१८ - २६ - योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः ।१९ - २६ - नित्ये हि कालनक्षत्रे इति ।२० - २६ - न एषः दोषः ।२१ - २६ - पुष्यसमीपगते चन्द्रमसि पुष्यशब्दः वर्तते ।२२ - २६ - तेन तत्सञ्ज्ञकेन कालः विशेष्यते ।२३ - २६ - तथा च सम्प्रत्ययः ।२४ - २६ - एवम् च कृत्वा लोके सम्प्रत्ययः भवति ।२५ - २६ - पुष्यसमीपगते चन्द्रमसि वक्तारः भवन्ति पुष्येण अद्य ।२६ - २६ - मघाभिः अद्य इति ।१ - २० - इह कस्मात् न भवति ।२ - २० - पौषी रात्रिः पौषम् अहः ।३ - २० - अविशेषे इति उच्यते ।४ - २० - विशेषः च अत्र गम्यते ।५ - २० - रात्रिः इति उक्ते अहः न इति गम्यते ।६ - २० - अहः इति उक्ते रात्रिः न इति गम्यते ।७ - २० - इह अपि तर्हि न प्राप्नोति ।८ - २० - अद्य पुष्यः इति ।९ - २० - अत्र अपि हि विशेषः गम्यते ।१० - २० - अद्य इति उक्ते न ह्यः न श्वः इति ।११ - २० - यदि अपि अत्र विशेषः गम्यते अविशेषः अपि गम्यते ।१२ - २० - अद्य इति उक्ते न ज्ञायते रात्रौ वा दिवा वा इति ।१३ - २० - यतः अविशेषः तदाश्रयः लुप् भविष्यति ।१४ - २० - इह अपि तर्हि यदि अपि विशेषः गम्यते अविशेषः अपि तु गम्यते ।१५ - २० - रात्रिः इति उक्ते न ज्ञायते कदा इति ।१६ - २० - यतः अविशेषः तदाश्रयः लुप् प्राप्नोति ।१७ - २० - एवम् तर्हि नक्षत्रेण युक्तः कालः इति अनुवर्तते ।१८ - २० - नक्षत्रेण युक्तस्य कालस्य अविशेषे ।१९ - २० - कः पुनः कालः नक्षत्रेण युज्यते ।२० - २० - अहोरात्रः ।१ - ५ - इह कस्मात् न युक्तवद्भावः भवति ।२ - ५ - श्रवणा रात्रिः ।३ - ५ - निपातनात् एतत् सिद्धम् ।४ - ५ - किम् निपातनम् ।५ - ५ - फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः इति ।१ - २९ - दृष्टम् साम कलेः ढक् ।२ - २९ - दृष्टम् साम इति अत्र कलेः ढक् वक्तव्यः ।३ - २९ - कलिना दृष्टम् साम कालेयम् साम गीयते ।४ - २९ - अपरः आह सर्वत्र अग्निकलिभ्याम् ढक् ।५ - २९ - सर्वत्र अग्निकलिभ्याम् ढक् वक्तव्यः ।६ - २९ - अग्निना दृष्टम् साम आग्नेयम् ।७ - २९ - अग्नौ भवम् आग्नेयम् ।८ - २९ - अग्नेः आगतम् आग्नेयम् ।९ - २९ - अग्नेः स्वम् आग्नेयम् ।१० - २९ - अग्निः देवता अस्य आग्नेयम् ।११ - २९ - कलिना दृष्टम् साम कालेयम् ।१२ - २९ - कलेः आगतम् कालेयम् ।१३ - २९ - कलौ भवम् कालेयम् ।१४ - २९ - कलेः स्वम् कालेयम् ।१५ - २९ - कलिः देवता अस्य कालेयः चरुः ।१६ - २९ - दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते ।१७ - २९ - दृष्टे सामनि जाते च अपि अण् डित् द्विः वा वक्तव्यः ।१८ - २९ - उशनसा दृष्टम् साम औशनसम् औशनम् ।१९ - २९ - शतभिषजि जातः शातभिषजः शातभिषः ।२० - २९ - तीयात् ईकक् ।२१ - २९ - तीयात् ईकक् वक्तव्यः ।२२ - २९ - द्वैतीयिकः तार्तीयिकः ।२३ - २९ - न विद्यायाः ।२४ - २९ - विद्यायाः न भवति इति वक्तव्यम् ।२५ - २९ - द्वितीया विद्या तृतीया विद्या इति एव ।२६ - २९ - गोत्रात् अङ्कवत् इष्यते ।२७ - २९ - औपगवकम् ।२८ - २९ - दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते ।२९ - २९ - तीयात् ईकक् न विद्यायाः गोत्रात् अङ्कवत् इष्यते ।१ - १० - किमर्थः डकारः ।२ - १० - डिति इति लोपः यथा स्यात् ।३ - १० - न एतत् अस्ति प्रयोजनम् ।४ - १० - यस्येतिलोपेन अपि एतत् सिद्धम् ।५ - १० - एवम् तर्हि सिद्धे सति यत् ययतौ डितौ करोति तत् ज्ञापयति आचार्यः भवतः एते परिभाषे ।६ - १० - अननुबन्धकग्रहणे न सानुबन्धकस्य तदनुबन्धकग्रहणे न अतदनुबन्धकस्य ग्रहणम् इति ।७ - १० - किम् एतस्य ज्ञापने प्रयोजनम् ।८ - १० - अवामदेव्यम् इति एतत् सिद्धम् भवति ।९ - १० - सिद्धे यस्येतिलोपेन किमर्थम् ययतौ डितौ ।१० - १० - ग्रहणम् मा अतदर्थे भूत् वामदेवस्य नञ्स्वरे ।१ - ९ - परिवृतः रथः इति तदेकान्तग्रहणम् ।२ - ९ - परिवृतः रथः इति अत्र तदेकान्तग्रहणम् कर्तव्यम् ।३ - ९ - येन परिवृतः रथः रथैकान्तः चेत् सः भवति इति वक्तव्यम् ।४ - ९ - इह मा भूत् पुत्रैः परिवृतः रथः ।५ - ९ - छात्रैः परिवृतः रथः इति ।६ - ९ - तत् तर्हि वक्तव्यम् ।७ - ९ - न वक्तव्यम् ।८ - ९ - कस्मात् न भवति पुत्रैः परिवृतः रथः , छात्रैः परिवृतः रथः इति ।९ - ९ - अनभिधानात् ।१ - ४ - अयम् योगः शक्यः अवक्तुम् ।२ - ४ - कथम् पाण्डुकम्बली पाण्डुकम्बलिनौ पाण्डुकम्बलिनः इति ।३ - ४ - इनिना एतत् मत्वर्थीयेन सिद्धम् ।४ - ४ - पाण्डुकम्बलः अस्य अस्ति इति पाण्डुकम्बली ।१ - १० - कौमारापूर्ववचने इति उभयतः स्त्रियाः अपूर्वत्वे ।२ - १० - कौमारापूर्ववचने इति अत्र उभयतः स्त्रियाः अपूर्वत्वे इति वक्तव्यम् ।३ - १० - अपूर्वपतिम् कुमारीम् उपपन्नः कौमारः भर्ता ।४ - १० - कुमारी अपूर्वपतिः पतिम् उपपन्ना कौमारी भार्या ।५ - १० - कौमारापूर्ववचने कुमार्याः अण् विधीयते अपूर्वत्वम् यदा तस्याः कुमार्याम् भवति इति वा ।६ - १० - अथ वा कुमार्याम् भवः कौमारः ।७ - १० - यदि एवम् कौमारी भार्या इति न सिध्यति ।८ - १० - पुंयोगात् स्त्र्यभिधानम् ।९ - १० - पुंयोगात् स्त्र्यभिधानम् भविष्यति ।१० - १० - कौमारस्य भार्या कौमारी इति ।१ - १३ - सा अस्मिन् पौर्णमासी इति सञ्ज्ञाग्रहणम् ।२ - १३ - सा अस्मिन् पौर्णमासी इति सञ्ज्ञाग्रहणम् कर्तव्यम् ।३ - १३ - असञ्ज्ञायाम् गरीयान् उप्संयोगः ।४ - १३ - अक्रियमाणे हि सञ्ज्ञाग्रहणे गरीयान् उप्संयोगः कर्तव्यः स्यात् ।५ - १३ - मासार्धमासयोः इति वक्तव्यम् स्यात् ।६ - १३ - इह मा भूत् ।७ - १३ - पौषी पौर्णमासी अस्मिन् पञ्चदशरात्रे दशरात्रे इति ।८ - १३ - संवत्सरपर्वणि इति च वक्तव्यम् स्यात् ।९ - १३ - भृतकमासे मा भूत् इति ।१० - १३ - तत् तर्हि वक्तव्यम् ।११ - १३ - न वक्तव्यम् ।१२ - १३ - इतिकरणः क्रियते ।१३ - १३ - ततः चेत् विवक्षा ।१ - ११ - यस्य इति लोपः कस्मात् न भवति ।२ - ११ - इकारोच्चारणसामर्थ्यात् ।३ - ११ - अथ यत् कायम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः ।४ - ११ - यदि तावत् किमः कादेशः कस्मै अनुब्रूहि इति भवितव्यम् ।५ - ११ - अथ न किमः काय अनुब्रूहि इति भवितव्यम् ।६ - ११ - यदि अपि किमः अथ अपि न किमः उभयथा कस्मै अनुब्रूहि इति भवितव्यम् ।७ - ११ - सर्वस्य हि सर्वनामसञ्ज्ञा क्रियते ।८ - ११ - सर्वः च प्रजापतिः प्रजापतिः च कः ।९ - ११ - अपरः आह यदि एव किमः अथ अपि न किमः उभयथा काय अनुब्रूहि इति भवितव्यम् ।१० - ११ - सञ्ज्ञोपसर्जनयोः हि सर्वनामसञ्ज्ञा प्रतिषिध्यते ।११ - ११ - सञ्ज्ञा च एषा तत्रभवतः ।१ - ६ - अथ यत् अपोनप्त्रियम् अपान्नप्त्रियम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः ।२ - ६ - अपोनपाते अनुब्रूहि ।३ - ६ - अपान्नपाते अनुब्रूहि ।४ - ६ - अपोनप्त्रपान्नप्तृभावः कस्मात् न भवति ।५ - ६ - प्रत्ययसन्नियोगेन ऋकारान्तत्वम् उच्यते ।६ - ६ - तेन असति प्रत्यये न भवितव्यम् ।१ - ६ - छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम् ।२ - ६ - छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।३ - ६ - पैङ्गाक्षीपुत्रीयम् तार्णबिन्दवीयम् ।४ - ६ - शतरुद्रात् घ च ।५ - ६ - शतरुद्रात् घप्रत्ययः वक्तव्यः छः च वक्तव्यः ।६ - ६ - शतरुद्रियम् शतरुद्रीयम् ।१ - १८ - कथम् इदम् विज्ञायते भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति ।२ - १८ - आहोस्वित् कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति ।३ - १८ - कः च अत्र विशेषः ।४ - १८ - कालेभ्यः भवे प्रत्ययमात्रप्रसङ्गः ।५ - १८ - यदि विज्ञायते भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रत्ययमात्रम् प्राप्नोति ।६ - १८ - यः कालेभ्यः भवे तस्य विधाने प्रातिपदिकमात्रात् प्रसङ्गः ।७ - १८ - अथ विज्ञायते कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रातिपदिकमात्रात् प्राप्नुवन्ति ।८ - १८ - सिद्धम् तु उभयनिर्देशात् ।९ - १८ - सिद्धम् एतत् ।१० - १८ - कथम् ।११ - १८ - उभयनिर्देशात् ।१२ - १८ - उभयनिर्देशः कर्तव्यः ।१३ - १८ - कालेभ्यः भववत् कालेभ्यः इति ।१४ - १८ - सः तर्हि उभयनिर्देशः कर्तव्यः ।१५ - १८ - न कर्तव्यः ।१६ - १८ - भववत् इति वतिना निर्देशः अयम् ।१७ - १८ - यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भवे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण सा अस्य देवता इति अस्मिन् अर्थे भवन्ति ततः अमी भववत् कृताः स्युः ।१८ - १८ - अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी भववत् कृताः स्युः ।१ - ७ - ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम् ।२ - ७ - ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।३ - ७ - नवयज्ञः वर्तते अस्मिन् काले नावयज्ञिकः ।४ - ७ - पाकयज्ञिकः ।५ - ७ - पूर्णमासात् अण् ।६ - ७ - पूर्णमासात् अण् वक्तव्यः ।७ - ७ - पूर्णमासः वर्तते अस्मिन् काले पौर्णमासी तिथिः ।१ - २६ - पितृव्यमातुल इति किम् निपात्यते ।२ - २६ - पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ ।३ - २६ - पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ प्रत्ययौ निपात्येते ।४ - २६ - पितुः भ्राता पितृव्यः ।५ - २६ - मातुः भ्राता मातुलः ।६ - २६ - मातामहपितामहेति किम् निपात्यते ।७ - २६ - मातृपितृभ्याम् पितरि डामहच् ।८ - २६ - मातृपितृभ्याम् पितरि डामहच्प्रत्ययः निपात्यते ।९ - २६ - मातुः पिता मातामहः ।१० - २६ - पितुः पिता पितामहः ।११ - २६ - मातरि षित् च ।१२ - २६ - षित् च वक्तव्यः ।१३ - २६ - मातामही पितामही ।१४ - २६ - महः वा छन्दसि आनङः अवग्रहदर्शनात् ।१५ - २६ - महः वा पुनः एषः भविष्यति छन्दसि आनङः अवग्रहदर्शनात् ।१६ - २६ - छन्दसि आनङः अवग्रहः दृश्यते ।१७ - २६ - पिता-महः इति ।१८ - २६ - अवेः दुग्धे सोढदूसमरीसचः ।१९ - २६ - अवेः दुग्धे सोढदूसमरीसचः इति एते प्रत्ययाः वक्तव्याः ।२० - २६ - अविसोढम् अविदूसम् अविमरीसम् ।२१ - २६ - तिलात् निष्फलात् पिञ्जपेजौ ।२२ - २६ - तिलात् निष्फलात् पिञ्जपेजौ वक्तव्यौ ।२३ - २६ - तिलपिञ्जः तिलपेजः ।२४ - २६ - पिञ्जः छन्दसि डित् च ।२५ - २६ - पिञ्जः छन्दसि डित् च वक्तव्यः ।२६ - २६ - तिलपिञ्जम् दण्डानतम् ।१ - ११ - किमर्थम् भिक्षादिषु युवतिशब्दः पठ्यते न तस्य समूहः इति एव सिद्धम् ।२ - ११ - न सिध्यति ।३ - ११ - अनुदात्तादिलक्षणः अञ् प्राप्तः ।४ - ११ - तद्बाधनार्थम् ।५ - ११ - अतः उत्तरम् पठति भिक्षादिषु युवतिग्रहणानर्थक्यम् पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ ।६ - ११ - भिक्षादिषु युवतिग्रहणम् अनर्थकम् ।७ - ११ - किम् कारणम् ।८ - ११ - पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ ।९ - ११ - पुंवद्भावः अत्र भविष्यते भस अढे तद्धिते पुंवत् भवति इति ।१० - ११ - सिद्धः च प्रत्ययविधौ ।११ - ११ - सः च सिद्धः प्रत्ययविधौ ।१ - १९ - वृद्धात् च इति वक्तव्यम् ।२ - १९ - वृद्धानाम् समूहः वार्धकम् ।३ - १९ - अञः वुञ् पूर्वविप्रतिषिद्धम् ।४ - १९ - अञः वुञ् भवति पूर्वविप्रतिषेधेन ।५ - १९ - अञः अवकाशः कपोत कापोतम् ।६ - १९ - वुञः अवकाशः ग्लुचुकायनि ग्लौचुकायनकम् ।७ - १९ - इह उभयम् प्राप्नोति औपगवकम् कापटवकम् ।८ - १९ - वुञ् भवति पूर्वविप्रतिषेधेन ।९ - १९ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।१० - १९ - न वक्तव्यः ।११ - १९ - वक्ष्यति एतत् पूर्वः अपि वुञ् परम् अञम् बाधते इति ।१२ - १९ - अथ वा इष्टवाची परशब्दः ।१३ - १९ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।१४ - १९ - ठक् तु विप्रतिषेधात् ।१५ - १९ - ठक् तु भवति विप्रतिषेधेन ।१६ - १९ - ठकः अवकाशः सक्तु साक्तुकम् ।१७ - १९ - अञः सः एव ।१८ - १९ - इह उभयम् प्राप्नोति आपूपिकम् शाष्कुलिकम् मौदिकम् ।१९ - १९ - ठक् भवति विप्रतिषेधेन ।१ - २ - गणिकायः च इति वक्तव्यम् ।२ - २ - गणिकानाम् समूहः गाणिक्यम् ।१ - १० - किमर्थम् ब्राह्मणादिभ्यः यन् विधीयते न यञ् प्रकृतः सः अनुवर्तिष्यते ।२ - १० - न हि अस्ति विशेषः ब्राह्मणादिभ्यः यनः वा यञः वा ।३ - १० - तत् एव रूपम् सः एव स्वरः ।४ - १० - एवम् तर्हि सिद्धे सति यत् ब्राह्मणादिभ्यः यनम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति ।५ - १० - किम् एतस्य ज्ञापने प्रयोजनम् ।६ - १० - यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् इति चोदयिष्यति ।७ - १० - तन् न कर्तव्यम् भवति ।८ - १० - यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् ।९ - १० - यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् कर्तव्यम् ।१० - १० - पृष्ठानाम् समूहः पृष्ठ्यः षडहः ।१ - १३ - गजसहायाभ्याम् च इति वक्तव्यम् ।२ - १३ - गजता सहायता ।३ - १३ - अह्नः खः ।४ - १३ - अह्नः खः वक्तव्यः ।५ - १३ - अह्नाम् समूहः अहीनः ।६ - १३ - क्रतौ । क्रतौ इति वक्तव्यम् ।७ - १३ - इह मा भूत् ।८ - १३ - आह्नाय धूतपाप्मानः भास्कराः जातमृत्यवः ।९ - १३ - पर्श्वाः सण् ।१० - १३ - पर्श्वाः सण् वक्तव्यः ।११ - १३ - पर्शूनाम् समूहः पार्श्वम् ।१२ - १३ - यदि सण् क्रियते इत्सञ्ज्ञा न प्राप्नोति ।१३ - १३ - एवम् तर्हि णस् वक्तव्यः ।१ - ५२ - खण्डिका शुक उलूक ।२ - ५२ - किमर्थम् कण्डिकादिषु उलूकशब्दः पठ्यते न अनुदात्तदेः इति एव सिद्धम् ।३ - ५२ - न सिध्यति ।४ - ५२ - चाषोलूकयोः छन्दसि आद्युदात्तः प्रयोगः दृश्यते ।५ - ५२ - चषेण किकिदीविना ।६ - ५२ - यत् उलूकः वदति ।७ - ५२ - न एतयोः छन्दसि सामूहिकः दृश्यते ।८ - ५२ - यत्र च दृश्यते तत्र एतौ अनुदात्तादी ।९ - ५२ - इदम् तर्हि प्रयोजनम् ।१० - ५२ - अयम् औलूक्यः गोत्रम् ।११ - ५२ - तत्र गोत्राश्रयः वुञ् प्राप्तः ।१२ - ५२ - तद्बाधनार्थम् ।१३ - ५२ - एतत् अपि न अस्ति प्रयोजनम् ।१४ - ५२ - बहुवचनान्तानाम् सामूहिकः बहुषु च लुक् ।१५ - ५२ - तत्र लुकि कृते अनुदात्तादेः इति एव सिद्धम् ।१६ - ५२ - न सिध्यति ।१७ - ५२ - गोत्रे अलुक् अचि इति अलुक् प्राप्नोति ।१८ - ५२ - अञ्सिद्धिः अनुदात्तादेः कः अर्थः क्षुद्रकमालवात् ।१९ - ५२ - अनुदात्तादेः इति एव अञ् सिद्धः ।२० - ५२ - किमर्थम् क्षुद्रमालवशब्दः खण्डिकादिषु पठ्यते ।२१ - ५२ - गोत्राश्रयः वुञ् प्राप्तः तद्बाधनार्थम् ।२२ - ५२ - गोत्रात् वुञ् न च तत् गोत्रम् ।२३ - ५२ - गोत्रात् वुञ् भवति इति उच्यते न च क्षुद्रमालवकशब्दः गोत्रम् ।२४ - ५२ - न च गोत्रसमुदायः गोत्रग्रहणेन गृह्यते ।२५ - ५२ - तत् यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते ।२६ - ५२ - काशिकोसलीयाः इति वुञ् न भवति ।२७ - ५२ - तदन्तविधिना प्राप्नोति ।२८ - ५२ - तदन्तात् न सः सर्वतः ।२९ - ५२ - परिगणितेषु कार्येषु तदन्तविधिः ।३० - ५२ - न च इदम् तत्र परिगण्यते ।३१ - ५२ - ज्ञापकम् स्यात् तदन्तत्वे ।३२ - ५२ - एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।३३ - ५२ - तथा च आपिशलेः विधिः ।३४ - ५२ - एवम् च कृत्वा आपिशलेः आचार्यस्य विधिः उपपन्नः भवति ।३५ - ५२ - धेनुः अनञि कम् उत्पादयति ।३६ - ५२ - धेनूनाम् समूहः धैनुकम् ।३७ - ५२ - अनञि इति किम् ।३८ - ५२ - अधेनूनाम् समूहः आधेनवम् ।३९ - ५२ - सेनायाम् नियमार्थम् वा ।४० - ५२ - अथ वा नियमार्थः अयम् आरम्भः ।४१ - ५२ - क्षुद्रकमालवशब्दात् सेनायाम् एव ।४२ - ५२ - क्व मा भूत् ।४३ - ५२ - क्षौद्रकमालवकम् अन्यत् इति ।४४ - ५२ - यथा बाध्येत वा अञ् वुञा ।४५ - ५२ - अथ वा ज्ञापयति आचार्यः पूर्वः अपि वुञ् परम् अञम् बाधते इति ।४६ - ५२ - ननु च उक्तम् गोत्रात् वुञ् न च तत् गोत्रम् इति ।४७ - ५२ - तदन्तविधिना प्राप्नोति ।४८ - ५२ - ननु च उक्तम् तदन्तात् न सः सर्वतः इति ।४९ - ५२ - ज्ञापकम् स्यात् तदन्तत्वे ।५० - ५२ - एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।५१ - ५२ - कथम् पुनः एतत् उभयम् शक्यम् ज्ञापयितुम् भवति च तदन्तविधिः पूर्वः च वुञ् परम् अञम् बाधते इति ।५२ - ५२ - उभयम् ज्ञाप्यते ।१ - ५ - अञ्प्रकरणे क्षुद्रकमालवात् सेनासञ्ज्ञायाम् ।२ - ५ - अञ्प्रकरणे क्षुद्रकमालवात् सेनासञ्ज्ञायाम् इति वक्तव्यम् ।३ - ५ - क्षौद्रकमालवी सेना चेत् ।४ - ५ - क्व मा भूत् ।५ - ५ - क्षौद्रकमालवकम् अन्यत् ।१ - ११ - पाश तृण धूम वात ।२ - ११ - पृथग्वातादर्शनात् असमूहः ।३ - ११ - पृथग्वातादर्शनात् अयुक्तः अयम् सामूहिकः ।४ - ११ - न हि पृथक् वाताः दृश्यन्ते ।५ - ११ - न तर्हि इदानीम् भवति वात्या इति ।६ - ११ - भवति ।७ - ११ - शीघ्रत्वे तु ।८ - ११ - शीघ्रः वातः वात्या ।९ - ११ - अथ वा पृथक् वाताः अपि दृश्यन्ते ।१० - ११ - तत् यथा पूर्वः वातः उत्तरः वातः सर्वतः वातः ।११ - ११ - वाताः वान्तु दिशः दश ।१ - ३ - खलादिभः इनिः ।२ - ३ - खलादिभः इनिः वक्तव्यः ।३ - ३ - खलिनी ऊहिनी कुन्दुमिनी इति ।१ - २५ - विषयाभिधाने जनपदे लुपा- बहुवचनविषयात् ।२ - २५ - विषयाभिधाने जनपदे लुप् बहुवचनविषयात् वक्तव्यः ।३ - २५ - अङ्गानाम् विषयः अङ्गाः ।४ - २५ - वङ्गाः सुह्माः पुण्ड्राः ।५ - २५ - गान्धार्यादिभ्यः वा ।६ - २५ - गान्धार्यादिभ्यः वा इति वक्तव्यम् ।७ - २५ - गान्धारः गान्धारयः वासातः वसातयः शैबः शिबयः ।८ - २५ - राजन्यादिभ्यः वा वुञ् ।९ - २५ - राजन्यादिभ्यः वा वुञ् वक्तव्यः ।१० - २५ - राजन्याः राजन्यकः दैवयातवः दैवयातवकः ।११ - २५ - बैल्ववनादिभ्यः नित्यम् ।१२ - २५ - बैल्ववनादिभ्यः नित्यम् इति वक्तव्यम् ।१३ - २५ - बैल्ववनकः आम्बरीषपुत्रकः आत्मकामेयकः ।१४ - २५ - तत् तर्हि बहु वक्तव्यम् ।१५ - २५ - न वा अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुब्विषयविवक्षायाम् प्रत्ययः ।१६ - २५ - न वा वक्तव्यम् ।१७ - २५ - किम् कारणम् ।१८ - २५ - अभिधेयस्य निवासविषयत्वात् ।१९ - २५ - यत् अभिधेयम् सः निवासः च विषयः च ।२० - २५ - अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः भविष्यति ।२१ - २५ - इदम् तर्हि प्रयोजनम् ।२२ - २५ - एतत् ज्ञास्यामि इह नित्यः विधिः इह विभाषा इति ।२३ - २५ - एतत् अपि न अस्ति प्रयोजनम् ।२४ - २५ - यावता यत् अभिधेयम् सः निवासः च विषयः च ।२५ - २५ - अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः ।१ - ३ - छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपसङ्ख्यानम् ।२ - ३ - छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपसङ्ख्यानम् कर्तव्यम् ।३ - ३ - त्रिष्टुप् एव त्रैष्टुभम् अनुष्टुप् एव आनुष्टुभम् जगती एव जागतम् ।१ - ३ - किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यः अधीते वेत्ति अपि असौ यः तु वेत्ति अधीते अपि असौ ।२ - ३ - न एतयोः आवश्यकः समावेशः ।३ - ३ - भवति हि कः चित् सम्पाठम् पठति न च वेत्ति कः चित् च वेत्ति न च सम्पाठम् पठति ।१ - ४८ - उक्थादि इति उच्यते ।२ - ४८ - कानि उक्थानि ।३ - ४८ - सामानि ।४ - ४८ - यदि एवम् सामगमात्रे औक्थिकः इति प्राप्नोति ।५ - ४८ - न एषः दोषः ।६ - ४८ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।७ - ४८ - उक्थार्थम् उक्थम् ।८ - ४८ - इह उक्थानि अधीते औक्थिकः यज्ञम् अधीते याज्ञिकः ।९ - ४८ - यः इदानीम् औक्थिक्यम् याज्ञिकम् च अधीते कथम् तत्र भवितव्यम् ।१० - ४८ - औक्थिकः याज्ञिकः इति एव भवितव्यम् ।११ - ४८ - कथम् ।१२ - ४८ - तस्येदम्प्रत्ययात् लुक् ।१३ - ४८ - तस्येदम्प्रत्ययात् लुक् ।१४ - ४८ - तस्येदम्प्रत्ययस्य च ।१५ - ४८ - सः तर्हि वक्तव्यः ।१६ - ४८ - न वक्तव्यः ।१७ - ४८ - इह अस्माभिः त्रैशब्द्यम् साध्यम् ।१८ - ४८ - उक्थानि अधीते औक्थिक्यम् अधीते औक्थिकः इति ।१९ - ४८ - तत्र द्वयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।२० - ४८ - तत् यथा अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति ।२१ - ४८ - एवम् उक्थानि अधीते इति विगृह्य औक्थिकः इति भविष्यति ।२२ - ४८ - औक्थिक्यम् अधीते इति विगृह्य वाक्यम् एव. विद्यालक्षणकल्पसूत्रान्तात् अकल्पादेः इकक् स्मृतः ।२३ - ४८ - विद्या ।२४ - ४८ - वायसविद्यकः ।२५ - ४८ - विद्या लक्षण गोलक्षणिकः आश्वलक्षणिकः ।२६ - ४८ - लक्षण ।२७ - ४८ - कल्प ।२८ - ४८ - पाराशरकल्पिकः पारकल्पिकः ।२९ - ४८ - कल्प् ।३० - ४८ - सूत्र ।३१ - ४८ - वार्त्तिकसूत्रिकः साङ्ग्रहसूत्रिकः ।३२ - ४८ - अकल्पादेः इति किमर्थम् ।३३ - ४८ - काल्पसूत्रः ।३४ - ४८ - विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा ।३५ - ४८ - विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा इति वक्तव्यम् ।३६ - ४८ - आङ्गविद्यः क्षात्रविद्यः धार्मविद्यः त्रैविद्यः ।३७ - ४८ - आख्यानाख्यायिकेतिहासपुराणेभ्यः च ठक् वक्तव्यः ।३८ - ४८ - यावक्रीतिकः प्रैयङ्गविकः यायातिकः ।३९ - ४८ - आख्यान ।४० - ४८ - आख्यायिका ।४१ - ४८ - वासवदत्तिकः सौमनोत्तरिकः ।४२ - ४८ - ऐतिहासिकः पौराणिकः ।४३ - ४८ - सर्वसादेः द्विगोः च लः ।४४ - ४८ - सर्वसादेः द्विगोः च लः वक्तव्यः ।४५ - ४८ - सर्ववेदः सर्वतन्त्रः ।४६ - ४८ - सवार्त्तिकः ससङ्ग्रहः ।४७ - ४८ - पञ्चकल्पः द्वितन्त्रः ।४८ - ४८ - अनुसूः लक्ष्यलक्षणे सर्वसादेः द्विगोः च लः इकन् पदोत्तरपदात् शतषष्टेः षिकन् पथः ।१ - ३ - अयम् योगः शक्यः अवक्तुम् ।२ - ३ - कथम् अनुब्राह्मणी अनुब्राह्मणिनौ अनुब्राह्मणिनः ।३ - ३ - इनिना एव मत्वर्थीयेन सिद्धम् ।१ - ५ - अयुक्तः अयम् निर्देशः ।२ - ५ - अधीते इति वर्तते न च वसन्तः नाम अध्ययनम् अस्ति ।३ - ५ - न एषः दोषः ।४ - ५ - साहचर्यात् ताच्छब्द्यम् भविष्यति ।५ - ५ - वसन्तसहचरितम् अध्ययनम् वसन्ते अध्ययनम् इति ।१ - ३ - अयुक्तः अयम् निर्देशः ।२ - ३ - प्रौक्तात् इति भवितव्यम् ।३ - ३ - सौत्रः निर्देशः ।१ - ३ - सङ्ख्याप्रकृतेः इति वक्तव्यम् ।२ - ३ - इह मा भूत् ।३ - ३ - माहावार्त्तिकः कालपकः ।१ - ३१ - किमर्थम् इदम् उच्यते ।२ - ३१ - अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् तद्विषयवचनम् ।३ - ३१ - अन्यत्र अभिधेयम् अनित्यम् भवति ।४ - ३१ - पाणिनीयम् इति वा भवति पाणिनीयाः इति वा ।५ - ३१ - अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् अपि अनित्यता प्राप्नोति ।६ - ३१ - इष्यते च तद्विषयता एव स्यात् इति ।७ - ३१ - तत् च अन्तरेण यत्नम् न सिध्यति इति छन्दोब्राह्मणानाम् तद्विषयवचनम् ।८ - ३१ - एवमर्थम् इदम् उच्यते ।९ - ३१ - अस्ति प्रयोजनम् एतत् ।१० - ३१ - किम् तर्हि इति ।११ - ३१ - तत्र यथाधिकारम् तद्विषयप्रसङ्गः ।१२ - ३१ - तत्र यथाधिकारम् तद्विषयता प्राप्नोति ।१३ - ३१ - अधीते वेद इति वर्तते ।१४ - ३१ - तेन अध्येतृवेदित्रोः एव तद्विषयता स्यात् ।१५ - ३१ - ये अन्ये उपचाराः तत्र न स्यात् ।१६ - ३१ - यथा इह भवति पाणिनीयम् महत् सुविहितम् इति एवम् इह अपि स्यात् कठम् महत् सुविहितम् इति ।१७ - ३१ - सिद्धम् तु प्रोक्ताधिकारे तद्विषयवचनात् ।१८ - ३१ - सिद्धम् एतत् ।१९ - ३१ - कथम् ।२० - ३१ - प्रोक्ताधिकारे एव तद्विषयता वक्तव्या ।२१ - ३१ - तेन प्रोक्तम् ।२२ - ३१ - छन्दोब्राह्मणानि अध्येतृवेदित्रोः एव इति ।२३ - ३१ - तत् तर्हि अध्येतृवेदितृग्रहणम् कर्तव्यम् ।२४ - ३१ - ननु च इह अपि क्रियते ।२५ - ३१ - परार्थम् एतद् भवति तत् अधीते तत् वेद इति ।२६ - ३१ - एवम् तर्हि यावत् इह छन्दोब्राह्मणग्रहणम् तावत् अत्र अध्येतृवेदितृग्रहणम् ।२७ - ३१ - ननु च तत्र अपि क्रियते ।२८ - ३१ - परार्थम् तत् भविष्यति ।२९ - ३१ - पुराण्प्रोक्तेषु ब्राह्मणकल्पेषु शौनकादिभ्यः छन्दसि इति ।३० - ३१ - इह वा छन्दोब्राह्मणग्रहणम् क्रियते तत्र वा अध्येतृवेदितृग्रहणम् ।३१ - ३१ - कः नु अत्र विशेषः ।१ - ३४ - याज्ञवक्क्यादिभ्यः प्रतिषेधः ।२ - ३४ - याज्ञवक्यादिभ्यः प्रतिषेधः वक्तव्यः ।३ - ३४ - याज्ञवल्कानि ब्राह्मणानि ।४ - ३४ - सौलभानि ।५ - ३४ - किम् प्रोक्ताधिकारे तद्विषयता क्रियते इति अतः याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः ।६ - ३४ - न इति आह ।७ - ३४ - सर्वथा याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः ।८ - ३४ - इनिः वा प्रोक्ते तद्विषयः ।९ - ३४ - अथ वा इनिः प्रोक्ते तद्विषयः भवति इति वक्तव्यम् ।१० - ३४ - यदि इनिः प्रोक्ते तद्विषयः भवति इति उच्यते पैङ्गी कल्पः अत्र अपि प्राप्नोति ।११ - ३४ - काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् ।१२ - ३४ - काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् द्रष्टव्यम् ।१३ - ३४ - काश्यपकौशिकाभ्याम् एव इनिः कल्पे तद्विषयः भवति न अन्येभ्यः इति ।१४ - ३४ - एवम् अपि छणादीनाम् तद्विषयता न प्राप्नोति ।१५ - ३४ - तैत्तिरीयाः वारतन्तवीयाः ।१६ - ३४ - यदि पुनः छणादयः प्रोक्ते तद्विषयाः भवन्ति इति उच्येत ।१७ - ३४ - एवम् अपि पैङ्गी कल्पः अत्र अपि प्राप्नोति ।१८ - ३४ - काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् इति एव ।१९ - ३४ - एवम् अपि औत्सर्गिकाणाम् तद्विषयता न प्राप्नोति ।२० - ३४ - क्रौडाः काङ्कताः मौदाः पैप्पलादाः ।२१ - ३४ - छणादयः च अपि औत्सर्गिकान् अध्येतृवेदित्रोः एव बाधेरन् ।२२ - ३४ - ये अन्ये उपचाराः तत्र न बाधेरन् ।२३ - ३४ - तित्तिरिणा प्रोक्ताः श्लोकाः इति ।२४ - ३४ - अस्ति तर्हि अविशेषेण ।२५ - ३४ - ननु च उक्तम् याज्ञवक्यादिभ्यः प्रतिषेधः इति ।२६ - ३४ - वक्ष्यति एतत् ।२७ - ३४ - याज्ञवक्यादिभ्यः प्रतिषेधः तुल्यकालत्वात् इति ।२८ - ३४ - तत्र एव वक्तव्यम् ।२९ - ३४ - तद्विषयता च न भवति इति ।३० - ३४ - कथम् काश्यपिनः कौशिकिनः इति ।३१ - ३४ - इनिः प्रोक्ते तद्विषयः भवति इति उच्यमाने अवश्यम् काश्यपकौशिकग्रहणम् कल्पे नियमार्थम् द्रष्टव्यम् ।३२ - ३४ - तत् एव इदानीम् विध्यर्थम् भविष्यति ।३३ - ३४ - कथम् पाराशरिणः भिक्षवः शैलालिनः नटाः ।३४ - ३४ - अत्र अपि तद्विषयता च इति अनुवर्तिष्यते ।१ - २१ - किम् पुनः अयम् एकः योगः आहोस्वित् नानायोगाः ।२ - २१ - किम् च अतः ।३ - २१ - यदि एकः योगः उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या ।४ - २१ - न हि एकयोगे अनुवृत्तिः भवति ।५ - २१ - कथम् ज्ञायते ।६ - २१ - यत् अयम् तत् अधीते तत् वेद इति द्विः तद्ग्रहणम् करोति ।७ - २१ - अथ नानायोगाः ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् ।८ - २१ - यथा इच्छसि तथा अस्तु ।९ - २१ - अस्तु तावत् एकः योगः ।१० - २१ - ननु च उक्तम् उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या ।११ - २१ - न हि एकयोगे अनुवृत्तिः भवति इति ।१२ - २१ - एकयोगे अपि अनुवृत्तिः भवति ।१३ - २१ - कथम् ज्ञायते ।१४ - २१ - यत् अयम् तत् अस्य अस्ति अस्मिन् इति मतुप् इति द्विः तद्ग्रहणम् न करोति ।१५ - २१ - कथम् तत् अधीते तत् वेद इति ।१६ - २१ - प्रमादकृतम् आचार्यस्य शक्यम् अकर्तुम् ।१७ - २१ - अथ वा पुनः सन्तु नानायोगाः ।१८ - २१ - ननु च उक्तम् ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् इति ।१९ - २१ - न एषः दोषः ।२० - २१ - गोयूथवत् अधिकाराः ।२१ - २१ - तत् यथा गोयूथम् एकदण्डप्रघट्टितम् सर्वम् समम् घोषम् गच्छति तद्वत् अधिकाराः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP