पाद ४ - खण्ड ४१

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ८० - हिस्वोः परस्मैपदात्मनेपदग्रहणम् लादेशप्रतिषेधार्थम् ।

२ - ८० - हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् हिः परस्मैपदानाम् यथा स्यात् स्वः आत्मनेपदानाम् इति ।

३ - ८० - किम् प्रयोजनम् ।

४ - ८० - लादेशप्रतिषेधार्थम् ।

५ - ८० - लादेशौ हिस्वौ मा भूताम् इति ।

६ - ८० - किम् च स्यात् यदि लादेशौ हिस्वौ स्याताम् ।

७ - ८० - तिङन्तम् पदम् इति पदसञ्ज्ञा न स्यात् ।

८ - ८० - मात् भूत् एवम् ।

९ - ८० - सुबन्तम् पदम् इति पदसञ्ज्ञा भविष्यति ।

१० - ८० - कथम् स्वाद्युत्पत्तिः ।

११ - ८० - लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् ।

१२ - ८० - लकारः कृत् ।

१३ - ८० - तस्य कृत्त्वात् कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।

१४ - ८० - प्रातिपदिकाश्रया स्वाद्युत्पत्तिः अपि भविष्यति ।

१५ - ८० - यदि स्वाद्युत्पत्तिः सुपाम् श्रवणम् प्राप्नोति ।

१६ - ८० - अव्ययात् इति सुब्लुक् भविष्यति ।

१७ - ८० - कथम् अव्ययत्वम् ।

१८ - ८० - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।

१९ - ८० - निपातम् अव्ययम् इति अव्ययसञ्ज्ञा ।

२० - ८० - इह तर्हि सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति तिङ् अतिङः इति निघातः न प्राप्नोति ।

२१ - ८० - समसङ्ख्यार्थम् च ।

२२ - ८० - समसङ्ख्यार्थम् च हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् हिः परस्मैपदानाम् यथा स्यात् स्वः आत्मनेपदानाम् ।

२३ - ८० - व्यतिकरः मा भूत् इति ।

२४ - ८० - न वा तध्वमोः आदेशवचनम् ज्ञापकम् पदादेशस्य ।

२५ - ८० - न वा हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् ।

२६ - ८० - किम् कारणम् ।

२७ - ८० - तध्वमोः आदेशवचनम् ज्ञापकम् पदादेशस्य ।

२८ - ८० - यत् अयम् वा च तध्वमोः इति आह तत् ज्ञापयति आचार्यः पदादेशौ हिस्वौ इति ।

२९ - ८० - तत्र पदादेशे पित्त्वाटोः प्रतिषेधः ।

३० - ८० - तत्र पदादेशे पित्त्वस्य आटः च प्रतिषेधः वक्तव्यः ।

३१ - ८० - पित्त्वस्य तावत् ।

३२ - ८० - सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।

३३ - ८० - आटः खलु अपि ।

३४ - ८० - सः अहम् लुनीहि लुनीहि इति एवम् लुनानि ।

३५ - ८० - पित्त्वस्य तावत् न वक्तव्यः ।

३६ - ८० - पित्प्रतिषेधे योगविभागः करिष्यते ।

३७ - ८० - इह सेः हि भवति ।

३८ - ८० - ततः अपित् च ।

३९ - ८० - अपित् च भवति यावान् हिः नाम ।

४० - ८० - आटः च अपि न वक्तव्यः ।

४१ - ८० - आटि कृते साट्कस्य आदेशः भविष्यति ।

४२ - ८० - इदम् इह सम्प्रधार्यम् आट् क्रियताम् आदेशः इति ।

४३ - ८० - किम् अत्र कर्तव्यम् ।

४४ - ८० - परत्वात् आडागमः ।

४५ - ८० - नित्यः आदेशः ।

४६ - ८० - कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति ।

४७ - ८० - आट् अपि नित्यः ।

४८ - ८० - कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति ।

४९ - ८० - अनित्यः आट् ।

५० - ८० - अन्यस्य कृते अपि आदेशे प्राप्नोति अन्यस्य अकृते अपि प्राप्नोति ।

५१ - ८० - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

५२ - ८० - आदेशः अपि अनित्यः ।

५३ - ८० - अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते ।

५४ - ८० - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

५५ - ८० - उभयोः अनित्ययोः परत्वात् आडागमः ।

५६ - ८० - आटि कृते साट्कस्य आदेशः भविष्यति ।

५७ - ८० - इदम् तर्हि सः अहम् भुङ्क्ष्व भुङ्क्ष्व इति एवम् भुनजै इति श्नसोः अल्लोपः इति अकारलोपः न प्राप्नोति ।

५८ - ८० - समसङ्ख्यार्थत्वम् च अपि अपरिहृतम् एव. सिद्धम् तु लोड्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनात् ।

५९ - ८० - सिद्धम् एतत् ।

६० - ८० - कथम् ।

६१ - ८० - लोड्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्वे भवतः इति वक्तव्यम् ।

६२ - ८० - केन विहितस्य क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनम् उच्यते ।

६३ - ८० - एतत् एव ज्ञापयति आचार्यः भवति क्रियासमभिहारे लोट् इति यत् अयम् क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनम् शास्ति ।

६४ - ८० - कुतः नु खलु एतत् ज्ञापकात् अत्र लोट् भविष्यति ।

६५ - ८० - न पुनः यः एव असौ अविशेषविहितः सः यदा क्रियासमभिहारे भवति तदा अस्य द्विर्वचनम् भवति इति ।

६६ - ८० - लोड्मध्यमपुरुषैकवचने एव खलु अपि सिद्धम् स्यात् ।

६७ - ८० - इमौ च अन्यौ हिस्वौ सर्वेषाम् पुरुषाणाम् सर्वेषाम् वचनानाम् इष्येते ।

६८ - ८० - सूत्रम् च भिद्यते ।

६९ - ८० - यथान्यासम् एव अस्तु ।

७० - ८० - ननु च उक्तम् हिस्वोः परस्मैपदात्मनेपदग्रहणम् लादेशप्रतिषेधार्थम् ।

७१ - ८० - समसङ्ख्यार्थम् च इति ।

७२ - ८० - न एषः दोषः ।

७३ - ८० - योगविभागात् सिद्धम् ।

७४ - ८० - योगविभागः करिष्यते ।

७५ - ८० - क्रियासमभिहारे लोट् भवति ।

७६ - ८० - ततः लोटः हिस्वौ भवतः ।

७७ - ८० - लोट् इति एव अनुवर्तते ।

७८ - ८० - लोटः यौ हिस्वौ इति ।

७९ - ८० - कथम् वा च तध्वमोः इति ।

८० - ८० - वा च तध्वम्भाविनः लोटः इति एवम् एतत् विज्ञायते ।

१ - १० - किमर्थम् इदम् उच्यते ।

२ - १० - अनुप्रयोगः यथा स्यात् ।

३ - १० - न एतत् अस्ति प्रयोजनम् ।

४ - १० - हिस्वान्तम् अव्यक्तपदार्थकम् ।

५ - १० - तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।

६ - १० - इदम् तर्हि प्रयोजनम् ।

७ - १० - यथाविधि इति वक्ष्यामि इति ।

८ - १० - एतत् अपि न अस्ति प्रयोजनम् ।

९ - १० - समुच्चये सामान्यवचनस्य इति वक्ष्यति ।

१० - १० - तत्र अन्तरेण वचनम् यथाविधि अनुप्रयोगः भविष्यति ।

१ - ९ - किमर्थम् इदम् उच्यते ।

२ - ९ - अनुप्रयोगः यथा स्यात् ।

३ - ९ - न एतत् अस्ति प्रयोजनम् ।

४ - ९ - हिस्वान्तम् अव्यक्तपदार्थकम् ।

५ - ९ - तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।

६ - ९ - इदम् तर्हि प्रयोजनम् ।

७ - ९ - सामान्यवचनस्य इति वक्ष्यामि इति ।

८ - ९ - एतत् अपि न अस्ति प्रयोजनम् ।

९ - ९ - सामान्यवचनस्य अनुप्रयोगः अस्तु विशेषवचनस्य इति सामान्यवचनस्य अनुप्रयोगः भविष्यति लघुत्वात् ।

१ - १० - उपसंवादाशङ्कयोः वचनानर्थक्यम् लिङर्थत्वात् ।

२ - १० - उपसंवादाशङ्कयोः वचनम् नर्थकम् ।

३ - १० - किम् कारणम् ।

४ - १० - लिङर्थत्वात् ।

५ - १० - लिङर्थे लेट् इति एव सिद्धम् ।

६ - १० - कः पुनः लिङर्थः ।

७ - १० - के चित् तावत् आहुः ।

८ - १० - हेतुहेतुमतोः लिङ् इति ।

९ - १० - अपरे आहुः वक्तव्यः एव एतस्मिन् विशेषे लिङ् ।

१० - १० - प्रयुज्यते हि लोके यदि मे भवान् इदम् कुर्यात् अहम् अपि ते इदम् दद्याम् ।

१ - १६ - तुमर्थे इति उच्यते ।

२ - १६ - कः तुमर्थः ।

३ - १६ - कर्ता ।

४ - १६ - यदि एवम् न अर्थः तुमर्थग्रहणेन ।

५ - १६ - येन एव खलु अपि हेतुना कर्तरि तुमुन् भवति तेन एव हेतुना सयादयः अपि भविष्यन्ति ।

६ - १६ - एवम् तर्हि सिद्धे सति यत् तुमर्थग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति अन्यः कर्तुः तुमुनः अर्थः इति ।

७ - १६ - कः पुनः असौ ।

८ - १६ - भावः ।

९ - १६ - कुतः नु खलु एतत् भावे तुमुन् भविष्यति ।

१० - १६ - न पुनः कर्मादिषु कारकेषु इति ।

११ - १६ - ज्ञापकात् अयम् कर्तुः अपकृष्यते ।

१२ - १६ - न च अन्यस्मिन् अर्थे आदिश्यते ।

१३ - १६ - अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यति तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।

१४ - १६ - सः असौ स्वार्थे भवन् भावे भविष्यति ।

१५ - १६ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१६ - १६ - अव्ययकृतः भावे भवन्ति इति एतत् न वक्तव्यम् भवति ।

१ - १२ - किमर्थम् मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् क्रियते न उदीचाम् मेङः इति एव उच्येत ।

२ - १२ - तत्र अयम् अपि अर्थः ।

३ - १२ - उदीचाम् मेङः इति व्यतिहारग्रहणम् न कर्तव्यम् भवति ।

४ - १२ - किम् कारणम् ।

५ - १२ - तद्विषयः हि सः ।

६ - १२ - वय्तिहारविषयः एव मयतिः ।

७ - १२ - एवम् तर्हि सिद्धे सति यत् मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति तत् ज्ञापयति आचार्यः न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति ।किम् एतस्य ज्ञापने प्रयोजनम् ।

८ - १२ - तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति उक्तम् ।

९ - १२ - तत् न वक्तव्यम् भवति ।

१० - १२ - किमर्थम् पुनः इदम् उच्यते न समानकर्तृकयोः पूर्वकाले इति एव सिद्धम् ।

११ - १२ - अपूर्वकालार्थः अयम् आरम्भः ।

१२ - १२ - पूर्वम् हि असौ याचते पश्चात् अपमयते ।

१ - १७ - इह कस्मात् न भवति पूर्वम् भुङ्क्ते पश्चात् व्रजति ।

२ - १७ - स्वशब्देन उक्तत्वात् न भवति ।

३ - १७ - न तर्हि इदानीम् इदम् भवति पूर्वम् भुक्त्वा ततः व्रजति इति ।

४ - १७ - न एतत् क्रियापौर्वकाल्यम् ।

५ - १७ - किम् तर्हि ।

६ - १७ - कर्तृपौर्वकाल्यम् ।

७ - १७ - पूर्वम् हि असौ भुक्त्वा अन्येभ्यः भोक्तृभ्यः ततः पश्चात् व्रजति अन्येभ्यः व्रजितृभ्यः ।

८ - १७ - इह कस्मात् न भवति आस्यते भोक्तुम् इति ।

९ - १७ - कुतः कस्मात् न भवति ।

१० - १७ - किम् आसेः आहोस्वित् भुजेः ।

११ - १७ - भुजेः कस्मात् न भवति ।

१२ - १७ - अपूर्वकालत्वात् ।

१३ - १७ - आसेः तर्हि कस्मात् न भवति ।

१४ - १७ - यस्मात् अत्र लट् भवति ।

१५ - १७ - एतत् अत्र प्रष्टव्यम् ।

१६ - १७ - लट् अत्र कथम् भवति इति ।

१७ - १७ - लट् च अत्र वासरूपेण भविष्यति ।

१ - ४० - समानकर्तृकयोः इति बहुषु अप्राप्तिः ।

२ - ४० - समानकर्तृकयोः इति बहुषु क्त्वा न प्राप्नोति ।

३ - ४० - स्नात्वा भुक्त्वा पीत्वा व्रजति इति ।

४ - ४० - किम् पुन कारणम् न सिध्यति ।

५ - ४० - द्विवचननिर्देशात् ।

६ - ४० - द्विवचनेन अयम् निर्देशः क्रियते ।

७ - ४० - तेन द्वयोः एव पौर्वकाल्ये स्यात् ।

८ - ४० - बहूनाम् न स्यात् ।

९ - ४० - सिद्धम् तु क्रियाप्रधनत्वात् ।

१० - ४० - सिद्धम् एतत् ।

११ - ४० - कथम् ।

१२ - ४० - क्रियाप्रधनत्वात् ।

१३ - ४० - क्रियाप्रधानः अयम् निर्देशः ।

१४ - ४० - न अत्र निर्देशः तन्त्रम् ।

१५ - ४० - कथम् पुनः तेन एव नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।

१६ - ४० - तत्कारी च भवान् तद्द्वेषी च ।

१७ - ४० - नान्तरीयकत्वात् अत्र द्विवचनेन निर्देशः क्रियते ।

१८ - ४० - अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्यः ।

१९ - ४० - तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् ।

२० - ४० - सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।

२१ - ४० - तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् ।

२२ - ४० - सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।

२३ - ४० - एवम् इह अपि नान्तरीयकत्वात् द्विवचनेन निर्देशः क्रियते ।

२४ - ४० - न हि अत्र निर्देशः तन्त्रम् ।

२५ - ४० - एवम् अपि लोकविज्ञानात् न सिध्यति । तत् यथा ।

२६ - ४० - लोके ब्राह्मणानाम् पूर्वम् आनीयताम् इति उक्ते सर्वपूर्वः आनीयते ।

२७ - ४० - एवम् इह अपि सर्वपूर्वायाः क्रियायाः प्राप्नोति ।

२८ - ४० - अनन्त्यवचनात् तु सिद्धम् ।

२९ - ४० - समानकर्तृकयोः अनन्त्यस्य इति वक्तव्यम् ।

३० - ४० - सिध्यति ।

३१ - ४० - सूत्रम् तर्हि भिद्यते ।

३२ - ४० - यथान्यासम् एव अस्तु ।

३३ - ४० - ननु च उक्तम् समानकर्तृकयोः इति बहुषु अप्राप्तिः इति ।

३४ - ४० - परिहृतम् एतत् सिद्धम् तु क्रियाप्रधनत्वात् इति ।

३५ - ४० - ननु च उक्तम् एवम् अपि लोकविज्ञानात् न सिध्यति इति ।

३६ - ४० - न एषः दोषः सर्वेषाम् अत्र व्रजिक्रियाम् प्रति पौर्वकाल्यम् ।

३७ - ४० - स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजति इति ।

३८ - ४० - एवम् च कृत्वा प्रयोगः अनियतः भवति ।

३९ - ४० - स्नात्वा भुक्त्व पीत्वा व्रजति ।

४० - ४० - पीत्वा स्नात्वा भुत्वा व्रजति इति ।

१ - ११ - व्यादाय स्वपिति इति उपसङ्ख्यानम् अपूर्वकालत्वात् ।

२ - ११ - व्यादाय स्वपिति इति उपसङ्ख्यानम् कर्तव्यम् ।

३ - ११ - किम् पुनः कारणम् न सिध्यति ।

४ - ११ - अपूर्वकालत्वात् ।

५ - ११ - पूर्वम् हि असौ स्वपिति पश्चात् व्याददाति ।

६ - ११ - न वा स्वप्नस्य अवकालत्वात् ।

७ - ११ - न वा कर्तव्यम् ।

८ - ११ - किम् कारणम् ।

९ - ११ - स्वप्नस्य अवकालत्वात् ।

१० - ११ - अवरकालः स्वप्नः ।

११ - ११ - अवश्यम् असौ व्यादाय मुहुर्तम् अपि स्वपिति ।

१ - १३ - किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।

२ - १३ - कथम् च प्राप्ते कथम् वा अप्राप्ते ।

३ - १३ - आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते ।

४ - १३ - किम् च अतः ।

५ - १३ - यदि प्राप्ते आभीक्ष्ण्ये अनिष्टा विभाषा प्राप्नोति अन्यत्र च इष्टा न सिध्यति ।

६ - १३ - अथ अप्राप्ते ।

७ - १३ - अग्रादिषु अप्राप्तविधेः समासप्रतिषेधः ।

८ - १३ - अग्रादिषु अप्राप्तविधेः समासप्रतिषेधः वक्तव्यः ।

९ - १३ - सः तर्हि वक्तव्यः ।

१० - १३ - न वक्तव्यः ।

११ - १३ - उक्तम् एतत् अमा एव अव्ययेन इति अत्र एवकारकरणस्य प्रजोजनम् ।

१२ - १३ - अमा एव अव्ययेन यत् तुल्यविधानम् उपपदम् तत्र समासः यथा स्यात् ।

१३ - १३ - अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति ।

१ - १० - किमर्थम् स्वादुमि मकारान्तत्वम् निपात्यते न खमुञ् प्रकृतः सः अनुवर्तिष्यते ।

२ - १० - स्वादुमि मान्तनिपातनम् ईकाराभावार्थम् ।

३ - १० - स्वादुमि मान्तनिपातनम् क्रियते ईकाराभावार्थम् ।

४ - १० - ईकारः मा भूत् इति ।

५ - १० - स्वाद्वीम् कृत्वा यवागूम् भुङ्क्ते ।

६ - १० - स्वादुङ्कारम् यवागूम् भुङ्क्ते ।

७ - १० - च्व्यन्तस्य च मकारान्तार्थम् ।

८ - १० - च्व्यन्तस्य च मकारान्तत्वम् निपात्यते ।

९ - १० - अस्वादु स्वादु कृत्वा भुङ्क्ते ।

१० - १० - स्वादुङ्कारम् भुङ्क्ते ।

१ - ७१ - आ च तुमुनः समानाधिकरणे ।

२ - ७१ - आ च तुमुनः प्रत्ययाः समानाधिकरणे वक्तव्याः ।

३ - ७१ - केन ।

४ - ७१ - अनुप्रयोगेण ।

५ - ७१ - किम् प्रयोजनम् ।

६ - ७१ - स्वादुङ्कारम् यवागूः भुज्यते देवदत्तेन इति देवदत्ते तृतीया यथा स्यात् ।

७ - ७१ - किम् च कारणम् न स्यात् ।

८ - ७१ - णमुला अभिहितः कर्ता इति ।

९ - ७१ - ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।

१० - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यवाग्वाम् द्वितीया प्राप्नोति ।

११ - ७१ - किम् कारणम् ।

१२ - ७१ - णमुला अनभिहितम् कर्म इति ।

१३ - ७१ - यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।

१४ - ७१ - इह हि स्वादुङ्कारम् यवागूम् भुङ्क्ते देवदत्तः इति यवाग्वाम् द्वितीया न स्यात् ।

१५ - ७१ - किम् कारणम् ।

१६ - ७१ - णमुला अभिहितम् कर्म इति ।

१७ - ७१ - ननु च भुजिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।

१८ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।

१९ - ७१ - किम् कारणम् ।

२० - ७१ - णमुला अनभिहितः कर्ता इति ।

२१ - ७१ - अथ अनेन क्त्वायाम् अर्थः पक्त्वा ओदनः भुज्यते देवदत्तेन इति ।

२२ - ७१ - बाढम् अर्थः ।

२३ - ७१ - देवदत्ते तृतीया यथा स्यात् ।

२४ - ७१ - किम् च कारणम् न स्यात् ।

२५ - ७१ - क्त्वया अभिहितः कर्ता इति ।

२६ - ७१ - ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।

२७ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति ।

२८ - ७१ - किम् कारणम् ।

२९ - ७१ - क्त्वया अनभिहितम् कर्म इति ।

३० - ७१ - यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।

३१ - ७१ - इह हि पक्त्वा ओदनम् भुङ्क्ते देवदत्तः इति ओदने द्वितीया न स्यात् ।

३२ - ७१ - किम् कारणम् ।

३३ - ७१ - क्त्वया अभिहितम् कर्म इति ।

३४ - ७१ - ननु च भुजिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।

३५ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।

३६ - ७१ - किम् कारणम् ।

३७ - ७१ - क्त्वया अनभिहितः कर्ता इति ।

३८ - ७१ - अथ अनेन तुमुनि अर्थः ।

३९ - ७१ - भोक्तुम् ओदनः पच्यते देवदत्तेन ।

४० - ७१ - बाढम् अर्थः ।

४१ - ७१ - देवदत्ते तृतीया यथा स्यात् ।

४२ - ७१ - किम् च कारणम् न स्यात् ।

४३ - ७१ - तुमुना अभिहितः कर्ता इति ।

४४ - ७१ - ननु च पचिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।

४५ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति ।

४६ - ७१ - किम् कारणम् ।

४७ - ७१ - तुमुना अनभिहितम् कर्म इति ।

४८ - ७१ - यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।

४९ - ७१ - इह हि भोक्तुम् ओदनम् पचति देवदत्तः इति ओदने द्वितीया न स्यात् ।

५० - ७१ - किम् कारणम् ।

५१ - ७१ - तुमुना अभिहितम् कर्म इति ।

५२ - ७१ - ननु च पचिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।

५३ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।

५४ - ७१ - किम् कारणम् ।

५५ - ७१ - तुमुना अनभिहितः कर्ता इति ।

५६ - ७१ - अथ अनेन इह अर्थः पक्त्वा ओदनम् ग्रामः गम्यते देवदत्तेन ।

५७ - ७१ - बाढम् अर्थः ।

५८ - ७१ - देवदत्ते तृतीया यथा स्यात् ।

५९ - ७१ - किम् च कारणम् न स्यात् ।

६० - ७१ - क्त्वया अभिहितः कर्ता इति ।

६१ - ७१ - ननु च गमिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।

६२ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यत् उक्तम् ओदने द्वितीया प्राप्नोति इति सः दोषः न जायते ।

६३ - ७१ - तत् तर्हि वक्तव्यम् आ च तुमुनः समानाधिकरणे इति ।

६४ - ७१ - न वक्तव्यम् ।

६५ - ७१ - अव्ययकृतः भावे भवन्ति इति भावे भविष्यन्ति ।

६६ - ७१ - किम् वक्तव्यम् एतत् ।

६७ - ७१ - न हि ।

६८ - ७१ - कथम् अनुच्यमानम् गंस्यते ।

६९ - ७१ - तुमर्थे इति वर्तते ।

७० - ७१ - तुमर्थः च कः ।

७१ - ७१ - भावः ।

१ - ७ - ऊलोपश्चास्यान्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।

२ - ७ - कथम् गोष्पदम् वृष्टः देवः इति ।

३ - ७ - प्रातिः पूरणकर्मा ।

४ - ७ - तस्मात् एषः कः ।

५ - ७ - यदि कः विभतीनाम् श्रवणम् प्राप्नोति ।

६ - ७ - श्रूयन्ते एव अत्र विभक्तयः ।

७ - ७ - तत् यथा एकेन गोष्पदप्रेण ।

१ - २० - हनः करणे अनर्थकम् वचनम् हिंसार्थेभ्यः णमुल्विधानात् ।

२ - २० - हनः करणे अनर्थकम् वचनम् ।

३ - २० - किम् कारणम् ।

४ - २० - हिंसार्थेभ्यः णमुल्विधानात् ।

५ - २० - हिंसार्थेभ्यः णमुल्विधीयते ।

६ - २० - तेन एव सिद्धम् ।

७ - २० - अर्थवत् तु अहिंसार्थस्य विधानात् ।

८ - २० - अर्थवत् तु हन्तेः णमुल्वचनम् ।

९ - २० - कः अर्थः ।

१० - २० - अहिंसार्थस्य विधानात् ।

११ - २० - अहिंसार्थानाम् णमुल् यथा स्यात् ।

१२ - २० - अस्ति पुनः अयम् क्व चित् हन्तिः अहिंसार्थः यदर्थः विधिः स्यात् ।

१३ - २० - अस्ति इति आह ।

१४ - २० - पाण्युपघातम् वेदिम् हन्ति ।

१५ - २० - नित्यसमासार्थम् च ।

१६ - २० - नित्यसमासार्थम् च हिंसार्थात् अपि हन्तेः अनेन विधिः एषितव्यः ।

१७ - २० - कथम् पुनः इच्छता अपि हिंसार्थात् हन्तेः अनेन विधिः लभ्यः ।

१८ - २० - अनेन अस्तु तेन वा इति तेन स्यात् विप्रतिषेधेन ।

१९ - २० - हन्तेः पूर्वविप्रतिषेधः वार्त्तिकेन एव ज्ञापितः ।

२० - २० - यत् अयम् नित्यसमासार्थम् च इति आह तत् ज्ञापयति आचार्यः हिंसार्थात् अपि हन्तेः अनेन विधिः भवति इति ।

१ - ७ - इह कस्मात् न भवति ।

२ - ७ - ग्रामे बद्धः इति ।

३ - ७ - एवम् वक्ष्यामि ।

४ - ७ - अधिकरणे बन्धः सञ्ज्ञायाम् ।

५ - ७ - ततः कर्त्रोः जीवपुरुषयोः नशिवहोः इति ।

६ - ७ - कथम् अट्टालिकाबन्धम् बद्धः चण्डालिकाबनधम् बद्धः ।

७ - ७ - उपमाने कर्मणि च इति एवम् भविष्यति ।

१ - ३ - अयुक्तः अयम् निर्देशः ।

२ - ३ - तिरश्चि इति भवितव्यम् ।

३ - ३ - सौत्रः अयम् निर्देशः ।

१ - ६ - अर्थग्रहणम् किमर्थम् ।

२ - ६ - नाधाप्रत्यये इति इयति उच्यमाने इह एव स्यात् द्विधाकृत्य ।

३ - ६ - इह न स्यात् द्वैधङ्कृत्य ।

४ - ६ - अर्थग्रहणे पुनः क्रियमाणे न दोषः भवति ।

५ - ६ - नाधाप्रत्यये सिद्धम् भवति यः च अन्यः तेन समानार्थः ।

६ - ६ - अथ प्रत्ययग्रहणम् किमर्थम् इह मा भूत् हिरुक् कृत्वा पृथक् कृत्वा

१ - ३ - अयुक्तः अयम् निर्देशः ।

२ - ३ - अनूचि इति भवितव्यम् ।

३ - ३ - सौत्रः अयम् निर्देशः ।

१ - ८६ - किमर्थम् इदम् उच्यते ।

२ - ८६ - कर्तरि कृद्वचनम् अनादेशे स्वाऋथविज्ञानात् ।

३ - ८६ - कर्तरि कृतः भवन्ति इति उच्यते अनादेशे स्वाऋथविज्ञानात् ।

४ - ८६ - अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति ।

५ - ८६ - तत् यथा ।

६ - ८६ - गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।

७ - ८६ - एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः ।

८ - ८६ - स्वार्थे मा भूवन् कर्तरि यथा स्युः इति एवमर्थम् इदम् उच्यते ।

९ - ८६ - न एतत् अस्ति प्रयोजनम् ।

१० - ८६ - यम् इच्छति स्वार्थे आह तम् ।

११ - ८६ - भावे घञ् भवति इति ।

१२ - ८६ - कर्मणि तर्हि मा भूवन् इति ।

१३ - ८६ - कर्मणि अपि यम् इच्छति आह तम् ।

१४ - ८६ - धः कर्मणि ष्ट्रन् इति ।

१५ - ८६ - करणाधिकरणयोः तर्हि मा भूवन् इति ।

१६ - ८६ - करणाधिकरणयोः अपि यम् इच्छति आह तम् ।

१७ - ८६ - ल्युट् करणाधिकरणयोः भवति इति ।

१८ - ८६ - सम्प्रदानापादानयोः तर्हि मा भूवन् इति ।

१९ - ८६ - सम्प्रदानापादानयोः अपि यम् इच्छति आह तम् ।

२० - ८६ - दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति ।

२१ - ८६ - यः इदानीम् अन्यः प्रत्ययः शेषः सः अन्तरेण वचनम् कर्तरि एव भविष्यति ।

२२ - ८६ - तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति ।

२३ - ८६ - ननु च उक्तम् यम् इच्छति स्वार्थे आह तम् ।

२४ - ८६ - भावे घञ् भवति इति ।

२५ - ८६ - अन्यः सः भावः बाह्यः प्रकृत्यर्थात् ।

२६ - ८६ - अनेन इदानीम् आभ्यन्तरे भावे स्युः ।

२७ - ८६ - तत्र मा भूवन् इति कर्तृग्रहणम् ।

२८ - ८६ - कः पुनः अनयोः भावयोः विशेषः ।

२९ - ८६ - उक्तः भावभेदः भाष्ये ।

३० - ८६ - अस्ति प्रयोजनम् एतत् ।

३१ - ८६ - किम् तर्हि इति ।

३२ - ८६ - तत्र ख्युनादिप्रतिषेधः नानावाक्यत्वात् ।

३३ - ८६ - तत्र ख्युनादीनाम् प्रतिषेधः वक्तव्यः ।

३४ - ८६ - ख्युनादयः कर्तरि मा भूवन् इति ।

३५ - ८६ - ननु च करणे खुनादयः विधीयन्ते ।

३६ - ८६ - ते कर्तरि न भविष्यन्ति ।

३७ - ८६ - तेन च करणे स्युः अनेन च कर्तरि ।

३८ - ८६ - ननु च अपवादत्वात् ख्युनादय्ः बाधकाः स्युः ।

३९ - ८६ - न स्युः ।

४० - ८६ - किम् कारणम् ।

४१ - ८६ - नानावाक्यत्वात् ।

४२ - ८६ - नानावाक्यम् तत् च इदम् च ।

४३ - ८६ - समानवाक्ये अपवादैः उत्सर्गाह्ः बाध्यन्ते ।

४४ - ८६ - नानावाक्यत्वात् बाधनम् न प्राप्नोति ।

४५ - ८६ - तद्वत् च कृत्येषु एवकारकरणम् ।

४६ - ८६ - एवम् च कृत्वा कृत्येषु एवकारः क्रियते ।

४७ - ८६ - तयोः एव कृत्यक्तखलर्थाः इति भावे च अकर्मकेभ्यः इति ।

४८ - ८६ - किम् प्रयोजनम् ।

४९ - ८६ - तत् च भव्याद्यर्थम् ।

५० - ८६ - भव्यादिषु समावेशः सिद्धः भवति ।

५१ - ८६ - गेयः माणवकः साम्नाम् ।

५२ - ८६ - गेयानि माणवकेन सामानि इति ।

५३ - ८६ - ऋषिदेवतयोः तु कृद्भिः समावेशवचनम् ज्ञापकम् असमावेशस्य ।

५४ - ८६ - यत् अयम् कर्तरि च ऋषिदेवतयोः इति सिद्धे सति समावेशे समावेशार्थम् चकारम् शास्ति तत् ज्ञापयति आचार्यः न भवति समावेशः इति ।

५५ - ८६ - किमर्थम् तर्हि कृत्येषु एवकारः क्रियते ।

५६ - ८६ - एवकारकरणम् च चार्थे ।

५७ - ८६ - एवकारकरणम् च चार्थे द्रष्टव्यम् ।

५८ - ८६ - तयोः भावकर्मणोः कृत्या भवन्ति भव्यादीनाम् कर्तरि च इति ।

५९ - ८६ - किम् प्रयोजनम् ।

६० - ८६ - तत् च भव्याद्यर्थम् ।

६१ - ८६ - भव्यादिषु समावेशः सिद्धः भवति ।

६२ - ८६ - गेयः माणवकः साम्नाम् ।

६३ - ८६ - गेयानि माणवकेन सामानि इति ।

६४ - ८६ - यत् तावत् उच्यते ऋषिदेवतयोः तु कृद्भिः समावेशवचनम् ज्ञापकम् असमावेशस्य इति ।

६५ - ८६ - न एतत् ज्ञापकसाध्यम् अपवादैः उत्सर्गाः अपवादैः बाध्यन्ते इति ।

६६ - ८६ - एषः एव न्यायः यत् उत अपवादैः उत्सर्गाः बाध्येरन् ।

६७ - ८६ - ननु च उक्तम् नानावाक्यत्वात् बाधनम् न प्राप्नोति इति ।

६८ - ८६ - न विदेशस्थम् इति कृत्वा नानावाक्यम् भवति ।

६९ - ८६ - विदेशस्थम् अपि सत् एकवाक्यम् भवति ।

७० - ८६ - तत् यथा द्वितीये अध्याये लुक् उच्यते ।

७१ - ८६ - तस्य चतुर्थषष्ठयोः अलुक् उच्यते अपवादः ।

७२ - ८६ - यत् अपि उच्यते एवकारकरणम् च चार्थे इति ।

७३ - ८६ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।

७४ - ८६ - कथम् एवकारः चार्थे वर्तते ।

७५ - ८६ - सः एषः एवकारः स्वार्थे वर्तते ।

७६ - ८६ - किम् प्रयोजनम् ।

७७ - ८६ - ज्ञापकार्थम् ।

७८ - ८६ - एतत् ज्ञापयति अचार्यः इतः उत्तरम् समावेशः भवति इति ।

७९ - ८६ - किम् एतस्य ज्ञपने प्रयोजनम् ।

८० - ८६ - तत् च भव्याद्यर्थम् ।

८१ - ८६ - भव्यादिषु समावेशः सिद्धः भवति ।

८२ - ८६ - गेयः माणवकः साम्नाम् ।

८३ - ८६ - गेयानि माणवकेन सामानि इति ।

८४ - ८६ - यदि एतत् ज्ञप्यते इह अपि समावेशः प्राप्नोति दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति ।

८५ - ८६ - अत्र अपि सिद्धम् भवति ।

८६ - ८६ - यत् अयम् आदिकर्मणि क्तः कर्तरि च इति सिद्धे समावेशे समावेशम् शास्ति तत् ज्ञपयति आचार्यः प्राक् अमुतः समावेशः भवति इति ।

१ - २७ - किम् पुनः अयम् प्रत्ययनियमः धातोः परः अकारः अकशब्दः वा नियोगतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति ।

२ - २७ - आहोस्वित् सञ्ज्ञानियमः धातोः परः अकारः अकशब्दः वा स्वभावतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति ।

३ - २७ - कः च अत्र विशेषः ।

४ - २७ - तत्र प्रत्ययनियमे अनिष्टप्रसङ्गः ।

५ - २७ - तत्र प्रत्ययनियमे सति अनिष्टम् प्राप्नोति ।

६ - २७ - काष्ठभित् अब्राह्मणः , बलभित् अब्राह्मणः ।

७ - २७ - एषः अपि नियोगतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च स्यात् प्रत्ययसञ्ज्ञः च ।

८ - २७ - सञ्ज्ञानियमे सिद्धम् ।

९ - २७ - सञ्ज्ञानियमे सति सिद्धम् भवति ।

१० - २७ - यदि सञ्ज्ञानियमः विभक्तादिषु दोषः ।

११ - २७ - विभक्ताः भ्रातरः पीताः गावः इति न सिध्यति ।

१२ - २७ - प्रत्ययनियमे पुनः सति परिगणिताभ्यः प्रकृतिभ्यः परः क्तः नियोगतः कर्तारम् आह ।

१३ - २७ - न च इमाः तत्र परिगण्यन्ते प्रकृतयः ।

१४ - २७ - विभक्तादिषु च अप्राप्तिः प्रकृतेः प्रत्ययपरवचनात् ।

१५ - २७ - विभक्तादिषु च प्रत्ययनियमस्य अप्राप्तिः ।

१६ - २७ - किम् कारणम् ।

१७ - २७ - प्रकृतेः प्रत्ययपरवचनात् ।

१८ - २७ - परिगणिताभ्यः प्रकृतिभ्यः परः क्तः स्वभावतः कर्तारम् आह ।

१९ - २७ - न च इमाः तत्र परिगण्यन्ते ।

२० - २७ - न तर्हि इदानीम् अयम् साधुः भवति ।

२१ - २७ - भवति साधुः न तु कर्तरि ।

२२ - २७ - कथम् तर्हि इदानीम् अत्र कर्तृत्वम् गम्यते ।

२३ - २७ - अकारः मत्वर्थीयः विभक्तम् एषाम् अस्ति विभक्ताः ।

२४ - २७ - पीतम् एषाम् अस्ति पिताः इति ।

२५ - २७ - अथ वा उत्तरपदलोपः अत्र द्रष्टव्यः ।

२६ - २७ - विभक्तधनाः विभक्ताः ।

२७ - २७ - पीतोदकाः पिताः इति ।

१ - ७० - किमर्थम् इदम् उच्यते ।

२ - ७० - लः एषु साधनेषु यथा स्यात् कर्तरि च कर्मणि च भावे च अकर्मकेभ्यः इति ।

३ - ७० - न एतत् अस्ति प्रयोजनम् ।

४ - ७० - भावकर्मणोः आत्मनेपदम् विधीयते शेषात् कर्तरि परस्मैपदम् ।

५ - ७० - एतावान् च लः यत् उत परस्मैपदम् आत्मनेपदम् च ।

६ - ७० - सः च अयम् एवम् विहितः ।

७ - ७० - अतः उत्तरम् पठति ।

८ - ७० - लग्रहणम् सकर्मकनिवृत्त्यर्थम् ।

९ - ७० - लग्रहणम् क्रियते सकर्मकनिवृत्त्यर्थम् ।

१० - ७० - सकर्मकाणाम् भावे लः मा भूते इति ।

११ - ७० - यदि पुनः तत्र एव अकर्मकग्रहणम् क्रियेत ।

१२ - ७० - तत्र अकर्मकग्रहणम् कर्तव्यम् ।

१३ - ७० - ननु च इह अपि क्रियते भावे च अकर्मकेभ्यः इति ।

१४ - ७० - परार्थम् एतत् भविष्यति ।

१५ - ७० - तयोः एव कृत्यक्तखलर्थाः भावे च अकर्मकेभ्यः ।

१६ - ७० - यावत् इह लग्रहणम् तावत् तत्र अकर्मकग्रहणम् ।

१७ - ७० - इह वा लग्रहणम् क्रियेत तत्र वा अकर्मकग्रहणम् ।

१८ - ७० - कः नु अत्र विशेषः ।

१९ - ७० - अयम् अस्ति विशेषः ।

२० - ७० - इह लग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति ।

२१ - ७० - तत्र पुनः अकर्मकग्रहणे क्रियमाणे आनः कर्तरि न प्राप्नोति ।

२२ - ७० - तत्र अपि अकर्मकग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति ।

२३ - ७० - कथम् ।

२४ - ७० - भावकर्मणोः इति अतः अन्यत् यत् आत्मनेपदानुक्रमणम् सर्वम् तत् कर्त्रर्थम् ।

२५ - ७० - विप्रतिषेधात् वा आनः कर्तरि ।

२६ - ७० - विप्रतिषेधात् वा आनः कर्तरि भविष्यति ।

२७ - ७० - तत्र भावकर्मणोः इति एतत् अस्तु कर्तरि कृत् इति ।

२८ - ७० - कर्तरि कृत् इति एतत् भविष्यति विप्रतिषेधेन ।

२९ - ७० - सर्वप्रसङ्गः तु ।

३० - ७० - सर्वेभ्यः तु धातुभ्यः आनः कर्तरि प्राप्नोति ।

३१ - ७० - परस्मैपदिभ्यः अपि ।

३२ - ७० - न एषः दोषः ।

३३ - ७० - अनुदात्तङितः इति एषः योगः नियमार्थः भविष्यति ।

३४ - ७० - यदि एषः योगः नियमार्थः विधिः न प्रकल्पते ।

३५ - ७० - आस्ते शेते इति ।

३६ - ७० - अथ विध्यर्थः आनस्य नियमः न प्राप्नोति ।

३७ - ७० - आसीनः शयानः ।

३८ - ७० - तथा नेः विशः इति एवमादि अनुक्रमणम् यदि नियमाऋथः विधिः न प्रकल्पते ।

३९ - ७० - अथ विध्यर्थः आनस्य नियमः न प्राप्नोति ।

४० - ७० - अस्तु तर्हि नियमार्थम् ।

४१ - ७० - ननु च उक्तम् विधिः न प्रकल्पते इति ।

४२ - ७० - विधिः च प्रक्ल्̥प्तः ।

४३ - ७० - कथम् ।

४४ - ७० - भावकर्मणोः इति अत्र अनुदात्तङितः इति एतत् अनुवर्तिष्यते ।

४५ - ७० - यदि अनुवर्तते एवम् अपि अनुदात्तङितः एव भावकर्मणोः आत्मनेपदम् प्राप्नोति ।

४६ - ७० - एवम् तर्हि योगविभागः करिष्यते ।

४७ - ७० - अनुदात्तङितः आत्मनेपदम् भवति ।

४८ - ७० - ततः भावकर्मणोः ।

४९ - ७० - ततः कर्तरि ।

५० - ७० - कर्तरि च आत्मनेपदम् भवति अनुदात्तङितः इति एव ।

५१ - ७० - भावकर्मणोः इति निवृत्तम् ।

५२ - ७० - ततः कर्मव्यतिहारे ।

५३ - ७० - कर्तरि इति एव अनुवर्तते ।

५४ - ७० - अनुदात्तङितः इति अपि निवृत्तम् ।

५५ - ७० - यत् अपि उच्यते नेः विशः इति एवमादि अनुक्रमणम् यदि नियमार्थम् विधिः न प्रकल्पते ।

५६ - ७० - अथ विध्यर्थः आनस्य नियमः न प्राप्नोति इति ।

५७ - ७० - अस्तु विध्यर्थम् ।

५८ - ७० - ननु च उक्तम् आनस्य नियमः न प्राप्नोति इति ।

५९ - ७० - न एषः दोषः ।

६० - ७० - यथा एव अत्र अप्राप्ताः तङः भवन्ति एवम् आनः अपि भविष्यति ।

६१ - ७० - सर्वत्र अप्रसङ्गः तु ।

६२ - ७० - सर्वेषु तु साधनेषु आनः न प्राप्नोति ।

६३ - ७० - विप्रतिषेधात् वा आनः कर्तरि इति भावकर्मणोः न स्यात् ।

६४ - ७० - कर्तरि एव स्यात् ।

६५ - ७० - इह पुनः लग्रहणे क्रियमाणे कर्तरि कृत् इति एतत् अस्तु लः कर्मणि च भावे च अकर्मकेभ्यः इति लः कर्मणि च भावे च अकर्मकेभ्यः इति एतत् भविष्यत् विप्रतिषेधेन ।

६६ - ७० - सर्वप्रसङ्गः तु ।

६७ - ७० - लादेशः सर्वेषु साधनेषु प्राप्नोति ।

६८ - ७० - शतृक्वसूच भावकर्मणोः अपि प्राप्नुतः ।

६९ - ७० - न एषः दोषः ।

७० - ७० - शेषात् परस्मैपदम् कर्तरि इति एवम् तौ कर्तारम् ह्रियेते ।

१ - ३१ - लादेशे सर्वप्रसङ्गः अविशेषात् ल्̥आदेशे सर्वप्रसङ्गः ।

२ - ३१ - सर्वस्य लकारस्य आदेशः प्राप्नोति ।

३ - ३१ - अस्य अपि प्राप्नोति लुनाति लभते ।

४ - ३१ - किम् कारणम् ।

५ - ३१ - अविशेषात् ।

६ - ३१ - न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य लकारस्य आदेशः भवति इति ।

७ - ३१ - अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।

८ - ३१ - अर्थवद्ग्रहणात् सिद्धम् ।

९ - ३१ - अर्थवतः लकारस्य ग्रहणम् न च एषः अर्तह्वत् ।

१० - ३१ - अर्थवद्ग्रहणात् सिद्धम् इति चेत् न वर्णग्रहणेषु । अर्थवद्ग्रहणात् सिद्धम् इति चेत् तत् न ।

११ - ३१ - किम् कारणम् ।

१२ - ३१ - वर्णग्रहणम् इदम् ।

१३ - ३१ - न च एतत् वर्णग्रहणेषु भवति अर्थवद्ग्रहणे न अनर्थकस्य इति ।

१४ - ३१ - तस्मात् विशिष्तग्रहणम् ।

१५ - ३१ - तस्मात् विशिष्तस्य लकारस्य ग्रहणम् कर्तव्यम् ।

१६ - ३१ - न कर्तव्यम् ।

१७ - ३१ - धातोः इति वर्तते ।

१८ - ३१ - एवम् अपि शाला माला मल्लः इति अत्र प्राप्नोति ।

१९ - ३१ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

२० - ३१ - एवम् अपि नन्दनः अत्र प्राप्नोति ।

२१ - ३१ - इत्सञ्ज्ञा अत्र बाधिका भविष्यति ।

२२ - ३१ - इह अपि तर्हि बाधेत ।

२३ - ३१ - पचति पठति इति ।

२४ - ३१ - इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

२५ - ३१ - इदम् अस्ति इत्कार्यम् लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् ।

२६ - ३१ - लिति इति उच्यते ।

२७ - ३१ - न च अत्र लितम् पश्यामः ।

२८ - ३१ - अथ अपि कथम् चित् वचनात् वा अनुवर्तनात् वा इत्सञ्ज्ञ्कानाम् आदेशः स्यात् एवम् अपि न दोषः ।

२९ - ३१ - आचार्यप्रवृत्तिः ज्ञापयति न लादेशे लित्कार्यम् भवति इति यत् अयम् णलम् लितम् करोति ।

३० - ३१ - अथ अपि उणादयः व्युत्पाद्यन्ते एवम् अपि नो दोषः ।

३१ - ३१ - क्रियते विशिष्टग्रहणम् लस्य इति ।

१ - १२ - लादेशः वर्णविधेः पूर्वविप्रतिषिद्धम् । लादेशः वर्णविधेः भवति पूर्वविप्रतिषेधेन ।

२ - १२ - लादेशस्य अवकाशः पचतु पठतु ।

३ - १२ - वर्णविधेः अवकाशः दध्यत्र मध्वत्र ।

४ - १२ - इह उभयम् प्राप्नोति ।

५ - १२ - पचतु अत्र ।

६ - १२ - पठतु अत्र ।

७ - १२ - लादेशः भवति पूर्वविप्रतिषेधेन ।

८ - १२ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

९ - १२ - न वक्तव्यः ।

१० - १२ - उक्तम् वा ।

११ - १२ - किम् उक्तम् ।

१२ - १२ - लादेशः वर्णविधेः इति ।

१ - ४० - टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः ।

२ - ४० - टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः वक्तव्यः ।

३ - ४० - पचमानः यजमानः ।

४ - ४० - टितः इति एत्वम् प्राप्नोति ।

५ - ४० - उक्तम् वा ।

६ - ४० - किम् उक्तम् ।

७ - ४० - ज्ञापकम् वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य इति ।

८ - ४० - न एतत् अस्ति उक्तम् ।

९ - ४० - एवम् किल तत् उक्तम् स्यात् यदि एवम् विज्ञायेत ।

१० - ४० - टित् आत्मनेपदम् टिदात्मनेपदम् ।

११ - ४० - टिदात्मनेपदानाम् इति ।

१२ - ४० - तत् च न ।

१३ - ४० - टितः लकारस्य यानि आत्मनेपदानि इति एवम् एतत् विज्ञायते ।

१४ - ४० - अवश्यम् च एतत् एवम् विज्ञेयम् ।

१५ - ४० - टित् आत्मनेपदम् टिदात्मनेपदम् ।

१६ - ४० - टिदात्मनेपदानाम् इति विज्ञायमाने अकुर्वि अत्र अपि प्रसज्येत ।

१७ - ४० - न एषः टित् ।

१८ - ४० - कः तर्हि ।

१९ - ४० - ठित् ।

२० - ४० - सः च अवश्यम् ठित् कर्तव्यः आदिः मा भूत् इति ।

२१ - ४० - कथम् इटः अत् इति ।

२२ - ४० - इठः अत् इति वक्ष्यामि इति ।

२३ - ४० - तत् च अवश्यम् वक्तव्यम् पर्यवपाद्यस्य मा भूत् ।

२४ - ४० - लविषीष्ट ।

२५ - ४० - इह तर्हि इषम् ऊर्जम् अहम् इतः आदि आतः लोपः इटि च इति आकारलोपः न प्राप्नोति ।

२६ - ४० - तस्मात् टित् एषः ।

२७ - ४० - आदिः तर्हि कस्मात् न भवति ।

२८ - ४० - सप्तदश आदेशाः स्थानेयोगत्वम् प्रयोजयन्ति ।

२९ - ४० - तान् एकः न उत्सहते विहन्तुम् इति कृत्वा आदिः न भविष्यति ।

३० - ४० - पर्यवपाद्यस्य कस्मात् न भवति ।

३१ - ४० - लविषीष्ट इति ।

३२ - ४० - असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।

३३ - ४० - इदम् तर्हि उक्तम् प्राकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति ।

३४ - ४० - के च प्रकृताः ।

३५ - ४० - तादयः ।

३६ - ४० - आने मुक् ज्ञापकम् तु एत्वे टित्तङाम् ।

३७ - ४० - इशिसीरिचः डारौरःसु ।

३८ - ४० - टित् अटितः ।

३९ - ४० - प्रकृते तत् ।

४० - ४० - गुणे कथम् ।

१ - ५० - णलः शित्करणम् सर्वादेशार्थम् ।

२ - ५० - णल् शित् कर्तव्यः ।

३ - ५० - किम् प्रयोजनम् ।

४ - ५० - सर्वादेशार्थम् ।

५ - ५० - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

६ - ५० - अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।

७ - ५० - उक्तम् वा ।

८ - ५० - किम् उक्तम् ।

९ - ५० - अनित्त्वात् सिद्धम् इति ।

१० - ५० - णकारः क्रियते ।

११ - ५० - तस्य अनित्त्वात् सिद्धम् ।

१२ - ५० - कः एषः परिहारः न्याय्यः ।

१३ - ५० - शकारम् असि चोदितः ।

१४ - ५० - णकारम् करिष्यामि शकारम् न करिष्यामि इति ।

१५ - ५० - णकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः ।

१६ - ५० - अवश्यम् अत्र णकारः वृद्ध्यर्थः कर्तव्यः णिति इति वृद्धिः यथा स्यात् ।

१७ - ५० - न अर्थः वृद्ध्यर्थेन णकारेण ।

१८ - ५० - णित्त्वे योगविभागः करिष्यते ।

१९ - ५० - इदम् अस्ति गोतः णित् ।

२० - ५० - ततः अल् ।

२१ - ५० - अल् च णित् भवति ।

२२ - ५० - ततः उत्तमः वा इति ।

२३ - ५० - एवम् तर्हि लकारः क्रियते ।

२४ - ५० - तस्य अनित्त्वात् सिद्धम् ।

२५ - ५० - कः एषः परिहारः न्याय्यः ।

२६ - ५० - शकारम् असि चोदितः ।

२७ - ५० - लकारम् करिष्यामि शकारम् न करिष्यामि इति ।

२८ - ५० - लकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः ।

२९ - ५० - अवश्यम् एव अत्र स्वरार्थः लकारः कर्तव्यः लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् ।

३० - ५० - न एतत् अस्ति प्रयोजनम् ।

३१ - ५० - धातुस्वरे कृते द्विर्वचनम् ।

३२ - ५० - तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति ।

३३ - ५० - कथम् पुनः अयम् अन्तोदात्तः स्यात् यदा एकाच् ।

३४ - ५० - व्यपदेशिवद्भावेन ।

३५ - ५० - यथा एव तर्हि व्यपदेशिवद्भावेन अन्तोदात्तः एवम् आद्युदात्तः अपि ।

३६ - ५० - तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः प्रसज्येत ।

३७ - ५० - सत्यम् एतत् ।

३८ - ५० - न तु इदम् लक्षणम् अस्ति धातोः आदिः उदात्तः भवति इति ।

३९ - ५० - इदम् पुनः अस्ति धातोः अन्तः उदात्तः भवति इति ।

४० - ५० - सः असौ लक्षणेन अन्तोदात्तः ।

४१ - ५० - तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति ।

४२ - ५० - एतत् अपि आदेशे न अस्ति आदेशस्य अन्तः उदात्तः भवति इति ।

४३ - ५० - प्रकृतितः अनेन स्वरः लभ्यः ।

४४ - ५० - प्रकृतिः च अस्य यथा एव अन्तोदात्ता एवम् आद्युदात्ता अपि ।

४५ - ५० - द्विःप्रयोगे च अपि द्विर्वचने उभयोः अन्तोदात्तत्वम् प्रसज्येत ।

४६ - ५० - अनुदात्तम् पदम् एकवर्जम् इति न अस्ति यौगपद्येन सम्भवः ।

४७ - ५० - पर्यायः प्रसज्येत ।

४८ - ५० - तस्मात् स्वरार्थः लकारः कर्तव्यः ।

४९ - ५० - लकारः क्रियते ।

५० - ५० - तस्य अनित्त्वात् सिद्धम् ।

१ - १८ - अकारस्य शित्करणम् सर्वादेशार्थम् ।

२ - १८ - अकारः शित्कर्तव्यः ।

३ - १८ - किम् प्रयोजनम् ।

४ - १८ - सर्वादेशार्थम् ।

५ - १८ - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

६ - १८ - अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।

७ - १८ - ननु च अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण शकारम् सर्वादेशः भविष्यति ।

८ - १८ - अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् ।

९ - १८ - किम् ।

१० - १८ - अकारवचनम् समसङ्ख्यार्थम् ।

११ - १८ - सङ्ख्यातानुदेशः यथा स्यात् ।

१२ - १८ - तस्मात् शित्करणम् ।

१३ - १८ - तस्मात् शकारः कर्तव्यः ।

१४ - १८ - न कर्तव्यः ।

१५ - १८ - क्रियते न्यासे एव ।

१६ - १८ - प्रश्लिष्टनिर्देशः अयम् ।

१७ - १८ - अ* अ* अ ।

१८ - १८ - सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

१ - २१ - लङ्वदतिदेशे जुस्भावप्रतिषेधः ।

२ - २१ - लङ्वदतिदेशे जुस्भावस्य प्रतिषेधः वक्तव्यः ।

३ - २१ - यान्तु वान्तु ।

४ - २१ - लङः शाकटायनस्य एव इति जुस्भावः प्राप्नोति ।

५ - २१ - उत्ववचनात् सिद्धम् ।

६ - २१ - उत्वम् अत्र बाधकम् भविष्यति ।

७ - २१ - अनवकाशाः हि विधयः बाधकाः भवन्ति ।

८ - २१ - सावकाशम् च उत्वम् ।

९ - २१ - कः अवकाशः ।

१० - २१ - पचतु पठतु ।

११ - २१ - अत्र अपि इकारलोपः प्राप्नोति ।

१२ - २१ - तत् यथा एव उत्वम् इकारलोपम् बाधते एवम् जुस्भावम् अपि बाधते ।

१३ - २१ - न बाधते ।

१४ - २१ - किम् कारणम् ।

१५ - २१ - येन न अप्राप्ते तस्य बाधनम् भवति ।

१६ - २१ - न च अप्राप्ते इकारलोपे उत्वम् आरभ्यते ।

१७ - २१ - जुस्भावे पुनः प्राप्ते च अप्राप्ते च ।

१८ - २१ - अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् उत्वम् इकारलोपम् बाधते जुभावम् न बाधते ।

१९ - २१ - एवम् तर्हि वक्ष्यति तत्र लङ्ग्रहणस्य प्रयोजनम् ।

२० - २१ - लङ् एव यः लङ् तत्र यथा स्यात् ।

२१ - २१ - लङ्वद्भावेन यः लङ् तत्र मा भूत् इति ।

१ - ११ - हिन्योः उत्वप्रतिषेधः ।

२ - ११ - हिन्योः उकारस्य प्रतिषेधः वक्तव्यः ।

३ - ११ - लुनीहि लुनानि ।

४ - ११ - एः उः इति उत्वम् प्राप्नोति ।

५ - ११ - न वा उच्चारणसामर्थ्यात् ।

६ - ११ - न वा वक्तव्यः ।

७ - ११ - किम् कारणम् ।

८ - ११ - उच्चारणसामर्थ्यात् अत्र उत्वम् न भविष्यति ।

९ - ११ - अलघीयः च एव हि इकारोच्चारणम् उकारोच्चारणात् ।

१० - ११ - इकारम् च उच्चारयति उकारम् च न उच्चारयति ।

११ - ११ - तस्य एतत् प्रयोजनम् उत्वम् मा भूत् इति ।

१ - ११ - एतः ऐत्वे आद्गुणप्रतिषेधः ।

२ - ११ - एतः ऐत्वे आद्गुणस्य प्रतिषेधः वक्तव्यः ।

३ - ११ - पचाव इदम्

(पचावेदम् - ।

४ - ११ - पचाम इदम्

(पचामेदम् - ।

५ - ११ - आद्गुणे कृते एत ऐत् इति ऐत्वम् प्राप्नोति ।

६ - ११ - न वा बहिरङ्गलक्षणत्वात् ।

७ - ११ - न वा वक्तव्यः ।

८ - ११ - किम् कारणम् ।

९ - ११ - बहिरङ्गलक्षणत्वात् ।

१० - ११ - बहिरङ्गलक्षणः आद्गुणः अन्तरङ्गलक्षणम् ऐत्वम् ।

११ - ११ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

१ - २६ - यासुडादेः सीयुट्प्रतिषेधः ।

२ - २६ - यासुडादेः सीयुटः प्रतिषेधः वक्तव्यः ।

३ - २६ - चिनुयुः सुनुयुः ।

४ - २६ - लिङः सीयुट् इति सीयुट् प्राप्नोति ।

५ - २६ - न वा वाक्यापकर्षात् ।

६ - २६ - न वा वक्तव्यः ।

७ - २६ - किम् कारणम् ।

८ - २६ - वाक्यापकर्षात् ।

९ - २६ - वाक्यापकर्षात् यासुट् सीयुटम् बाधिष्यते ।

१० - २६ - सुट्तिथोः तु अपकर्षविज्ञानम् ।

११ - २६ - सुटः तिथोः तु अपकर्षः विज्ञायेत ।

१२ - २६ - कृषीष्ट कृषीष्ठाः ।

१३ - २६ - अनादेः च सुड्वचनम् ।

१४ - २६ - अनादेः च सुट् वक्तव्यः ।

१५ - २६ - कृषीयास्ताम् कृषीयास्थाम् ।

१६ - २६ - तकारथकारादेः लिङः इति सुट् न प्राप्नोति ।

१७ - २६ - न वा तिथोः प्रधानभावात् तद्विशेषणम् लिङ्ग्रहणम् ।

१८ - २६ - न वा वक्तव्यम् ।

१९ - २६ - किम् कारणम् ।

२० - २६ - तिथोः प्रधानभावात् ।

२१ - २६ - तिथौ एव तत्र प्रधानम् ।

२२ - २६ - तद्विशेषणम् लिङ्ग्रहणम् ।

२३ - २६ - न एवम् विज्ञायते ।

२४ - २६ - तकारथकारयोः लिङः इति ।

२५ - २६ - कथम् तर्हि ।

२६ - २६ - तकारथकारयोः सुट् भवति तौ चेत् लिङः इति ।

१ - १३ - किमर्थम् यासुटः ङित्त्वम् उच्यते ।

२ - १३ - यासुटः ङिद्वचनम् पिदर्थम् ।

३ - १३ - पिति वचनानि प्रयोजयन्ति ।

४ - १३ - अथ किमर्थम् उदात्तवचनम् क्रियते ।

५ - १३ - उदात्तवचनम् च ।

६ - १३ - किम् ।

७ - १३ - पिदर्थम् एव ।

८ - १३ - आगमानुदात्तार्थम् वा ।

९ - १३ - अथ वा एतत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति ।

१० - १३ - असति अन्यस्मिन् प्रयोजने ज्ञापकम् भवति ।

११ - १३ - उक्तम् च एतत् यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।

१२ - १३ - शक्यम् अनेन वक्तुम् यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।

१३ - १३ - सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति ।

१ - ४७ - किम् इदम् जुसि आकारग्रहणम् नियमार्थम् आहोस्वित् प्रापकम् ।

२ - ४७ - कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् ।

३ - ४७ - यदि सिज्ग्रहणम् अनुवर्तते ततः नियमार्थम् ।

४ - ४७ - अथ निवृत्तम् ततः प्रापकम् ।

५ - ४७ - कः च अत्र विशेषः ।

६ - ४७ - जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् ।

७ - ४७ - जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् कर्तव्यम् ।

८ - ४७ - आतः सिज्लुगन्तात् इति वक्तव्यम् ।

९ - ४७ - इह मा भूत् ।

१० - ४७ - अकार्षुः अहार्षुः ।

११ - ४७ - अस्तु तर्हि प्रापकम् ।

१२ - ४७ - प्रापकम् इति चेत् प्रत्ययलक्षणप्रतिषेधः । प्रापकम् इति चेत् प्रत्ययलक्षणप्रतिषेधः वक्तव्यः ।

१३ - ४७ - अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।

१४ - ४७ - एवकारकरणम् च ।

१५ - ४७ - एवकारकरणम् च कर्तव्यम् ।

१६ - ४७ - लङः शाकटायनस्य एव इति ।

१७ - ४७ - नियमाऋथः पुनः सति न अर्थः एवकारेण ।

१८ - ४७ - ननु च प्रापके अपि सति सिद्धि विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति ।

१९ - ४७ - इष्टतः अवधारणार्थः तर्हि एवकारः कर्तव्यः ।

२० - ४७ - यथा एवम् विज्ञायेत लङः शाकटायनस्य एव ।

२१ - ४७ - मा एवम् विज्ञायि लङः एव शाकटायनस्य इति ।

२२ - ४७ - किम् च स्यात् ।

२३ - ४७ - लुङः शाकटायनस्य न स्यात् ।

२४ - ४७ - अदुः अपुः अधुः अस्थुः ।

२५ - ४७ - लङ्ग्रहणम् च ।

२६ - ४७ - लङ्ग्रहणम् च कर्तव्यम् ।

२७ - ४७ - लङः शाकटायनस्य एव इति ।

२८ - ४७ - नियमार्थे पुनः सति न अर्थः लङ्ग्रहणेन ।

२९ - ४७ - आतः ङितः इति वर्तते ।

३० - ४७ - न च अन्यः आकारात् अनन्तरः ङित् अस्ति अन्यत् अतः लङः ।

३१ - ४७ - अस्तु तर्हि नियमार्थः ।

३२ - ४७ - ननु च उक्तम् जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् इति ।

३३ - ४७ - न एषः दोषः ।

३४ - ४७ - तुल्यजातीयस्य नियमः ।

३५ - ४७ - कः च तुल्यजातीयः ।

३६ - ४७ - यः द्वाभ्याम् अनन्तरः आतः च सिचः च ।

३७ - ४७ - अथ तत् एवकारकरणम् न एव कर्तव्यम् ।

३८ - ४७ - कर्तव्यम् च ।

३९ - ४७ - किम् प्रयोजनम् ।

४० - ४७ - उत्तरार्थम् ।

४१ - ४७ - लिट् च लिङ् आशिषि आर्धधातुकम् एव यथा स्यात् ।

४२ - ४७ - इतरथा हि वचनात् आर्धधातुकसञ्ज्ञा स्यात् तिङ्ग्रहणेन च ग्रहणात् सार्वधातुकसञ्ज्ञा ।

४३ - ४७ - अथ तत् लङ्ग्रहणम् न एव कर्तव्यम् ।

४४ - ४७ - कर्तव्यम् च ।

४५ - ४७ - किम् प्रयोजनम् ।

४६ - ४७ - लङ् एव यः लङ् तत्र यथा स्यात् ।

४७ - ४७ - लङ्वद्भावेन यः लङ् तत्र मा भूत् इति ।

१ - २१ - आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् ।

२ - २१ - आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् कर्तव्यम् ।

३ - २१ - धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात् ।

४ - २१ - इह मा भूत् ।

५ - २१ - वृक्षत्वम् वृक्षता इति ।

६ - २१ - क्रियमाणे च अपि धातुग्रहणे स्वादिप्रतिषेधः ।

७ - २१ - स्वादीनाम् प्रतिषेधः वक्तव्यः ।

८ - २१ - इह मा भूत् ।

९ - २१ - लूभ्याम् लूभिः इति ।

१० - २१ - अनुक्रान्तापेक्षम् शेषग्रहणम् ।एवम् अपि अग्निकाम्प्यति वायुकाम्यति इति प्राप्नोति ।

११ - २१ - तस्मात् धातुग्रहणम् कर्तव्यम् ।

१२ - २१ - न कर्तव्यम् ।

१३ - २१ - आ तृतीयाध्यायपरिसमाप्तेः धात्वधिकारः प्रकृतः अनुवर्तते ।

१४ - २१ - क्व प्रकृतः ।

१५ - २१ - धातोः एकाचः हलादेः इति ।

१६ - २१ - एवम् अपि श्रीकाम्यति भूकाम्यति इति प्राप्नोति ।

१७ - २१ - तद्विधानात् सिद्धम् ।

१८ - २१ - विहितविशेषणम् धातुग्रहणम् ।

१९ - २१ - धातोः यः विहितः इति ।

२० - २१ - धातोः एषः विहितः ।

२१ - २१ - सङ्कीर्त्य धातोः इति एवम् यः विहितः इति.

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP