चिकित्सास्थान - रसायनाध्याय २
चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.
Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः ॥६-२.१॥
इति ह स्माह भगवान् आत्रेयः ॥६-२.२॥
आयुर्वेददीपिका
पूर्वपादे ह्य् आमलकरसायनान्युक्तानि इहाप्यामलकरसायनानि सन्तीति प्राणकामीयम् अनन्तरम् उच्यते ॥१॥
प्राणकामशब्दम् अधिकृत्य कृतम् इति प्राणकामीयम् ॥२॥
प्राणकामाः शुश्रूषध्वम् इदम् उच्यमानम् अमृतम् इवापरम् अदितिसुतहितकरम् अचिन्त्याद्भुतप्रभावम् आयुष्यम् आरोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरम् अनिलकफपित्तसाम्यकरं स्थैर्यकरम् अबद्धमांसहरम् अन्तरग्निसंधुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम् ।
अनेन च्यवनादयो महर्षयः पुनर्युवत्वम् आपुर् नारीणां चेष्टतमा बभूवुः स्थिरसमसुविभक्तमांसाः सुसंहतस्थिरशरीराः सुप्रसन्नबलवर्णेन्द्रियाः सर्वत्राप्रतिहतपराक्रमाः क्लेशसहाश् च ।
सर्वे शरीरदोषा भवन्ति ग्राम्याहाराद् अम्लत्वलवणकटुकक्षारशुक्रशाकमांसतिलपललपिष्टान्नभोजिनां विरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनां क्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामसंक्षोभितशरीराणां भयक्रोधशोकलोभमोहायासबहुलानाम् अतोनिमित्तं हि शिथिलीभवन्ति मांसानि विमुच्यन्ते संधयः विदह्यते रक्तं विष्यन्दते चानल्पं मेदः न संधीयते ऽस्थिषु मज्जा शुक्रं न प्रवर्तते क्षयमुपैत्योजः स एवंभूते ग्लायति सीदति निद्रातन्द्रालस्यसमन्वितो निरुत्साहः श्वसिति असमर्थश्चेष्टानां शारीरमानसीनां नष्टस्मृतिबुद्धिच्छायो रोगाणाम् अधिष्ठानभूतो न सर्वमायुरवाप्नोति ।
तस्मादेतान्दोषानवेक्षमाणः सर्वान् यथोक्तान् अहितान् अपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुर् आत्रेय उवाच ॥६-२.३॥
आयुर्वेददीपिका
निद्राहरत्वं रसायनस्य वैकारिकनिद्राहरत्वेन किंवा देववत्सर्वदा प्रबुद्धो निद्रारहितो भवति ॥१॥
तन्द्रालक्षणं तन्त्रान्तरे ।
इन्द्रियार्थेष्वसंवित्तिर् गौरवं जृम्भणं क्लमः ।
निद्रार्तस्येव यस्यैते तस्य तन्द्रां विनिर्दिशेत् इति ॥२॥
अबद्धमांसम् अनिबिडमांसम् ॥३॥
उत्तमानि प्रभादीनि करोतीति प्रभावर्णस्वरोत्तमकरम् ॥४॥
एवंजातीयश् च पूर्वनिपातानियमो ऽप्रतिबन्धेन चरकेऽस्ति स मयूरव्यंसकादिपाठाद् द्रष्टव्यः ॥५॥
अनेन हीत्यादिना पुरावृत्तकथनेन रसायनानि वक्ष्यमाणानि प्रवृत्त्यर्थं स्तौति ॥६॥
रसायनप्रयोगे वर्जनीयं ग्राम्याहारादि दूषणत्वेन निर्दिशन्नाह सर्वे इत्यादि ॥७॥
तिलस्तु अचूर्णितस् तिलः पललं तिलचूर्णम् ॥८॥
अतोनिमित्तमिति ग्राम्याहारादिकारणकम् ॥९॥
शुक्रं न प्रवर्तत इति नोत्पद्यते शुक्रमित्यर्थः ॥१०॥
आमलकानां सुभूमिजानां कालजानाम् अनुपहतगन्धवर्णरसानाम् आपूर्णसप्रमाणवीर्याणां स्वरसेन पुनर्नवाकल्कपादसम्प्रयुक्तेन सर्पिषः साधयेदाढकम् अतः परं विदारीस्वरसेन जीवन्तीकल्कसम्प्रयुक्तेन अतः परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरीकल्कसंयुक्तेन अनेन क्रमेणैकैकं शतपाकं सहस्रपाकं वा शर्कराक्षौद्रचतुर्भागसम्प्रयुक्तं सौवर्णे राजते मार्त्तिके वा शुचौ दृढे घृतभाविते कुम्भे स्थापयेत् तद्यथोक्तेन विधिना यथाग्नि प्रातः प्रातः प्रयोजयेत् जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकम् अश्नीयात् ।
अस्य प्रयोगाद्वर्षशतं वयोऽजरं तिष्ठति श्रुतमवतिष्ठते सर्वामयाः प्रशाम्यन्ति अप्रतिहतगतिः स्त्रीषु अपत्यवान् भवतीति ॥६-२.४॥
बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च ।
अधृष्यमन्यैर् अतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च ॥६-२.५॥
बलं महद्वर्णविशुद्धिर् अग्र्या स्वरो घनौघस्तनितानुकारी ।
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य ॥६-२.६॥
आयुर्वेददीपिका
एकैकशः शतपाकम् इत्यर्थः ॥१॥
एकैकपाकसाधनं पृथक् कर्तव्यं तेन त्रिशतधा पाको भवति ॥२॥
अत्र च कल्कोपलेपादि नोपक्षीणमपि यदवशिष्टं भवति तदेव ग्राह्यं वचनबलात् ॥३॥
सौवर्णादिपात्रेषु यथापूर्वं वरगुणत्वम् अन्यथा समानगुणत्वे सर्वेषां मृत्पात्रस्य सुलभत्वेनातिदुर्लभतरं सौवर्णपात्रं नोपदेशम् अर्हति ॥४॥
यथोक्तेन विधिनेति कुटीप्रावेशिकेन ॥५॥
गिरिसारः लोहम् ॥६॥
आमलकसहस्रं पिप्पलीसहस्रसम्प्रयुक्तं पलाशतरुणक्षारोदकोत्तरं तिष्ठेत् तदनुगतक्षारोदकम् अनातपशुष्कम् अनस्थि चूर्णीकृतं चतुर्गुणाभ्यां मधुसर्पिर्भ्यां संनीय शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमेः ।
तस्योत्तरकालमग्निबलसमां मात्रां खादेत् पौर्वाह्णिकः प्रयोगो नापराह्णिकः सात्म्यापेक्षश्चाहारविधिः ।
अस्य प्रयोगाद् वर्षशतमजरं वयस् तिष्ठतीति समानं पूर्वेण ॥६-२.७॥
आयुर्वेददीपिका
पलाशतरुणः तरुणपलाशः अनेन बालवृद्धपलाशवर्जनम् उच्यते ॥१॥
क्षारोदकोत्तरमिति यथा क्षारोदकं भाव्यादुपरि भवति तथा कर्तव्यमिति दर्शयति ॥२॥
चतुर्भागः पादः ॥३॥
समानं पूर्वेणेति पूर्वयोगफलश्रुत्यैतदपि युक्तम् इत्यर्थः ॥४॥
आमलकचूर्णाढकम् एकविंशतिरात्रम् आमलकस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृतम् अष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात् तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत् अस्य प्रयोगाद् वर्षशतम् अजरम् आयुस् तिष्ठतीति समानं पूर्वेण ॥६-२.८॥
विडङ्गतण्डुलचूर्णानाम् आढकमाढकं पिप्पलीतण्डुलानाम् अध्यर्धाढकं सितोपलायाः सर्पिस्तैलमध्वाढकैः षड्भिर् एकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशाव् इति सर्वं समानं पूर्वेण यावद् आशीः ॥६-२.९॥
आयुर्वेददीपिका
यावद् आशीर् इति आशीः फलश्रुतिः तेन तद्वर्षान्ते इत्यादि ग्रन्थोक्तविधिविधानं दर्शयति ॥१॥
यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पम् अनुद्वमन्त्याम् आरण्यगोमयाग्निभिर् उपस्वेदयेत् तानि सुस्विन्नशीतान्य् उद्धृतकुलकान्य् आपोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानाम् अध्यर्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्याम् आढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेद् एकविंशतिरात्रम् अत ऊर्ध्वं प्रयोगः अस्य प्रयोगाद्वर्षशतम् अजरम् आयुस् तिष्ठतीति समानं पूर्वेण ॥६-२.१०॥
आयुर्वेददीपिका
पूर्वेणेति पूर्वयोगफलश्रुतिपर्यन्तं पूर्वयोगेनास्य समानमित्यर्थः ॥१॥
धन्वनि कुशास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविषश्वापदपवनसलिलाग्निदोषे कर्षणवल्मीकश्मशानचैत्योषरावसथवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते जातान्य् अनुपहतान्य् अनध्यारूढान्य् अबालान्य् अजीर्णान्य् अधिगतवीर्याणि शीर्णपुराणपर्णान्य् असंजातान्य् अपर्णानि तपसि तपस्ये वा मासे शुचिः प्रयतः कृतदेवार्चनः स्वस्ति वाचयित्वा द्विजातीन् चले सुमुहूर्ते नागबलामूलान्य् उद्धरेत् तेषां सुप्रक्षालितानां त्वक्पिण्डम् आम्रमात्रम् अक्षमात्रं वा श्लक्ष्णपिष्टमालोड्य पयसा प्रातः प्रयोजयेत् चूर्णीकृतानि वा पिबेत् पयसा मधुसर्पिर्भ्यां वा संयोज्य भक्षयेत् जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकम् अश्नीयात् ।
संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥६-२.११॥
आयुर्वेददीपिका
धन्वनीति जाङ्गलदेशे ।
कर्षणं हलादिना ।
अनध्यारूढानीति न महता पार्श्वस्थेन वृक्षेणाक्रान्तानि ।
तपसि माघे ॥१॥
तपस्ये इति फाल्गुने ।
चले सुमुहूर्त इति इन्द्रे मुहूर्ते ।
आम्रमात्रमिति पलपरिमाणम् ॥२॥
बलातिबलाचन्दनागुरुधवतिनिशखदिरशिंशपासनस्वरसाः पुनर्नवान्ताश्चौषधयो दश नागबलया व्याख्याताः ।
स्वरसानामलाभे त्व् अयं स्वरसविधिश् चूर्णानाम् आढकम् आढकम् उदकस्याहोरात्रास्थितं मृदितपूतं स्वरसवत् प्रयोज्यम् ॥६-२.१२॥
आयुर्वेददीपिका
पुनर्नवान्ता दश षड्विरेचनशताश्रितीये अमृताभया धात्री युक्ता श्रेयसी श्वेतातिरसा मण्डूकपर्णी स्थिरा पुनर्नवा इति सर्वा वयःस्थापनोक्ताः ॥१॥
नागबलया व्याख्याता इति नागबलावत्तेषामपि प्रयोगः ॥२॥
बलादीनां स्वरसेनैव विधानम् ॥३॥
नागबलावद् भोजनादिकं ज्ञेयम् ॥४॥
स्वरसालाभे ऽनुकल्पम् आह स्वरसानाम् इत्यादि ॥५॥
भल्लातकान्य् अनुपहतान्य् अनामयान्य् आपूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे संगृह्य यवपल्ले माषपल्ले वा निधापयेत् तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे प्रयोक्तुम् आरभेत शीतस्निग्धमधुरोपस्कृतशरीरः ।
पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत् तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत् सर्पिषान्तर् मुखम् अभ्यज्य ।
तान्य् एकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्य् आ त्रिंशतः प्रयोज्यानि नातः परमुत्कर्षः ।
प्रयोगविधानेन सहस्रपर एव भल्लातकप्रयोगः ।
जीर्णे च ससर्पिषा पयसा शालिषष्टिकाशनम् उपचारः प्रयोगान्ते च द्विस् तावत् पयसैवोपचारः ।
तत्प्रयोगाद्वर्षशतमजरं वयस् तिष्ठतीति समानं पूर्वेण ॥६-२.१३॥
आयुर्वेददीपिका
शुचिः ज्येष्ठः शुक्रस्तु आषाढः सह आग्रहायणः सहस्यः पौषः ॥१॥
एतच्च भल्लातकं मासचतुष्टयस्थितं यवपल्लादौ उद्धृतमात्रं न प्रयोज्यं किंतु यथोक्त एव काले शीतगुणयुक्ते ॥२॥
मुखदाहपरिहारार्थं सर्पिषान्तर् मुखम् अभ्यज्येति ॥३॥
नातः परमिति त्रिंशतः परेण प्रयोगो न भल्लातकस्य ॥४॥
सहस्रपरो भल्लातकप्रयोग इति उपयुक्तभल्लातकसंपिण्डनया यदा सहस्रं पूर्यते तदैवोपरमः कर्तव्यः सहस्रादर्वागपि च प्रयोगपरित्यागः प्रकृत्याद्यपेक्षया भवत्येव ॥५॥
सहस्रसंख्यापूरणं चेहैकेन वर्धनह्रासक्रमेण न भवति तेन पुनर् आवृत्त्या च त्रिंशत्पर्यन्तं प्रयोगः कर्तव्यः यथा हि भल्लातकप्रयोगाभ्यासेन सहस्रसंख्यापूरणं भवति तथा कृत्वा परित्यागः कर्तव्यः ॥६॥
अन्ये त्व् अत्र सुश्रुते अर्शश्चिकित्सितोक्तशतपर्यन्तं भल्लातकप्रयोगेण समं विरोधं पश्यन्तः सुश्रुतप्रयोगस्याप्यन्यथा व्याख्यानेन त्रिंशत्कमात्रं प्रयोगमिच्छन्ति तच्च व्याख्यानं नातिसंगतम् ॥७॥
किंच सहस्रद्वयस्य तत्रोपयोगो विहितः अत्र सहस्रपर्यन्तः प्रयोगः तेन व्याधिविषयोऽन्य एव स प्रयोगः अयं तु रसायनविषयः ॥८॥
भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमाव् आकण्ठं निखातस्य स्नेहभावितस्य दृढस्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तं गोमयाग्निभिर् उपस्वेदयेत् तेषां यः स्वरसः कुम्भं प्रपद्येत तम् अष्टभागमधुसम्प्रयुक्तं द्विगुणघृतम् अद्यात् तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥६-२.१४॥
आयुर्वेददीपिका
पिष्टस्वेदनं तत् यत्रस्थं पिष्टकम् उपस्वेद्यते तदुपरि यत् पिधानपात्रं तच्चेह सच्छिद्रं ग्राह्यम् अन्यथोपरिस्थभल्लातकतापाच् च्युतः स्नेहो नाधो याति ॥१॥
भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण ॥६-२.१५॥
आयुर्वेददीपिका
भल्लातकतैलम् इति अनन्तरोक्तविधानेन गृहीतो भल्लातकस्नेहः ॥१॥
भल्लातकसर्पिः भल्लातकक्षीरं भल्लातकक्षौद्रं गुडभल्लातकं भल्लातकयूषः भल्लातकतैलं भल्लातकपललं भल्लातकसक्तवः भल्लातकलवणं भल्लातकतर्पणम् इति भल्लातकविधानमुक्तं भवति ॥६-२.१६॥
आयुर्वेददीपिका
भल्लातकसर्पिर् इत्यादयो दशप्रयोगाः ॥१॥
अत्र च यथायोग्यतया भल्लातकेन सर्पिरादीनां संस्कारः संयोगश्च ज्ञेयः ॥२॥
यदुक्तं जतूकर्णे भल्लातकसंयुक्तसंस्कृतानि च घृतक्षीरक्षौद्रगुडयूषतैलपललसक्तुलवणतर्पणानि इति ॥३॥
एवं च सर्पिःक्षीरयूषतैलानां संस्कारो यथान्यायं भल्लातकेन क्षौद्रपललसक्तुतर्पणानां भल्लातकेन योगः गुडलवणयोस्तु संस्कारः संयोगो वा ॥४॥
लवणे संस्कारपक्षे हि लवणसमं भल्लातकम् अन्तर्धूमदग्धं ग्राह्यम् ॥५॥
अन्ये तु सर्पिरादीनां सर्वेषामेव भल्लातकेन संस्कारं व्याख्यानयन्ति ॥६॥
इह सक्तुप्रयोगोऽद्रवोत्तरत्वाद् अविशेषकर्मणा भेदनीयः ॥७॥
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च ।
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि ॥६-२.१७॥
एते दशविधास्त्वेषां प्रयोगाः परिकीर्तिताः ।
रोगप्रकृतिसात्म्यज्ञस् तान् प्रयोगान् प्रकल्पयेत् ॥६-२.१८॥
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन ।
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम् ॥६-२.१९॥
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः ।
रसायनैः शिवैर् एतैर् बभूवुर् अमितायुषः ॥६-२.२०॥
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च ।
दीर्घायुषो यथाकामं संभृत्य त्रिदिवं गताः ॥६-२.२१॥
तस्मादायुःप्रकर्षार्थं प्राणकामैः सुखार्थिभिः ।
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः ॥६-२.२२॥
आयुर्वेददीपिका
अग्निसमानीति दाहस्फोटकर्तृतया ॥१॥
संभृत्येति निष्पाद्य ॥२॥
रसायनानां संयोगाः सिद्धा भूतहितैषिणा ।
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ॥६-२.२३॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः ॥६-२.२४॥
आयुर्वेददीपिका
पादानुसंग्रहे सप्तत्रिंशत्प्रयोगा उक्ताः तत्र बलादिभिरष्टाभिः पुनर्नवान्तैश्च दशभिरष्टादशप्रयोगाः अपरे तु व्याहृता व्यक्ता एव ॥१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP