पाद २ - खण्ड १४

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २४ - रूपग्रहणम् किमर्थम् ।

२ - २४ - समानानाम् एकशेष एकविभक्तौ इति इयति उच्यमाने यत्र एव सर्वम् समानम् शब्दः अर्थः च तत्र एव स्यात् वृक्षाः, प्लक्षाः इति ।

३ - २४ - इह न स्यात् अक्षाः,. पादाः, माषाः इति ।

४ - २४ - रूपग्रहणे पुनः क्रियमाणे न दोषः भवति ।

५ - २४ - रूपम् निमित्तत्वेन आश्रीयते श्रुतौ च रूपग्रहणम् ।

६ - २४ - अथ एकग्रहणम् किमर्थम् ।

७ - २४ - सरूपाणाम् शेषः एकविभक्तौ इति इयति उच्यमाने द्विबह्वोः अपि शेषः प्रसज्येत ।

८ - २४ - एकग्रहणे पुनः क्रियमाणे न दोषः भवति ।

९ - २४ - अथ शेषग्रहणम् किमर्थम् ।

१० - २४ - सरूपाणाम् एकः एकविभक्तौ इति इयति उच्यमाने आदेशः अयम् विज्ञायेत ।

११ - २४ - तत्र कः दोषः ।

१२ - २४ - अश्वः च अस्वः च अश्वौ आन्तर्यतः द्व्युदात्तवतः स्थानिनः द्व्युदात्तवान् आदेशः प्रसज्येत ।

१३ - २४ - लोप्यलोपिता च न प्रकल्पेत ।

१४ - २४ - तत्र कः दोषः ।

१५ - २४ - गर्गाः, वत्साः, बिदाः, उर्वाः ।

१६ - २४ - अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

१७ - २४ - मा भूत् एवम् ।

१८ - २४ - अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

१९ - २४ - न एवम् शक्यम् ।

२० - २४ - इह हि दोषः स्यात्. काश्यपप्रतिकृतयः काश्यपाः इति ।

२१ - २४ - एकविभक्तौ इति किमर्थम् ।

२२ - २४ - पयः पयः जरयति ।

२३ - २४ - वासः वासः छादयति ।

२४ - २४ - ब्राह्मणाभ्याम् च कृतम् ब्राह्मणाभ्याम् च देहि इति ।

१ - २२ - किमर्थम् पुनः इदम् उच्यते ।

२ - २२ - प्रत्यर्थम् शब्दनिवेशात् न एकेन अनेकस्य अभिधानम् । प्रत्यर्थम् शब्दाः अभिनिविशन्ते ।

३ - २२ - किम् इदम् प्रत्यर्थम् इति ।

४ - २२ - अर्थम् अर्थम् प्रति प्रत्यर्थम् ।

५ - २२ - प्रत्यर्थम् शाब्दनिवेशात् एतस्मात् कारणात् न एकेन शब्देन अनेकस्य अर्थस्य अभिधानम् प्राप्नोति ।

६ - २२ - तत्र कः दोषः ।

७ - २२ - तत्र अनेकार्थाभिधाने अनेकशब्दत्वम् ।

८ - २२ - तत्र अनेकार्थाभिधाने अनेकशब्दत्वम् प्राप्नोति ।

९ - २२ - इष्यते च एकेन अपि अनेकस्य अभिधानम् स्यात् इति ।

१० - २२ - तत् च अन्तरेण यत्नम् न सिध्यति ।

११ - २२ - तस्मात् एकशेषः ।

१२ - २२ - एवमर्थम् इदम् उच्यते ।

१३ - २२ - अस्ति प्रयोजनम् एतत् ।

१४ - २२ - किम् तर्हि इति ।

१५ - २२ - किम् इदम् प्रत्यर्थम् शब्दाः अभिनिवेशन्ते इति एतम् दृष्टान्तम् आस्थाय सरूपाणाम् एकशेषः आरभ्यते न पुनः अप्रत्यर्थम् शब्दाः अभिनिविशन्ते इति एतम् दृष्टान्तम् आस्थाय विरूपाणाम् अनेकशेषः आरभ्यते ।

१६ - २२ - तत्र एतत् स्यात् लघीयसी सरूपनिवृत्तिर्ः गरीयसी विरूपप्रतिपत्तिः इति ।

१७ - २२ - तत् च न ।

१८ - २२ - लघीयसी विरूपप्रतिपत्तिः ।

१९ - २२ - किम् कारणम् ।

२० - २२ - यत्र हि बहूनाम् सरूपाणाम् एकः शिष्यते तत्र अवरतः द्वयोः सरूपयोः निवृत्तिः वक्तव्या स्यात् ।

२१ - २२ - एवम् अपि एतस्मिन् सति किम् चित् आचार्यः सुकरतरकम् मन्यते ।

२२ - २२ - सुकरतरकम् च एकशेषारम्भम् मन्यते ।

१ - १८६ - किम् पुनः अयम् एकविभक्तौ एकशेषः भवति ।

२ - १८६ - एवम् भवितुम् अर्हति ।

३ - १८६ - एकविभक्तौ इति चेत् न अभावाद् विभक्तेः । एकविभक्तौ इति चेत् तत् न ।

४ - १८६ - किम् कारणम् ।

५ - १८६ - अभावात् विभक्तेः ।

६ - १८६ - न हि समुदायात् परा विभक्तिः अस्ति ।

७ - १८६ - किम् कारणम् ।

८ - १८६ - अप्रातिपदिकत्वात् ।

९ - १८६ - ननु च अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति ।

१० - १८६ - नियमात् न प्राप्नोति ।

११ - १८६ - अर्थवत्समुदयानाम् समासग्रहणम् नियमार्थम् इति ।

१२ - १८६ - यदि पुनः पृथक् सर्वेषाम् विभक्तिपराणाम् एकशेषः उच्येत ।

१३ - १८६ - पृथक् सर्वेषाम् इति चेत् एकशेषे पृथक् विभक्त्युपलब्धिः तदाश्रयत्वात् ।

१४ - १८६ - पृथक् सर्वेषाम् इति चेत् एकशेषे पृथक् विभक्त्युपलब्धिः प्राप्नोति ।

१५ - १८६ - किम् उच्यते एकशेषे पृथक् विभक्त्युपलब्धिः इति यावता समयः कृतः न केवला प्रकृतिः प्रयोक्तव्या न केवलः प्रत्ययः इति ।

१६ - १८६ - तदाश्रयत्वात् प्राप्नोति ।

१७ - १८६ - यत्र हि प्रकृतिनिमित्ता प्रत्ययनिवृत्तिः तत्र अप्रत्ययिकायाः प्रकृतेः प्रयोगः भवति अग्निचित् सोमसुत् इति यथा ।

१८ - १८६ - यत्र च प्रत्ययनिमित्ता प्रकृतिनिवृत्तिः तत्र अप्रकृतिकस्य प्रत्ययस्य प्रयोगः भवति अधुना, इयान् इति यथा ।

१९ - १८६ - अस्तु संयोगान्तलोपेन सिद्धम् ।

२० - १८६ - कुतः नु खलु एतत् परयोः वृक्षशब्दयोः निवृत्तिः भविष्यति न पुनः पूर्वयोः इति ।

२१ - १८६ - तत्र एतत् स्यात् पूर्वनिवृत्तव् अपि सत्याम् संयोगादिलोपेन सिद्धम् इति ।

२२ - १८६ - न सिध्यति ।

२३ - १८६ - तत्र अवरतः द्वयोः सकारयोः श्रवणम् प्रसज्येत. यत्र च संयोगान्तलोपः न अस्ति तत्र च न सिध्यति ।

२४ - १८६ - क्व च संयोगान्तलोपः न अस्ति ।

२५ - १८६ - द्विवचनबहुवचनयोः ।

२६ - १८६ - यदि पुनः समासे एकशेषः उच्येत ।

२७ - १८६ - किम् कृतम् भवति ।

२८ - १८६ - कः चित् वचनलोपः परिहृतः भवति ।

२९ - १८६ - तत् तर्हि समासग्रहणम् कर्तव्यम् ।

३० - १८६ - न कर्तव्यम् ।

३१ - १८६ - प्रकृतम् अनुवर्तते ।

३२ - १८६ - क्व प्रकृतम् ।

३३ - १८६ - तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति ।

३४ - १८६ - समासे इति चेत् स्वरसमासान्तेषु दोषः ।

३५ - १८६ - समासे इति चेत् स्वरसमासान्तेषु दोषः भवति ।

३६ - १८६ - स्वर अश्वः च अश्वः च अश्वौ. समासान्तोदात्तत्वे कृते एकशेषः प्राप्नोति ।

३७ - १८६ - इदम् इह सम्प्रधार्यम् समासान्तोदात्तत्त्वम् क्रियताम् एकशेषः इति ।

३८ - १८६ - किम् अत्र कर्तव्यम् ।

३९ - १८६ - परत्वात् समासान्तोदात्तत्वम् ।

४० - १८६ - समासान्तोदात्तत्वे च दोषः भवति ।

४१ - १८६ - स्वर ।

४२ - १८६ - समासान्त ऋक् च ऋक् च ऋचौ ।

४३ - १८६ - समासान्ते कृते असारूप्यात् एकशेषः न प्राप्नोति ।

४४ - १८६ - इदम् इह सम्प्रधार्यम् समासान्तः क्रियताम् एकशेषः इति ।

४५ - १८६ - किम् अत्र कर्तव्यम् ।

४६ - १८६ - परत्वात् समासान्तः ।

४७ - १८६ - समासान्ते च दोषः भवति ।

४८ - १८६ - अङ्गाश्रये च एकशेषवचनम् । अङ्गाश्रये च कार्ये एकशेषः वक्तव्यः ।

४९ - १८६ - स्वसा च स्वसारौ च स्वसारः ।

५० - १८६ - अङ्गाश्रये कृते असारूप्यात् एकशेषः न प्राप्नोति ।

५१ - १८६ - इदम् इह सम्प्रधार्यम् अङ्गाश्रयम् क्रियताम् एकशेषः इति ।

५२ - १८६ - किम् अत्र कर्तव्यम् ।

५३ - १८६ - परत्वात् अङ्गाश्रयम् ।

५४ - १८६ - तिङ्समासे तिङ्समासवचनम् ।

५५ - १८६ - तिङ्समासे तिङ्समासः वक्तव्यः ।

५६ - १८६ - एकम् तिङ्ग्रहणम् अनर्थकम् ।

५७ - १८६ - समासे तिङ्समासः इति एव सिद्धम् ।

५८ - १८६ - न अनर्थकम् ।

५९ - १८६ - तिङ्समासे प्रकृते तिङ्समासः वक्तव्यः ।

६० - १८६ - तिङ्विधिप्रतिषेधः च ।

६१ - १८६ - तिङ् च कः चित् विधेयः कः चित् प्रतिषेध्यः ।

६२ - १८६ - पचति च पचति च पचतः तःशब्दः विधेयः तिशब्दः प्रतिषेध्यः ।

६३ - १८६ - यदि पुनः असमासे एकशेषः उच्येत ।

६४ - १८६ - असमासे वचनलोपः ।

६५ - १८६ - यदि असमासे वचनलोपः वक्तव्यः ।

६६ - १८६ - ननु च उत्पतता एव वचनलोपम् चोदिताः स्मः ।

६७ - १८६ - द्विवचनबहुवचनविधिम् द्वन्द्वप्रतिषेधम् च वक्ष्यति तदर्थम् पुनः चोद्यते ।

६८ - १८६ - द्विवचनबहुवचनविधिः ।

६९ - १८६ - द्विवचनबहुवचनानि विधेयानि वृक्षः च वृक्षः च वृक्षौ, वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति ।

७० - १८६ - द्वन्द्वप्रतिषेधः च ।

७१ - १८६ - द्वन्द्वस्य च प्रतिषेधः वक्तव्यः वृक्षः च वृक्षः च वृक्षौ, वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति ।

७२ - १८६ - चार्थे द्वन्द्वः इति द्वन्द्वः प्राप्नोति ।

७३ - १८६ - न एषः दोषः ।

७४ - १८६ - अनवकाशः एकशेषः द्वन्द्वम् बाधिष्यते ।

७५ - १८६ - सावकाशः एकशेषः ।

७६ - १८६ - कः अवकाशः ।

७७ - १८६ - तिङन्तानि अवकाशः ।

७८ - १८६ - यदि पुनः पृथक् सर्वेषाम् विभक्त्यन्तानाम् एकशेषः उच्येत ।

७९ - १८६ - किम् कृतम् भवति ।

८० - १८६ - कः चित् वचनलोपः परिहृतः भवति ।

८१ - १८६ - विभक्त्यन्तानाम् एकशेषे विभक्त्यन्तानाम् एकशेषे विभक्त्यन्तानाम् एव तु निवृत्तिः भवति ।

८२ - १८६ - एकविभक्त्यन्तानाम् इति तु पृथग्विभक्तिप्रतिषेधार्थम् ।

८३ - १८६ - एकविभक्त्यन्तानाम् इति तु वक्तव्यम् ।

८४ - १८६ - किम् प्रयोजनम् ।

८५ - १८६ - पृथग्विभक्तिप्रतिषेधार्थम् ।

८६ - १८६ - पृथग्विभक्त्यन्तानाम् मा भूत् ब्राह्मणाभ्याम् च कृतम् ब्राह्मणाभ्याम् च देहि ।

८७ - १८६ - न वा अर्थविप्रतिषेधात् युगपद्वचनाभावः ।

८८ - १८६ - न वा एषः दोषः ।

८९ - १८६ - किम् कारणम् ।

९० - १८६ - अर्थविप्रतिषेधात् ।

९१ - १८६ - विप्रतिषिद्धौ एतौ अर्थौ कर्ता संप्रदानम् इति अशक्यौ युगपत् निर्देष्टुम् ।

९२ - १८६ - तयोः विप्रतिषिद्धत्वात् युगपद्वचनम् न भविष्यति ।

९३ - १८६ - अनेकार्थाश्रयः च पुनः एकशेषः ।

९४ - १८६ - अनेकम् अर्थम् सम्प्रत्याययिष्यामि इति एकशेषः आरभ्यते ।

९५ - १८६ - तस्मात् न एकशब्दत्वम् ।

९६ - १८६ - तस्मात् एकशब्दत्वम् न भविष्यति ।

९७ - १८६ - अयम् तर्हि दोषः कः चित् वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति ।

९८ - १८६ - यदि पुनः प्रातिपदिकानाम् एकशेषः उच्येत ।

९९ - १८६ - किम् कृतम् भवति ।

१०० - १८६ - वचनलोपः परिहृतः भवति ।

१०१ - १८६ - प्रातिपदिकानाम् एकशेषे मातृमात्रोः प्रतिषेधः सरूपत्वात् । प्रातिपदिकानाम् एकशेषे मातृमात्रोः प्रतिषेधः वक्तव्यः माता च जनयित्री मातारौ च धान्यस्य मातृमातारः ।

१०२ - १८६ - किम् कारणम् ।

१०३ - १८६ - सरूपत्वात् ।

१०४ - १८६ - सरूपाणि हि एतानि प्रातिपदिकानि ।

१०५ - १८६ - किम् उच्यते प्रातिपदिकानाम् एकशेषे मातृमात्रोः प्रतिषेधः वक्तव्यः इति न पुनः यस्य अपि विभक्त्यन्तानाम् एकशेषः तेन अपि मातृमात्रोः प्रतिषेधः वक्तव्यः स्यात् ।

१०६ - १८६ - तस्य अपि हि एतानि क्व चित् विभक्त्यन्तानि सरूपाणि मातृभ्याम् च मातृभ्यां च इति ।

१०७ - १८६ - अथ मतम् एतत् विभक्त्यन्तानाम् सारूप्ये भवितव्यम् एव एकशेषेण इति प्रातिपदिकानाम् एव एकशेषे दोषः भवति ।

१०८ - १८६ - एवम् च कृत्वा चोद्यते ।

१०९ - १८६ - हरितहरिणश्येतश्येनरोहितरोहिणानाम् स्त्रियाम् उपसङ्ख्यानम् । हरितहरिणश्येतश्येनरोहितरोहिणानाम् स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् ।

११० - १८६ - हरितस्य स्त्री हरिणी हरिणस्य अपि हरिणी, हरिणी च हरिणी च हरिण्यौ ।

१११ - १८६ - श्येतस्य स्त्री श्येनी श्येनस्य अपि श्येनी, श्येनी च श्येनी च श्येन्यौ ।

११२ - १८६ - रोहितस्य स्त्री रोहिणी रोहिणस्य अपि रोहिणी, रोहिणी च रोहिणी च रोहिण्यौ ।

११३ - १८६ - न वा पदस्य अर्थे प्रयोगात् ।

११४ - १८६ - न वा एषः दोषः ।

११५ - १८६ - किम् कारणम् ।

११६ - १८६ - पदस्य अर्थे प्रयोगात् ।

११७ - १८६ - पदम् अर्थे प्रयुज्यते विभक्त्यन्तम् च पदम् ।

११८ - १८६ - रूपम् च इह आश्रीयते ।

११९ - १८६ - रूपनिर्ग्रहः च शब्दस्य न अन्तरेण लौकिकम् प्रयोगम् ।

१२० - १८६ - तस्मिन् च लौकिके प्रयोगे सरूपाणि एतानि ।

१२१ - १८६ - अपरः आह न वा पदस्य अर्थे प्रयोगात् ।

१२२ - १८६ - न वा एषः पक्षः एव अस्ति प्रातिपदिकानाम् एकशेषः इति ।

१२३ - १८६ - किम् काराणम् ।

१२४ - १८६ - पदस्य अर्थे प्रयोगात् ।

१२५ - १८६ - पदम् अर्थे प्रयुज्यते विभक्त्यन्तम् च पदम् ।

१२६ - १८६ - रूपम् च इह आश्रीयते रूपनिर्ग्रहः च शब्दस्य न अन्तरेण लौकिकम् प्रयोगम् ।

१२७ - १८६ - तस्मिन् च लौकिके प्रयोगे प्रातिपदिकानाम् प्रयोगः न अस्ति ।

१२८ - १८६ - अथ अनेन पक्षेण अर्थः स्यात् प्रातिपदिकानाम् एकशेषः इति ।

१२९ - १८६ - बाढम् अर्थः ।

१३० - १८६ - किम् वक्तव्यम् एतत् ।

१३१ - १८६ - न हि ।

१३२ - १८६ - कथम् अनुच्यमानम् गंस्यते ।

१३३ - १८६ - एतेन एव अभिहितम् सूत्रेण सरूपाणाम् एकशेषः एकविभक्तौ इति ।

१३४ - १८६ - कथम् ।

१३५ - १८६ - विभक्तिः सारूप्येण आश्रीयते ।

१३६ - १८६ - अनैमित्तिकः एकशेषः ।

१३७ - १८६ - एकविभक्तौ यानि सरूपाणि तेषाम् एकशेषः भवति ।

१३८ - १८६ - क्व ।

१३९ - १८६ - यत्र वा तत्र वा इति ।

१४० - १८६ - अथ अनेन पक्षेण अर्थः स्यात् विभक्त्यन्तानाम् एकशेषः इति ।

१४१ - १८६ - बाढम् अर्थः ।

१४२ - १८६ - किम् वक्तव्यम् एतत् ।

१४३ - १८६ - न हि ।

१४४ - १८६ - कथम् अनुच्यमानम् गंस्यते ।

१४५ - १८६ - एतत् अपि एतेन एव अभिहितम् सूत्रेण सरूपाणाम् एकशेषः एकविभक्तौ इति ।

१४६ - १८६ - कथम् ।

१४७ - १८६ - न इदम् पारिभाषिक्याः विभक्तेः ग्रहणम् ।

१४८ - १८६ - किम् तर्हि ।

१४९ - १८६ - अन्वर्थग्रहणम् विभागः विभक्तिः इति ।

१५० - १८६ - एकविभागे यानि सरूपाणि तेषाम् एकशेषः भवति इति ।

१५१ - १८६ - ननु च उक्तं कः चित् वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति ।

१५२ - १८६ - न एषः दोषः ।

१५३ - १८६ - यत् तावत् उच्यते कः चित् वचनलोपः द्विवचनबहुवचनविधिःिति ।

१५४ - १८६ - सहविवक्षायाम् एकशेषः ।

१५५ - १८६ - युगपद्विवक्षायाम् एकशेषेण भवितव्यम् ।

१५६ - १८६ - न तर्हि इदानीम् इदम् भवति वृक्षः च वृक्षः च वृक्षौ, वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति ।

१५७ - १८६ - न एतत् सहविवक्षायाम् भवति ।

१५८ - १८६ - अथ अपि निदर्शयितुम् बुद्धिः एवम् निदर्शयितव्यम् वृक्षौ च वृक्षौ च वृक्षौ, वृक्षाः च वृक्षाः च वृक्षाः च वृक्षाः इति ।

१५९ - १८६ - यत् अपि उच्यते द्वन्द्वप्रतिषेधः च वक्तव्यः इति ।

१६० - १८६ - न एषः दोषः ।

१६१ - १८६ - अनवकाशः एकशेष्ः द्वन्द्वम् बाधिष्यते ।

१६२ - १८६ - ननु च उक्तम् सावकाशः एकशेषः ।

१६३ - १८६ - कः अवकाशः ।

१६४ - १८६ - तिङन्तानि अवकाशः इति ।

१६५ - १८६ - न तिङन्तानि एकशेषारम्भम् प्रयोजयन्ति ।

१६६ - १८६ - किम् काऋअणम् ।

१६७ - १८६ - यथाजातीयकानाम् द्वितीयस्य पदस्य प्रयोगे सामर्थ्यम् अस्ति तथाजातीयकानाम् एकशेषः ।

१६८ - १८६ - न च तिङन्तानाम् द्वितीयस्य पदस्य प्रयोगे सामर्थ्यम् अस्ति ।

१६९ - १८६ - किम् कारणम् ।

१७० - १८६ - एका हि क्रिया ।

१७१ - १८६ - एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।

१७२ - १८६ - यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिध्यन्ति पचतः पचन्ति ।

१७३ - १८६ - न एतानि क्रियापेक्षाणि ।

१७४ - १८६ - किम् तर्हि ।

१७५ - १८६ - साधनापेक्षाणि ।

१७६ - १८६ - अथ वा पुनः अस्तु एकविभक्तौ इति ।

१७७ - १८६ - ननु च उक्तम् एकविभक्तौ इति चेत् न अभावात् विभक्तेः इति ।

१७८ - १८६ - न एषः दोषः ।

१७९ - १८६ - परिहृतम् एतत् अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति इति ।

१८० - १८६ - ननु च उक्तम् नियमात् न प्राप्नोति अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् इति ।

१८१ - १८६ - न एषः दोषः ।

१८२ - १८६ - तुल्यजातीयस्य नियमः ।

१८३ - १८६ - कः च तुल्यजातीयः ।

१८४ - १८६ - यथाजातीयकानाम् समासः ।

१८५ - १८६ - कथञ्जातीयकानाम् समासः ।

१८६ - १८६ - सुबन्तानाम्

१ - ३० - सर्वत्र अपत्यादिषु उपसङ्ख्यानम् ।

२ - ३० - सर्वेषु पक्षेषु अपत्यादिषु उपसङ्ख्यानम् कर्तव्यम् भिक्षाणाम् समूहः भैक्षम् इति ।

३ - ३० - सर्वत्र इति उच्यते प्रातिपदिकाणाम् च एकशेषे सिद्धम् ।

४ - ३० - अपत्यादिषु इति उच्यते बहवः च अपत्यादयः गर्गस्य अपत्यम् बहवः गर्गाः ।

५ - ३० - एका प्रकृतिः बहवः च यञः ।

६ - ३० - असारूप्यात् एकशेषः न प्राप्नोति ।

७ - ३० - ननु च यथा एव बहवः यञः एवम् प्रकृतयः अपि बह्व्यः स्युः ।

८ - ३० - न एवम् शक्यम् ।

९ - ३० - इह हि दोषः स्यात् गर्गाः, वत्साः, बिदाः, उर्वाः इति ।

१० - ३० - अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

११ - ३० - मा भूत् एवम् ।

१२ - ३० - अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

१३ - ३० - ननु च उक्तम् न एवम् शक्यम् ।

१४ - ३० - इह हि दोषः स्यात् काश्यपप्रतिकृतयः काश्यपाः इति ।

१५ - ३० - न एषः दोषः ।

१६ - ३० - लौकिकस्य तत्र गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् ।

१७ - ३० - अथ वा पुनः अस्तु एका प्रकृतिः बहवः च यञः ।

१८ - ३० - ननु च उक्तम् असारूप्यात् एकशेषः न प्राप्नोति इति ।

१९ - ३० - सिद्धम् तु समानार्थानाम् एकशेषवचनात् ।

२० - ३० - सिद्धम् एतत् ।

२१ - ३० - कथम् ।

२२ - ३० - समानार्थानाम् एकशेषः भवति इति वक्तव्यम् ।

२३ - ३० - यदि समानार्थानाम् एकशेषः उच्यते कथम् अक्षाः, पादाः, माषाः इति ।

२४ - ३० - नानार्थानाम् अपि सरूपाणाम् ।

२५ - ३० - नानार्थानाम् अपि सरूपाणाम् एकशेष्ः वक्तव्यः ।

२६ - ३० - एकार्थानाम् अपि विरूपाणाम् ।

२७ - ३० - एकार्थानाम् अपि विरूपाणाम् एकशेषः वक्तव्यः वक्रदण्डः च कुटिलदण्डः च वक्रदण्डौ कुटिलदण्डाउ इति वा ।

२८ - ३० - स्वरभिन्नानाम् यस्य उत्तरस्वरविधिः ।

२९ - ३० - स्वरभिन्नानाम् यस्य उत्तरस्वरविधिः तस्य एकशेषः वक्तव्यः ।

३० - ३० - अक्षः च अक्षः च अक्षौ, मीमंसकः च मीमांसकः च मीमंसकौ ।

१ - ४० - इह कस्मात् न भवति एकः च एकः च, द्वौ च द्वौ च इति ।

२ - ४० - सङ्ख्यायाः अर्थासम्प्रत्ययात् अन्यपदार्थत्वात् च अनेकशेषः ।

३ - ४० - सङ्ख्यायाः अर्थासम्प्रत्ययात् एकशेषः न भविष्यति ।

४ - ४० - न हि एकौ इति अनेन अर्थः गम्यते ।

५ - ४० - अन्यपदार्थत्वात् च सङ्ख्यायाः एकशेषः न भविष्यति ।

६ - ४० - एकः च एकः च इति अस्य द्वौ इति अर्थः ।

७ - ४० - द्वौ च द्वौ च इति अस्य चत्वारः इति अर्थः ।

८ - ४० - न एतौ स्तः परिहारौ ।

९ - ४० - यत् तावत् उच्यते सङ्ख्यायाः अर्थासम्प्रत्ययात् इति ।

१० - ४० - अर्थासम्प्रत्यये अपि एकशेषः भवति ।

११ - ४० - तत् यथा ।

१२ - ४० - गार्ग्यः च गार्ग्यायणः च गार्ग्यौ ।

१३ - ४० - न च उच्यते वृद्धयुवानौ इति भवति च एकशेषः ।

१४ - ४० - यत् अपि उच्यते अन्यपदार्थत्वात् च इति ।

१५ - ४० - अन्यपदार्थे अपि एकशेषः भवति ।

१६ - ४० - तत् यथा विंशतिः च विंशतिः च विंशती इति ।

१७ - ४० - तयोः चत्वारिंशत् इति अर्थः ।

१८ - ४० - एवम् तर्हि न इमौ पृथक् परिहारौ ।

१९ - ४० - एकपरिहारः अयम् सङ्ख्यायाः अर्थासम्प्रत्ययात् अन्यपदार्थत्वात् च इति ।

२० - ४० - यत्र हि अर्थासम्प्रत्ययः एव वा अन्यपदार्थता एव वा भवति तत्र एकशेषः गार्ग्यौ विंशती इति यथा ।

२१ - ४० - अथ वा न इमे एकशेषशब्दाः ।

२२ - ४० - यदि तर्हि न इमे एकशेषशब्दाः समुदायशब्दाः तर्हि भवन्ति ।

२३ - ४० - तत्र कः दोषः ।

२४ - ४० - एकवचनम् प्राप्नोति ।

२५ - ४० - एकार्थाः हि समुदायाः भवन्ति ।

२६ - ४० - तत् यथा यूथम्, शतम्, वनम् इति ।

२७ - ४० - सन्तु तर्हि एकशेषशब्दाः ।

२८ - ४० - किङ्कृतम् सारूप्यम् ।

२९ - ४० - अन्योन्यकृतम् सारूप्यम् ।

३० - ४० - सन्ति पुनः के चित् अन्ये अपि शब्दाः येषाम् अन्योन्यकृतः भावः ।

३१ - ४० - सन्ति इति आह ।

३२ - ४० - तद् यथा माता पिता भ्राता इति ।

३३ - ४० - विषमः उपन्यासः ।

३४ - ४० - सकृत् एते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते ।

३५ - ४० - इह पुनः एकेन अपि अपाये न भवति चत्वारः इति ।

३६ - ४० - अन्यत् इदानीम् एतत् उच्यते सकृत् एते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति ।

३७ - ४० - यत् तु भवान् अस्मान् चोदयति सन्ति पुनः के चित् अन्ये अपि शब्दाः येषाम् अन्योन्यकृत्ः भावः इति तत्र एते अस्माभिः उपन्यस्ताः ।

३८ - ४० - तत्र एतत् भवान् आह सकृत् एते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति ।

३९ - ४० - एतत् च वार्त्तम् ।

४० - ४० - एकैकः न उद्यन्तुम् भारम् शक्नोति यत् कथम् तत्र । एकैकः कर्ता स्यात् सर्वे वा स्युः कथम् युक्तम् ॥ कारणम् उद्यमनम् चेत् न उद्यच्छति च अन्तरेण तत् तुल्यम् । तस्मात् पृथक् पृथक् ते कर्तारः सव्यपेक्षाः तु ॥

१ - ४ - प्रथममध्यमोत्तमानाम् एकशेषः सरूपत्वात् ।

२ - ४ - प्रथममध्यमोत्तमानाम् एकशेषः वक्तव्यः पचति च पचसि च पचथः, पचसि च पचामि च पचावः, पचति च पचसि च पचामि च पचामः ।

३ - ४ - किम् पुनः कारणम् न सिध्यति ।

४ - ४ - असरूपत्वात् ।

१ - ६१ - द्विवचनबहुवचनाप्रसिद्धिः च एकार्थत्वात् । द्विवचनबहुवचनयोः च अप्रसिद्धिः ।

२ - ६१ - किम् कारणम् ।

३ - ६१ - एकार्थत्वात् ।

४ - ६१ - एकः अयम् अवशिष्यते ।

५ - ६१ - तेन अनेन तदर्थेन भवितव्यम् ।

६ - ६१ - किमर्थेन ।

७ - ६१ - यदर्थः एकः ।

८ - ६१ - किमर्थः च एकः ।

९ - ६१ - एकः एकार्थः ।

१० - ६१ - न ऐकार्थ्यम् ।

११ - ६१ - न अयम् एकार्थः ।

१२ - ६१ - किम् तर्हि ।

१३ - ६१ - द्व्यर्थः बह्वर्थः च ।

१४ - ६१ - न ऐकार्थ्यम् इति चेत् आरम्भानर्थक्यम् ।

१५ - ६१ - न ऐकार्थ्यम् इति चेत् एकशेषारम्भः अनर्थकः स्यात् ।

१६ - ६१ - इह हि शब्दस्य स्वाभाविकी वा अनेकार्थता स्यात् वाचनिकी वा ।

१७ - ६१ - तत् यदि तावत् स्वाभाविकी अशिष्यः एकशेषः एकेन उक्तत्वात् । अशिष्यः एकशेषः ।

१८ - ६१ - किम् कारणम् ।

१९ - ६१ - एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।

२० - ६१ - अथ वाचनिकी तत् वक्तव्यम् एकः अयम् अविशिष्यते सः च द्व्यर्थः भवति बह्वर्थः च इति ।

२१ - ६१ - न वक्तव्यम् ।

२२ - ६१ - सिद्धम् एकशेषः इति एव ।

२३ - ६१ - कथम् पुनः एकः अयम् अविशिष्यते इति अनेन द्व्यर्थता बह्वर्थता वा शक्या लब्धुम् ।

२४ - ६१ - तत् च एकशेषकृतम् ।

२५ - ६१ - न हि अन्तरेण तद्वाचिनः शब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवति ।

२६ - ६१ - पश्यामः च पुनः अन्तरेण अपि तद्वाचिनः शब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवति इति अग्निचित् सोमसुत् इति यथा ।

२७ - ६१ - ते मन्यामहे लोपकृतम् एतत् येन अत्र अन्तरेण अपि तद्वाचिनः शब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवतिति ।

२८ - ६१ - एवम् इह अपि एकशेषकृतम् एतत् येन अत्र एकः अयम् अवशिष्यते इति अनेन द्व्यर्थता बह्वर्थता वा भवति ।

२९ - ६१ - उच्येत तर्हि न तु गम्येत ।

३० - ६१ - यः हि गाम् अश्वः इति ब्रूयात् अश्वम् वा गौः इति न जातु चित् सम्प्रत्ययः स्यात् ।

३१ - ६१ - तेन अनेकार्थाभिधाने यत्नम् कुर्वता अवश्यम् लोकः पृष्ठतः अनुगन्तव्यः केषु अर्थेषु लौकिकाः कान् शब्दान् प्रयुञ्जते इति ।

३२ - ६१ - लोके च एकस्मिन् वृक्षः इति प्रयुञ्जते द्वयोः वृक्षौ इति बहुषु वृक्षाः इति ।

३३ - ६१ - यदि तर्हि लोकः अवश्यम् शब्देषु प्रमाणम् किमर्थम् एकशेषः आरभ्यते ।

३४ - ६१ - अथ किमर्थम् लोपः आरभ्यते ।

३५ - ६१ - प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः लोपम् आरभते ।

३६ - ६१ - एकशेषारम्भे पुनः अस्य न किम् चित् प्रयोजनम् अस्ति ।

३७ - ६१ - ननु च उक्तम् प्रत्यर्थम् शब्दनिवेशात् न एकेन अनेकस्य अभिधानम् इति ।

३८ - ६१ - यदि च एकेन शब्देन अनेकस्य अर्थस्य अभिधानम् स्यात् न प्रत्यर्थम् शब्दनिवेशः कृतः स्यात् ।

३९ - ६१ - प्रत्यर्थम् शब्दनिवेशात् एकेन अनेकस्य अभिधानात् अप्रत्यर्थम् इति चेत् तत् अपि प्रत्यर्थम् एव ।

४० - ६१ - प्रत्यर्थम् शब्दनिवेशात् एकेन अनेकस्याभिधानात् अप्रत्यर्थम् इति चेत् एवम् उच्यते यत् अपि एकेन अनेकस्य अभिधानम् भवति तत् अपि प्रत्यर्थम् एव ।

४१ - ६१ - यत् अपि हि अर्थौ अर्थौ प्रति तत् अपि प्रत्यर्थम् एव ।

४२ - ६१ - यत् अपि हि अर्थान् अर्थान् प्रति तत् अपि प्रत्यर्थम् एव ।

४३ - ६१ - यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः ।

४४ - ६१ - यावताम् अर्थानाम् अभिधानम् भवति तावताम् शब्दानाम् प्रयोगः इति एषः पक्षः न्याय्यः ।

४५ - ६१ - यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः इति चेत् एकेन अपि अनेकस्य अभिधानम् ।

४६ - ६१ - यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः इति चेत् एवम् उच्यते एषः अपि न्याय्यः एव यत् अपि एकेन अपि अनेकस्य अभिधानम् भवति ।

४७ - ६१ - यदि तर्हि एकेन अनेकस्य अभिधानम् भवति प्लक्षन्यग्रोधौ एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः ।

४८ - ६१ - एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् ।

४९ - ६१ - किम् कारणम् ।

५० - ६१ - उक्तार्थानाम् अप्रयोगः इति ।

५१ - ६१ - एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः । एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते ।

५२ - ६१ - कथम् अनुक्तः यावता इदानीम् एव उक्तम् एकेन अपि अनेकस्य अभिधानम् भवति इति ।

५३ - ६१ - सरूपाणाम् एकेन अपि अनेकस्य अभिधानम् भवति न विरूपाणाम् ।

५४ - ६१ - किम् पुनः कारणम् सरूपाणाम् एकेन अपि अनेकस्य अभिधानम् भवति न पुनः विरूपाणाम् ।

५५ - ६१ - अभिधानम् पुनः स्वाभाविकम् ।

५६ - ६१ - स्वाभाविकम् अभिधानम् ।

५७ - ६१ - उभयदर्शनात् च ।

५८ - ६१ - उभयम् खलु अपि दृश्यते विरूपाणाम् अपि एकेन अनेकस्य अभिधानम् भवति ।

५९ - ६१ - तत् यथा द्यवा ह क्षमा ।

६० - ६१ - द्यवा चित् अस्मै पृथिवी नमेते इति ।

६१ - ६१ - विरूपाणाम् किल नाम एकेन अनेकस्य अभिधानम् स्यात् किम् पुनः सरूपाणाम् ।

१ - ५४ - आकृत्यभिधानात् वा एकम् विभक्तौ वाजप्यायनः ।

२ - ५४ - आकृत्यभिधानात् वा एकम् शब्दम् विभक्तौ वाजप्यायनः आचार्यः न्याय्यम् मन्यते एका आकृतिः सा च अभिधीयते इति ।

३ - ५४ - कथम् पुनः ज्ञायते एका आकृतिः सा च अभिधीयते इति ।

४ - ५४ - प्रख्याविशेषात् । न हि गौः इति उक्ते विशेषः प्रख्यायते शुक्ला नीला कपिला कपोतिका इति ।

५ - ५४ - यदि अपि तावत् प्रख्याविशेषात् ज्ञायते एका आकृतिः इति कुतः तु एतत् सा अभिधीयते इति ।

६ - ५४ - अव्यपवर्गगतेः च ।

७ - ५४ - अव्यपवर्गगतेः च मन्यामहे आकृतिः अभिधीयते इति ।

८ - ५४ - न हि गौः इति उक्ते व्यपवर्गः गम्यते शुक्ला नीला कपिला कपोतिका इति ।

९ - ५४ - ज्ञायते च एकोपदिष्टम् । ज्ञायते खलु अपि एकोपदिष्टम् ।

१० - ५४ - गौः अस्य कदा चित् उपदिष्टः भवति ।

११ - ५४ - सः तम् अन्यस्मिन् देशे अन्यस्मिन् काले अन्यस्याम् च वयोवस्थायाम् दृष्ट्वा जानाति अयम् गौः इति ।

१२ - ५४ - कः पुनः अस्य विशेषः प्रख्याविशेषात् इति अतः ।

१३ - ५४ - तस्य एव उपोद्बलकम् एतत् प्रख्याविशेषात् ज्ञायते च एकोपदिष्टम् इति ।

१४ - ५४ - धर्मशास्त्रम् च तथा । एवम् च कृत्वा धर्मशास्त्रम् प्रवृत्तम् ब्राह्मणः न हन्तव्यः ।

१५ - ५४ - सुरा न पेया इति ।

१६ - ५४ - ब्राह्मणमात्रम् न हन्यते सुरामात्रम् च न पीयते ।

१७ - ५४ - यदि द्रव्यम् पदार्थः स्यात् एकम् ब्राह्मणम् अहत्वा एकाम् च सुराम् अपीत्वा अन्यत्र कामचारः स्यात् ।

१८ - ५४ - कः पुनः अस्य विशेषः अव्यपवर्गगतेः च इति अतः ।

१९ - ५४ - तस्य एव उपोद्बलकम् एतत् अव्यपवर्गगतेः च धर्मशास्त्रम् च तथा इति ।

२० - ५४ - अस्ति च एकम् अनेकाधिकरणस्थम् युगपत् ।

२१ - ५४ - अस्ति खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते ।

२२ - ५४ - किम् ।

२३ - ५४ - आदित्यः ।

२४ - ५४ - तद् यथा एकः आदित्यः अनेकाधिकरणस्थः युगपत् उपलभ्यते ।

२५ - ५४ - विषमः उपन्यासः ।

२६ - ५४ - न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् उपलभते ।

२७ - ५४ - एवम् तर्हि इतीन्द्रवत् विषयः । तत् यथा एकः इन्द्रः अनेकस्मिन् क्रतुशते आहूतः युगपत् सर्वत्र भवति एवम् आकृतिः अपि युगपत् सर्वत्र भविष्यति ।

२८ - ५४ - अवश्यम् च एतत् एवम् विज्ञेयम् एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते इति. न एकम् अनेकाधिकरणस्थम् युगपत् इति चेत् तथा एकशेषे ।

२९ - ५४ - यः हि मन्यते न एकम् अनेकाधिकरणस्थम् युगपद् उपलभ्यते इति एकशेषे तस्य दोषः स्यात् ।

३० - ५४ - एकशेषे अपि न एकः वृक्षशब्दः अनेकम् अर्थम् युगपत् अभिदधीत ।

३१ - ५४ - अवश्यम् च एतत् एवम् विज्ञेयम् आकृतिः अभिधीयते इति ।

३२ - ५४ - द्रव्याभिधाने हि आकृत्यसम्प्रत्ययः ।

३३ - ५४ - द्रव्याभिधाने सति आकृतेः असम्प्रत्ययः स्यात् ।

३४ - ५४ - तत्र कः दोषः ।

३५ - ५४ - तत्र असर्वद्रव्यगतिः ।

३६ - ५४ - तत्र असर्वद्रव्यगतिः प्राप्नोति ।

३७ - ५४ - असर्वद्रव्यगतौ कः दोषः ।

३८ - ५४ - गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति एकः शास्त्रोक्तम् कुर्वीत अपरः अशास्त्रोक्तम् ।

३९ - ५४ - अशास्त्रोक्ते च क्रियमाणे विगुणम् कर्म भवति ।

४० - ५४ - विगुणे च कर्मणि फलानवाप्तिः ।

४१ - ५४ - ननु च यस्य अपि आकृतिः पदार्थः तस्य अपि यदि अनवयवेन चोद्यते न च अनुबध्यते विगुणम् कर्म भवति ।

४२ - ५४ - विगुणे च कर्मणि फलानवाप्तिः ।

४३ - ५४ - एका आकृतिः इति च प्रतिज्ञा हीयेत ।

४४ - ५४ - यत् च अस्य पक्षस्य उपादाने प्रयोजनम् एकशेषः न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति ।

४५ - ५४ - एवम् तर्हि अनवयवेन चोद्यते प्रत्येकम् च परिसमाप्यते यथा आदित्यः ।

४६ - ५४ - ननु च यस्य अपि द्रव्यम् पदार्थः तस्य अपि अनवयवेन चोद्यते प्रत्येकम् च परिसमाप्यते ।

४७ - ५४ - एकशेषः त्वया वक्तव्यः ।

४८ - ५४ - त्वया अपि तर्हि द्विवचनबहुवचनानि साध्यानि ।

४९ - ५४ - चोदनायाम् च एकस्य उपाधिवृत्तेः ।

५० - ५४ - चोदनायाम् च एकस्य उपाधिवृत्तेः मन्यामहे आकृतिः अभिधीयते इति ।

५१ - ५४ - आग्नेयम् अष्टाकपालम् निर्वपेत् एकम् निरुप्य द्वितीयस् तृतीयः च निरुप्यते ।

५२ - ५४ - यदि च द्रव्यम् पदार्थः स्यात् एकम् निरुप्य द्वितीयस्य तृतीयस्य च निर्वपणम् न प्रकल्पेत ।

५३ - ५४ - कः पुनः एतयोः जातिचोदनयोः विशेषः ।

५४ - ५४ - एका निर्वृत्तेन अपरा निर्वर्त्येन ।

१ - २१ - द्रव्याभिधानम् व्याडिः । द्रव्याभिधानम् व्याडिः आचार्यः न्याय्यम् मन्यते द्रव्यम् अभिधीयते इति ।

२ - २१ - तथा च लिङ्गवचनसिद्धिः ।

३ - २१ - एवम् च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति ब्राह्मणी ब्राह्मणः, ब्राह्मणौ ब्राह्मणाः इति ।

४ - २१ - चोदनासु च तस्य आरम्भात् ।

५ - २१ - चोदनासु च तस्य आरम्भात् मन्यामहे द्रव्यम् अभिधीयते इति ।

६ - २१ - गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते ।

७ - २१ - न च एकम् अनेकाधिकरणस्थम् युगपत् ।

८ - २१ - न खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते ।

९ - २१ - न हि एकः देवदत्तः युगपत् स्रुघ्ने भवति मथुरायाम् च ।

१० - २१ - विनाशे प्रादुर्भावे च सर्वम् तथा स्यात् ।

११ - २१ - किम् ।

१२ - २१ - विनश्येत् च प्रादुः ष्यात् च ।

१३ - २१ - श्वा मृतः इति श्वा नाम लोके न प्रचरेत् ।

१४ - २१ - गौः जातः इति सर्वम् गोभूतम् अनवकाशम् स्यात् ।

१५ - २१ - अस्ति च वैरूप्यम् ।

१६ - २१ - अस्ति खलु अपि वैरूप्यम् गौः च गौः च खण्डः मुण्डः इति ।

१७ - २१ - तथा च विग्रहः ।

१८ - २१ - एवम् च कृत्वा विग्रहः उपपन्नः भवति गौः च गौः च इति ।

१९ - २१ - व्यर्थेषु च मुक्तसंशयम् ।

२० - २१ - व्यर्थेषु च मुक्तसंशयम् भवति ।

२१ - २१ - आकृतौ अपि पदार्थे एकशेषः वक्तव्यः अक्षाः, पादाः, माषाः इति ।

१ - ९५ - लिङ्गवचनसिद्धिः गुणस्य अनित्यत्वात् ।

२ - ९५ - लिङ्गवचनानि सिद्धानि भवन्ति ।

३ - ९५ - कुतः ।

४ - ९५ - गुणस्य अनित्यत्वात् ।

५ - ९५ - अनित्याः गुणाः अपायिनः उपायिनः च ।

६ - ९५ - किम् ये एते शुक्लादयः ।

७ - ९५ - न इति आह ।

८ - ९५ - स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च ।

९ - ९५ - कदा चित् आकृतिः एकत्वेन युज्यते कदा चित् द्वित्वेन कदा चित् बहुत्वेन कदा चित् स्त्रीत्वेन कदा चित् पुंस्त्वेन कदाचित् नपुंसकत्वेन ।

१० - ९५ - भवेत् लिङ्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते ।

११ - ९५ - यदि हि कदा चित् आकृतिः एकत्वेन युज्यते कदा चित् द्वित्वेन कदा चित् बहुत्वेन एका आकृतिः इति प्रतिज्ञा हीयेत ।

१२ - ९५ - यत् च अस्य पक्षस्य उपादाने प्रयोजनम् उक्तम् एकशेषः न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति ।

१३ - ९५ - एवम् तर्हि लिङ्गवचनसिद्धिः गुणविवक्षानित्यत्वात् ।

१४ - ९५ - लिङ्गवचनानि सिद्धानि भवन्ति ।

१५ - ९५ - कुतः ।

१६ - ९५ - गुणविवक्षायाः अनित्यत्वात् ।

१७ - ९५ - अनित्या गुणविवक्षा ।

१८ - ९५ - कदा चित् आकृतिः एकत्वेन विवक्षिता भवति कदा चित् द्वित्वेन कदा चित् बहुत्वेन कदा चित् स्त्रीत्वेन कदा चित् पुंस्त्वेन कदा चित् नपुंसकत्वेन ।

१९ - ९५ - भवेत् लिङ्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते ।

२० - ९५ - यदि कदा चित् आकृतिः एकत्वेन विवक्षिता भवति कदा चित् द्वित्वेन कदा चित् बहुत्वेन एका आकृतिः इति प्रतिज्ञा हीयेत ।

२१ - ९५ - यत् च अस्य पक्षस्य उपादाने प्रयोजनम् उक्तम् एकशेषः न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति ।

२२ - ९५ - लिङ्गपरिहारः च अपि न उपपद्यते ।

२३ - ९५ - किम् कारणम् ।

२४ - ९५ - आविष्टलिङ्गा जातिः यत् लिङ्गम् उपादाय प्रवर्तते उत्पत्तिप्रभृति आ विनाशात् तत् लिङ्गम् न जहाति ।

२५ - ९५ - तस्मात् न वैयाकरणैः शक्यम् लौकिकम् लिङ्गम् आस्थातुम् ।

२६ - ९५ - अवश्यम् कः चित् स्वकृतान्तः आस्थेयः ।

२७ - ९५ - कः असौ स्वकृतान्तः ।

२८ - ९५ - संस्त्यानप्रसवौ लिङ्गम् ।

२९ - ९५ - संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ ।

३० - ९५ - किम् इदम् संस्त्यानप्रसवौ इति ।

३१ - ९५ - संस्त्याने स्त्यायतेः ड्रट् स्त्री । सूतेः सप् प्रसवे पुमान् ।

३२ - ९५ - ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् ।

३३ - ९५ - अधिकरणसाधना लोके स्त्री स्त्यायति अस्याम् गर्भः इति ।

३४ - ९५ - कर्तृसाधनः च पुमान् सूते पुमान् इति ।

३५ - ९५ - इह पुनः उभयम् भावसाधनम् स्त्यानम् प्रवृत्तिः च ।

३६ - ९५ - कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् ।

३७ - ९५ - गुणानाम् ।

३८ - ९५ - केषाम् ।

३९ - ९५ - शब्दस्पर्शरूपरसगन्धानाम् ।

४० - ९५ - सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्दस्पर्शरूपरसगन्धवत्यः ।

४१ - ९५ - यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः शब्दः स्पर्शः रूपम् इति ।

४२ - ९५ - रसगन्धौ न सर्वत्र ।

४३ - ९५ - प्रवृत्तिः खलु अपि नित्या ।

४४ - ९५ - न हि इह कः चित् अपि स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते ।

४५ - ९५ - वर्धते यावत् अनेन वर्धितव्यम् अपचयेन वा युज्यते ।

४६ - ९५ - तत् च उभयम् सर्वत्र ।

४७ - ९५ - यदि उभयम् सर्वत्र कुतः व्यवस्था ।

४८ - ९५ - विवक्षातः. संस्त्यानविवक्षायाम् स्त्री प्रसवविवक्षायाम् पुमान् उभयोः अपि अविवक्षायाम् नपुंसकम् ।

४९ - ९५ - तत्र लिङ्गवचनसिद्धिः गुणविवक्षानित्यत्वात् इति लिङ्गपरिहारः उपपन्नः ।

५० - ९५ - वचनपरिहारः तु न उपपद्यते ।

५१ - ९५ - वचनपरिहारः च अपि उपपन्नः ।

५२ - ९५ - इदम् तावत् अयम् प्रष्टव्यः अथ यस्य द्रव्यम् पदार्थः कथम् तस्य एकवचनद्विवचनबहुवचनानि भवन्ति इति ।

५३ - ९५ - एवम् सः वक्ष्यति एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति ।

५४ - ९५ - यदि तस्य अपि वाचनिकानि न स्वाभाविकानि अहम् अपि एवम् वक्ष्यामि एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति ।

५५ - ९५ - न हि आकृतिपदार्थिकस्य द्रव्यम् न पदार्थः द्वव्यपदार्थिकस्य वा आकृतिः न पदार्थः ।

५६ - ९५ - उभयोः उभयम् पदार्थः ।

५७ - ९५ - कस्य चित् तु किम् चित् प्रधानभूतम् किम् चित् गुणभूतम् ।

५८ - ९५ - आकृतिपदार्थिकस्य आकृतिः प्रधानभूता द्रव्यम् गुणभूतम् ।

५९ - ९५ - द्रव्यपदार्थिकस्य द्रव्यम् प्रधानभूतम् आकृतिः गुणभूता ।

६० - ९५ - गुणवचनवत् वा ।

६१ - ९५ - गुणवचनवत् वा लिङ्गवचनानि भविष्यन्ति ।

६२ - ९५ - तत् यथा गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति शुक्लम् वस्त्रम्, शुक्ला शाटी शुक्लः कम्बलः, शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

६३ - ९५ - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

६४ - ९५ - एवम् इह अपि यत् असौ द्रव्यम् श्रिता आकृतिः तस्य यत् लिङ्गम् वचनम् च तत् आकृतेः अपि भविष्यति ।

६५ - ९५ - अधिकरणगतिः साहचर्यात् ।

६६ - ९५ - आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि भविष्यन्ति ।

६७ - ९५ - न च एकम् अनेकाधिकरणस्थम् युगपत् इति आदित्यवत् विषयः ।

६८ - ९५ - न खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते इति आदित्यवत् विषयः भविष्यति ।

६९ - ९५ - तत् यथा एकः आदित्यः अनेकाधिकरणस्थः युगपत् उपलभ्यते ।

७० - ९५ - विषमः उपन्यासः ।

७१ - ९५ - न एकः द्रष्टा अनेकाधिकरणस्थम् आदित्यम् युगपत् उपलभते ।

७२ - ९५ - एवम् तर्हि इतीन्द्रवत् विषयः ।

७३ - ९५ - तद् यथा एकः इन्द्रः अनेकस्मिन् क्रतुशते आहूतः युगपत् सर्वत्र भवति एवम् आकृतिः युगपत् सर्वत्र भविष्यति ।

७४ - ९५ - अविनाशः अनाश्रितत्वात् ।

७५ - ९५ - द्रव्यविनाशे आकृतेः अविनाशः ।

७६ - ९५ - कुतः ।

७७ - ९५ - अनाश्रितत्वात् ।

७८ - ९५ - अनाश्रिता आकृतिः द्रव्यम् ।

७९ - ९५ - किम् उच्यते अनाश्रितत्वात् इति यत् इदानीम् एव उक्तम् अधिकरणगतिः साहचर्यात् इति ।

८० - ९५ - एवम् तर्हि अविनाशः अनैकात्म्यात् ।

८१ - ९५ - द्रव्यविनाशे आकृतेः अविनाशः ।

८२ - ९५ - कुतः ।

८३ - ९५ - अनैकात्म्यात् ।

८४ - ९५ - अनेकः आत्मा आकृतेः द्रव्यस्य च ।

८५ - ९५ - तत् यथा वृक्षस्थः अवतानः वृक्षे छिन्ने अपि न विनश्यति ।

८६ - ९५ - वैरूप्यविग्रहौ द्रव्यभेदात् । वैरूप्यविग्रहौ अपि द्रव्यभेदात् भविष्यतः ।

८७ - ९५ - व्यर्थेषु च सामान्यात् सिद्धम् ।

८८ - ९५ - विभिन्नार्थेषु च सामान्यात् सिद्धम् सर्वम् ।

८९ - ९५ - अश्नोतेः अक्षः ।

९० - ९५ - पद्यतेः पादः ।

९१ - ९५ - मिमीतेः माषः ।

९२ - ९५ - तत्र क्रियासामान्यात् सिद्धम् ।

९३ - ९५ - अपरः तु आह ।

९४ - ९५ - पुराकल्पे एतत् आसीत् षोडश माषाः कार्षापणम् षोडशफलाःच माषशम्बट्यः ।

९५ - ९५ - तत्र संख्यासामान्यात् सिद्धम् ।

१ - ३ - इह कस्मात् न भवति अजः च बर्करः च, अश्वः च किशोरः च, उष्ट्रः च करभः च इति ।

२ - ३ - तल्लक्षणः चेत् एव विशेषः इति उच्यते न च अत्र तल्लक्षणः एव विशेषः ।

३ - ३ - तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः ।

१ - ७ - इदम् सर्वेषु स्त्रीग्रहणेषु विचार्यते स्त्रीग्रहणे स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्र्यर्थग्रहणम् वा स्त्रीशब्दग्रहणम् वा इति ।

२ - ७ - किम् च अतः ।

३ - ७ - यदि प्रत्ययग्रहणम् वा शब्दग्रहणम् वा गार्गी च गार्ग्यायणौ च गर्गाः केन यशब्दः न श्रूयेत ।

४ - ७ - अस्त्रियाम् इति हि लुक् उच्यते ।

५ - ७ - इह च गार्गी च गार्ग्यायणौ च गर्गान् पश्य तस्मात् शसः नः पुंसि इति नत्वम् न प्राप्नोति ।

६ - ७ - अथ अर्थग्रहणम् न दोषः भवति ।

७ - ७ - यथा न दोषः तथा अस्तु

१ - ४ - इह कस्मात् न भवति अजा च बर्करः च, वडवा च किशोरः च, उष्ट्री च करभः च इति ।

२ - ४ - तल्लक्षणः चेत् एव विशेषः इति उच्यते ।

३ - ४ - न च अत्र तल्लक्षणः एव विशेषः ।

४ - ४ - तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः ।

१ - ४ - इह कस्मात् न भवति हंसः च वरटा च कच्छपः च डुली च, र्श्यः च रोहित् च इति ।

२ - ४ - तल्लक्षणः चेत् एव विशेषः इति उच्यते ।

३ - ४ - न च अत्र तल्लक्षणः एव विशेषः ।

४ - ४ - तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः ।

१ - ११ - किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् ।

२ - ११ - न सिध्यति ।

३ - ११ - तल्लक्षणः चेत् एव विशेषः इति उच्यते ।

४ - ११ - न च अत्र तल्लक्षणः एव विशेषः ।

५ - ११ - तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः ।

६ - ११ - एवम् तर्हि सिद्धे सति यत् इमम् योगम् शास्ति तत् ज्ञापयति आचार्यः यत्र ऊर्ध्वम् प्रकृतेः तल्लक्षणः एव विशेषः तत्र एकशेषः भवति इति ।

७ - ११ - किम् एतस्य ज्ञापने प्रयोजनम् ।

८ - ११ - हंसः च वरटा च, कच्छपः च डुली च, र्श्यः च रोहित् च इति अत्र एकशेषः न भवति ।

९ - ११ - पूर्वयोः योगयोः भूयान् परिहारः ।

१० - ११ - यावत् ब्रूयात् गोत्रम् यूना इति तावत् वृद्धः यूना इति ।

११ - ११ - पूर्वसूत्रे गोत्रस्य वृद्धम् इति सञ्ज्ञा क्रियते ।

१ - २७ - असरूपाणाम् युवस्थविरस्त्रीपुंसानाम् विशेषस्य अविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात् सिद्धम् । असरूपाणाम् युवस्थविरस्त्रीपुंसानाम् विशेषः च अविवक्षितः सामान्यम् च विवक्षितम् ।

२ - २७ - विशेषस्य अविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात् सरूपाणाम् एकशेषः एकविभक्तौ इति एव सिद्धम् ।

३ - २७ - पुमान् स्त्रिया इह कस्मात् न भवति ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति ।

४ - २७ - ब्राह्मणवत्साब्राह्मणीवत्सयोः विभक्तिपरस्य विशेषवाचकत्वात् अनेकशेषः ।

५ - २७ - ब्राह्मणवत्साब्राह्मणीवत्सयोः लिङ्गस्य विभक्तिपरस्य विशेषवाचकत्वात् एकशेषः न भविष्यति ।

६ - २७ - यत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् तत्र एकशेषः भवति ।

७ - २७ - न अत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् ।

८ - २७ - यदि तर्हि यत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् तत्र एकशेषः भवति इह न प्राप्नोति कारकः च कारिका च कारकौ ।

९ - २७ - न हि अत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् ।

१० - २७ - कथम् पुनः इदम् विज्ञायते शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति आहोस्वित् अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति ।

११ - २७ - किम् च अतः ।

१२ - २७ - यदि विज्ञायते शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति सिद्धम् कारकः च कारिका च कारकौ ।

१३ - २७ - इदम् तु न सिध्यति गोमान् च गोमती च गोमन्तौ ।

१४ - २७ - अथ विज्ञायते अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति सिद्धम् गोमान् च गोमती च गोमन्तौ ।

१५ - २७ - इदम् तु न सिध्यति कारकः च कारिका च कारकौ ।

१६ - २७ - उभयथा अपि पटुः च पट्वी च पटू इति एतत् न सिध्यति ।

१७ - २७ - एवम् तर्हि न एवम् विज्ञायते शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति न अपि अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति ।

१८ - २७ - कथम् तर्हि ।

१९ - २७ - शब्दार्थौ या स्त्री तत्सद्भावेन च तल्लक्षणः विशेषः आश्रीयते ।

२० - २७ - एवम् च कृत्वा इह अपि प्राप्तिः ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति ।

२१ - २७ - एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।

२२ - २७ - किम् ।

२३ - २७ - तत् इति अनुवर्तते ।

२४ - २७ - तत् इति अनेन प्रकृतौ स्त्रीपुंसौ प्रतिनिर्दिश्येते ।

२५ - २७ - कौ च प्रकृतौ ।

२६ - २७ - प्रधाने ।

२७ - २७ - प्रधानम् या शब्दस्त्री प्रधानम् या अर्थस्त्री इति ।

१ - १७ - अयम् योगः शक्यः अवक्तुम् ।

२ - १७ - कथम् शुक्लः च कम्बलः शुक्लम् च वस्त्रम् तत् इदम् शुक्लम्, ते इमे शुक्ले, शुक्लः च कम्बलः शुक्ला च बृहतिका शुक्लम् च वस्त्रम् तत् इदम् शुक्लम्, तानि इमनि शुक्लानि ।

३ - १७ - प्रधाने कार्यसम्प्रत्ययात् शेषः ।

४ - १७ - प्रधाने कार्यसम्प्रत्ययात् शेषः भविष्यति ।

५ - १७ - किम् च प्रधानम् ।

६ - १७ - नपुंसकम् ।

७ - १७ - कथम् पुनः ज्ञायते नपुंसकम् प्रधानम् इति ।

८ - १७ - एवम् हि दृश्यते लोके अनिर्ज्ञाते अर्थे गुणसन्देहे च नपुंसकलिङ्गम् प्रयुज्यते ।

९ - १७ - किम् जातम् इति उच्यते ।

१० - १७ - द्वयम् च एव हि जायते स्त्री वा पुमान् वा ।

११ - १७ - तथा विदूरे अव्यक्तम् आरूपम् दृष्ट्वा वक्तारः भवन्ति महिषीरूपम् इव ब्राह्मणीरूपम् इव ।

१२ - १७ - प्रधाने कार्यसम्प्रत्ययात् नपुंसकस्य शेषः भविष्यति ।

१३ - १७ - इदम् तर्हि प्रयोजनम् एकवत् च अस्य अन्यतरस्याम् इति वक्ष्यामि इति ।

१४ - १७ - एतत् अपि न अस्ति प्रयोजनम् ।

१५ - १७ - आकृतिवाचित्वात् एकवचनम् ।

१६ - १७ - आकृतिवाचित्वात् एकवचनम् भविष्यति ।

१७ - १७ - यदा द्रव्याभिधानम् तदा द्विवचनबहुवचने भविष्यतः ।

१ - २७ - किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् ।

२ - २७ - भ्रातृपुत्रपितृश्वशुराणाम् कारणात् द्रव्ये शब्दनिवेशः ।

३ - २७ - भ्रातृपुत्रपितृश्वशुराणाम् कारणात् द्रव्ये शब्दनिवेशः भवति ।

४ - २७ - भ्रातृपुत्रपितृश्वशुराणाम् कारणाद् द्रव्ये शब्दनिवेशः इति चेत् तुल्यकारणत्वात् सिद्धम् ।

५ - २७ - यदि तावत् बिभर्ति इति भ्राता स्वसरि अपि एतत् भवति ।

६ - २७ - तथा यदि पुनाति प्रीणाति इति वा पुत्रः दुहितरि अपि एतत् भवति ।

७ - २७ - तथा यदि पाति पालयति इति वा पिता मातरि अपि एतत् भवति ।

८ - २७ - तथा यदि आशु आप्तव्यः श्वशुरः श्वश्र्वाम् अपि एतत् भवति ।

९ - २७ - दर्शनम् वै हेतुः ।

१० - २७ - न हि स्वसरि भ्रातृशब्दः दृश्यते ।

११ - २७ - दर्शनम् हेतुः इति चेत् तुल्यम् ।

१२ - २७ - दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति ।

१३ - २७ - स्वसरि अपि भ्रातृशब्दः दृश्यताम् ।

१४ - २७ - तुल्यम् हि कारणम् ।

१५ - २७ - न वै एषः लोके सम्प्रत्ययः ।

१६ - २७ - न हि लोके भ्राता आनीयताम् इति उक्ते स्वसा आनीयते ।

१७ - २७ - तद्विषयम् च ।

१८ - २७ - तद्विषयम् च एतत् द्रष्टव्यम् भवति स्वसरि भ्रातृत्वम् ।

१९ - २७ - किंविषयम् ।

२० - २७ - एकशेषविषयम् ।

२१ - २७ - युक्तम् पुनः यत् नियतविषयाः शब्दाः स्युः ।

२२ - २७ - बाढम् युक्तम् ।

२३ - २७ - अन्यत्र अपि तद्विषयदर्शनात् ।

२४ - २७ - अन्यत्र अपि तद्विषयाः शब्दाः दृश्यन्ते ।

२५ - २७ - तत् यथा समाने रक्ते वर्णे गौः लोहितः इति भवति अश्वः शोणः इति ।

२६ - २७ - समाने च काले वर्णे गौः कृष्णः इति भवति अश्वः हेमः इति ।

२७ - २७ - समाने च शुक्ले वर्णे गौः श्वेतः इति भवति अश्वः कर्कः इति ।

१ - ८ - त्यदादितः शेषे पुन्नपुंसकतः लिङ्गवचनानि ।

२ - ८ - त्यदादितः शेषे पुन्नपुंसकतः लिङ्गवचनानि भवन्ति ।

३ - ८ - सा च देवदत्तः च तौ सा च कुण्डे च तानि ।

४ - ८ - अद्वन्द्वतत्पुरुषविशेषणानाम् ।

५ - ८ - अद्वन्द्वतत्पुरुषविशेषणानाम् इति वक्तव्यम् ।

६ - ८ - इह मा भूत् ।

७ - ८ - सः च कुक्कुटः सा च मयूरी कुक्कुटमयूर्यौ ते ।

८ - ८ - अर्धम् पिप्पल्याः तत् अर्धपिप्पली च सा अर्धपिप्पल्यौ ते ।

१ - ३१ - अयम् अपि योगः शक्यः अवक्तुम् ।

२ - ३१ - कथम् ।

३ - ३१ - त्यदादीनाम् सामान्यार्थत्वात् ।

४ - ३१ - त्यदादीनाम् सामान्यम् अर्थः ।

५ - ३१ - आतः च सामान्यम् ।

६ - ३१ - देवदत्ते अपि हि सः इति एतत् भवति यज्ञदत्ते अपि ।

७ - ३१ - त्यदादीनाम् सामान्यार्थत्वात् शेषः भविष्यति ।

८ - ३१ - इदम् तर्हि प्रयोजनम् परस्य शेषम् वक्ष्यामि इति ।

९ - ३१ - परस्य च उभयवाचित्वात् ।

१० - ३१ - उभयवाचि परम् ।

११ - ३१ - पूर्वशेषदर्शनात् च ।

१२ - ३१ - पूर्वस्य खलु अपि शेषः दृश्यते सः च यः च तौ आनय, यौ आनय इति ।

१३ - ३१ - इदम् तर्हि प्रयोजनम् ॒द्वन्द्वः मा भूत् इति ।

१४ - ३१ - एतत् अपि न अस्ति प्रयोजनम् ।

१५ - ३१ - सामान्यविशेषवाचिनोः च द्वन्द्वाभावात् सिद्धम् । सामान्यविशेषवाचिनोः च द्वन्द्वः न भवति इति वक्तव्यम् ।

१६ - ३१ - यदि सामान्यविशेषवाचिनोः द्वन्द्वः न भवति इति उच्यते शूद्राभीरम्, गोबलीवर्दम्, तृणोलपम् इति न सिध्यति ।

१७ - ३१ - न एषः दोषः ।

१८ - ३१ - इह तावत् शूद्राभीरम् इति आभीराः जात्यन्तराणि ।

१९ - ३१ - गोबलीवर्दम् इति गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च ।

२० - ३१ - स्त्रियः एव अवशिष्यन्ते ।

२१ - ३१ - तृणोलपम् इति अपाम् उलपम् इति नामधेयम् ।

२२ - ३१ - तत् तर्हि वक्तव्यम् ।

२३ - ३१ - न वक्तव्यम् ।

२४ - ३१ - सामान्येन उक्तत्वात् विशेषस्य प्रयोगः न भविष्यति ।

२५ - ३१ - सामान्येन उक्तत्वात् तस्य अर्थस्य विशेषस्य प्रयोगेण न भवितव्यम् ।

२६ - ३१ - किम् कारणम् ।

२७ - ३१ - उक्तार्थानाम् अप्रयोगः इति ।

२८ - ३१ - न तर्हि इदानीम् इदम् भवति तम् ब्राह्मणम् आनय गार्ग्यम् इति ।

२९ - ३१ - भवति यदा नियोगतः तस्य एव आनयनम् भवति ।

३० - ३१ - एवम् तर्हि येन एव खलु अपि हेतुना एतत् वाक्यम् भवति तम् ब्राह्मणम् आनय गार्ग्यम् इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।

३१ - ३१ - तस्मात् सामान्यविशेषवाचिनोः द्वन्द्वः न भवति इति वक्तव्यम् ।

१ - १९ - अयम् अपि योगः शक्यः अवक्तुम् ।

२ - १९ - कथम् गावः इमाः चरन्ति, अजाः इमाः चरन्ति ।

३ - १९ - गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च ।

४ - १९ - स्त्रियः एव अवशिष्यन्ते ।

५ - १९ - इदम् तर्हि प्रयोजनम् ग्राम्येषु इति वक्ष्यामि इति ।

६ - १९ - इह मा भूत् न्यङ्कवः इमे, शूकराः इमे इति ।

७ - १९ - कः पुनः अर्हति अग्राम्याणाम् पुंसः उत्कालयितुम् ये ग्रहीतुम् अशक्याः ।

८ - १९ - कुतः एव वाहाय च विक्रयाय च ।

९ - १९ - इदम् तर्हि प्रयोजनम् पशुषु इति वक्ष्यामि इति ।

१० - १९ - इह मा भूत् ब्राह्मणाः इमे, वृषलाः इमे ।

११ - १९ - कः पुनः अर्हति अपशूनाम् पुंसः उत्कालयितुम् ये अशक्याः वाहाय च विक्रयाय च ।

१२ - १९ - इदम् तर्हि प्रयोजनम् सङ्घेषु इति वक्ष्यामि इति ।

१३ - १९ - इह मा भूत् एतौ गावः चरतः ।

१४ - १९ - कः पुनः अर्हति निर्ज्ञाते अर्थे अन्यथा प्रयोक्तुम् ।

१५ - १९ - इदम् तर्हि प्रयोजनम् अतरुणेषु इति वक्ष्यामि इति ।

१६ - १९ - इह मा भूत् उरणकाः इमे, बर्कराः इमे इति ।

१७ - १९ - कः पुनः अर्हति तरुणानाम् पुंसः उत्कालयितुम् ये अशक्याः वाहाय च विक्रयाय च ।

१८ - १९ - अनेकशफेषु इति वक्तव्यम् इह मा भूत् अश्वाः चरन्ति ।

१९ - १९ - गर्दभाः चरन्ति इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP