संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय १|पाद ३| खण्ड १६ पाद ३ खण्ड १५ खण्ड १६ खण्ड १७ पाद ३ - खण्ड १६ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड १६ Translation - भाषांतर १ - १३ - किम् इह उदाहरणम् ।२ - १३ - इकः यण् अचि ।३ - १३ - दधि अत्र मधु अत्र ।४ - १३ - न एतत् अस्ति ।५ - १३ - स्थाने अन्तरतमेन अपि एतत् सिद्धम् ।६ - १३ - कुतः आन्तर्यम् ।७ - १३ - तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः भविष्यति इति ।८ - १३ - इदम् तर्हि ।९ - १३ - तस्थस्थमिपाम् ताम्तम्तामः इति ।१० - १३ - ननु च एतत् अपि स्थाने अन्तरतमेन एव सिद्धम् ।११ - १३ - कुतः आन्तर्यम् ।१२ - १३ - एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः भविष्यति इति ।१३ - १३ - इदम् तर्हि तूदीशलात्रुअवर्मतीकूचवारात् ढक्छण्ढञ्यकः इति ।१ - १६ - किमर्थम् पुनः इदम् उच्यते ।२ - १६ - सञ्ज्ञासमासनिर्देशात् सर्वप्रसङ्गः अनुदेशस्य यथासङ्ख्यवचनम् नियमार्थम् । सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते ।३ - १६ - सञ्ज्ञया तावत् ।४ - १६ - परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति ।५ - १६ - समासैः ।६ - १६ - तूदीशलातुरवर्मतीकूचवारात् ढक्छण्ढञ्यकः इति ।७ - १६ - सञ्ज्ञासमासनिर्देशात् सर्वप्रसङ्गः अनुदेशस्य यथासङ्ख्यवचनम् नियमार्थम् ।८ - १६ - सर्वस्य उद्देशस्य सर्वः अनुदेशः प्राप्नोति ।९ - १६ - इष्यते च समसङ्ख्यम् यथा स्यात् इति ।१० - १६ - तत् च अन्तरेण यत्नम् न सिध्यति इति तत्र यथासङ्ख्यवचनम् नियमार्थम् ।११ - १६ - एवमर्थम् इदम् उच्यते ।१२ - १६ - किम् पुनः कारणम् सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते ।१३ - १६ - सञ्ज्ञासमासनिर्देशः ल्पृथक् विभक्तिसञ्ज्ञ्यनुच्चारणार्थः । सञ्ज्ञया समासैः च निर्देशाः क्रियन्तेपृथक् विभक्तीः सञ्ज्ञिनः च मा उच्चिचीरम् इति ।१४ - १६ - प्रकरणे च सर्वसम्प्रत्ययार्थः ।१५ - १६ - प्रकरणे च सर्वेषाम् सम्प्रत्ययः यथा स्यात् ।१६ - १६ - विदः लटः वा इति ।१ - १३९ - किम् पुनः शब्दतः साम्ये सङ्ख्यातानुदेशः भवति आहोस्वित् अर्थतः ।२ - १३९ - कः च अत्र विशेषः ।३ - १३९ - सङ्ख्यासाम्यम् शब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति अनिर्देशः ।४ - १३९ - अगमकः निर्देशः अनिर्देशः ।५ - १३९ - परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति णलादयः बहवः परस्मैपदानाम् इति एकः शब्दः ।६ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।७ - १३९ - डारौरसः प्रथमस्य ।८ - १३९ - डारौरसः बहवः प्रथमस्य इति एकः शब्दः ।९ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।१० - १३९ - एचः अयवायावः ।११ - १३९ - अयवायावः बहवः एचः इति एकः शब्दः ।१२ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।१३ - १३९ - अस्तु तर्हि अर्थतः ।१४ - १३९ - अर्थतः चेत् लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः ।१५ - १३९ - लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः भवति ।१६ - १३९ - स्यतासीलृलुटोः ।१७ - १३९ - स्यतासी द्वौ लृलुटोः इति अस्य त्रयः अर्थाः ।१८ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।१९ - १३९ - नन्दिग्रहिपचादिभ्यः ल्युणिन्यचः ।२० - १३९ - नन्द्यादयः बहवः ल्युणिन्यचः त्रयः ।२१ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।२२ - १३९ - अरीहणादयः बहवः वुञादयः सप्तदश ।२३ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।२४ - १३९ - सिन्धुतक्षशिलादिभ्यः अणञौ ।२५ - १३९ - सिन्धुतक्षशिलादयः बहवः अणञौ द्वौ ।२६ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।२७ - १३९ - आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु ।२८ - १३९ - आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषः भवति ।२९ - १३९ - आत्मनेपदविधिः च न सिध्यति ।३० - १३९ - अनुदात्तङितः आत्मनेपदम् ।३१ - १३९ - अनुदात्तङितौ द्वौ आत्मनेपदम् इति अस्य द्वौ अर्थौ ।३२ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।३३ - १३९ - निष्ठा ।३४ - १३९ - रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति ।३५ - १३९ - रेफदकारौ द्वौ निष्ठा इति अस्य द्वौ अर्थौ ।३६ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।३७ - १३९ - सार्वधातुकद्विग्रहणेषु च दोषः भवति ।३८ - १३९ - श्नसोः अल्लोपः श्नमस्ती द्वौ सार्वधातुकम् इति अस्य द्वौ अर्थौ ।३९ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।४० - १३९ - एङः पूर्वत्वे प्रतिषेधः ।४१ - १३९ - एङः पूर्वत्वे प्रतिषेधः वक्तव्यः ।४२ - १३९ - एङः पदान्तात् अति ङसिङसोः च ।४३ - १३९ - ङसिङसौ द्वौ एङ् इति अस्य द्वौ अर्थौ ।४४ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।४५ - १३९ - अस्तु तर्हि शब्दतः ।४६ - १३९ - ननु च उक्तम् सङ्ख्यासाम्यम् शब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति अनिर्देशः इति ।४७ - १३९ - न एषः दोषाः ।४८ - १३९ - स्थाने अन्तरतमः इति अनेन व्यवस्था भविष्यति ।४९ - १३९ - कुतः आन्तर्यम् ।५० - १३९ - एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः ।५१ - १३९ - संवृतावर्णस्य संवृतावर्णः विवृतावर्णस्य विवृतावर्णः ।५२ - १३९ - अतिप्रसङ्गः गुणवृद्धिप्रतिषेधे क्ङिति ।५३ - १३९ - अतिप्रसङ्गः भवति गुणवृद्धिप्रतिषेधे क्ङिति ।५४ - १३९ - गुणवृद्धी द्वे क्ङितौ द्वौ ।५५ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।५६ - १३९ - न एषः दोषः ।५७ - १३९ - गकारः अपि अत्र निर्दिश्यते ।५८ - १३९ - तत् गकारग्रहणम् अपि कर्तव्यम् ।५९ - १३९ - न कर्तव्यम् ।६० - १३९ - क्रियते न्यासे एव ।६१ - १३९ - ककारे गकारः चर्त्वभूतः निर्दिश्यते ।६२ - १३९ - गिति किति ङिति इति ।६३ - १३९ - उदि कूले रुजिवहोः ।६४ - १३९ - उदिकूले द्वे रुजिवहौ द्वौ ।६५ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।६६ - १३९ - न एषः दोषः ।६७ - १३९ - न उदिः उपपदम् ।६८ - १३९ - किम् तर्हि ।६९ - १३९ - विशेषणम् रुजिवहोः ।७० - १३९ - उत्पूर्वाभ्याम् रुजिवहिभ्याम् कूले उपपदे इति ।७१ - १३९ - तच्छीलादिषु धातुत्रिग्रहणेषु ।७२ - १३९ - तच्छीलादिषु धातुत्रिग्रहणेषु दोषः भवति ।७३ - १३९ - विदिभिदिच्छिदेः कुरच् ।७४ - १३९ - विदिभिदिच्छिदयः त्रयः तच्छीलादयः त्रयः ।७५ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।७६ - १३९ - घञादिषु द्विग्रहणेषु ।७७ - १३९ - घञादिषु द्विग्रहणेषु दोषः भवति ।७८ - १३९ - निरभ्योः पूल्वोः ।७९ - १३९ - निरभी द्वौ पूल्वौ द्वौ ।८० - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।८१ - १३९ - न एषः दोषः ।८२ - १३९ - इष्यते च अत्र सङ्ख्यातानुदेशः ॒ निष्पावः , अभिलावः इति ।८३ - १३९ - एवम् तर्हि अकर्तरि च कारके भावे च इति द्वौ पूल्वौ च द्वौ ।८४ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।८५ - १३९ - अवे तृ̄स्त्रोः करणाधिकरणयोः ।८६ - १३९ - तृ̄स्त्रौ द्वौ करणाधिकरणे द्वे ।८७ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।८८ - १३९ - कर्तृकर्मणोः च भूकृञोः ।८९ - १३९ - कर्तृकर्मणी द्वे भूकृञौ द्वौ ।९० - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।९१ - १३९ - अनवक्ल्̥प्त्यमर्षयोः अकिंवृत्ते अपि ।९२ - १३९ - अनवक्ल्̥प्त्यमर्षौ द्वौ किंवृत्ताकिंवृत्ते द्वे ।९३ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।९४ - १३९ - कृभ्वोः क्त्वाणमुलौ ।९५ - १३९ - कृभ्वौ द्वौ क्त्वाणमुलौ द्वौ ।९६ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।९७ - १३९ - अधीयानविदुषोः छन्दोब्राह्मणानि ।९८ - १३९ - छन्दोब्राह्मणानि इति द्वे अधीते वेद इति च द्वौ ।९९ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।१०० - १३९ - रोपधेतोः पथिदूतयोः ।१०१ - १३९ - रोपधेतोः प्राचाम् तत् गच्छति पथिदूतयोः ।१०२ - १३९ - रोपधेतौ द्वौ पथिदूतौ द्वौ ।१०३ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।१०४ - १३९ - तत्र भवतः तस्य व्याख्यानः क्रतुयज्ञेभ्यः ।१०५ - १३९ - तत्र भवतस्तस्यव्याख्यानौ द्वौ क्रतुयज्ञौ द्वौ ।१०६ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।१०७ - १३९ - सङ्घादिषु अञ्प्रभृतयः षङ्घादिषु अञ्प्रभृतयः सङ्ख्यातानुदेशेन न सिध्यन्ति ।१०८ - १३९ - न एषः दोषः ।१०९ - १३९ - घोषग्रहणम् अत्र कर्तव्यम् ।११० - १३९ - वेशोयशाअदेः भगात् यल्खौ ।१११ - १३९ - वेशोयशाअदी द्वौ यल्खौ द्वौ ।११२ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।११३ - १३९ - ङसिङसोः ख्यत्यात् परस्य ।११४ - १३९ - ङसिङसौ द्वौ ख्यत्यौ द्वौ ।११५ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।११६ - १३९ - न वा समानयोगवचनात् ।११७ - १३९ - न वा एषः दोषः ।११८ - १३९ - किम् कारणम् ।११९ - १३९ - समानयोगवचनात् ।१२० - १३९ - समानयोगे सङ्ख्यातानुदेशम् वक्ष्यामि ।१२१ - १३९ - तस्य दोषः विदः लटः वा ।१२२ - १३९ - तस्य एतस्य लक्षणस्य दोषः विदः लटः वा इति सङ्ख्यातानुदेशः न प्राप्नोति ।१२३ - १३९ - ध्माधेत्टोः नाडीमुष्ट्योः च ।१२४ - १३९ - ध्माधेत्टोः नाडीमुष्ट्योः च सङ्ख्यातानुदेशः न प्राप्नोति ।१२५ - १३९ - खलगोरथात् इनित्रकट्यचः च ।१२६ - १३९ - सङ्ख्यातानुदेशः न प्राप्नोति ।१२७ - १३९ - सिन्ध्वपकराभ्याम् कन् अणञौ च ।१२८ - १३९ - सङ्ख्यातानुदेशः न प्राप्नोति ।१२९ - १३९ - युष्मदस्मदोः च आदेशाः ।१३० - १३९ - युष्मदस्मदोः च आदेशाः सङ्ख्यातानुदेशेन न सिध्यन्ति ।१३१ - १३९ - तस्मात् यस्मिन् पक्षे अल्पीयांसः दोषाः ताम् आस्थाय प्रतिविधेयम् दोषेषु ।१३२ - १३९ - अथ वा एवम् वक्ष्यामि ।१३३ - १३९ - यथासङ्ख्यम् अनुदेशः समानाम् स्वरितेन ।१३४ - १३९ - ततः अधिकारः ।१३५ - १३९ - अधिकारः च भवति स्वरितेन इति ।१३६ - १३९ - एवम् अपि स्वरितम् दृष्ट्वा सन्देहः स्यात् ।१३७ - १३९ - न ज्ञायते किम् अयम् समसङ्ख्यार्थः आहोस्वित् अधिकारार्थः इति ।१३८ - १३९ - सन्देहमात्रम् एतत् भवति ।१३९ - १३९ - सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति समसङ्ख्यार्थः इति व्याख्यास्यामः ।१ - २९ - किमर्थम् इदम् उच्यते ।२ - २९ - अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः ।३ - २९ - अधिकारः क्रियते प्रतियोगम् तस्य अनिर्देशार्थः इति ।४ - २९ - किम् इदम् प्रतियोगम् इति ।५ - २९ - योगम् योगम् प्रति प्रतियोगम् ।६ - २९ - योगे योगे तस्य ग्रहणम् मा कार्षम् इति ।७ - २९ - किम् गतम् एतत् इयता सूत्रेण ।८ - २९ - गतम् इति आह ।९ - २९ - कुतः ।१० - २९ - लोकतः ।११ - २९ - तत् यथा लोके अधिकृतः असौ ग्रामे अधिकृतः असौ नगरे इति उच्यते यः यत्र व्यापारम् गच्छति ।१२ - २९ - शब्देन च अपि अधिकृतेन कः अन्यः व्यापारः शक्यः अवगन्तुम् अन्यत् अतः योगे योगे उपस्थानात् ।१३ - २९ - न वा निर्दिश्यमानाधिकृतत्वात् यथा लोके ।१४ - २९ - न वा एतत् प्रयोजनम् ।१५ - २९ - किम् कारणम् ।१६ - २९ - निर्दिश्यमानाधिकृतत्वात् यथा लोके ।१७ - २९ - निर्दिश्यमानम् अधिकृतम् गम्यते ।१८ - २९ - तत् यथा ।१९ - २९ - देवदत्ताय गौः दीयताम् यज्ञदत्ताय विष्णुमित्राय इति ।२० - २९ - गौः इति गम्यते ।२१ - २९ - एवम् इह अपि पदरुजविशस्पृशः घञ् सृ स्थिरे भावे ।२२ - २९ - घञ् इति गम्यते ।२३ - २९ - अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा ।२४ - २९ - अन्यनिर्देशः तु लोके निवर्तकः भवति ।२५ - २९ - तत् यथा ।२६ - २९ - देवदत्ताय गौः दीयताम् यज्ञदत्ताय कम्बलः विष्णुमित्राय च इति ।२७ - २९ - कम्बलः गोनिवर्तकः भवति ।२८ - २९ - एवम् इह अपि अभिविधौ भावे इनुण् घञः निवर्तकः स्यात् ।२९ - २९ - तस्मात् परिभाषा कर्तव्या ।१ - ३६ - अधिकारपरिमाणाज्ञानम् तु ।२ - ३६ - अधिकारपरिमाणाज्ञानम् तु भवति ।३ - ३६ - न ज्ञायते कियन्तम् अवधिम् अधिकारः अनुवर्तते इति ।४ - ३६ - अधिकारपरिमाणज्ञानार्थम् तु ।५ - ३६ - अधिकारपरिमाणज्ञानार्थम् एव तर्हि अयम् योगः वक्तव्यः ।६ - ३६ - अधिकारपरिमाणम् ज्ञास्यामि इति ।७ - ३६ - कथम् पुनः स्वरितेन अधिकारः इति अनेन अधिकारपरिमाणम् शक्यम् विज्ञातुम् ।८ - ३६ - एवम् वक्ष्यामि स्वरिते न अधिकारः इति ।९ - ३६ - स्वरितम् दृष्ट्वा अधिकारः न भवति इति ।१० - ३६ - केन इदानीम् अधिकारः भविष्यति ।११ - ३६ - लौकिकः अधिकारः ।१२ - ३६ - न अधिकारः इति चेत् उक्तम् ।१३ - ३६ - किम् उक्तम् ।१४ - ३६ - अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा इति ।१५ - ३६ - अधिकारार्थम् एव तर्हि अयम् योगः वक्तव्यः ।१६ - ३६ - ननु च उक्तम् अधिकारपरिमाणाज्ञानम् तु इति ।१७ - ३६ - यावतिथः अल् अनुबन्धः तावतः योगान् इति वचनात् सिद्धम् ।१८ - ३६ - यावतिथः अल् अनुबध्यते तावतः योगान् अधिकारः अनुवर्तते इति वक्तव्यम् ।१९ - ३६ - अथ इदानीम् यत्र अल्पीयांसः अलः भूयसः च योगान् अधिकारः अनुवर्तते कथम् तत्र कर्तव्यम् ।२० - ३६ - भूयसि प्राग्वचनम् ।२१ - ३६ - भूयसि प्राग्वचनम् कर्तव्यम् ।२२ - ३६ - प्राक् अमुतः इति वक्तव्यम् ।२३ - ३६ - तत् तर्हि वक्तव्यम् ।२४ - ३६ - न वक्तव्यम् ।२५ - ३६ - सन्देहमात्रम् एतत् भवति ।२६ - ३६ - सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।२७ - ३६ - प्राक् अमुतः इति व्याख्यास्यामः ।२८ - ३६ - यदि एवम् न अर्थः अनेन ।२९ - ३६ - केन इदानीम् अधिकारः भविष्यति ।३० - ३६ - लौकिकः अधिकारः ।३१ - ३६ - ननु च उक्तम् न अधिकारः इति चेत् उक्तम् ।३२ - ३६ - किम् उक्तम् ।३३ - ३६ - अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा ।३४ - ३६ - सन्देहमात्रम् एतत् भवति ।३५ - ३६ - सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।३६ - ३६ - इनुण् घञ् इति सन्देहे घञ् इति व्याख्यास्यामः ।१ - ३३ - न तर्हि इदानीम् अयम् योगः वक्तव्यः ।२ - ३३ - वक्तव्यः च ।३ - ३३ - किम् प्रयोजनम् ।४ - ३३ - स्वरितेन अधिकारगतिः यथा विज्ञायेत , अधिकम् कार्यम् , अधिकः कारः ।५ - ३३ - अधिकारगतिः ॒ गोस्त्रियोः उपसर्जनम् इति अत्र गोटाङ्ग्रहणम् चोदितम् ।६ - ३३ - तत् न कर्तव्यम् भवति ।७ - ३३ - स्त्रीग्रहणम् स्वरयिष्यते ।८ - ३३ - स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति एवम् प्रकृत्य ये प्रत्ययाः विहिताः तेषाम् ग्रहणम् विज्ञास्यते ।९ - ३३ - तत्र स्वरितेन अधिकारगतिः भवति इति न दोषः भवति ।१० - ३३ - अधिकम् कार्यम् ॒ अपादानम् आचार्यः किम् न्याय्यम् मन्यते ।११ - ३३ - यत्र प्राप्य निवृत्तिः ।१२ - ३३ - तेन इह एव स्यात् ॒ ग्रामात् आगच्छति ।१३ - ३३ - नगरात् आगच्छति ।१४ - ३३ - साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् ।१५ - ३३ - स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।१६ - ३३ - तथा अधिकरणम् आचार्यः किम् न्याय्यम् मन्यते ।१७ - ३३ - यत्र कृत्स्नः आधारात्मा व्याप्तः भवति ।१८ - ३३ - तेन इह एव स्यात् ॒ तिलेषु तैलम् ।१९ - ३३ - दध्नि सर्पिः इति ।२० - ३३ - गङ्गायाम् गावः ।२१ - ३३ - कूपे गर्गकुलम् इति अत्र न स्यात् ।२२ - ३३ - स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।२३ - ३३ - अधिकम् कार्यम् ।२४ - ३३ - अधिकः कारः ॒ पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति ।२५ - ३३ - गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् नुमचिरतृज्वद्भावेभ्यः नुट् इति ।२६ - ३३ - नुम्नुटौ स्वरयिष्येते ।२७ - ३३ - तत्र स्वरितेन अधिकः कारः भवति इति नुम्नुटौ भविष्यतः ।२८ - ३३ - कथम् पुनः अधिकः कारः इति अनेन पूर्वविप्रतिषेधाः शक्य न पठितुम् ।२९ - ३३ - लोकतः ।३० - ३३ - तत् यथा लोके अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् दुर्बलः सन् बलवद्भिः सह भारम् वहति ।३१ - ३३ - एवम् इह अपि अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् पूर्वः सन् परम् बाधते ।३२ - ३३ - अधिकारगतिः स्त्र्यर्था विशेषाय अधिकम् कार्यम् ।३३ - ३३ - अथ यः अन्यः अधिकः कारः पूर्वविप्रतिषेधार्थः सः ।१ - २४ - विकरणेभ्यः प्रतिषेधः वक्तव्यः ।२ - २४ - चिनुतः सुनुतः लुनीतः पुनीतः ।३ - २४ - ङितः इति आत्मनेपदम् प्राप्नोति ।४ - २४ - न एषः दोषः ।५ - २४ - न एवम् विज्ञायते ङकारः इत् अस्य सः अयम् ङित् ङितः इति ।६ - २४ - कथम् तर्हि ।७ - २४ - ङकारः एव इत् ङित् ङितः ।८ - २४ - अथ वा उपदेशे इति वर्तते ।९ - २४ - अथ वा उक्तम् एतत् सिद्धम् तु पूर्वस्य कार्यातिदेशात् इति ।१० - २४ - सर्वथा चङङ्भ्याम् प्राप्नोति ।११ - २४ - एवम् तर्हि धातोः इति वर्तते ।१२ - २४ - क्व प्रकृतम् ।१३ - २४ - भूवादयः धातवः इति ।१४ - २४ - तत् वै प्रथमानिर्दिष्टम् पञ्चमीनिर्दिष्टेन च इह अर्थः ।१५ - २४ - अर्थात् विभक्तिविपरिणामः भविष्यति ।१६ - २४ - तत् यथा ।१७ - २४ - उच्चानि देवदत्तस्य गृहाणि ।१८ - २४ - आमन्त्रयस्व एनम् ।१९ - २४ - देवदत्तम् इति गम्यते ।२० - २४ - देवदत्तस्य गावः अश्वाः हिरण्यम् इति ।२१ - २४ - आढ्यः वैधवेयः ।२२ - २४ - देवदत्तः इति गम्यते ।२३ - २४ - पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।२४ - २४ - एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् पञ्चमीनिर्दिष्टम् भविष्यति ।१ - ५३ - किमर्थम् पुनः इदम् उच्यते ।२ - ५३ - आत्मनेपदवचनम् नियमार्थम् ।३ - ५३ - नियमार्थः अयम् आरम्भः ।४ - ५३ - किम् उच्यते नियमार्थः अयम् इति न पुनः विध्यर्थः अपि स्यात् ।५ - ५३ - लविधानात् विहितम् ।६ - ५३ - लविधानात् हि आत्मनेपदम् परस्मैपदम् च विहितम् ।७ - ५३ - अस्ति प्रयोजनम् एतत् ।८ - ५३ - किम् तर्हि इति ।९ - ५३ - विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति ।१० - ५३ - इदम् इह सम्प्रधार्यम् ।११ - ५३ - विकरणाः क्रियन्ताम् नियमः इति ।१२ - ५३ - किम् अत्र कर्तव्यम् ।१३ - ५३ - परत्वात् विकरणाः ।१४ - ५३ - नित्याः खलु अपि विकरणाः ।१५ - ५३ - कृते अपि नियमे प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति ।१६ - ५३ - नित्यत्वात् परत्वात् च विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् नियमः न प्राप्नोति ।१७ - ५३ - न एषः दोषः ।१८ - ५३ - अनवकाशः नियमः ।१९ - ५३ - सावकाशः ।२० - ५३ - कः अवकाशः ।२१ - ५३ - ये एते लुग्विकरणाः श्लुविकरणाः लिङ्लिटौ च ।२२ - ५३ - यदि पुनः इयम् परिभाषा विज्ञायेत ।२३ - ५३ - किम् कृतम् भवति ।२४ - ५३ - कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।२५ - ५३ - लस्य तिबादयः भवन्ति इति उपस्थितम् इदम् भवति अनुदात्तङितः आत्मनेपदम् शेषात् कर्तरि परस्मैपदम् इति ।२६ - ५३ - एवम् अपि इतरेतराश्रयम् भवति ।२७ - ५३ - का इतरेतराश्रयता ।२८ - ५३ - अभिनिर्वृत्तानाम् लस्य स्थाने तिबादीनाम् आत्मनेपदपरस्मैपदसञ्ज्ञया भवितव्यम् सञ्ज्ञया च तिबादयः भाव्यन्ते ।२९ - ५३ - तत् इतरेतराश्रयम् भवति ।३० - ५३ - इतरेतराश्रयाणि कार्याणि च न प्रकल्पन्ते ।३१ - ५३ - परस्मैपदेषु तावत् न इतरेतराश्रयम् भवति ।३२ - ५३ - परस्मैपदानुक्रमणम् न करिष्यते ।३३ - ५३ - अवश्यम् कर्तव्यम् अनुपराभ्याम् कृञः इति एवमर्थम् ।३४ - ५३ - ननु च एतत् अपि आत्मनेपदानुक्रमणे एव करिष्ये ।३५ - ५३ - स्वरितञितः कर्त्रभिप्रये क्रियाफले आत्मनेपदम् भवति कर्तरि ।३६ - ५३ - अनुपराभ्याम् कृञः न इति ।३७ - ५३ - आत्मनेपदेषु च अपि न इतरेतराश्रयम् भवति ।३८ - ५३ - कथम् ।३९ - ५३ - भाविनी सञ्ज्ञा विज्ञास्यते सूत्रशाटकवत् ।४० - ५३ - तत् यथा ॒ कः चित् कम् चित् तन्तुवायम् आह ॒ अस्य सूत्रस्य शाटकम् वय इति ।४१ - ५३ - सः पश्यति ।४२ - ५३ - यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।४३ - ५३ - शाटकः वातव्यः इति विप्रतिषिद्धम्. भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।४४ - ५३ - सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।४५ - ५३ - एवम् इह अपि सः लस्य स्थाने कर्तव्यः ल्यस्य अभिनिर्वृत्तस्य आत्मनेपदम् इति एषा सञ्ज्ञा भविष्यति ।४६ - ५३ - अथ वा पुनः अस्तु नियमः ।४७ - ५३ - ननु च उत्कम् विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति ।४८ - ५३ - न एषः दोषः ।४९ - ५३ - आचार्यप्रवृत्तिः ज्ञापयति विकरणेभ्यः नियमः बलीयान् इति यत् अयम् विकरणविधौ आत्मनेपदपरस्मैपदानि आश्रयति ।५० - ५३ - पुषादिद्युताद्ल्̥र्दितः परस्मैपदेषु आत्मनेपदेषु अन्यतरस्याम् इति ।५१ - ५३ - न एतत् अस्ति ज्ञापकम् ।५२ - ५३ - अभिनिर्वृत्तानि हि लस्य स्थाने आत्मनेपदानि परस्मैपदानि च ।५३ - ५३ - यत् तर्हि अनुपसर्गात् वा इति विभाषाम् शास्ति ।१ - १२८ - किम् पुनः अयम् प्रत्ययनियमः ॒ अनुदात्तङितः एव आत्मनेपदम् भवति , भावकर्मणोः एव आत्मनेपदम् भवति इति ।२ - १२८ - आहोस्वित् प्रकृत्यर्थनियमः ॒ अनुदात्तङितः आत्मनेपदम् एव , भावकर्मणोः आत्मनेपदम् एव ।३ - १२८ - कः च अत्र विशेषः ।४ - १२८ - तत्र प्रत्ययनियमे शेषवचनम् परस्मैपदस्य अनिवृत्तत्वात् ।५ - १२८ - तत्र प्रत्ययनियमे शेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् ।६ - १२८ - शेषात् कर्तरि परस्मैपदम् इति ।७ - १२८ - किम् कारणम् ।८ - १२८ - परस्मैपदस्य अनिवृत्तत्वात् ।९ - १२८ - प्रत्ययाः नियताः प्रकृत्यर्थौ अनियतौ ।१० - १२८ - तत्र परस्मैपदम् प्राप्नोति ।११ - १२८ - तत्र शेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् ।१२ - १२८ - शेषात् एव परस्मैपदम् भवति न अन्यतः इति ।१३ - १२८ - क्यषः आत्मनेपदवचनम् तस्य अन्यत्र नियमात् ।१४ - १२८ - क्यषः आत्मनेपदम् वक्तव्यम् ।१५ - १२८ - लोहितायति लोहितायते ।१६ - १२८ - किम् पुनः कारणम् न सिध्यति ।१७ - १२८ - तस्य अन्यत्र नियमात् ।१८ - १२८ - तत् हि अन्यत्र नियम्यते ।१९ - १२८ - उच्यते च न च प्राप्नोति ।२० - १२८ - तत् वचनात् भविष्यति ।२१ - १२८ - अस्तु तर्हि प्रकृत्यर्थनियमः ।२२ - १२८ - प्रकृत्यर्थनियमे अन्याभावः ।२३ - १२८ - प्रकृत्यर्थनियमे अन्येषाम् प्रत्ययानाम् अभावः ।२४ - १२८ - अनुदात्तङितः तृजादयः न प्राप्नुवन्ति ।२५ - १२८ - न एषः दोषः ।२६ - १२८ - अनवकाशाः तृजादयः उच्यन्ते च ।२७ - १२८ - ते वचनात् भविष्यन्ति ।२८ - १२८ - सावकाशाः तृजादयः ।२९ - १२८ - कः अवकाशः ।३० - १२८ - परस्मैपदिनः अवकाशः ।३१ - १२८ - तत्र अपि नियमात् न प्राप्नुवन्ति ।३२ - १२८ - तव्यादयः तर्हि भावकर्मणोः नियमात् न प्राप्नुवन्ति ।३३ - १२८ - तव्यादयः अपि अनवकाशाः ।३४ - १२८ - ते वचनात् भविष्यन्ति ।३५ - १२८ - चिण् तर्हि भावकर्मणोः नियमात् न प्राप्नोति ।३६ - १२८ - चिण् अपि वचनात् भविष्यति ।३७ - १२८ - घञ् तर्हि भावकर्मणोः नियमात् न प्राप्नोति ।३८ - १२८ - तत्र अपि प्रकृतम् कर्मग्रहणम् ।३९ - १२८ - क्व प्रकृतम् ।४० - १२८ - अण् कर्मणि च इति ।४१ - १२८ - तत् वै तत्र उपपदविशेषणम् अभिधेयविशेषणेन च इह अर्थः ।४२ - १२८ - न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति ।४३ - १२८ - न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।४४ - १२८ - न हि गोधा सर्पन्ती सर्पणात् अहिः भवति ।४५ - १२८ - यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा ।४६ - १२८ - शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते ।४७ - १२८ - यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।४८ - १२८ - न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति ।४९ - १२८ - भवेत् द्रव्येषु एतत् एवम् स्यात् ।५० - १२८ - शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति ।५१ - १२८ - शेषवचनम् च ।५२ - १२८ - शेषग्रहणम् च कर्तव्यम् ।५३ - १२८ - शेषात् कर्तरि परस्मैपदम् इति ।५४ - १२८ - किम् प्रयोजनम् ।५५ - १२८ - शेषनियमार्थम् ।५६ - १२८ - प्रकृतर्थौ नियतौ ।५७ - १२८ - प्रत्ययाः अनियताः ।५८ - १२८ - ते शेषे अपि प्राप्नुवन्ति ।५९ - १२८ - तत्र शेषग्रहणम् कर्तव्यम् ।६० - १२८ - शेषात् कर्तरि परस्मैपदम् एव न अन्यत् इति ।६१ - १२८ - कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् ।६२ - १२८ - कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् द्वितीयम् शेषग्रहणम् कर्तव्यम् ।६३ - १२८ - शेषात् शेषे इति वक्तव्यम् ।६४ - १२८ - इह मा भूत् ।६५ - १२८ - भिद्यते कुशूलः स्वयम् एव इति ।६६ - १२८ - कतरस्मिन् पक्षे अयम् दोषः ।६७ - १२८ - प्रकृत्यर्थनियमे ।६८ - १२८ - प्रकृत्यर्थनियमे तावत् न दोषः ।६९ - १२८ - प्रकृत्यर्थौ नियतौ ।७० - १२८ - प्रत्ययाः अनियताः ।७१ - १२८ - तत्र न अर्थः कर्तृग्रहणेन कर्तृग्रहणात् च दोषः ।७२ - १२८ - प्रत्ययनियमे तर्हि अयम् दोषः ।७३ - १२८ - प्रत्ययाः नियताः ।७४ - १२८ - प्रकृत्यर्थौ अनियतौ ।७५ - १२८ - तत्र कर्तृग्रहणम् कर्तव्यम् भावकर्मणोः निवृत्त्यर्थम् ।७६ - १२८ - कर्तृग्रहणात् च एषः दोषः ।७७ - १२८ - प्रकृत्यर्थनियमे शेषग्रहणम् शक्यम् अकर्तुम् ।७८ - १२८ - कथम् ।७९ - १२८ - प्रकृतयर्थौ नियतौ ।८० - १२८ - प्रत्ययाः अनियताः ।८१ - १२८ - ततः वक्ष्यामि परस्मैपदम् भवति इति ।८२ - १२८ - तत् नियमार्थम् भविष्यति ।८३ - १२८ - यत्र परस्मैपदम् च अन्यत् च प्राप्नोति तत्र परस्मैपदम् एव भवति इति ।८४ - १२८ - तत् तर्हि प्रत्ययनियमे द्वितीयम् शेषग्रहणम् कर्तव्यम् ।८५ - १२८ - न कर्तव्यम् ।८६ - १२८ - योगविभागः करिष्यते ।८७ - १२८ - अनुदात्तङितः आत्मनेपदम् ।८८ - १२८ - ततः भावकर्मणोः ।८९ - १२८ - ततः कर्तरि ।९० - १२८ - कर्तरि च आत्मनेपदम् भवति भावकर्मणोः ।९१ - १२८ - ततः कर्क्मव्यतिहारे ।९२ - १२८ - कर्तरि इति एव ।९३ - १२८ - भावकर्मणोः इति निवृत्तम् ।९४ - १२८ - यथा एव तर्हि कर्मणि कर्तरि भवति एवम् भावे अपि कर्तरि प्राप्नोति ।९५ - १२८ - एति जीवन्तम् आनन्दः ।९६ - १२८ - न अस्य किम् चित् रुजति इति ।९७ - १२८ - द्वितीयः योगविभागः करिष्यते ।९८ - १२८ - अनुदात्तङितः आत्मनेपदम् ।९९ - १२८ - ततः भावे ।१०० - १२८ - ततः कर्मणि ।१०१ - १२८ - कर्मणि च आत्मनेपदम् भवति ।१०२ - १२८ - ततः कर्तरि ।१०३ - १२८ - कर्तरि च आत्मनेपदम् भवति ।१०४ - १२८ - कर्मणि इति अनुवर्तते ।१०५ - १२८ - भावे इति निवृत्तम् ।१०६ - १२८ - ततः कर्मव्यतिहारे ।१०७ - १२८ - कर्तरि इति एव ।१०८ - १२८ - कर्मणि इति निवृत्तम् ।१०९ - १२८ - एवम् अपि शेषग्रहणम् कर्तव्यम् अनुपराभ्याम् कृञः इति एवमर्थम् ।११० - १२८ - इह मा भूत् अनुक्रियते स्वयम् एव ।१११ - १२८ - पराक्रियते स्वयम् एव ।११२ - १२८ - ननु च एतत् अपि योगविभागात् एव सिद्धम् ।११३ - १२८ - न सिध्यति ।११४ - १२८ - अनन्तरा या प्राप्तिः सा योगविभागेन शक्या बाधितुम् ।११५ - १२८ - कुतः एतत् ।११६ - १२८ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।११७ - १२८ - परा प्राप्तिः अप्रतिषिद्धा ।११८ - १२८ - तया भविष्यति ।११९ - १२८ - ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।१२० - १२८ - न उत्सहते प्रतिषिद्धा सती बाधितुम् ।१२१ - १२८ - एवम् तर्हि कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते ।१२२ - १२८ - तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते ।१२३ - १२८ - शेषात् कर्तरि कर्तरि इति ।१२४ - १२८ - किमर्थम् इदम् कर्तरि कर्तरि इति ।१२५ - १२८ - कर्ता एव यः कर्ता तत्र यथा स्यात् ।१२६ - १२८ - कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति ।१२७ - १२८ - ततः अनुपराभ्याम् कृञः ।१२८ - १२८ - कर्तरि कर्तरि इति एव ।१ - २४ - क्रियाव्यतिर्हारे इति वक्तव्यम् ।२ - २४ - कर्मव्यतिर्हारे इति उच्यमाने इह प्रसज्येत देवदत्तस्य धान्यम् व्यतिलुनन्ति इति इह च न स्यात् व्यतिलुनते व्यतिपुनते इति ।३ - २४ - तत् तर्हि वक्तव्यम् ।४ - २४ - न वक्तव्यम् ।५ - २४ - क्रियाम् हि लोके कर्म इति उपचरन्ति ।६ - २४ - काम् क्रियाम् करिष्यसि ।७ - २४ - किम् कर्म करिष्यसि इति ।८ - २४ - एवम् अपि कर्तव्यम् ।९ - २४ - कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति ।१० - २४ - क्रिया अपि कृत्रिमम् कर्म ।११ - २४ - न सिध्यति ।१२ - २४ - कर्तुः ईप्सिततमम् कर्म इति उच्यते ।१३ - २४ - कथम् च क्रिया नाम क्रियेप्सिततमा स्यात् ।१४ - २४ - क्रिया अपि क्रियेप्सिततमा भवति ।१५ - २४ - कया क्रियया ।१६ - २४ - सम्पश्यतिक्रियया प्रार्थयतिक्रियया अध्यवस्यतिक्रियया वा ।१७ - २४ - इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सल्ः बुद्ध्या तावत् कम् चित् अर्थम् सम्पश्यति ।१८ - २४ - सन्दृष्टे प्रार्थना प्रार्थिते अध्यवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावप्तिः ।१९ - २४ - एवम् क्रिया अपि कृत्रिमम् कर्म ।२० - २४ - एवम् अपि उभयोः कृत्रिमाकृत्रिमयोः उभयगतिः प्रसज्येत ।२१ - २४ - तस्मात् क्रियाव्यतिहारे इति वक्तव्यम् ।२२ - २४ - न वक्तव्यम् ।२३ - २४ - इह कर्तरि व्यतिहारे इति इयता सिद्धम् ।२४ - २४ - सः अयम् एवम् सिद्धे सति यत् कर्मग्रहणम् करोति तस्य एतत् प्रयोजनम् क्रियाव्यतिहारे यथा स्यात् कर्मव्यतिहारे मा भूत् इति ।१ - २७ - अथ कर्तृग्रहणम् किमर्थम् ।२ - २७ - कर्मव्यतिहारादिषु कर्तृग्रहणम् भावकर्मनिवृत्त्यर्थम् ।३ - २७ - कर्मव्यतिहारादिषु कर्तृग्रहणम् क्रियते भावकर्मणोः अनेन आत्मनेपदम् मा भूत् इति ।४ - २७ - इतरथा हि तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः ।५ - २७ - अक्रियमाणे कर्तृग्रहणे भावकर्मणोः अपि आत्मनेपदम् प्रसज्येत ।६ - २७ - तत्र कः दोषः ।७ - २७ - तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः ।८ - २७ - तत्र कः दोषः ।९ - २७ - तत्र प्रतिषेधे भावकर्मणोः अपि अनेन आत्मनेपदस्य प्रतिषेधः प्रसज्येत ।१० - २७ - व्यतिगम्यन्ते ग्रामाः व्यतिहन्यन्ते दस्यवः इति ।११ - २७ - न वा अनन्तरस्य प्रतिषेधात् ।१२ - २७ - न वा एषः दोषः ।१३ - २७ - किम् कारणम् ।१४ - २७ - अनन्तरस्य प्रतिषेधात् ।१५ - २७ - अनन्तरम् यत् आत्मनेपदविधानम् तस्य प्रतिषेधात् ।१६ - २७ - कुतः एतत् ।१७ - २७ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।१८ - २७ - पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति ।१९ - २७ - ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।२० - २७ - न उत्सहते प्रतिषिद्धा सती बाधितुम् ।२१ - २७ - उत्तरार्थम् तर्हि कर्तृग्रहणम् कर्तव्यम् ।२२ - २७ - न कर्तव्यम् ।२३ - २७ - क्रियते तत्र एव शेषात् कर्तरि परस्मैपदम् इति ।२४ - २७ - द्वितीयम् कर्तृग्रहणम् कर्तव्यम् ।२५ - २७ - किम् प्रयोजनम् ।२६ - २७ - कर्ता एव यः कर्ता तत्र यथा स्यात् ।२७ - २७ - कर्त च अन्यः च यः कर्ता तत्र मा भूत् इति ।१ - ९ - प्रतिषेधे हसादीनाम् उपसङ्ख्यानम् ।२ - ९ - प्रतिषेधे हसादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।३ - ९ - व्यतिहसन्ति वयतिजल्पन्ति व्यतिपठन्ति ।४ - ९ - हरिवह्योः अप्रतिषेधः ।५ - ९ - हरिवह्योः अप्रतिषेधः भवति इति वक्तव्यम् ।६ - ९ - सम्प्रहरन्ते राजानः ।७ - ९ - संविवहन्ते गर्गैः इति ।८ - ९ - न वहिः गत्यर्थः ।९ - ९ - देशान्तरप्रापणक्रियः वहिः ।१ - ४ - प्ररस्परोपपदात् च ।२ - ४ - प्ररस्परोपपदात् च इति वक्तव्यम् ।३ - ४ - परस्परस्य व्यतिलुनन्ति ।४ - ४ - परस्परस्य व्यतिपुनन्ति ।१ - ७ - उपसर्गग्रहणम् कर्तव्यम् ।२ - ७ - परा जयति सेना इति ।३ - ७ - तत् तर्हि वक्तव्यम् ।४ - ७ - न वक्तव्यम् ।५ - ७ - यदि अपि तावत् अयम् पराशब्दः दृष्टापचारः उपसर्गः च अनुपसर्गः च अयम् तु खलु विशब्दः अदृष्टापचारः उपसर्गः एव ।६ - ७ - तस्य अस्य कः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः उपसर्गात् ।७ - ७ - तत् यथा अस्य गोः द्वितीयेन अर्थः इति गौः एव उपादीयते न अश्वः न गर्दभः ।१ - १४ - आङः दः अव्यसनक्रियस्य ।२ - १४ - आङः दः अव्यसनक्रियस्य इति वक्तव्यम् ।३ - १४ - इह अपि यथा स्यात् ।४ - १४ - विपादिकाम् व्याददाति ।५ - १४ - कूलम् व्याददाति इति ।६ - १४ - तत् तर्हि वक्तव्यम् ।७ - १४ - न वक्तव्यम् ।८ - १४ - इह आङः दः अनास्ये इति इयता सिद्धम् ।९ - १४ - सः अयम् एवम् सिद्धे सति यत् विहरणग्रहणम् करोति तस्य एतत् प्रयोजनम् आस्यविहरणसमानक्रियात् अपि यथा स्यात् ।१० - १४ - यथाजातीयका च आस्यविहरणक्रिया तथाजातीयका अत्र अपि ।११ - १४ - स्वाङ्गकर्मात् च ।१२ - १४ - स्वाङ्गकर्मात् च इति वक्तव्यम् ।१३ - १४ - इह मा भूत् ।१४ - १४ - व्याददते पिपीलिकाः पतङ्गमुखम् इति ।१ - ३५ - उपसर्गग्रहणम् कर्तव्यम् ।२ - ३५ - इह मा भूत् ।३ - ३५ - अनु क्रीडति माणवकम् ।४ - ३५ - समः अकूजने ।५ - ३५ - समः अकूजने इति वक्तव्यम् ।६ - ३५ - इह मा भूत् ।७ - ३५ - सङ्क्रीडन्ति शकटानि ।८ - ३५ - आगमेः क्षमायाम् ।९ - ३५ - आगमेः क्षमायाम् उपसङ्ख्यनम् कर्तव्यम् ।१० - ३५ - आगमयस्व तावत् माणव्क ।११ - ३५ - शिक्षेः जिज्ञासायाम् ।१२ - ३५ - शिक्षेः जिज्ञासायाम् उपसङ्ख्यनम् कर्तव्यम् ।१३ - ३५ - विद्यासु शिक्षते ।१४ - ३५ - धनुषि शिक्षते ।१५ - ३५ - किरतेः हर्षजीविकाकुलायकरणेषु ।१६ - ३५ - किरतेः हर्षजीविकाकुलायकरणेषु उपसङ्ख्यनम् कर्तव्यम् ।१७ - ३५ - अपस्किरते वृषभः हृष्टः ।१८ - ३५ - अपस्किरते कुक्कुटः भक्षार्थी ।१९ - ३५ - अपस्किरते श्वा आश्रयार्थी ।२० - ३५ - हरतेः गतताच्छील्ये ।२१ - ३५ - हरतेः गतताच्छील्ये उपसङ्ख्यनम् कर्तव्यम् ।२२ - ३५ - पैतृकम् अश्वाः अनुहरन्ते ।२३ - ३५ - मातृकम् गावः अनुहरन्ते ।२४ - ३५ - आङि नुप्रच्छ्योः ।२५ - ३५ - आङि नुप्रच्छ्योः उपसङ्ख्यनम् कर्तव्यम् ।२६ - ३५ - आनुते शृगालः ।२७ - ३५ - आपृच्छते गुरुम् ।२८ - ३५ - आशिषि नाथः ।२९ - ३५ - आशिषि नाथः उपसङ्ख्यनम् कर्तव्यम् ।३० - ३५ - सर्पिषः नाथते ।३१ - ३५ - मधुनः नाथते ।३२ - ३५ - शपः उपलम्भने ।३३ - ३५ - शपः उपलम्भने उपसङ्ख्यनम् कर्तव्यम् ।३४ - ३५ - देवदत्ताय शपते ।३५ - ३५ - यज्ञदत्ताय शपते ।१ - ५ - आङः स्थः प्रतिज्ञाने ।२ - ५ - आङः स्थः प्रतिज्ञाने इति वक्तव्यम् ।३ - ५ - अस्तिम् सकारम् आतिष्ठते ।४ - ५ - आगमौ गुणवृद्धी आतिष्ठते ।५ - ५ - विकारौ गुणवृद्धी आतिष्ठते ।१ - ४ - उदः ईहायाम् ।२ - ४ - उदः ईहायाम् इति वक्तव्यम् ।३ - ४ - इह मा भूत् ।४ - ४ - उत्तिष्ठति सेना इति ।१ - २२ - उपात् पूजासङ्गतकरणयोः ।२ - २२ - उपात् पूजासङ्गतकरणयोः इति वक्तव्यम् ।३ - २२ - आदित्यम् उपतिष्ठते ।४ - २२ - चन्द्रमसम् उपतिष्ठते ।५ - २२ - सङ्गतकरणे ।६ - २२ - रथिकान् उपतिष्ठते ।७ - २२ - अश्वारोहान् उपतिष्ठते ।८ - २२ - बहूनाम् अपि अचित्तानाम् एकः भवति चित्तवान् ।९ - २२ - पश्य वानरसैन्ये अस्मिन् यत् अर्कम् उपतिष्ठते ।१० - २२ - मा एवम् मंस्थाः सचित्तः अयम् एषः अपि यथा वयम् ।११ - २२ - एतत् अपि अस्य कापेयम् यत् अर्कम् उपतिष्ठति ।१२ - २२ - अपरः आह ॒ उपात् देवपूजासङ्गतकरणमित्रकरणपथिषु इति वक्तव्यम् ।१३ - २२ - सङ्गतकरणे उदाहृतम् ।१४ - २२ - मित्रकरणे ।१५ - २२ - रथिकान् उपतिष्ठते ।१६ - २२ - अश्वारोहान् उपतिष्ठते ।१७ - २२ - पथि. अयम् पन्थाः स्रुघ्नम् उपतिष्ठते ।१८ - २२ - अयम् पन्थाः साकेतम् उपतिष्थते ।१९ - २२ - वा लिप्सायाम् ।२० - २२ - वा लिप्सायाम् इति वक्तव्यम् ।२१ - २२ - भिक्षुकः ब्राह्मणकुलम् उपतिष्ठते ।२२ - २२ - भिक्षुकः ब्राह्मणकुलम् उपतिष्ठति वा N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP