संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय २|पाद १| खण्ड २२ पाद १ खण्ड २२ खण्ड २३ खण्ड २४ पाद १ - खण्ड २२ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड २२ Translation - भाषांतर १ - २८ - विधिः इति कः अयम् शब्दः ।२ - २८ - विपूर्वात् धाञः कर्मसाधनः इकारः ।३ - २८ - विधीयते विधिः इति ।४ - २८ - किम् पुनः विधीयते ।५ - २८ - समासः विभक्तिविधानम् पराङ्गवद्भावः च ।६ - २८ - किम् पुनः अयम् अधिकारः आहोस्वित् परिभाषा ।७ - २८ - कः पुनः अधिकारपरिभाषयोः विशेषः ।८ - २८ - अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।९ - २८ - परिभाषा पुनः एकदेशस्था सती सर्वम् शास्त्रम् अभिज्वलयति प्रदीपवत् ।१० - २८ - तत् यथा प्रदीपः सुप्रज्वलितः एकदेशस्थः सर्वम् वेश्म अभिज्वलयति ।११ - २८ - कः पुनः अत्र प्रयत्नविशेषः ।१२ - २८ - अधिकारे सति स्वरयितव्यम् परिभाषायाम् पुनः सत्याम् सर्वम् अपेक्ष्यम् ।१३ - २८ - तथा इदम् अपरम् द्वैतम् भवति ।१४ - २८ - एकार्थीभावः वा सामर्थ्यम् स्यात् व्यपेक्षा वा इति ।१५ - २८ - तत्र एकार्थीभावे सामर्थ्ये अधिकारे च सति समासः एकः सङ्गृहीतः भवति बिभक्तिविधानम् पराङ्गवद्भावः च असङ्गृहीतः ।१६ - २८ - व्यपेक्षायाम् पुनः सामर्थ्ये अधिकारे च सति बिभक्तिविधानम् पराङ्गवद्भावः च सङ्गृहीतः समासः तु एकः असङ्गृहीतः ।१७ - २८ - अन्यत्र खलु अपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति ।१८ - २८ - क्व अन्यत्र ।१९ - २८ - इसुसोः सामर्थ्ये न चवाहाहैवयुक्ते इति ।२० - २८ - व्यपेक्षायाम् पुनः सामर्थ्ये परिभाषायाम् च सत्याम् यावान् व्याकरणे पदगन्धः अस्ति सः सर्वः सङ्गृहीतः भवति समासः तु एकः असङ्गृहीतः ।२१ - २८ - तत्र एकार्थीभावः सामर्थ्यम् परिभाषा च इति एवम् सूत्रम् अभिन्नतरकम् भवति ।२२ - २८ - एवम् अपि क्व चित् अकर्तव्यम् समर्थग्रहणम् क्रियते क्व चित् च कर्तव्यम् न क्रियते ।२३ - २८ - अकर्तव्यम् तावत् क्रियते समर्थानाम् प्रथमात् वा इति ।२४ - २८ - कर्तव्यम् च न क्रियते कर्मणि अण् समर्थात् इति ।२५ - २८ - ननु च गम्यते तत्र सामर्थ्यम् ।२६ - २८ - कुम्भकारः नगरकारः इति ।२७ - २८ - सत्यम् गम्यते उत्पन्ने तु प्रत्यये ।२८ - २८ - सः एव तावत् समर्थात् उत्पाद्यः ।१ - ९६ - अथ समर्थग्रहणम् किमर्थम् ।२ - ९६ - वक्ष्यति द्वितीया श्रितादिभिः समस्यते ।३ - ९६ - कष्टश्रितः नरकश्रितः इति ।४ - ९६ - समर्थग्रहणम् किमर्थम् ।५ - ९६ - पश्य देवदत्त कष्टम् ।६ - ९६ - श्रितः विष्णुमित्रः गुरुकुलम् ।७ - ९६ - तृतीया तत्कृतार्थेन गुणवचनेन ।८ - ९६ - शङ्कुलाखण्डः किरिकाणः ।९ - ९६ - समर्थग्रहणम् किमर्थम् ।१० - ९६ - तिष्ठ त्वम् शङ्कुलया ।११ - ९६ - खण्डः धावति मुसलेन ।१२ - ९६ - चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।१३ - ९६ - गोहितम् अश्रहितम् ।१४ - ९६ - समर्थग्रहणम् किमर्थम् ।१५ - ९६ - सुखम् गोभ्यः ।१६ - ९६ - हितम् देवदत्ताय ।१७ - ९६ - पञ्चमी भयेन ।१८ - ९६ - वृकभयम् दस्युभयम् चोरभयम् ।१९ - ९६ - समर्थग्रहणम् किमर्थम् ।२० - ९६ - गच्छ त्वम् मा वृकेभ्यः ।२१ - ९६ - भयम् देवदत्तस्य यज्ञदत्तात् ।२२ - ९६ - षष्ठी सुबन्तेन समस्यते ॒ राजपुरुषः , ब्राह्मणकम्बलः ।२३ - ९६ - समर्थग्रहणम् किमर्थम् ।२४ - ९६ - भार्या राज्ञः ।२५ - ९६ - पुरुषः देवदत्तस्य ।२६ - ९६ - सप्तमी शौण्डैः ॒ अक्षशौण्डः , स्त्रीशौण्डः ।२७ - ९६ - समर्थग्रहणम् किमर्थम् ।२८ - ९६ - कुशलः देवदत्तः अक्षेषु ।२९ - ९६ - शौण्डः पिबति पानागारे ।३० - ९६ - अथ क्रियमाणे अपि समर्थग्रहणे इह कस्मात् न भवति महत् कष्टम् श्रितः इति ।३१ - ९६ - न वा भवति महाकष्टश्रितः इति ।३२ - ९६ - भवति यदा एतत् वाक्यम् भवति ॒ महत् कष्टम् महाकष्टम् , महाकष्टम् श्रितः महाकष्टश्रितः इति ।३३ - ९६ - यदा तु एतत् वाक्यम् भवति ॒ महत् कष्टम् श्रितः इति तदा न भवितव्यम् तदा च प्रप्नोति ।३४ - ९६ - तदा कस्मात् न भवति ।३५ - ९६ - कस्य कस्मात् न भवति ।३६ - ९६ - किम् द्वयोः आहोस्वित् बहूनाम् ।३७ - ९६ - बहूनाम् कस्मात् न भवति ।३८ - ९६ - सुप् सुपा इति वर्तते ।३९ - ९६ - ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते ।४० - ९६ - तत् यथा प्रातिपदिकात् इति वर्तमाने अन्यस्मात् च अन्यस्मात् च प्रातिपदिकात् उत्पत्तिः भवति ।४१ - ९६ - सत्यम् एतत् ।४२ - ९६ - आकृतिः तु प्रत्येकम् परिसमाप्यते ।४३ - ९६ - यावति एतत् परिसमाप्यते प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् ।४४ - ९६ - प्रत्येकम् च एतत् परिसमाप्यते न समुदाये ।४५ - ९६ - एवम् इह अपि यावति एतत् परिसमाप्यते सुप् सुपा इति तावतः समासेन भवितव्यम् ।४६ - ९६ - द्वयोः द्वयोः च एतत् परिसमाप्यते न बहुषु ।४७ - ९६ - द्वयोः तर्हि कस्मात् न भवति ।४८ - ९६ - असामर्थ्यात् ।४९ - ९६ - कथम् असामर्थ्यम् ।५० - ९६ - सापेक्षम् असमर्थम् भवति इति ।५१ - ९६ - यदि सापेक्षम् असमर्थम् भवति इति उच्यते राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः न प्राप्नोति ।५२ - ९६ - न एषः दोषः ।५३ - ९६ - प्रधानम् अत्र सापेक्षम् ।५४ - ९६ - भवति च प्रधानस्य सापेक्षस्य अपि समासः ।५५ - ९६ - यत्र तर्हि अप्रधानम् सापेक्षम् भवति तत्र ते वृत्तिः न प्राप्नोति ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ।५६ - ९६ - न एषः दोषः ।५७ - ९६ - समुदायपेक्षा अत्र षष्ट्ःी सर्वम् गुरुकुलम् अपेक्षते ।५८ - ९६ - यत्र तर्हि न समुदायपेक्षा षष्ट्ःी तत्र वृत्तिः न प्राप्नोति ॒ किम् ओदनः शालीनाम् ।५९ - ९६ - सक्त्वाढकम् आपणीयानाम् ।६० - ९६ - कुतः भवान् पाटलिपुत्रकः ।६१ - ९६ - इह च अपि ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ॒ यदि एषा समुदायपेक्षा षष्ट्ःी स्यात् न एतत् नियोगतः गम्येत देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति ।६२ - ९६ - किम् तर्हि ।६३ - ९६ - अन्यस्य अपि गुरुपुत्रः देवदत्तस्य किम् चित् इति एषः अर्थः गम्येत ।६४ - ९६ - यतः तु नियोगतः देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति एषः अर्थः गम्यते अतः मन्यामहे न समुदायपेक्षा षष्ट्ःी इति ।६५ - ९६ - अन्यत्र खलु अपि समर्थग्रहणे सापेक्षस्य अपि कार्यम् भवति ।६६ - ९६ - क्व अन्यत्र ।६७ - ९६ - इसुसोः सामर्थ्ये ।६८ - ९६ - ब्राहमणस्य सर्पिः करोति इति ।६९ - ९६ - तस्मात् न अएत शक्यक् वक्तुम् सापेक्षम् असमर्थम् भवति इति ।७० - ९६ - वृत्तिः तर्हि कस्मात् न भवति महत् कष्टम् श्रितः इति ।७१ - ९६ - सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् ।७२ - ९६ - यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति अत्र वृत्तिः न प्राप्नोति ।७३ - ९६ - अगुरुकुलपुत्रादीनाम् इति वक्तव्यम् ।७४ - ९६ - तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अगुरुकुलपुत्रादीनाम् इति ।७५ - ९६ - न वक्तव्यम् ।७६ - ९६ - वृत्तिः तर्हि कस्मात् न भवति ।७७ - ९६ - अगमकत्वात् ।७८ - ९६ - इह समानार्थेन वाक्येन भवितव्यम् समासेन च ।७९ - ९६ - यः च इह अर्थः वाक्येन गम्यते महत् कष्टम् श्रितः इति न जातु चित् समासेन असौ गम्यते महत् कष्टश्रितः इति ।८० - ९६ - एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति ।८१ - ९६ - न ब्रूमः अपशब्दः स्यात् इति ।८२ - ९६ - यत्र गमकः भवति भवति तत्र वृत्तिः ।८३ - ९६ - तत् यथा ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ।८४ - ९६ - यदि अगमकत्वम् हेतुः न अर्थः समर्थग्रहणेन ।८५ - ९६ - इह अपि भार्या राज्ञः पुरुषः देवदत्तस्य इति यः अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन असौ गम्यते भार्य राजपुरुषः देवदत्तस्य इति ।८६ - ९६ - तस्मात् न अर्थः समर्थग्रहणेन ।८७ - ९६ - इदम् तर्हि प्रयोजनम् ।८८ - ९६ - अस्ति असमर्थसमासः नञ्समासः गमकः ।८९ - ९६ - तस्य साधुत्वम् मा भूत् ।९० - ९६ - अकिञ्चित् कुर्वाणम् अमाषम् हरमाणम् अगाधात् उत्सृष्टम् इति ।९१ - ९६ - एतत् अपि न अस्ति प्रयोजनम् ।९२ - ९६ - अवश्यम् कस्य चित् नञ्समासस्य गमकस्य साधुत्वम् वक्तव्यम् ।९३ - ९६ - असूर्यम्पश्यानि मुखानि अपुनर्गेयाः श्लोकाः अश्राद्धभोजी अलवणभोजी ब्राह्मणः ।९४ - ९६ - सुट् अनपुंसकस्य एतत् नियमार्थम् भविष्यति ।९५ - ९६ - एतस्य एव असमर्थसमासस्य नञ्समासस्य गमकस्य साधुत्वम् भवति न अन्यस्य इति ।९६ - ९६ - तस्मान् न अर्थः समर्थग्रहणेन ।१ - १०९ - अथ क्रियमाणे अपि समर्थग्रहणे समर्थम् इति उच्यते किम् समर्थम् नाम ।२ - १०९ - पृथगर्थानाम् एकार्थीभावः समर्थवचनम् ।३ - १०९ - पृथगर्थानाम् पदानम् एकार्थीभावः समर्थम् इति उच्यते ।४ - १०९ - वाक्ये पृथगर्थानि राज्ञः पुरुषः इति ।५ - १०९ - समासे पुनः एकार्थानि राजपुरुषः इति ।६ - १०९ - किम् उच्यते पृथगर्थानि इति यावता राज्ञः पुरुषः आनीयताम् इति उक्ते राजपुरुषः इति च सः एव ।७ - १०९ - न अपि ब्रूमः अन्यस्य आनयनम् भवति इति ।८ - १०९ - कः तर्हि एकार्थीभावकृतः विशेषः ।९ - १०९ - सुबलोपः व्यवधानम् यथेष्टम् अन्यतरेण अभिसम्बन्धः स्वरः ।१० - १०९ - सुपः अलोपः भवति वाक्ये ।११ - १०९ - राज्ञः पुरुषः इति ।१२ - १०९ - समासे पुनः न भवति ।१३ - १०९ - राजपुरुषः इति ।१४ - १०९ - व्यवधानम् च भवति वाक्ये ।१५ - १०९ - राज्ञः ऋद्धस्य पुरुषः इति ।१६ - १०९ - समासे न भवति ।१७ - १०९ - राजपुरुषः इति ।१८ - १०९ - यथेष्टम् अन्यतरेण अभिसम्बन्धः भवति वाक्ये ।१९ - १०९ - रज्ञः पुरुषः पुरुषः राज्ञः इति ।२० - १०९ - समासे न भवति ।२१ - १०९ - राजपुरुषः इति ।२२ - १०९ - द्वौ स्वरौ भवतः वाक्ये ।२३ - १०९ - रज्ञः पुरुषः ।२४ - १०९ - समासे पुनः एकः एव ।२५ - १०९ - राजपुरुषः इति ।२६ - १०९ - न एते एकार्थीभावकृताः विशेषाः ।२७ - १०९ - किम् तर्हि ।२८ - १०९ - वाचनिकानि एतानि ।२९ - १०९ - आह हि भगवान् सुपः धातुप्रातिपदिकयोः उपसर्जनम् पूर्वम् समासस्य अन्तः उदात्तः भवति इति ।३० - १०९ - इमे तर्हि एकार्थीभाव्कृताः विशेषाः ।३१ - १०९ - सङ्ख्याविशेषः व्यक्ताभिदानम् ल्कुपसर्जनविशेषणम् चयोगः इति ।३२ - १०९ - सङ्ख्याविशेषः भवति वाक्ये ।३३ - १०९ - राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञाम् पुरुषः इति ।३४ - १०९ - समासे न भवति ।३५ - १०९ - राजपुरुषः इति ।३६ - १०९ - अस्ति कारणम् येन एतत् एवम् भवति ।३७ - १०९ - किम् कारणम् ।३८ - १०९ - यः असौ विशेषवाची शब्दः तदसान्निध्यात् ।३९ - १०९ - अङ्ग हि भवान् तम् उच्चारयतु गंस्यते सः विशेषः ।४० - १०९ - ननु च न एतेन एवम् भवितव्यम् ।४१ - १०९ - न हि शब्दकृतेन नाम अर्थेन भवितव्यम् ।४२ - १०९ - अर्थकृतेन नाम शब्देन भवितव्यम् ।४३ - १०९ - तत् एतत् एवम् दृश्यताम् ।४४ - १०९ - अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र विशेषः न गम्यते इति ।४५ - १०९ - अवश्यम् च एतत् एवम् विज्ञेयम् ।४६ - १०९ - यः हि मन्यते यः असौ विशेषवाची शब्दः तदसान्निध्यात् अत्र विशेषः न गम्यते इति इह तस्य विशेषः गम्येत ॒ अप्सुचरः गोषुचरः वर्षासुजः इति ।४७ - १०९ - व्यक्ताभिधानम् भवति वाक्ये ।४८ - १०९ - ब्राह्मणस्य कम्बलः तिष्ठति इति ।४९ - १०९ - समासे पुनः अव्यक्तम् ।५० - १०९ - ब्राह्मणकम्बलः तिष्ठति इति ।५१ - १०९ - सन्देहः भवति सम्बुद्धिः स्यात् षष्ठीसमासः वा इति ।५२ - १०९ - एषः अपि अविशेषः ।५३ - १०९ - भवति हि किम् चित् वाक्ये अव्यक्तम् तत् च समासे व्यक्तम् ।५४ - १०९ - वाक्ये तावत् अव्यक्तम् ।५५ - १०९ - अर्धम् पशोः देवदत्तस्य इति ।५६ - १०९ - सन्देहः भवति पशुगुणस्य वा देवदत्तस्य यत् अर्धम् अर्थ वा यः असौ सञ्ज्ञीभूतः पशुः नाम तस्य यत् अर्धम् इति ।५७ - १०९ - तत् च समासे व्यक्तम् भवति ।५८ - १०९ - अर्ध्हपशुः देवदत्तस्य इति ।५९ - १०९ - उपसर्जनविशेषणम् भवति वाक्ये ।६० - १०९ - ऋद्धस्य राज्ञः पुरुषः इति ।६१ - १०९ - समासे न भवति ।६२ - १०९ - राजपुरुषः इति ।६३ - १०९ - एषः अपि अदोषः ।६४ - १०९ - समासे अपि उपसर्जनविशेषणम् भवति ।६५ - १०९ - तत् यथा देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति ।६६ - १०९ - चयोगः भवति वाक्ये ।६७ - १०९ - स्वचयोगः स्वामिचयोगः च ।६८ - १०९ - स्वचयोगः राज्ञः गौः च अश्वः च पुरुषः च इति ।६९ - १०९ - समासे न भवति ।७० - १०९ - राज्ञः गवाश्वपुरुषाः इति ।७१ - १०९ - स्वामिचयोगः देवदत्तस्य च यज्ञदत्तस्य च विष्णुमित्रस्य च गौः इति ।७२ - १०९ - समासे न भवति ।७३ - १०९ - देवदत्तयज्ञदत्तविष्णुमित्राणाम् गौः इति ।७४ - १०९ - अथ एतस्मिन् एकार्थीभाव्कृते विशेषे किम् स्वाभाविकम् शब्दैः अर्थाभिधानम् आहोस्वित् वाचनिकम् ।७५ - १०९ - स्वाभाविकम् इति आह ।७६ - १०९ - कुतः एतत् ।७७ - १०९ - अर्थानादेशात् ।७८ - १०९ - न हि अर्थाः आदिश्यन्ते ।७९ - १०९ - कथम् पुनः अर्थान् आदिशन् एवम् ब्रूयात् न अर्थाः आदिश्यन्ते इत् ।८० - १०९ - यत् आह भवान् अनेकम् अन्यपदार्थे चार्थे द्वन्द्वः अपत्ये रक्ते निर्वृत्ते इति ।८१ - १०९ - न एतानि अर्थादेशनानि ।८२ - १०९ - स्वभावतः एतेषाम् शब्दानाम् एतेषु अर्थेषु अभिनिविष्टानाम् निमित्तत्वेन अन्वाख्यानम् क्रियते ।८३ - १०९ - तत् यथा ।८४ - १०९ - कूपे हस्तदक्षिणः पन्थाः ।८५ - १०९ - अभ्रे चन्द्रमसम् पश्य इति ।८६ - १०९ - स्वभावतः तत्रस्थस्य पथः चन्द्रमसः च निमित्तत्वेन अन्वाख्यानम् क्रियते ।८७ - १०९ - एवम् इह अपि चार्थे यः सः द्वन्द्वसमासः अन्यपदार्थः यः सः बहुव्रीहिः इति ।८८ - १०९ - किम् पुन कारणम् न आदिश्यन्ते ।८९ - १०९ - तत् च लघ्वर्थम् ।९० - १०९ - लघ्वर्थम् हि अर्थाः न आदिश्यन्ते ।९१ - १०९ - अवश्यम् हि अनेन अर्थान् आदिशता केन चित् शब्देन निर्देशः कर्तव्यः स्यात् ।९२ - १०९ - तस्य च तावत् केन कृतः येन असौ क्रियते ।९३ - १०९ - अथ तस्य केन चित् कृतः तस्य केन कृतः इति अनवस्था ।९४ - १०९ - असम्भवः खलु अपि आदेशः तस्य ।९५ - १०९ - कः हि नाम समर्थः धातुप्रातिपदिकप्रत्ययनिपातानाम् अर्थान् आदेष्टुम् ।९६ - १०९ - न च एतत् मन्तव्यम् प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थः अनिर्दिष्टः इति ।९७ - १०९ - भवति हि गुणाभिधाने गुणिनः सम्प्रत्ययः ।९८ - १०९ - तत् यथा शुक्लः कृष्णः इति ।९९ - १०९ - विषमः उपन्यासः ।१०० - १०९ - सामान्यशब्दाः एते एवम् स्युः ।१०१ - १०९ - सामन्यशब्दाः च न अन्तरेण विशेषम् प्रकरणम् वा विशेषेषु अवतिष्ठन्ते ।१०२ - १०९ - यतः तु खलु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चित् एव विशेषे वृक्षशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति ।१०३ - १०९ - न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे वर्तते ।१०४ - १०९ - अप्रवृत्तिः खलु अपि अर्थादेशनस्य ।१०५ - १०९ - बहवः हि शब्दाः येषाम् अर्थाः न विज्ञायन्ते ।१०६ - १०९ - जर्भरी तुर्फरीतू ।१०७ - १०९ - अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च ।१०८ - १०९ - न खलु अपि निर्ज्ञातस्य अर्थस्य अन्व्याख्यने किम् चित् प्रयोजनम् अस्ति ।१०९ - १०९ - यः हि ब्रूयात् पुरस्तात् आदित्यः उदेति पश्चात् अस्तम् एति मधुरः गुडः कटुकम् शृङ्गवेरम् इति किम् तेन कृतम् स्यात् ।१ - ९ - वावचनानर्थक्यम् च स्वभावसिद्धत्वात् ।२ - ९ - वावचनानर्थक्यम् ।३ - ९ - किम् कारणम् ।४ - ९ - स्वभावसिद्धत्वात् ।५ - ९ - इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।६ - ९ - स्वभावतः च एतत् भवति वाक्यम् च समासः च ।७ - ९ - तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्रप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।८ - ९ - न च सञ्ज्ञायाः भावाभावौ इष्येते ।९ - ९ - तस्मात् न अर्थः वा वचनेन१ - ६५ - अथ ये वृत्तिम् वर्तयन्ति किम् ते आहुः ।२ - ६५ - परार्थाभिधानम् वृत्तिः इति आहुः ।३ - ६५ - अथ तेषाम् एवम् ब्रुवताम् किम् जहत्स्वार्था वृत्तिः आहोस्वित् अजहत्स्वार्था ।४ - ६५ - किम् च अतः ।५ - ६५ - यदि जहत्स्वार्था वृत्तिः राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य ।६ - ६५ - अथ अजहत्स्वार्था वृत्तिः उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति ।७ - ६५ - का पुनः वृत्तिः न्याय्या ।८ - ६५ - जहत्स्वार्था ।९ - ६५ - युक्तम् पुनः यत् जहत्स्वार्था नाम वृत्तिः स्यात् ।१० - ६५ - बाढम् युक्तम् ।११ - ६५ - एवम् हि दृश्यते लोके ।१२ - ६५ - पुरुषः अयम् परकर्मणि प्रवर्तमानः स्वम् कर्म जहाति ।१३ - ६५ - तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् कर्म जहाति ।१४ - ६५ - एवम् युक्तम् यत् राजा पुरुषार्थे वर्तमानः स्वम् अर्थम् जह्यात् उपगुः च अपर्त्यार्थे वर्तमानः स्वम् अर्थम् जह्यात् ।१५ - ६५ - ननु च उक्तम् राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य इति ।१६ - ६५ - न एषः दोषः ।१७ - ६५ - जहत् अपि असौ स्वार्थम् न अत्यन्ताय जहाति ।१८ - ६५ - यः परार्थविरोधी स्वार्थः तम् जहाति ।१९ - ६५ - तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् तक्षकर्म जहाति न हिक्कितहसितकण्डूयितानि ।२० - ६५ - न च अयम् अर्थः परार्थविरोधी विशेषणम् नाम ।२१ - ६५ - तस्मात् न हास्यति ।२२ - ६५ - अथ वा अन्वयात् विशेषणम् भविष्यति ।२३ - ६५ - तत् यथा ।२४ - ६५ - घृतघटः तैलघटः इति निषिक्ते घृते तैले वा अन्व्ययात् विशेषणम् भवति अयम् घृतघटः अयम् तैलघटः इति ।२५ - ६५ - विषमः उपन्यासः ।२६ - ६५ - भवति हि तत्र या च यावती च अर्थमात्रा ।२७ - ६५ - अङ्ग हि भवान् अग्नौ निष्टप्य घृतघटम् तृणकूर्चेन प्रक्षालयतु ।२८ - ६५ - न गंस्यते सः विशेषः ।२९ - ६५ - यथा तर्हि मल्लिकापुटः चम्पकपुतः इति निष्कीर्णासु अपि सुमनःसु अन्वयात् विशेषणम् भवति अयम् मल्लिकपुटः अयम् चम्पकपुटः इति ।३० - ६५ - अथ वा समर्थाधिकारः अयम् वृत्तौ क्रियते ।३१ - ६५ - सामर्थम् नम भेदः संसर्गः वा ।३२ - ६५ - अपरः आह ॒ भेदसंसर्गौ वा सामर्थ्यम् इति ।३३ - ६५ - कः पुनः भेदः संसर्गः वा ।३४ - ६५ - इह राज्ञः इति उक्ते सर्वम् स्वम् प्रसक्तम् पुरुषः इति उक्ते सर्वः स्वामि प्रसक्तः ।३५ - ६५ - इह इदानीम् राजपुरुषः इति उक्ते राजा पुरुषम् निवर्तयति अन्येभ्यः स्वामिभ्यः पुरुषः अपि राजानम् अन्येभ्यः स्वेभ्यः ।३६ - ६५ - एवम् एतस्मिन् उभयतः व्यवच्छिन्ने यदि जहाति कामम् जहातु ।३७ - ६५ - न जातु चित् पुरुषमात्रस्य आनयनम् भविष्यति ।३८ - ६५ - अथ वा पुनः अस्तु अजहत्स्वार्था वृत्तिः ।३९ - ६५ - युक्तम् पुनः यत् अजहत्स्वार्था नाम वृत्तिः स्यात् ।४० - ६५ - बाढम् युक्तम् ।४१ - ६५ - एवम् हि दृश्यते लोके ।४२ - ६५ - भिक्षुकः अयम् द्वितीयाम् भिक्षाम् आसाद्य पूर्वाम् न जहाति सञ्चयाय प्रवर्तते ।४३ - ६५ - ननु च उक्तम् उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति इति ।४४ - ६५ - कस्याः पुनः द्विवचनम् प्राप्नोति ।४५ - ६५ - प्रथामायाः ।४६ - ६५ - न प्रथमासमर्थः राजा ।४७ - ६५ - षष्ठ्याः तर्हि ।४८ - ६५ - न षष्ठीसमर्थः पुरुषः ।४९ - ६५ - प्रथमायाः एव तर्हि प्राप्नोति ।५० - ६५ - ननु च उक्तम् न प्रथमासमर्थः राजा इति ।५१ - ६५ - अभिनिहितः सः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।५२ - ६५ - तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमायाः एव द्विवचनम् प्राप्नोति ।५३ - ६५ - सङ्घातस्य ऐकार्थ्यात् न अवयवसङ्ख्यातः सुबुत्पत्तिः ।५४ - ६५ - सङ्घातस्य एकत्वम् अर्थः ।५५ - ६५ - तेन अवयवसङ्ख्यातः सुबुत्पत्तिः न भविष्यति ।५६ - ६५ - परस्परव्यपेक्षा सामर्थ्येम् एके ।५७ - ६५ - परस्परव्यपेक्षा सामर्थ्येम् एके इच्छन्ति ।५८ - ६५ - का पुनः शब्दयोः व्यपेक्षा ।५९ - ६५ - न ब्रूमः शब्दयोः इति ।६० - ६५ - किम् तर्हि ।६१ - ६५ - अर्थयोः ।६२ - ६५ - इह राज्ञः पुरुषः इति उक्ते राजा पुरुषम् अपेक्षते मम अयम् इति ।६३ - ६५ - पुरुषः अपि राजानम् अपेक्षते अहम् अस्य इति ।६४ - ६५ - तयोः अभिसम्बन्धस्य षष्ठी वाचिका भवति ।६५ - ६५ - तथा कष्टम् श्रितः इति क्रियाकारकयोः अभिसम्बन्धस्य द्वितीया वाचिका भवति ।१ - ९१ - अथ यदि एव एकार्थीभावः सामर्थ्यम् अथ अपि व्यपेक्षा सामर्थ्यम् किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।२ - ९१ - गतम् इति आह ।३ - ९१ - कथम् ।४ - ९१ - समः अयम् अर्थशब्देन सह समासः ।५ - ९१ - सम् च उपसर्गः ।६ - ९१ - उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषम् आहुः ।७ - ९१ - न च इह कः चित् क्रियावाची शब्दः प्रयुज्यते येन समः सामर्थ्यम् स्यात् ।८ - ९१ - तत्र प्रयोगात् एतत् गन्तव्यम् नूनम् अत्र कः चित् प्रयोगार्हः शब्दः न प्रयुज्यते येन समः सामर्थ्यम् इति ।९ - ९१ - तत् यथा ।१० - ९१ - धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् च दृष्ट्वा परिव्राजकः इति ।११ - ९१ - कः पुनः असौ प्रयोगार्हः शब्दः ।१२ - ९१ - उच्यते ।१३ - ९१ - सङ्गतार्थम् समर्थम् संसृष्टार्थम् समर्थम् सम्प्रेक्षितम् अर्थम् समर्थम् सम्बद्धार्थम् समर्थम् इति ।१४ - ९१ - तत् यदा तावत् एकार्थीभावः सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सङ्गतार्थः संसृष्टार्थः समर्थः इति ।१५ - ९१ - तत् यथा सङ्गतम् घृतम् सङ्गतम् तैलम् इति उच्यते ।१६ - ९१ - एकीभूतम् इति गम्यते ।१७ - ९१ - यदा व्यपेक्षा सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सम्प्रेक्षितार्थः समर्थः सम्बद्धार्थः समर्थः इति ।१८ - ९१ - कः पुनः इह बध्नात्यर्थः ।१९ - ९१ - सम्बद्धः इति उच्यते यः रज्ज्वा अयसा वा कीले व्यतिषिक्तः भवति ।२० - ९१ - न अवश्यम् बध्नातिः व्यतिषङ्गे एव वर्तते ।२१ - ९१ - किम् तर्हि ।२२ - ९१ - अहानौ अपि वर्तते ।२३ - ९१ - तत् यथा सम्बद्धौ इमौ दम्यौ इति उच्येते यौ अन्योन्यम् न जहीतः ।२४ - ९१ - अथ वा भवति च एवञ्जातीयकेषु बध्नातिः वर्तते ।२५ - ९१ - तत् यथा ।२६ - ९१ - अस्ति नः गर्गैः सम्बन्धः ।२७ - ९१ - अस्ति नः वत्सैः सम्बन्धः ।२८ - ९१ - संयोगः इति अर्थः ।२९ - ९१ - अथ एतस्मिन् व्यपेक्षायाम् सामर्थ्ये यः असौ एकार्थीभाव्कृतः विशेषः स वक्तव्यः ।३० - ९१ - तत्र नानाकारकात् निघातयुष्मदस्मदादेशेप्रतिषेधः ।३१ - ९१ - तत्र एतस्मिन् व्यपेक्षायाम् सामर्थ्ये नानाकारकात् निघातयुष्मदस्मदादेशाः प्राप्नुवन्ति ।३२ - ९१ - तेषाम् प्रतिषेधः वक्तव्यः ।३३ - ९१ - निघातः ।३४ - ९१ - अयम् दण्डः ।३५ - ९१ - हर अनेन ।३६ - ९१ - अस्ति दण्डस्य हरतेः च व्यपेक्षा इति कृत्वा निघातः प्राप्नोति ।३७ - ९१ - युष्मदस्मदादेशाः ।३८ - ९१ - ओदनम् पच ।३९ - ९१ - तव भविष्यति ।४० - ९१ - ओदनम् पच मम भविष्यति ।४१ - ९१ - अस्ति ओदनस्य युष्मदस्मदोः च व्यपेक्षा इति कृत्वा वाम्नावादयः प्राप्नुवन्ति ।४२ - ९१ - तेषाम् प्रतिषेधः वक्तव्यः ।४३ - ९१ - किम् उच्यते नानाकारकात् इति यदा तेन एव आसज्य ह्रियते ।४४ - ९१ - न अपि ब्रूमः अन्येन आसज्य ह्रियते इति ।४५ - ९१ - किम् तर्हि ।४६ - ९१ - शब्दप्रमाणकाः वयम् ।४७ - ९१ - यत् शब्दः आह तत् अस्माकम् प्रमाणम् ।४८ - ९१ - शब्दः च इह सत्ताम् आह ।४९ - ९१ - अयम् दण्डः ।५० - ९१ - अस्ति इति गम्यते ।५१ - ९१ - सः दण्डः कर्ता भूत्वा अन्येन शब्देन अभिसम्बध्यमानः करणम् सम्पद्यते ।५२ - ९१ - तत् यथा ।५३ - ९१ - कः चित् कम् चित् पृच्छति ।५४ - ९१ - क्व देवदत्तः इति ।५५ - ९१ - सः तस्मै आचष्टे ।५६ - ९१ - असौ वृक्षे इति ।५७ - ९१ - कतरस्मिन् ।५८ - ९१ - यः तिष्ठति इति ।५९ - ९१ - सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते ।६० - ९१ - प्रचये समासप्रतिषेधः ।६१ - ९१ - प्रचये समासप्रतिषेधः वक्तव्यः ।६२ - ९१ - राज्ञः गौः च अश्वः च पुरुषः च राजगवाश्वपुरुषाः इति ।६३ - ९१ - समर्थतराणाम् वा ।६४ - ९१ - समर्थतराणाम् वा पदानाम् समासः भविष्यति ।६५ - ९१ - कानि पुनः समर्थतराणि ।६६ - ९१ - यानि द्वन्द्वभावीनि ।६७ - ९१ - कुतः एतत् ।६८ - ९१ - एषाम् हि आशुतरा वृत्तिः प्राप्नोति ।६९ - ९१ - तत् यथा समर्थतरः अयम् माणवकः अध्ययनाय इति उच्यते ।७० - ९१ - आश्रुतरग्रन्थः इति गम्यते ।७१ - ९१ - अपरः आह ॒ समर्थतराणाम् वा पदानाम् समासः भविष्यति ।७२ - ९१ - कानि पुनः समर्थतराणि ।७३ - ९१ - यानि द्वन्द्वभावीनि ।७४ - ९१ - कुतः एतत् ।७५ - ९१ - एतानि समानविभक्तीनि अन्यविभक्तिः राजा ।७६ - ९१ - भवति विशेषः स्वस्मिन् भ्रातरि पितृव्यपुत्रे च ।७७ - ९१ - समुदायसामर्थ्यात् वा सिद्धम् षमुदायसामर्थ्यात् वा पुनः सिद्धम् एतत् ।७८ - ९१ - समुदायेन राज्ञः सामर्थ्यम् भवति न अवयवेन ।७९ - ९१ - अपरः आह ।८० - ९१ - समर्थतराणाम् वा समुदायसामर्थ्यात् ।८१ - ९१ - समर्थतराणाम् वा पदानाम् समासः भवति ।८२ - ९१ - कुतः एतत् ।८३ - ९१ - समुदायसामर्थ्यात् एव ।८४ - ९१ - अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति ।८५ - ९१ - एतत् च समर्थितम् ।८६ - ९१ - कथम् ।८७ - ९१ - न एव वा पुनः अत्र राज्ञः अश्वपुरुषौ अपेक्षमाणस्य गवा सह समासः भवति ।८८ - ९१ - किम् तर्हि ।८९ - ९१ - गोः राजानम् अपेक्षमाणस्य आस्वपुरुषाभ्याम् समासः समासः भवति ।९० - ९१ - प्रधानम् अत्र तद गौः भवति ।९१ - ९१ - भवति च प्रधानस्य सापेक्षस्य अपि समासः ।१ - ७९ - आख्यातम् साव्ययकारकविशेषणम् वाक्यम् ।२ - ७९ - आख्यातम् साव्ययम् सकारकम् सकारकविशेषणम् वाक्यसञ्ज्ञम् भवति वक्तव्यम् ।३ - ७९ - साव्ययम् ।४ - ७९ - उच्चैः पठति ।५ - ७९ - नीचैः पठति ।६ - ७९ - सकारकम् ।७ - ७९ - ओदनम् पचति ।८ - ७९ - सकारकविशेषणम् ।९ - ७९ - ओदनम् मृदु विशदम् पचति ।१० - ७९ - सक्रियाविशेषणम् च इति वक्तव्यम् ।११ - ७९ - सुष्ठु पचति ।१२ - ७९ - दुष्ठु पचति ।१३ - ७९ - अपरः आह ॒ आख्यातम् सविशेषणम् इति एव ।१४ - ७९ - सर्वाणि हि एतानि क्रियाविशेषणानि ।१५ - ७९ - एकतिङ् ।१६ - ७९ - एकतिङ् वाक्यसञ्ज्ञम् भवति वक्तव्यम् ।१७ - ७९ - ब्रूहि ब्रूहि ।१८ - ७९ - समानवाक्ये निघातयुष्मदस्मदादेशाः ।१९ - ७९ - समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः ।२० - ७९ - किम् प्रयोजनम् ।२१ - ७९ - नानावाक्ये मा भूवन् निघातादयः इति ।२२ - ७९ - अयम् दण्डः ।२३ - ७९ - हर अनेन ।२४ - ७९ - ओदनम् पच ।२५ - ७९ - तव भविष्यति ।२६ - ७९ - ओदनम् पच ।२७ - ७९ - मम भविष्यति ।२८ - ७९ - योगे प्रतिषेधः चादिभिः ।२९ - ७९ - चादिभिः योगे प्रतिषेधः वक्तव्यः ।३० - ७९ - ग्रामः तव च स्वम् मम च स्वम् ।३१ - ७९ - किमर्थम् इचम् उच्यते ।३२ - ७९ - यथान्यासम् एव चादिभिः योगे प्रतिषेधः उच्यते ।३३ - ७९ - इदम् अद्य अपूर्वम् क्रियते वाक्यसञ्ज्ञा समानवाक्याधिकारः च ।३४ - ७९ - तत् द्वेष्यम् विजानीयात् ॒ सर्वम् एतत् विकल्पते इति ।३५ - ७९ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे चादिभिः योगे यथान्यासम् एव भवति इति ।३६ - ७९ - समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् असमर्थत्वात् ।३७ - ७९ - समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् कर्तव्यम् स्यात् ।३८ - ७९ - समानाधिकरणे ।३९ - ७९ - पटवे ते दास्यामि ।४० - ७९ - म्र्दवे ते दास्यामि ।४१ - ७९ - समानाधिकरणे ।४२ - ७९ - युक्तयुक्ते ।४३ - ७९ - नद्याः तिष्ठति कूले ।४४ - ७९ - वृक्षस्य लम्बते शाखा ।४५ - ७९ - शालीनाम् ते ओदनम् ददामि ।४६ - ७९ - शालीनाम् मे ओदनम् ददाति ।४७ - ७९ - किम् पुनः कारणम् न सिध्यति ।४८ - ७९ - असमर्थत्वात् ।४९ - ७९ - राजगवीक्षीरे द्विसमासप्रसङ्गः द्विषष्ठीभावात् ।५० - ७९ - राजगवीक्षीरे द्विसमासप्रसङ्गः ।५१ - ७९ - किम् कारणम् ।५२ - ७९ - द्विषष्ठीभावात् ।५३ - ७९ - द्वे हि अत्र षष्ठ्यौ ।५४ - ७९ - राज्ञः गोः क्षीरम् इति ।५५ - ७९ - किम् उच्यते द्विसमासप्रसङ्गः इति यावता सुप् सह सुपा इति वर्तते ।५६ - ७९ - द्विसमासप्रसङ्गः इति न एवम् विज्ञायते द्वयोः सुबन्तयोः समासप्रसङ्गः द्विसमासप्रसङ्गः इति ।५७ - ७९ - कथम् तर्हि ।५८ - ७९ - द्विप्रकारस्य समासस्य प्रसङ्गः द्विसमासप्रसङ्गः इति ।५९ - ७९ - राजगोक्षीरम् इति अपि प्राप्नोति न च एवम् भवितव्यम् ।६० - ७९ - भवितव्यम् च यदा एतत् वाक्यम् भवति गोः क्षीरम् गोक्षीरम् राज्ञः गोक्षीरम् राजगोक्षीरम् इति ।६१ - ७९ - यदा तु एतत् वाक्यम् भवति राज्ञः गोः क्षीरम् इति तदा न भवितव्यम् तदा च प्राप्नोति ।६२ - ७९ - तदा कस्मात् न भवति ।६३ - ७९ - सिद्धम् तु राजविशिष्टायाः गोः क्षीरेण सामर्थ्यात् ।६४ - ७९ - सिद्धम् एतत् ।६५ - ७९ - कथम् ।६६ - ७९ - राजविशिष्टायाः गोः क्षीरेण सह समासः भवति न केवलायाः ।६७ - ७९ - किम् वक्तव्यम् एतत् ।६८ - ७९ - न हि ।६९ - ७९ - कथम् अनुच्यमानम् गंस्यते ।७० - ७९ - यथा एव अयम् गवि यतते न क्षीरमात्रेण सन्तोषम् करोति एवम् राजनि अपि यतते ।७१ - ७९ - राज्ञः या गौः तस्याः यत् क्षीरम् इति ।७२ - ७९ - न एव वा पुनः अत्र गोः राजानम् अपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति ।७३ - ७९ - किम् कारणम् ।७४ - ७९ - असामर्थ्यात् ।७५ - ७९ - कथम् असामर्थ्यम् ।७६ - ७९ - सापेक्षम् असमर्थम् भवति इति ।७७ - ७९ - कथम् तर्हि गोः क्षीरम् अपेक्षमाणायाः राज्ञा सह समासः भवति ।७८ - ७९ - प्रधानम् अत्र तद गौः भवति ।७९ - ७९ - भवति च प्रधानस्य सापेक्षस्य अपि समासः१ - ३० - अथ किमर्थम् पदविधौ समर्थाधिकारः क्रियते ।२ - ३० - पदविधौ समर्थवचनम् वर्णाश्रये शास्त्रे आनन्तर्यविज्ञानात्. पदविधौ समर्थाधिकारः क्रियते वर्णाश्रये शास्त्रे आनन्तर्यमात्रे कार्यम् यथा विज्ञायेत ।३ - ३० - तिष्ठतु दधि अशान त्वम् शाकेन ।४ - ३० - तिष्ठतु कुमारी छत्रम् हर देवदत्त इति ।५ - ३० - समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशानर्थक्यम् ।६ - ३० - समर्थाधिकारः अयम् विधेयेन समानाधिकरणः ।७ - ३० - किम् च विधेयम् ।८ - ३० - समासः ।९ - ३० - यावत् ब्रूयात् समर्थः समासः इति तावत् समर्थः पदविधिः ।१० - ३० - न च राजपुरुषः इति एतस्याम् अवस्थायाम् समर्थाधिकारेण किम् चित् अपि शक्यम् प्रवर्तयितुम् निवर्तयितुम् वा ।११ - ३० - समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशः अनर्थकः ।१२ - ३० - सिद्धम् तु समर्थानाम् इति वचनात् ।१३ - ३० - सिद्धम् एतत् ।१४ - ३० - कथम् ।१५ - ३० - समर्थानाम् पदानाम् विधिः इति वक्तव्यम् ।१६ - ३० - एवम् अपि द्व्येकयोः न प्राप्नोति ।१७ - ३० - एकशेषनिर्देशात् वा ।१८ - ३० - अथ वा एकशेषनिर्देशः अयम्. समर्थस्य च समर्थयोः च समर्थानाम् च समर्थानाम् इति ।१९ - ३० - एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति ।२० - ३० - षट्प्रभृतिषु हि एकशेषः परिसमाप्यते ।२१ - ३० - न एषः दोषः ।२२ - ३० - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति ।२३ - ३० - एवम् अपि विविभक्तीनाम् न प्राप्नोति ।२४ - ३० - समर्थात् समर्थे पदात् पदे इति ।२५ - ३० - एवम् तर्हि समर्थपदयोः विधिशब्देन सर्वविभक्त्यन्तः समासः ॒ समर्थस्य विधिः समर्थविधिः , समर्थयोः विधिः समर्थविधिः , समर्थात् विधिः समर्थविधिः , समर्थे विधिः समर्थ्विधिः ।२६ - ३० - पदस्य विधिः पदविधिः , पदयोः विधिः पदविधिः , पदानाम् विधिः पदविधिः , पदात् विधिः पदविधिः , पदे विधिः पदविधिः ।२७ - ३० - समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः ।२८ - ३० - पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः ।२९ - ३० - समर्थविधिः च पदविधिः च समर्थः पदविधिः ।३० - ३० - पूर्वः समासः उत्तरपदलोपी यादृच्छिकीविभक्तिः ।१ - ९० - समानाधिकरणेषु उपसङ्ख्यानम् असमर्थत्वात् ।२ - ९० - समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् ।३ - ९० - वीरः पूरुषः वीरपुरुषः ।४ - ९० - किम् पुनः कारणम् न सिध्यति ।५ - ९० - असमर्थत्वात् ।६ - ९० - कथम् असमर्थत्वम् ।७ - ९० - द्रव्यम् पदार्थः इति चेत्. यदि द्रव्यम् पदार्थः न भवति तदा सामर्थ्यम् ।८ - ९० - अथ हि गुणः पदार्थः भवति तदा सामर्थ्यम् ।९ - ९० - अन्यः हि वीरत्वम् गुणः अन्यः हि पुरुषत्वम् ।१० - ९० - न अन्यत्वम् अस्ति इति इयता सामर्थ्यम् भवति ।११ - ९० - अन्यः हि देवदत्तः गोभ्यः अश्वेभ्यः च न च तस्य एतावता सामर्थम् भवति ।१२ - ९० - कः वा विशेषः यत् गुणे पदार्थे सामर्थ्यम् स्यात् द्रव्ये च न स्यात् ।१३ - ९० - एषः विशेषः ।१४ - ९० - एकम् तयोः अधिकरणम् अन्यः च वीरत्वम् गुणः अन्यः पुरुषत्वम् ।१५ - ९० - द्रव्यपदार्थिकस्य अपि तर्हि गुणभेदात् सामर्थ्यम् भविष्यति ।१६ - ९० - अशक्यः द्रव्यपदार्थिकेन द्रव्यस्य गुणकृतः उपकारः प्रतिज्ञातुम् ।१७ - ९० - ननु च अभ्यन्तरः असौ भवति ।१८ - ९० - यदि अपि अभ्यन्तरः न तु गम्यते ।१९ - ९० - न हि गुडः इति उक्ते मधुरत्वम् गम्यते शृङ्गवेरम् इति वा कटुकत्वम् ।२० - ९० - गुणपदार्थिकेन अपि तर्हि अशक्यः गुणस्य द्रव्यकृतः उपकारः प्रतिज्ञातुम् ।२१ - ९० - अथ गुणपदार्थिकः प्रतिजानीते द्रव्यपदार्थिकः अपि कस्मात् न प्रतिजानीते ।२२ - ९० - एवम् अनयोः सामर्थ्यम् स्यात् वा न वा ।२३ - ९० - क्व च तावत् इदम् स्यात् समानाधिकरणेन इति ।२४ - ९० - यत्र सर्वम् समामन् ॒ इन्द्रः शक्रः पुरुहूतः पुरन्दरः ।२५ - ९० - कन्दुः कोष्ठः कुशूलः इति ।२६ - ९० - न एवञ्जातीयकानाम् समासेन भवितव्यम् प्रत्ययेन वा उत्पत्तव्यम् ।२७ - ९० - किम् कारणम् ।२८ - ९० - अर्थगत्यर्थः शब्दप्रयोगः ।२९ - ९० - अर्थम् प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।३० - ९० - तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् ।३१ - ९० - किम् कारणम् ।३२ - ९० - उक्तार्थानाम् अप्रयोगः इति ।३३ - ९० - न तर्हि इदानीम् इदम् भवति भृत्यभरणीयः इति ।३४ - ९० - न एतौ समानार्थौ ।३५ - ९० - एकः अत्र शक्यार्थे कृत्यः भवति अपरः अर्हत्यर्थे ॒ शक्यः भर्तुम् भृत्यः ।३६ - ९० - अर्हति भृतिम् भरणीयः ।३७ - ९० - भृत्यः भरणीयः भृत्यभरणीयः इति ।३८ - ९० - यदि तर्हि यत्र किम् चित् समानम् कः चित् विशेषः तत्र भवितव्यम् इह अपि तर्हि प्राप्नोति ।३९ - ९० - दर्शनीयायाः माता दर्शनीयमाता इति ।४० - ९० - अत्र अपि किम् चित् समानम् कः चित् विशेषः ।४१ - ९० - किम् पुनः तत् ।४२ - ९० - सद्भावान्यभावौ ।४३ - ९० - न क्व चित् सद्भावान्यभावौ न स्तः उच्यते च समानाधिकरणेन इति ।४४ - ९० - तत्र प्रकर्षगतिः विज्ञास्यते ॒ यत्र साधीयः सामानाधिकरण्यम् ।४५ - ९० - क्व च साधीयः सामानाधिकरण्यम् ।४६ - ९० - यत्र सर्वम् समानम् सद्भावान्यभावौ द्रव्यम् च. अथ वा समानाधिकरणेन इति तत् समानम् आश्रीयते यत् समानम् भवति न च भवति ।४७ - ९० - न च एतत् समानम् क्व चित् अपि न भवति ।४८ - ९० - अथ वा यावत् ब्रूयात् समानद्रव्येण इति तावत् समानाधिकरणेन इति ।४९ - ९० - द्रव्यम् हि लोके अधिकरणम् इति उच्यते ।५० - ९० - तत् यथा ।५१ - ९० - एकस्मिन् द्रव्ये व्युदितम् ।५२ - ९० - एकस्मिन् अधिकरणे व्युदितम् इति ।५३ - ९० - तथा व्याकरणे विप्रतिषिद्धम् च अनधिकरणवाचि इति अद्रव्यवाचि इति गम्यते ।५४ - ९० - एवम् अपि इदम् अवश्यम् कर्तव्यम् समानाधिकरणम् असमर्थवत् भवति इति ।५५ - ९० - किम् प्रयोजनम् ।५६ - ९० - सर्पिः कालकम् यजुः पीतकम् इति एवमर्थम् ।५७ - ९० - यदि समानाधिकरणम् असमर्थवत् भवति इति उच्यते सर्पिः पीयते यजुः क्रियते इति अत्र षत्वम् न प्राप्नोति ।५८ - ९० - अधात्वभिहितम् इति एवम् तत् ।५९ - ९० - एवम् च कृत्वा समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् ।६० - ९० - वीरः पूरुषः वीरपुरुषः ।६१ - ९० - किम् कारणम् असमर्थत्वात् ।६२ - ९० - न वा वचनप्रामाण्यात् ।६३ - ९० - न वा कर्तव्यम् ।६४ - ९० - किम् कारणम् ।६५ - ९० - वचनप्रामाण्यात् ।६६ - ९० - वचनप्रामाण्यात् अत्र समासः भविष्यति ।६७ - ९० - किम् वचनप्रामाण्यम् ।६८ - ९० - समानमध्यमध्यमवीराः च इति ।६९ - ९० - लुप्ताख्यातेषु च ।७० - ९० - लुप्ताख्यातेषु च उपसङ्ख्यानम् कर्तव्यम् ।७१ - ९० - निष्कौशाम्बिः निर्वाराणसिः ।७२ - ९० - लुप्ताख्यातेषु च ।७३ - ९० - किम् ।७४ - ९० - वचनप्रामाण्यात् ।७५ - ९० - किम् वचनप्रामाण्यम् ।७६ - ९० - कुगतिप्रादयः च इति ।७७ - ९० - अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।७८ - ९० - किम् ।७९ - ९० - सुराजा अतिराजा इति ।८० - ९० - न ब्रूमः वृत्तिसूत्रवचनप्रामाण्यात् इति ।८१ - ९० - किम् तर्हि ।८२ - ९० - वार्त्तिकवचनप्रामाण्यात् इति ।८३ - ९० - सिद्धम् तु क्वाङ्क्स्वतिदुर्गतिवचनात् प्रादयः क्तार्थे इति ।८४ - ९० - तदर्थगतेः वा ।८५ - ९० - तदर्थगतेः वा पुनः सिद्धम् एतत् ।८६ - ९० - किम् इदम् तदर्थगतेः इति ।८७ - ९० - तस्य अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति ।८८ - ९० - यस्य अर्थस्य कौशाम्ब्या सामर्थ्यम् सः निसा उच्यते ।८९ - ९० - अथ वा सः अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति ।९० - ९० - यः अर्थः कौशाम्ब्या समर्थः सः निसा उच्यते ।१ - ११० - अथ यत्र बहूनाम् समासप्रसङ्गः किम् तत्र द्वयोः द्वयोः समासः भवति आहोस्वित् अविशेषेण ।२ - ११० - कः च अत्र विशेषः ।३ - ११० - समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् ।४ - ११० - समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् कर्तव्यम् ।५ - ११० - चर्थे द्वन्द्वः ।६ - ११० - अनेकम् इति वक्तव्यम् इह अपि यथा स्यात् ।७ - ११० - प्लक्षन्यग्रोधखदिरपलाशाः इति ।८ - ११० - न एषः दोषः ।९ - ११० - अत्र अपि द्वयोः द्वयोः समासः भविष्यति ।१० - ११० - द्वयोः द्वयोः समासः इति चेत् न बहुषु द्वित्वाभावात् ।११ - ११० - द्वयोः द्वयोः समासः इति चेत् तत् न ।१२ - ११० - किम् कारणम् ।१३ - ११० - बहुषु द्वित्वाभावात् ।१४ - ११० - न बहुषु द्वित्वम् अस्ति ।१५ - ११० - न अवश्यम् एवम् विग्रहः कर्तव्यः ॒ प्लक्षः च न्यग्रोधः च खदिरः च पलाशः च इति ।१६ - ११० - किम् तर्हि एवम् विघ्रहः करिष्यते ॒ प्लक्षः च न्यग्रोधः च प्लक्षन्यग्रोधौ खदिरः च पलाशः च खदिरपलाशौ प्लक्षन्यग्रोधौ च खदिरपलाशौ प्लक्षन्यग्रोधखदिरपलाशाः इति ।१७ - ११० - होतृपोतृनेष्टोद्गातारः तर्हि न सिध्यन्ति ।१८ - ११० - होतापोतानेष्टोद्गातारः इति प्राप्नोति ।१९ - ११० - न च एवम् भवितव्यम् ।२० - ११० - भवितव्यम् च यदा एवम् विग्रहः क्रियते होता च पोता च होतापोतारौ नेष्टा च उद्गाता च नेष्टोद्गातारौ होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातारः इति ।२१ - ११० - होतृपोतृनेष्टोद्गातारः तु न सिध्यन्ति ।२२ - ११० - समासान्तप्रतिषेधः च ।२३ - ११० - समासान्तस्य च प्रतिषेधः वक्तव्यः ।२४ - ११० - वाक्त्वक्स्रुग्दृषदम् इति ।२५ - ११० - वाक्त्वचस्रुग्दृषदम् इति प्राप्नोति ।२६ - ११० - न एषः दोषः ।२७ - ११० - अत्र अपि परेण परेण सह समासः भविष्यति ।२८ - ११० - स्रुक् च दृषदम् च स्रुग्दृषदम् त्वक् च स्रुग्दृषदम् च त्वक्स्रुग्दृषदम् वाक् च त्वक्स्रुग्दृषदम् च वाक्त्वक्स्रुग्दृषदम् इति ।२९ - ११० - होतृपोतृनेष्टोद्गातारः एवम् तर्हि सिध्यन्ति ।३० - ११० - इह च सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण द्वयोः वृत्तौ न सिध्यति ।३१ - ११० - अस्तु तर्हि अविशेषेण ।३२ - ११० - अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः ।३३ - ११० - यदि अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः ।३४ - ११० - तत्र कः दोषः ।३५ - ११० - तत्र स्वरसमासान्तपुंवद्भावेषु दोषः ।३६ - ११० - तत्र स्वरसमासान्तपुंवद्भावेषु दोषः भवति ।३७ - ११० - स्वर ।३८ - ११० - पूर्वशालाप्रियः अपरशालाप्रियः ।३९ - ११० - स्वर ।४० - ११० - समासान्त ।४१ - ११० - पञ्चगवप्रियः ।४२ - ११० - समासान्त ।४३ - ११० - पुंवद्भाव ।४४ - ११० - खादिरेतरशम्यम् रौरवेतर्शम्यम् ।४५ - ११० - न वा अवयवतत्पुरुषत्वात् । न वा एषः दोषः ।४६ - ११० - किम् कारणम् ।४७ - ११० - अवयवतत्पुरुषत्वात् ।४८ - ११० - अवयवः अत्र तत्पुरुषसञ्ज्ञः तदाश्रयौ समासान्तपुंवद्भावौ भविष्यतः ।४९ - ११० - स्वरः कथम् ।५० - ११० - तस्य अन्तोदात्तत्वम् विप्रतिषेधात् ।५१ - ११० - अन्तोदात्तत्वम् क्रियताम् पूर्वपदप्रकृतिस्वरः इति अन्तोदात्तत्वम् भवति विप्रतिषेधेन ।५२ - ११० - न एषः युक्तः विप्रतिषेधः ।५३ - ११० - विप्रतिषेधे परम् इति उच्यते ।५४ - ११० - पूर्वम् च अन्तोदात्तत्वम् परम् पूर्वपदप्रकृतिस्वरत्वम् ।५५ - ११० - न परविप्रतिषेधम् ब्रूमः ।५६ - ११० - किम् तर्हि ।५७ - ११० - अन्तरङ्गविप्रतिषेधम् ।५८ - ११० - निमित्तिस्वरबलीयस्त्वात् वा ।५९ - ११० - अथ वा निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति वक्तव्यम् ।६० - ११० - किम् पुनः निमित्तम् कः वा निमित्ती ।६१ - ११० - बहुव्रीहिः निमित्तम् तत्पुरुषः निमित्ती ।६२ - ११० - तत् तर्हि वक्तव्यम् निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति ।६३ - ११० - न वक्तव्यम् ।६४ - ११० - एकशितिपात्स्वरवचनम् तु ज्ञापकम् निमित्तिस्वरबलीयस्त्वस्य ।६५ - ११० - यत् अयम् युक्तारोह्यादिषु एकशितिपच्छब्दम् पठति तत् ज्ञापयति आचार्यः निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति ।६६ - ११० - कः पुनः अर्हति युक्तारोह्यादिषु एकशितिपच्छब्दम् पठितुम् ।६७ - ११० - एवम् किल नाम पठ्यते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति ।६८ - ११० - तत् च न ।६९ - ११० - एवम् विग्रहः करिष्यते ।७० - ११० - एकः शितिः एषु ते इमे एकशितयः एकशितयः पादाः यस्य इति ।७१ - ११० - अथ अपि एवम् विग्रहः क्रियते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति एवम् अपि न अर्थः पाठेन ।७२ - ११० - इगन्ते द्विगौ इति एषः स्वरः अत्र बाधकः भविष्यति ।७३ - ११० - अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण इति ।७४ - ११० - तत्र कः दोषः ।७५ - ११० - तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन ।७६ - ११० - न एषः दोषः ।७७ - ११० - न इदम् बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणम् आरभ्यते ।७८ - ११० - किम् तर्हि ।७९ - ११० - यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तत् लक्षणम् अस्ति तस्य अन्तोदात्तत्वम् भविष्यति विप्रतिषेधेन ।८० - ११० - ननु च अस्य अपि अस्ति किम् विशेषणम् विशेष्येण बहुलम् इति. बहुलवचनात् न भविष्यति ।८१ - ११० - अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति ।८२ - ११० - अधिकषष्टिवर्षः इति ।८३ - ११० - तत्र कः दोषः ।८४ - ११० - तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन ।८५ - ११० - न एषः दोषः ।८६ - ११० - इगन्ते द्विगौ इति एषः स्वरः भविष्यति ।८७ - ११० - यः तर्हि न इगन्तः अधिकशतवर्षः इति ।८८ - ११० - इह च अपि अधिकषष्टिवर्षः इति समासन्तः प्राप्नोति ।८९ - ११० - डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् निस्त्रिंशाद्यर्थम् इति ।९० - ११० - न एषः दोषः ।९१ - ११० - अव्ययादेः इति एवम् तत् ।९२ - ११० - किम् पुनः कारणम् अव्ययादेः इति एवम् तत् ।९३ - ११० - इह मा भूत् गोत्रिंशत् गोचत्वारिंशत् इति ।९४ - ११० - बहुव्रीहिसञ्ज्ञा तर्हि प्राप्नोति. सङ्ख्यया अव्ययासन्नादूराधिकसङ्ह्याः सङ्ख्येये इति ।९५ - ११० - न सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः ।९६ - ११० - कथम् ।९७ - ११० - एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणाम् अस्य इति ।९८ - ११० - यथा तर्हि सः योगः प्रत्याख्यायते तथा पूर्वेण प्राप्नोति ।९९ - ११० - कथम् च सः योगः प्रत्याख्यायते ।१०० - ११० - अशिष्यः सङ्ख्योत्तरपदः सङ्ख्या इव अभिधायित्वात् इति ।१०१ - ११० - प्रत्याख्याते तस्मिन् योगे सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः ।१०२ - ११० - तत्र एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणि अस्य इति ।१०३ - ११० - सर्वथ वयम् अधिकषष्टिवर्षात् न मुच्यामहे ।१०४ - ११० - कथम् ।१०५ - ११० - यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणाम् अस्य इति ।१०६ - ११० - यत् तु तत् उक्तम् अधिकषष्टिवर्षः न सिध्यति इति सः सिद्धः भवति ।१०७ - ११० - कथम् ।१०८ - ११० - यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणि अस्य इति ।१०९ - ११० - अधिकशतवर्षः तु न सिध्यति ।११० - ११० - कर्तव्यः अत्र यत्नः१ - ८० - सुप् इति किमर्थम् ।२ - ८० - करोषि अटन् ।३ - ८० - न एतत् अस्ति ।४ - ८० - असामर्थ्यात् अत्र न भविष्यति ।५ - ८० - कथम् असामर्थ्यम् ।६ - ८० - समानाधिकरणम् असमर्थवत् भवति इति ।७ - ८० - इदम् तर्हि ।८ - ८० - पीड्ये पीड्यमान ।९ - ८० - इदम् च अपि उदाहरणम् करोषि अटन् ।१० - ८० - ननु च उक्तम् असामर्थ्यात् अत्र न भविष्यति ।११ - ८० - कथम् असामर्थ्यम् ।१२ - ८० - समानाधिकरणम् असमर्थवत् भवति इति ।१३ - ८० - न एषः दोषः ।१४ - ८० - अधात्वभिहितम् इति एवम् तत् ।१५ - ८० - आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यामन्त्रितकारकवचनम् ।१६ - ८० - आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यन्तम् आमन्त्रितकारकम् च परस्य अङ्गवत् भवति इति वक्तव्यम् ।१७ - ८० - षष्थ्यन्तम् तावत् ।१८ - ८० - मद्राणाम् राजन् मगधानाम् राजन् ।१९ - ८० - आमन्त्रितकारकम् ।२० - ८० - कुण्डेन अटन् ।२१ - ८० - न अस्ति अत्र विशेषः पराङ्गवद्भावे सति असति वा ।२२ - ८० - इदम् तर्हि ।२३ - ८० - परशुना वृश्चन् ।२४ - ८० - तन्निमित्तग्रहणम् वा ।२५ - ८० - तन्निमित्तग्रहणम् वा कर्तव्यम्. आमन्त्रितनिमित्तम् परस्य अङ्गवत् भवति इति वक्तव्यम् ।२६ - ८० - तत् च अवश्यम् अन्यतरत् वक्तव्यम् ।२७ - ८० - अवचने हि सुबन्तमात्रप्रसङ्गः ।२८ - ८० - अनुच्यमाने हि एतस्मिन् सुबन्त्रमात्रस्य पराङ्गवद्भावः प्राप्नोति ।२९ - ८० - अस्य अपि प्रसज्येत ।३० - ८० - क्ष्त्रेण अग्ने स्वायुः संरभस्य मित्रेण अग्ने मित्रधेये यतस्व ।३१ - ८० - किम् पुनः अत्र ज्यायः ।३२ - ८० - तन्निमित्तग्रहणम् एव ज्यायः ।३३ - ८० - इदम् अपि सिद्धम् भवति ।३४ - ८० - गोषु स्वामिन् अश्वेषु स्वामिन् ।३५ - ८० - एतत् हि न एव षष्थ्यन्तम् न अपि आमन्त्रितकारकम् ।३६ - ८० - सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् अननन्तरत्वात् ।३७ - ८० - सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् कर्तव्यम् ।३८ - ८० - तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन परशुना वृश्चन् ।३९ - ८० - किम् पुनः कारणम् न सिध्यति ।४० - ८० - अननन्तरत्वात् ।४१ - ८० - ननु च परस्य पराङ्गवद्भावे कृते पूर्वस्य अपि भविष्यति ।४२ - ८० - स्वरे अवधारणात् च ।४३ - ८० - स्वरे अवधारणात् च न सिध्यति ।४४ - ८० - स्वरे अवधारणम् क्रियते न आनन्तर्ये ।४५ - ८० - परम् अपि छन्दसि ।४६ - ८० - परम् अपि छन्दसि पूर्वस्य अङ्गवत् भवति इति वक्तव्यम् ।४७ - ८० - आ ते पितः मरुताम् सुम्नम् एतु ।४८ - ८० - प्रति त्वा दुहितः दिवः ।४९ - ८० - वृणीष्व दुहितः दिवः ।५० - ८० - अव्ययप्रतिषेधः च ।५१ - ८० - अव्ययानाम् च प्रतिषेधः वक्तव्यः ।५२ - ८० - उच्चैः अधीयान नीचैः अधीयान ।५३ - ८० - अनव्ययीभावस्य ।५४ - ८० - अनव्ययीभावस्य इति वक्तव्यम् ।५५ - ८० - इह मा भूत् ।५६ - ८० - उपाग्नि अधीयान प्रत्यग्नि अधीयान ।५७ - ८० - अथ किमर्थम् स्वरे अवधारणम् क्रियते ।५८ - ८० - स्वरे अवधारणम् सुबलोपार्थम् ।५९ - ८० - स्वरे अवधारणम् क्रियते सुब्लः मा भूत् इति ।६० - ८० - परशुना वृश्चन् ।६१ - ८० - न वा सुबन्तैकान्तत्वात् ।६२ - ८० - न वा कर्तव्यम् ।६३ - ८० - किम् कारणम् ।६४ - ८० - सुबन्तैकान्तत्वात् ।६५ - ८० - सुबन्तैकान्तः पराङ्गवद्भावः भवति ।६६ - ८० - प्रातिपदिकैकान्तः तु सुब्लोपे ।६७ - ८० - प्रातिपदिकैकान्तः तु भवति सुब्लोपे कृते ।६८ - ८० - प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात् ।६९ - ८० - तस्मात् स्वरे अवधारणम् न कर्तव्यम् सुबलोपार्थम् ।७० - ८० - प्रातिपदिकस्थायाः सुपः लुक् उच्यते ।७१ - ८० - तस्मात् स्वरग्रहणेन न अर्थः ।७२ - ८० - इदम् तर्हि प्रयोजनम् षत्वणत्वे मा भूताम् इति ।७३ - ८० - कूपे सिञ्चन् चर्म नमन् इति ।७४ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।७५ - ८० - इह तावत् कूपे सिञ्चन् इति स्वाश्रयम् पदादित्वम् भविष्यति ।७६ - ८० - चर्म नमन् इति पूर्वपदात् सञ्ज्ञायाम् अगः इति एतस्मात् नियमात् न भविष्यति ।७७ - ८० - ननु च समासे एतत् भवति पूर्वपदम् उत्तरपदम् इति ।७८ - ८० - न इति आह ।७९ - ८० - अविशेषेण एतत् भवति ।८० - ८० - पूर्वम् पदम् पूर्वपदम् उत्तरम् पदम् उत्तरपदम् इति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP