विमानस्थान - रसविमान

चरक संहिता आयुर्वेदासंबंधी एक प्रसिद्ध ग्रन्थ आहे. हा ग्रंथ संस्कृत भाषेत आहे. या ग्रंथाचे उपदेशक अत्रिपुत्र पुनर्वसु, ग्रंथकर्ता अग्निवेश आणि प्रतिसंस्कारक चरक हे होत.

Charaka Sanhita is believed to be the oldest Ayurvedic text on internal medicine.


अथातो रसविमानं व्याख्यास्यामः ॥३-१.१॥

इति ह स्माह भगवानात्रेयः ॥३-१.२॥

आयुर्वेददीपिका


निदाने ज्ञातहेत्वादिपञ्चकस्य चिकित्सोपयोगितया दोषभेषजादिविशेषज्ञानम् अपेक्षितं भवति अतो वक्ष्यमाणदोषभेषजादिविशेषज्ञापकं विमानस्थानं ब्रूते ॥१॥

तत्रापि च दोषभेषजयोः प्राधान्यात् तद्विशेषज्ञापकं रसविमानं प्रथमं ब्रूते ॥२॥

इमं च स्थानसम्बन्धं स्वयमेव दर्शयिष्यति ॥३॥

विशेषेण मीयते ज्ञायते दोषभेषजाद्य् अनेनेति विमानं दोषभेषजादीनां प्रभावादिविशेष इत्यर्थः एवंभूतंविमानम् अभिधेयतया यत्र तिष्ठति तद् विमानस्थानम् ॥४॥

रसविमानम् अधिकृत्य कृतो ऽध्यायो रसविमानम् ॥५॥


इह खलु व्याधीनां निमित्तपूर्वरूपरूपोपशयसंख्याप्राधान्यविधिविकल्पबलकालविशेषान् अनुप्रविश्यानन्तरं दोषभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां मानम् अवहितमनसा यथावज् ज्ञेयं भवति भिषजा दोषादिमानज्ञानायत्तत्वात् क्रियायाः ।
न ह्य् अमानज्ञो दोषादीनां भिषग् व्याधिनिग्रहसमर्थो भवति ।
तस्माद् दोषादिमानज्ञानार्थं विमानस्थानम् उपदेक्ष्यामो ऽग्निवेश ॥३-१.३॥

आयुर्वेददीपिका


इह खल्व् इत्यादिना स्थानसम्बन्धम् आह ॥१॥

इह सम्प्राप्तिभेदसंख्याप्राधान्यादिग्रहणेनैव सम्प्राप्तिम् उपदिशन् संख्यादिभेदेन सर्वैव सम्प्राप्तिः कथिता भवतीति दर्शयति ॥२॥

निमित्तादीनां तु न तादृशो भेदो ऽल्पग्रन्थवक्तव्यो ऽस्ति येन भेदेन ते ऽपीह कथ्येरन् अतस्ते सामान्येनैवोक्ताः ॥३॥

अनुप्रविश्येति बुद्ध्वा ॥४॥

दोषादयः सूत्रस्थान एव प्रपञ्चिताः ॥५॥

मानमिति प्रभावादिविशेषः एतज्ज्ञाने हेतुम् आह दोषादीत्यादि ॥६॥

क्रियाया इति चिकित्सायाः ॥७॥


तत्रादौ रसद्रव्यदोषविकारप्रभावान् वक्ष्यामः रसास्तावत्षट् मधुराम्ललवणकटुतिक्तकषायाः ते सम्यगुपयुज्यमानाः शरीरं यापयन्ति मिथ्योपयुज्यमानास्तु खलु दोषप्रकोपायोपकल्पन्ते ॥३-१.४॥

आयुर्वेददीपिका


अध्यायार्थं वक्तुं प्रतिजानीते तत्रादाव् इत्यादि ॥१॥

यद्यपि च दोषभेषजेत्यादौ दोषापेक्षत्वाद् भेषजस्य दोष आदौ कृतः तथापीह रसद्रव्यरूपभेषजस्यापेक्षितरोगप्रशमकर्तृत्वेन तथा दोषस्यापि च रसद्रव्ययोरेव कारणत्वेन भेषजशब्दसूचिते रसद्रव्ये एवाग्रे कृते पश्चात्तु दोषग्रहणगृहीतौ दोषविकारौ ॥२॥

प्रकृष्टो भावः प्रभावः शक्तिरित्यर्थः स चेहाचिन्त्यश्चिन्त्यश् च ग्राह्यः ॥३॥

येन तत्र खल्वनेकरसेषु इत्यादिना द्रव्यविकारयोः प्रभावं रसद्वारा दोषद्वारा च चिन्त्यमपि वक्ष्यति ॥४॥

यापयन्तीति साम्येनावस्थापयन्ति ॥५॥

मिथ्याशब्द इहायोगातियोगमिथ्यायोगेषु वर्तते ॥६॥


दोषाः पुनस् त्रयो वातपित्तश्लेष्माणः ।
ते प्रकृतिभूताः शरीरोपकारका भवन्ति विकृतिमापन्नास्तु खलु नानाविधैर् विकारैः शरीरम् उपतापयन्ति ॥३-१.५॥

आयुर्वेददीपिका


दोषा इति शरीरदोषाः ॥१॥

पुनःशब्दो मानसदोषं व्यावर्तयति ॥२॥


तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति त्रयस् त्रयश् चोपशमयन्ति ।
तद्यथा कटुतिक्तकषाया वातं जनयन्ति मधुराम्ललवणस् त्व् एनं शमयन्ति कट्वम्ललवणाः पित्तं जनयन्ति मधुरतिक्तकषायास् त्व् एनच्छमयन्ति मधुराम्ललवणाः श्लेष्माणं जनयन्ति कटुतिक्तकषायास्त्वेनं शमयन्ति ॥३-१.६॥

आयुर्वेददीपिका


रसानामसंसृष्टानां कर्माह तत्रेत्यादि ॥१॥

अनेन च रसकर्मोपदेशेन दोषाणामपि तत्तद्रसोत्पाद्यत्वं तथा तत्तद्रसोपशमनीयत्वम् उक्तं भवति ॥२॥

कटुतिक्तकषाया वातं जनयन्तीति असति परिपन्थिनीति ज्ञेयं तेनार्कागुरुगुडूच्यादीनां तिक्तानामपि वाताजनकत्वे न दोषः ॥३॥

तत्र ह्य् उष्णवीर्यता परिपन्थिनी विद्यते तेन न ते वातं जनयन्तीत्याद्य् अनुसरणीयम् ॥४॥

एनम् इति पदेन यश्च कट्वादिजो वायुस्तमेव मधुरादयः सर्वात्मवैपरीत्याद् विशेषेण शमयन्तीति दर्शयति जागरणादिजे हि वायौ जागरणादिविपरीताः स्वप्नादय एव विशेषेण पथ्याः ॥५॥

एवं पित्तश्लेष्मणोरपि एनदेनं शब्दयोस् तात्पर्यं दर्शयति ॥६॥


रसदोषसंनिपाते तु ये रसा यैर् दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति ते तान् अभिवर्धयन्ति विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति ।
एतद्व्यवस्थाहेतोः षट्त्वम् उपदिश्यते रसानां परस्परेणासंसृष्टानां त्रित्वं च दोषाणाम् ॥३-१.७॥

आयुर्वेददीपिका


अथ कया युक्त्या रसा दोषाञ्जनयन्ति शमयन्ति चेत्याह रसदोषेत्यादि ॥१॥

संनिपाते इति अन्तःशरीरमेलके ॥२॥

तुशब्दो विशेषे तेन विपरीतगुणा एव विशेषेण विपरीतगुणभूयिष्ठापेक्षया शमयन्तीति दर्शयति ॥३॥

रसानां तु यथा उपाचाराद्गुणा भवन्ति तदभिहितं गुणागुणाश्रया नोक्ताः इत्यादिना सूत्रे ॥४॥

अभ्यस्यमाना इति न सकृद् उपयुज्यमानाः ॥५॥

अथ कस्माद्रसदोषसंसर्गभूयस्त्वं परित्यज्य रसषट्त्वं दोषत्रित्वं चोच्यते इत्याह इत्येतदित्यादि ॥६॥

व्यवस्थेति रसदोषसंसर्गप्रपञ्चसंक्षेपः ॥७॥

परस्परेणासंसृष्टानामिति पदं दोषाणामित्यनेनापि योज्यम् ॥८॥


संसर्गविकल्पविस्तरो ह्य् एषाम् अपरिसंख्येयो भवति विकल्पभेदापरिसंख्येयत्वात् ॥३-१.८॥

आयुर्वेददीपिका


रसदोषसंसर्गप्रपञ्चानभिधाने हेतुमाह संसर्गेत्यादि ॥१॥

यस्मात् संसर्गभेदविस्तरो ऽपरिसंख्येयस् तस्मात् षट्त्वं त्रित्वं चोच्यते ॥२॥

विकल्पभेदापरिसंख्येयत्वाद् इति संसर्गविकल्पस्य भेदो विजातीयप्रकारः तस्यापरिसंख्येयत्वात् ॥३॥

एतेन यथा रसानाम् अवान्तरव्यक्तिभेदे ऽपि मधुरत्वादिसामान्ययोगान् मधुरादिव्यपदेशेन षट्त्वमुच्यते तथा मधुराम्लमधुरलवणादिसंसर्गाणाम् अपि सत्यप्यवान्तरभेदे सामान्योपसंग्रहं कृत्वा त्रिषष्टित्वसंख्यानियमो भविष्यतीति निरस्यते यतो मधुराम्लादिसंसर्गे ऽपि विजातीयो मधुरतरमधुरतमादिभेदकृतो भेदो ऽपरिसंख्येयो भवति ॥४॥

वचनं हि रसास् तरतमाभ्यां तां संख्याम् अतिपतन्ति हि इति ॥५॥


तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावम् एकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारयोः प्रभावतत्त्वं व्यवस्येत् ॥३-१.९॥

आयुर्वेददीपिका


अथ कथं तर्हि संसृष्टानां रसानां दोषाणां च प्रभावो ज्ञेय इत्याह तत्र खल्वित्यादि ॥१॥

तत्र चानेकरसद्रव्यस्यानेकदोषविकारस्य च प्रत्येकरसदोषप्रभावमेलकेन प्रभावं कथयन् रससंसर्गदोषसंसर्गयोर् अपि तादृशमेव प्रभावं कथयति यतो रसदोषसंसर्गप्रभावाव् अत्र द्रव्यविकाराश्रयित्वाद् रसदोषयोर् द्रव्यविकारप्रभावत्वेनोच्येते ॥२॥

अनेन न्यायेन साक्षादनुक्तेऽपि एकरसद्रव्यैकदोषविकारयोर् अपि प्रभावो ऽसंसृष्टरसदोषप्रभावकथनाद् उक्त एव ज्ञेयः ॥३॥

एकैकश्येनाभिसमीक्ष्येति प्रत्येकम् उक्तरसादिप्रभावेणानेकरसं द्रव्यम् अनेकदोषं च विकारं समुदितप्रभावम् अभिसमीक्ष्य ॥४॥


न त्व् एवं खलु सर्वत्र ।
न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनैर् विकल्पितानाम् अवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वम् अध्यवसातुं शक्यम् ॥३-१.१०॥

आयुर्वेददीपिका


अयं च रसदोषप्रभावद्वारा द्रव्यविकारप्रभावनिश्चयो न सर्वत्र द्रव्ये विकारे चेत्याह न त्व् एवं खलु सर्वत्रेति ॥१॥

अत्रैव हेतुम् आह न हीत्यादिनाध्यवसातुं शक्यमित्यन्तेन ॥२॥

विकृतिविषमसमवेतानाम् इति विकृतिसमवेतानां तथा विषमसमवेतानां चेति विकृतिविषमसमवेतानाम् ॥३॥

समवेतानामिति मिलितानां रसानां दोषाणां च ॥४॥

तत्र रसस्य विकृतिसमवायो यथा मधुरे तण्डुलीयके मधुरो हि प्रकृत्या स्नेहवृष्यत्वादिकरः तण्डुलीयके तु विकृतिसमवेतत्वेन तन्न करोति ॥५॥

विषमसमवेतास्तु तिले कषायकटुतिक्तमधुराः यदि हीमे रसाः समया मात्रया समवेताः स्युस्ततस्तिलोऽपि पित्तश्लेष्महरस्त्रिदोषहरो वा स्यात् पित्तकफकरस्त्वयं तेनात्र रसानां क्वचित् कर्तृत्वम् अकर्तृत्वं च क्वचिदिति वैषम्यम् उन्नीयते ॥६॥

नानात्मकानामित्यादिहेतुत्रयं तु विकृतिसमवायविषमसमवाययोर् एवोपलम्भकम् ॥७॥

तेन नानात्मकत्वाद् इत्यादिभिर् विकृतिसमवायविषमसमवायौ भवतः ॥८॥

नानात्मकानामिति नानारूपहेतुजनितानां तेन हेतुभेदबलादेव रसदोषयोर् विकृतो विषमो वा मेलको भवतीत्यर्थः ॥९॥

किंवा नानात्मकानामिति नानाप्रमाणानाम् ॥१०॥

एवं च नानाप्रमाणत्वं विषमसमवाये हेतुः ॥११॥

परस्परेण चोपहतानामिति अन्योन्यम् उपघातितगुणानाम् ॥१२॥

परस्परगुणोपघातस्तु यद्यपि दोषाणां प्रायो नास्त्येव तथाप्यदृष्टवशात् क्वचिद् भवतीति ज्ञेयं रसानां तु प्रबलेनान्योपघातो भवत्येव ॥१३॥

अन्यैश्च विकल्पनैरिति अन्यैश्च भेदकैः तत्र रसस्य भेदकाः स्वरसकल्कादयः एकस्यैव हि द्रव्यस्य कल्पनाविशेषेण गुणान्तराणि भवन्ति ॥१४॥

दोषस्य तु दूष्यान्तराण्येव गुणान्तरयोगाद्भेदकानि भवन्ति ॥१५॥

यदुक्तं स एव कुपितो दोषः समुत्थानविशेषतः ॥१६॥

स्थानान्तरगतश्चैव विकारान् कुरुते बहून् इति ॥१७॥

अस्मिन्व्याख्याने रसानां दोषाणां च य उत्कर्षापकर्षकृतो विषमसमवायः पृथगुच्यते स न युज्यते यतो विषमसमवाये ऽप्युत्कृष्टस्य रसस्य तथा दोषस्य चोत्कृष्टा गुणा अपकृष्टस्य चापकृष्टा गुणा भवन्तीति कृत्वावयवप्रभावान् अनुमानेनैव समुदायप्रभावानुमानं शक्यम् ॥१८॥

अथोच्यते विषममेलके रसस्य दोषस्य च न त एव गुणा उत्कृष्टा अपकृष्टा वा भवन्ति किंतु गुणान्तरमेव भवति हन्त तर्हि विकृत एवायं समवायो विसदृशकार्यकारणत्वात् ॥१९॥

तदेवं दूषणदर्शनाद् अन्यथा व्याख्यायते यद् द्विविधो मेलको भवति रसानां दोषाणां च प्रकृत्यनुगुणः प्रकृत्यननुगुणश्च तत्र यो मिलितानां प्राकृतगुणानुपमर्देन मेलको भवति स प्रकृतिसमसमवायशब्देनोच्यते यस्तु प्राकृतगुणोपमर्देन भवति स विकृतिविषमसमवायो ऽभिधीयते विकृत्या हेतुभूतया विषमः प्रकृत्यननुगुणः समवायो विकृतिविषमसमवाय इत्यर्थः ॥२०॥

अत्रैव विकृतिविषमसमवाये नानात्मकत्वादिहेतुत्रयं यथाविवृतमेव योजनीयम् ॥२१॥

ये तु विकृतिविषमसमवायौ पृथग् एव कुर्वन्ति विषमसमवायस्य वैषम्यतारतम्येनातिबहुप्रपञ्चितत्वाद् विषमावयवगुणानुमानं दुःशकम् इति कृत्वा तदपि द्रव्यविकारप्रभावेणैव व्यपदिशन्ति ॥२२॥


तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवम् एवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत् ॥३-१.११॥

आयुर्वेददीपिका


अथ कथं तर्हि विकृतिविषमसमवायप्रभावज्ञानम् इत्याह तथायुक्ते हीत्यादि ॥१॥

तथायुक्ते समुदय इति विकृतिविषमसमवाये ॥२॥

समुदयप्रभावतत्त्वम् इति मेलकप्रभावतत्त्वम् ॥३॥

समधृते हि मधुसर्पिषि सूर्यावर्ताख्ये वा दोषसमुदये न संयुज्यमानमधुघृतगुणक्रमागतं मारकत्वं न च वातादिदोषप्रभावगतं सूर्यवृद्ध्या वर्धिष्णुत्वं सूर्यावर्तस्य किं तु संयोगमहिमकृतम् एवेत्यर्थः ॥४॥

यच्च गतिद्वयं दोषरसमेलकस्य तेन प्रकृतिसमसमवायरूपं संनिपातं ज्वरनिदाने दोषलिङ्गमेलकेनैवोक्तवान् ॥५॥

यदुक्तं पृथगुक्तलक्षणसंसर्गाद् द्वांद्विकम् अन्यतमं सांनिपातिकं वा ज्वरं विद्याद् इति ॥६॥

यस्तु विकृतिविषमसमवेतस्त्रिदोषकृतो ज्वरस् तस्य चिकित्सिते क्षणे दाहः क्षणे शीतम् इत्यादिना लक्षणम् उक्तम् ॥७॥

न हि श्यावरक्तकोठोत्पत्त्यादि तत्रोक्तं वातादिज्वरे क्वचिद् अस्ति ॥८॥

एवं रसेऽपि यत्राम्राते मधुरत्वं प्रकृतिसमसमवेतं तत्राम्रातं मधुरम् एतन्मात्रम् एवोक्तं तेन मधुरसामान्यगुणागतं तस्य वातपित्तहरत्वमपि लभ्यत एव ॥९॥

यत्र वार्ताके कटुतिक्तत्वेन वातकरत्वं प्राप्तमपि च विकृतिविषमसमवायात्तन्न भवति तत्राचार्येण वार्ताकं वातघ्नम् इत्युक्तम् एव ॥१०॥

एवमित्यादि तत्तदुदाहरणं शास्त्रप्रसृतम् अनुसरणीयम् ॥११॥

यत्तु प्रकृतिसमसमवायकृतरसदोषगुणद्वारा प्राप्तमपि द्रव्यगुणं विकारलक्षणं च ब्रूते तत् प्रकर्षार्थं स्पष्टार्थं चेति ज्ञेयम् ॥१२॥


तस्माद् रसप्रभावतश् च द्रव्यप्रभावतश् च दोषप्रभावतश् च विकारप्रभावतश् च तत्त्वमुपदेक्ष्यामः ॥३-१.१२॥

आयुर्वेददीपिका


उपसंहरति तस्माद् इत्यादि ॥१॥

तत्त्वमिति रसादिप्रभावतत्त्वम् ॥२॥

यत्तु पूर्वं तत्रादौ रसद्रव्यदोषविकारप्रभावान् उपदेक्ष्यामः इत्यनेन रसादिप्रभावव्याख्यानप्रतिज्ञानं कृतं तत्तु रसप्रभावानुमानेनैव द्रव्यप्रभावकथनात् तथा दोषप्रभावेण च विकारप्रभावकथनाच् चरितार्थं स्यात् ॥३॥

इह तु विकृतिविषमसमवायात्मके द्रव्ये विकारे वा रसदोषप्रभावानुमानेन न द्रव्यविकारप्रभावानुमानम् अस्तीति कृत्वा पृथक् पृथग्रसादिप्रभावतत्त्वाभिधानप्रतिज्ञानम् इति न पौनरुक्त्यम् ॥४॥

इह द्रव्याणां वीर्यप्रभावविपाकप्रभावौ च द्रव्यप्रभावे रसप्रभावे वान्तर्भावनीयौ ॥५॥

तत्र यौ रसानुगुणौ वीर्यविपाकप्रभावौ तौ रसे यौ तु रसक्रमोक्तवीर्यविपाकविपरीतौ वीर्यविपाकौ तौ द्रव्यप्रभावे बोद्धव्यौ ॥६॥

उपदेक्ष्याम इति निखिलेन तन्त्रेण रसादिप्रभावतत्त्वं पृथग् उपदेक्ष्याम इत्यर्थः रसादिप्रभावः प्रपञ्चेन निखिले तन्त्र एव वक्तव्यः ॥७॥


तत्रैष रसप्रभाव उपदिष्टो भवति ।
द्रव्यप्रभावं पुनर् उपदेक्ष्यामः ।
तैलसर्पिर्मधूनि वातपित्तश्लेष्मप्रशमनार्थानि द्रव्याणि भवन्ति ॥३-१.१३॥

आयुर्वेददीपिका


संक्षेपाभिधानमेतदेवेति दर्शयन्नाह तत्रैष इत्यादि ॥१॥

एष इति रसाः षड् इत्यादिना तत्त्वमुपदेक्ष्यामः इत्यन्तेन ग्रन्थेनोक्त इत्यर्थः ॥२॥

उपदिष्टो भवतीति संक्षेपेण कथितो भवति ॥३॥

अन्ये तु तत्रैष रसप्रभाव उद्दिष्टो भवति इति पठन्ति ॥४॥

अस्मिन् पक्षे द्रव्यदोषविकारप्रभावो ऽपि ऽत्र उद्दिष्टः सो ऽपि रसद्वारा तेन रसस्यैव प्रपञ्चाभिहितत्वात् तस्यैवाभिधानम् उपसंहरति न द्रव्यादीनामिति ज्ञेयम् द्रव्यप्रभावमित्यादौ पुनरिति सामान्येन द्रव्यप्रभावकथनात् पुनः शृङ्गग्राहिकया तैलादिद्रव्यप्रभावं कथयिष्याम इत्यर्थः ॥५॥

प्रशमनार्थानीति प्रशमनप्रयोजनानि ॥६॥


तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद् वातं जयति सततमभ्यस्यमानं वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति विरुद्धगुणसंनिपाते हि भूयसाल्पम् अवजीयते तस्मात्तैलं वातं जयति सततम् अभ्यस्यमानम् ।
सर्पिः खल्वेवमेव पित्तं जयति माधुर्याच्छैत्यान्मन्दत्वाच्च पित्तं ह्य् अमधुरम् उष्णं तीक्ष्णं च ।
मधु च श्लेष्माणं जयति रौक्ष्यात् तैक्ष्ण्यात् कषायत्वाच् च श्लेष्मा हि स्निग्धो मन्दो मधुरश्च ।
यच् चान्यदपि किंचिद् द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात् तच् चैताञ्जयत्य् अभ्यस्यमानम् ॥३-१.१४॥

आयुर्वेददीपिका


सततम् अभ्यस्यमानमिति अविच्छेदेनोपयुज्यमानम् ॥१॥

विरुद्धगुण इति तैलगुणेभ्यो विपरीतगुणः ॥२॥

विरुद्धगुणसंनिपाते इति विरुद्धगुणयोर् मेलके ॥३॥

ननु विरुद्धगुणयोर् मध्ये भूयसाल्पं जीयते तत् कथं तैलं वातं जयति न ह्य् अस्य वातं प्रति भूयस्त्वं युक्तमित्याह सततम् अभ्यस्यमानम् इति ॥४॥

सततोपयोगेन हि तैलं वाताद् अधिकं भवति तेन वातं जयतीत्यर्थः ॥५॥

सर्पिः खल्वेवमेवेति सर्पिरपि सततम् अभ्यस्यमानम् इत्यर्थः ॥६॥

अमधुरमिति रौक्ष्यलाघवावृष्यत्वादिना मधुरविपरीतं कटुरसम् इत्यर्थः ॥७॥

इह च प्रभावशब्देन सामान्येन द्रव्यशक्तिर् उच्यते नाचिन्त्यशक्तिः तेन तैलादीनां स्नेहौष्ण्यादिगुणादपि वातादिशमनं द्रव्यप्रभावादेव भवति ॥८॥

सर्पिषि च यद्यपि मधुरो रसः पित्तप्रशमे व्याप्रियते तथापि माधुर्यशैत्यमन्दत्वैः पित्तशमनं सर्पिःकार्यमेव तेन द्रव्यप्रभाव एव वाच्यः ॥९॥

यदा तु रसद्वारा कार्यं द्रव्यस्य चिन्त्यते तदा रसप्रभाव इति व्यपदेशो भवति ॥१०॥

एवं कषायानुरसे मधुनि च समाधानं वाच्यम् ॥११॥

अन्ये तु ब्रुवते यत्तैलादीनां वातादिशमनत्वं प्रत्यचिन्त्य एव प्रभावो ऽयमुच्यते तत्र च तैलवातयोर् विरुद्धगुणयोर् मेलके तैलमेव वातं जयति न तु वातस् तैलम् इति तैलस्याचिन्त्यप्रभावः एवं सर्पिर्मधुनोर् अपि पित्तश्लेष्महरणे प्रभावाज्ज्ञेये ॥१२॥

एतच्चान्ये नेच्छन्ति यतस् तैलादीनां सततम् अभ्यस्यमानमिति पदेनाधिक्यमेव वातादिजयकारणमुक्तं तथा यच्चान्यद् अपि किंचिद् द्रव्यम् इत्यादिग्रन्थेन द्रव्याचिन्त्यप्रभावं परित्यज्य सामान्येन गुणवैपरीत्यम् एवाभ्यासाद् वातादिजयहेतुर् उच्यते ॥१३॥


अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकम् अन्येभ्यो द्रव्येभ्यः तद्यथापिप्पली क्षारः लवणमिति ॥३-१.१५॥

आयुर्वेददीपिका


अभ्यस्यद्रव्यं प्रभावोदाहरणार्थम् अभिधायानभ्यस्यान् आह अथेत्यादि ॥१॥

अधिकमन्येभ्य इति वचनादन्यदपि चित्रकभल्लातकाद्येवंजातीयं नात्युपयोक्तव्यं पिप्पल्यादिद्रव्यं त्व् अन्येभ्यो ऽप्यधिकम् अत्युपयोगे वर्जनीयमिति दर्शयति ॥२॥


पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्यो नात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश् च ताः सद्यः शुभाशुभकारिण्यो भवन्ति आपातभद्राः प्रयोगसमसाद्गुण्यात् दोषसंचयानुबन्धाः सततम् उपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणम् उत्क्लेशयन्ति औष्ण्यात् पित्तं न च वातप्रशमनायोपकल्पन्ते ऽल्पस्नेहोष्णभावात् योगवाहिन्यस्तु खलु भवन्ति तस्मात्पिप्पलीर् नात्युपयुञ्जीत ॥३-१.१६॥

आयुर्वेददीपिका


कटुकाः सत्यो मधुरविपाकाः इत्यादि पिप्पलीगुणकथनम् अनभ्यासप्रयोगे दोषवैपरीत्येन दोषप्रशमनोपदर्शनार्थं तथा अत्यभ्यासे गुरुप्रक्लेदित्वाच्छ्लेष्माणम् उत्क्लेशयन्ति इत्यादिग्रन्थवक्तव्यदोषकरणयोग्यतोपदर्शनार्थं च ॥१॥

भेषजाभिमताश्च सद्य इति छेदः ॥२॥

सद्य इति अनभ्यासे ॥३॥

शुभाशुभकारिण्यो भवन्तीति सद्यः शुभकारिण्यः अत्यभ्यासप्रयोगे त्व् अशुभकारिण्यः ॥४॥

एतदेव शुभाशुभकारित्वं दर्शयत्य् आपातभद्रा इत्यादिना ॥५॥

प्रयोगसमसाद्गुण्याद् इति समस्य प्रयोगस्य सद्गुणत्वात् समे ऽल्पकाले अल्पमात्रे च पिप्पल्यादिप्रयोगे सद्गुणा भवन्तीत्यर्थः ॥६॥

दोषसंचयानुबन्धो ऽत्युपयोगो यासां ता दोषसंचयानुबन्धाः ॥७॥

एतदेव दोषसंचयानुबन्धत्वं विवृणोति सततम् इत्यादि ॥८॥

पिप्पलीधर्मकथनप्रस्तावाद् गुणान्तरम् आह योगवाहिन्यस् त्व् इत्यादि ॥९॥

योगवाहित्वेन कटुकानामपि पिप्पलीनां वृष्यप्रयोगेषु योगः तथा ज्वरगुल्मकुष्ठहरादिप्रयोगेषु ज्वरादीन् हन्ति पिप्पली ॥१०॥

अयं च पिप्पल्यतियोगनिषेधोऽपवादं परित्यज्य ज्ञेयः ॥११॥

तेन पिप्पलीरसायनप्रयोगस् तथा गुल्मादिषु च पिप्पलीवर्धमानकप्रयोगो न विरोधम् आवहति ॥१२॥

उक्ते हि विषये यथोक्तविधानेन निर्दोषा एव पिप्पल्य इति ऋषिवचनाद् उन्नीयते ।
अन्ये तु अन्नसंस्करणे पिप्पल्यादीनाम् अतिप्रयोगो न तु स्वातन्त्र्येणेति ब्रुवते ।
सततमुपयुज्यमाना इति अतिमात्रत्वेन तथा सततप्रयोगेण चेति ज्ञेयम् ॥१३॥


क्षारः पुनर् औष्ण्यतैक्ष्ण्यलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति स पचनदहनभेदनार्थम् उपयुज्यते सो ऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः संपद्यते ।
ये ह्य् एनं ग्रामनगरनिगमजनपदाः सततम् उपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति तद्यथा प्राच्याश् चीनाश्च तस्मात्क्षारं नात्युपयुञ्जीत ॥३-१.१७॥

आयुर्वेददीपिका


हृदयापकर्तिन इति हृदयपरिकर्तनरूपवेदनायुक्ताः ॥१॥


लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम् अनतिगुरु अनतिस्निग्धम् उपक्लेदि विस्रंसनसमर्थम् अन्नद्रव्यरुचिकरम् आपातभद्रं प्रयोगसमसाद्गुण्यात् दोषसंचयानुबन्धं तद् रोचनपाचनोपक्लेदनविस्रंसनार्थम् उपयुज्यते ।
तद् अत्यर्थम् उपयुज्यमानं ग्लानिशैथिल्यदौर्बल्याभिनिर्वृत्तिकरं शरीरस्य भवति ।
ये ह्य् एनद् ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश् च भवन्ति ।
तद्यथा वाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः ते हि पयसापि सह लवणम् अश्नन्ति ।
ये ऽपीह भूमेर् अत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति लवणोपहतत्वात् ।
तस्माल्लवणं नात्युपयुञ्जीत ।
ये ह्य् अतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति ॥३-१.१८॥

आयुर्वेददीपिका


ग्लानिः मांसापचयो हर्षक्षयो वा ॥१॥

न केवलं लवणातियोगः शरीरोपघातकरः किंतु भूमेर् अप्युपघातकर इत्याह ये ऽपीहेत्यादि ॥२॥

ऊषरा इति लवणप्रधानाः ॥३॥

लवणं नात्युपयुञ्जीतेति नातिमात्रं लवणं सततम् उपयुञ्जीत अन्नद्रव्यसंस्कारकं तु स्तोकमात्रम् अभ्यासेनाप्युपयोजनीयम् एव ॥४॥

वाह्लीकादिव्यतिरिक्ते ऽपि देशे ये ऽतिलवणम् अश्नन्ति तेषामपि दोषानाह ये हीत्यादि ॥५॥

एतेन चान्यत्रापि देशे ऽतिमात्रलवणसात्म्यानां लवणात्युपयोगकृत एव शैथिल्यादिदोष उन्नीयते न देशस्वभावकृतः ॥६॥


तस्मात्तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः ।
सात्म्यमपि हि क्रमेणोपनिवर्त्यमानम् अदोषम् अल्पदोषं वा भवति ॥३-१.१९॥

आयुर्वेददीपिका


तेषामिति अतिक्षारलवणसात्म्यानाम् ॥१॥

तत्सात्म्यत इति अतिमात्रक्षाराद् अतिमात्रलवणाच् च सात्म्यात् ॥२॥

क्रमेणेति न वेगान् धारणीयोक्तसात्म्यपरित्यागक्रमेण ॥३॥

इह च सात्म्यशब्देनौकसात्म्यम् अभिप्रेतम् ॥४॥

अल्पदोषम् अदोषं वेति पक्षद्वये ऽत्यर्थसात्म्यम् अल्पदोषं भवति अन्यत्त्वदोषम् इति व्यवस्था ॥५॥


सात्म्यं नाम तद् यद् आत्मन्युपशेते सात्म्यार्थो ह्य् उपशयार्थः ।
तत्त्रिविधं प्रवरावरमध्यविभागेन सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच्च ।
तत्र सर्वरसं प्रवरम् अवरमेकरसं मध्यं तु प्रवरावरमध्यस्थम् ।
तत्रावरमध्याभ्यां सात्म्याभ्यां क्रमेणैव प्रवरम् उपपादयेत् सात्म्यम् ।
सर्वरसमपि च सात्म्यम् उपपन्नः प्रकृत्याद्युपयोक्त्रष्टमानि सर्वाण्याहारविधिविशेषायतनान्यभिसमीक्ष्य हितम् एवानुरुध्येत ॥३-१.२०॥

आयुर्वेददीपिका


सात्म्यं नामेति ओकसात्म्यं नामेत्यर्थः ॥१॥

ओकादिति अभ्यासात् ॥२॥

उपशयार्थ इति उपशयशब्दाभिधेय इत्यर्थः ॥३॥

तदिति ओकसात्म्यम् ॥४॥

त्रिविधमिति प्रवरावरमध्यभेदेन ॥५॥

सप्तविधं तु एकैकरसेन षट् संसृष्टरसोपयोगाच्चैकम् एवं सप्तविधम् ॥६॥

संसृष्टशब्देन द्विरसादयः षड्रसपर्यन्ता गृह्यन्ते ॥७॥

प्रवरावरमध्यस्थम् इति द्विरसादिपञ्चरसपर्यन्तम् ॥८॥

अवरमध्यमाभ्यां लक्षितः पुरुषः ॥९॥

प्रवरमिति सर्वरसम् ॥१०॥

सात्म्यमुपपादयेत् अभ्यसेद् इत्यर्थः ॥११॥

क्रमेणेति यथोक्ताभ्यासक्रमेण ॥१२॥

उपपादितसर्वरससात्म्येनापि चाहारः प्रशस्तप्रकृत्यादिसम्पन्न एव कर्तव्य इत्याह सर्वरसम् इत्यादि ॥१३॥

अभिसमीक्ष्येति हिताहितत्वेन विचार्य ॥१४॥

हितमेवेति पदेन यदेव प्रकृत्यादिना हितं तद् एवानुरुध्येत सेवेतेत्यर्थः ॥१५॥


तत्र खल्विमान्यष्टाव् आहारविधिविशेषायतनानि भवन्ति तद्यथा प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि भवन्ति ॥३-१.२१॥

आयुर्वेददीपिका


आहारस्य विधिः प्रकारो विधानं वा इत्याहारविधिः तस्य विशेषो हितत्वमहितत्वं च तस्यायतनानि हेतून् इत्य् आहारविधिविशेषायतनानि ॥१॥

आहारप्रकारस्य हितत्वमहितत्वं च प्रकृत्यादिहेतुकम् इत्यर्थः ॥२॥

उपयोक्ता अष्टमो येषां तान्युपयोक्त्रष्टमानि ॥३॥


तत्र प्रकृतिर् उच्यते स्वभावो यः स पुनराहारौषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः तद्यथा मषमुद्गयोः शूकरैणयोश्च ।

आयुर्वेददीपिका


उक्तानि प्रकृत्यादिना विभजते तत्रेत्यादिना ॥१॥

स्वाभाविक इति संस्काराद्यकृतः ॥२॥

माषमुद्गयोर् इति प्रकृत्या माषे गुरुत्वं मुद्गे च लघुत्वं शूकरे गुरुत्वम् एणे च लघुत्वम् ॥३॥


करणं पुनः स्वाभाविकानां द्रव्याणाम् अभिसंस्कारः ।
संस्कारो हि गुणान्तराधानम् उच्यते ।
ते गुणास् तोयाग्निसंनिकर्षशौचमन्थनदेशकालवासनभावनादिभिः कालप्रकर्षभाजनादिभिश् चाधीयन्ते ।

आयुर्वेददीपिका


द्रव्याणाम् इति वक्तव्ये स्वाभाविकानाम् इति यत् करोति तेनोत्पत्तिकाले जनकभूतैः स्वगुणारोपणं संस्कारस्तूत्पन्नस्यैव तोयादिना गुणान्तराधानमिति दर्शयति ॥१॥

तच्च प्राकृतगुणोपमर्देनैव क्रियते यथा तोयाग्निसंनिकर्षशौचैस् तण्डुलस्थं गौरवम् उपहत्य लाघवम् अन्ने क्रियते ॥२॥

यदुक्तं सुधौतः प्रस्रुतः स्विन्नः संतप्तश् चौदनो लघुः ॥३॥

तथा रक्तशाल्यादेर्लघोर् अप्यग्निसंयोगादिना लाघवं वर्धते ॥४॥

मन्थनाद्गुणाधानं यथा शोथकृद् दधि शोथघ्नं सस्नेहमपि मन्थनात् इति ॥५॥

देशेन यथा भस्मराशेर् अधः स्थापयेत् इत्यादौ ॥६॥

वासनेन गुणाधानं यथापाम् उत्पलादिवासनेन सुगन्धानुकरणम् ॥७॥

भावनया च स्वरसादिकृतया स्थितस्यैवामलकादेर् गुणस्योत्कर्षो भवति ॥८॥

कालप्रकर्षाद्यथा पक्षाज्जातरसं पिबेद् इत्यादि ॥९॥

भाजनेन यथा त्रैफलेनायसीं पात्रीं कल्केनालेपयेत् इत्यादौ ॥१०॥

आदिग्रहणात् पेषणाभिमन्त्रणादि गृह्यते ॥११॥

ननु संस्काराधेयेन गुणेन कथं स्वाभाविकगुणनाशः क्रियते यतः स्वभावो निष्प्रतिक्रियः इत्युक्तं यदि हि संस्कारेण स्वाभाविकगुरुत्वं प्रतिक्रियते तदा स्वभावो निष्प्रतिक्रियः इति कथं ब्रूमः स्वभावो निष्प्रतिक्रियः इति स्वभावो भावानाम् उत्पत्तौ नान्यथा क्रियते ॥१२॥

तेन जातिप्रतिबद्धं माषादीनां गुरुत्वं न तज्जातौ स्फोटयितुं पार्यते संस्कारेण तु तदन्यथाकरणमनुमतमेव दृष्टत्वात् ॥१३॥

कश्चित् तु गुणो द्रव्याणां संस्कारादिनापि नान्यथा क्रियते यथा वह्नेर् औष्ण्यं वायोश्चलत्वं तैलस्य स्नेह इत्यादि ॥१४॥

एते हि यावद्द्रव्यभाविन एव गुणाः ॥१५॥

गौरवादयस्तु पुराणधान्यादिष्वप्यपगमदर्शनान् न यावद्द्रव्यभाविनः ॥१६॥

उक्तं हि गुणो द्रव्यविनाशाद् वा विनाशम् उपगच्छति ॥१७॥

गुणान्तरोपधानाद् वा इति ॥१८॥

यत्र तु संस्कारेण व्रीहेर्लाजलक्षणं द्रव्यान्तरमेव जन्यते तत्र गुणान्तरोत्पादः सुष्ठ्वेव ॥१९॥


संयोगः पुनर् द्वयोर् बहूनां वा द्रव्याणां संहतीभावः स विशेषमारभते यं पुनर् नैकैकशो द्रव्याण्यारभन्ते तद् यथा मधुसर्पिषोः मधुमत्स्यपयसां च संयोगः ।

आयुर्वेददीपिका


संयोगम् आह संयोगस् त्व् इत्यादि ॥१॥

स विशेषमारभत इति संयुज्यमानद्रव्यैकदेशे ऽदृष्टं कार्यम् आरभत इत्यर्थः ॥२॥

यं नैकैकश इति यं विशेषं प्रत्येकसंयुज्यमानानि द्रव्याणि नारभन्त इत्यर्थः ॥३॥

मधुसर्पिषी हि प्रत्येकममारके मिलिते तु मारके भवतः क्षीरमत्स्यादिसंयोगश्च कुष्ठादिकरो भवति ॥४॥

संयोगस् त्व् इह प्राधान्येनैवोपलभ्यमानद्रव्यमेलको विवक्षितस् तेन भावनादिष्वपि यद्यपि संयोगो ऽस्ति तथापि तत्र भावनाद्रव्याणां प्राधान्येनानुपलब्धेर् न संयोगेन ग्रहणम् ॥५॥


राशिस्तु सर्वग्रहपरिग्रहौ मात्रामात्रफलविनिश्चयार्थः ।
तत्र सर्वस्याहारस्य प्रमाणग्रहणम् एकपिण्डेन सर्वग्रहः परिग्रहः पुनः प्रमाणग्रहणम् एकैकश्येनाहारद्रव्याणाम् ।
सर्वस्य हि ग्रहः सर्वग्रहः सर्वतश्च ग्रहः परिग्रह उच्यते ।

आयुर्वेददीपिका


राशिः प्रमाणम् ॥१॥

मात्रामात्रफलविनिश्चयार्थ इति मात्रावदाहारौषधस्य च यत् फलं शुभम् अमात्रस्य हीनस्यातिरिक्तस्य वा यत् फलम् अशुभम् ॥२॥

यदुक्तं तस्य ज्ञानार्थम् उचितप्रमाणम् अनुचितप्रमाणं च राशिसंज्ञं भवति ॥३॥

सर्वग्रहं विवृणोति तत्रेत्यादि ॥४॥

सर्वस्येति मिश्रीकृतस्यान्नमांससूपादेर् एकपिण्डेन मानम् ॥५॥

परिग्रहं विवृणोति परिग्रहः पुनर् इत्यादि ॥६॥

एकैकश्येनेति अन्नस्य कुडवः सूपस्य पलं मांसस्य द्विपलमित्याद्यवयवमानपूर्वकं समुदायमानम् ॥७॥

सर्वग्रहे प्रत्यवयवमाननियमो नास्ति तेन येन केनचिद् आहारेण प्रत्येकमनियतमानेन सम्पूर्णाहारमात्रानियमनं सर्वग्रहः ॥८॥

एतदेव शब्दव्युत्पत्त्या दर्शयति सर्वस्य हीत्यादि ॥९॥

सर्वत इति प्रत्येकावयवत इत्यर्थः ॥१०॥


देशः पुनः स्थानं स द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यं चाचष्टे ।

आयुर्वेददीपिका


देशं विभजते देश इत्यादि ॥१॥

स्थानग्रहणेनाहारद्रव्यस्य तथा भोक्तुश्च स्थानं दर्शयति ॥२॥

आचष्ट इति द्रव्यस्योत्पत्तिप्रचारादिकृतगुणज्ञानहेतुर् भवति ॥३॥

तत्रोत्पत्त्या हिमवति जातं गुणवद्भवति मरौ जातं लघु भवति इत्यादि ॥४॥

प्रचारेण लघु भक्ष्याणां प्राणिनां तथा धन्वप्रचारिणां बहुक्रियाणां च लाघवं विपर्यये च गौरवं गृह्यते ॥५॥

देशसाम्येन च देशविपरीतगुणं सात्म्यं गृह्यते यथानूपे उष्णरूक्षादि धन्वनि च शीतस्निग्धादि ॥६॥

ओकसात्म्यं तु उपयोक्तृग्रहणेन गृहीतम् ॥७॥


कालो हि नित्यगश् चावस्थिकश्च तत्रावस्थिको विकारमपेक्षते नित्यगस्तु ऋतुसात्म्यापेक्षः ।

आयुर्वेददीपिका


नित्यग इति अहोरात्रादिरूपः ॥१॥

आवस्थिक इति रोगित्वबाल्याद्यवस्थाविशेषित इत्यर्थः ॥२॥

विकारमपेक्षत इति बाल्यादिकृतं तु श्लेष्मविकारं ज्वरादिकं चाहारनियमार्थमपेक्षत इत्यर्थः ॥३॥

ऋतुसात्म्यं हि ऋतुमपेक्षत इति ऋतुसात्म्यापेक्षः ॥४॥


उपयोगसंस्था योगनियमः स जीर्णलक्षणापेक्षः ।

आयुर्वेददीपिका


एवमाहारोपयोगः कर्तव्य एवं न कर्तव्य इत्युपयोगनियमः स जीर्णलक्षणापेक्ष इति प्राधान्येनोक्तः ॥१॥

तेनेह अजल्पन्न् अहसन् नातिद्रुतं नातिविलम्बितम् इत्याद्युपयोगनियममप्यपेक्षत एव अजीर्णभोजने तु महांस्त्रिदोषकोपलक्षणो दोषो भवतीत्ययम् एवोदाहृतः ॥२॥


उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते यदायत्तम् ओकसात्म्यम् ।
इत्यष्टाव् आहारविधिविशेषायतनानि व्याख्यातानि भवन्ति ॥३-१.२२॥

आयुर्वेददीपिका


यदायत्तम् ओकसात्म्यम् इति भोक्तृपुरुषापेक्षं ह्य् अभ्याससात्म्यं भवति कस्यचिद्धि किंचिद् एवाभ्यासात् पथ्यमपथ्यं वा सात्म्यं भवति ॥१॥


एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति तान् बुभुत्सेत बुद्ध्वा च हितेप्सुरेव स्यात् न च मोहात् प्रमादाद्वा प्रियम् अहितम् असुखोदर्कम् उपसेव्यम् आहारजातम् अन्यद्वा किंचित् ॥३-१.२३॥

आयुर्वेददीपिका


एषामित्यादौ शुभफला विशेषा अशुभफलाश्च परस्परोपकारका भवन्तीति ज्ञेयम् ॥१॥

तत्र प्रकृत्या लाघवादिः शुभफलः गुर्वादिश् चाशुभफलः ॥२॥

करणाद्याधेयोऽपि विशेषः शास्त्रोक्तः शुभः निषिद्धस्त्वशुभः ॥३॥

देशासात्म्यं निन्दितदेशभवत्वादि च द्रव्यस्याशुभफलम् ॥४॥

एवं कालासात्म्यमशुभफलं चाजीर्णभोजनादि तथा ओकासात्म्यं चाशुभमशुभफलमिति ज्ञेयं विपरीतं तु शुभफलम् ॥५॥

मोहादिति अज्ञानात् प्रमादादिति ज्ञात्वापि रागाद् इत्यर्थः ॥६॥

प्रियमिति तदात्वमात्रप्रियम् ॥७॥

अहितमित्यस्य विवरणमसुखोदर्कम् इति ॥८॥

असुखं दुःखरूपम् उदर्क उत्तरकालीनं फलं यस्य स तथा ॥९॥

अन्यद्वेति भेषजविहारादि ॥१०॥


तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषांचित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवति उष्णं स्निग्धं मात्रावत् जीर्णे वीर्याविरुद्धम् इष्टे देशे इष्टसर्वोपकरणं नातिद्रुतं नातिविलम्बितम् अजल्पन् अहसन् तन्मना भुञ्जीत आत्मानमभिसमीक्ष्य सम्यक् ॥३-१.२४॥

आयुर्वेददीपिका


तत्रेत्यादौ इदमिति वक्ष्यमाणम् ॥१॥

आहारविधिर् विधीयते येनोष्णस्निग्धादिना वक्ष्यमाणेन तदाहारविधिविधानम् ॥२॥

आतुराणां च केषांचिदिति पदेन रक्तपित्तिनां शीतमेव कफरोगिणां रूक्षमेव हितमित्यादिविपर्ययं दर्शयति ॥३॥

केषांचिद्भुञ्जानानाम् इदम् आहारविधिविधानं हिततमं भवतीति योजना ॥४॥

प्रकृत्यैवेति स्वभावेनैव हिततमं हिततमम् इत्युक्तं तेन यत् प्रकृत्या हितं तत् कदाचिदेव कंचिदेव पुरुषम् आसाद्याहितं भवति तच्च कादाचित्कत्वाद् अनादृतं तेन प्रायिकत्वादेनं हिततमं वक्ष्याम इति भावः ॥५॥

उष्णमित्यादौ सम्यगिति छेदः ॥६॥


तस्य साद्गुण्यम् उपदेक्ष्याम उष्णम् अश्नीयाद् उष्णं हि भुज्यमानं स्वदते भुक्तं चाग्निम् औदर्यम् उदीरयति क्षिप्रं जरां गच्छति वातम् अनुलोमयति श्लेष्माणं च परिह्रासयति तस्मादुष्णम् अश्नीयात् ।
स्निग्धमश्नीयात् स्निग्धं हि भुज्यमानं स्वदते भुक्तं चानुदीर्णम् अग्निम् उदीरयति क्षिप्रं जरां गच्छति वातमनुलोमयति शरीरमुपचिनोति दृढीकरोतीन्द्रियाणि बलाभिवृद्धिम् उपजनयति वर्णप्रसादं चाभिनिर्वर्तयति तस्मात् स्निग्धमश्नीयात् ।

आयुर्वेददीपिका


तस्येति उष्णादिगुणयुक्तस्यान्नस्य ॥१॥

साद्गुण्यमिति प्रशस्तगुणयोगिताम् ॥२॥

परिह्रासयतीति भिन्नसंघातं करोति ॥३॥


मात्रावदश्नीयात् मात्रावद्धि भुक्तं वातपित्तकफान् अपीडयद् आयुर् एव विवर्धयति केवलं सुखं गुदम् अनुपर्येति न चोष्माणमुपहन्ति अव्यथं च परिपाकमेति तस्मान्मात्रावद् अश्नीयात् ।

आयुर्वेददीपिका


मात्रावदिति प्रशंसायां मतुप् तेन प्रशस्तमात्रम् इत्यर्थः ॥१॥

अपीडयदिति अनतिमात्रत्वेन स्वस्थानस्थितं सद्वातादीन् स्थानापीडनाद् अप्रकोपयत् ॥२॥

गुदम् अनुपर्येतीति परिणतं सदनुरूपतया निःसरतीत्यर्थः ॥३॥

ऊष्माणं वह्निम् ॥४॥


जीर्णे ऽश्नीयात् अजीर्णे हि भुञ्जानस्याभ्यवहृतम् आहारजातं पूर्वस्याहारस्य रसम् अपरिणतम् उत्तरेणाहाररसेनोपसृजत् सर्वान् दोषान् प्रकोपयत्याशु जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतम् आहारजातं सर्वशरीरधातून् अप्रदूषयद् आयुर् एवाभिवर्धयति केवलं तस्माज्जीर्णे ऽश्नीयात् ।

आयुर्वेददीपिका


पूर्वस्येति दिनान्तरकृतस्य ॥१॥

अपरिणतम् इति असम्यग्जातम् ॥२॥

आहाररसेनेति आहारपरिणामगतेन मधुरादिना किंवा आहारजेन रसेन ॥३॥

स्वस्थानस्थेषु दोषेष्वित्यादि जीर्णाहारस्य लक्षणम् ॥४॥


वीर्याविरुद्धम् अश्नीयात् अविरुद्धवीर्यम् अश्नन् हि विरुद्धवीर्याहारजैर्विकारैर् नोपसृज्यते तस्माद् वीर्याविरुद्धम् अश्नीयात् ।

आयुर्वेददीपिका


विरुद्धवीर्याहारजैर् इति कुष्ठान्ध्यविसर्पाद्यैर् आत्रेयभद्रकाप्यीयोक्तैः ॥१॥


इष्टे देशे इष्टसर्वोपकरणं चाश्नीयात् इष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघातकरैर् भावैर् मनोविघातं प्राप्नोति तथैवेष्टैः सर्वोपकरणैः तस्मादिष्टे देशे तथेष्टसर्वोपकरणं चाश्नीयात् ।

आयुर्वेददीपिका


मनोविघातकरैर्भावैरिति त्रिविधकुक्षीये वक्ष्यमाणैः कामादिभिश् चित्तोपतापकरैश् चित्तविकारैर् इत्यर्थः ॥१॥

तथेष्टैश्च सर्वोपकरणैर् भुञ्जानो मनोविघातं न प्राप्नोतीति योजना अनिष्टभोजनादेर् मनोविघातो भवति ॥२॥


नातिद्रुतमश्नीयात् अतिद्रुतं हि भुञ्जानस्योत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं च भोज्यदोषसाद्गुण्योपलब्धिश् च न नियता तस्मान्नातिद्रुतम् अश्नीयात् ।

आयुर्वेददीपिका


उत्स्नेहनम् उन्मार्गगमनम् ॥१॥

अवसादनम् अवसादः ॥२॥

अप्रतिष्ठानं हृदयस्थत्वेन कोष्ठाप्रवेशः ॥३॥

भोज्यगतानां दोषाणां केशादीनां साद्गुण्यस्य च स्वादुत्वादेः उपलब्धिर् न नियता भवति कदाचिदुपलभ्यते कदाचिन् नेति ॥४॥

तत्र दोषानुपलब्ध्या सदोषस्यैव भक्षणं साद्गुण्यानुपलब्ध्या च प्रीत्यभावः ॥५॥


नातिविलम्बितम् अश्नीयात् अतिविलम्बितं हि भुञ्जानो न तृप्तिम् अधिगच्छति बहु भुङ्क्ते शीतीभवत्य् आहारजातं विषमं च पच्यते तस्मान्नातिविलम्बितम् अश्नीयात् ।

आयुर्वेददीपिका


विषमं च पच्यत इति चिरकालभोजनेनाग्निसम्बन्धस्य वैषम्यादिति भावः ॥१॥


अजल्पन्नहसन् तन्मना जल्पतो हसतो ऽन्यमनस वा भुञ्जानस्य त एव हि दोषा भवन्ति य एवातिद्रुतम् अश्नतः तस्माद् अजल्पन्नहसंस्तन्मना भुञ्जीत ।

आयुर्वेददीपिका


य एवातिद्रुतम् अश्नतो दोषा इति उत्स्नेहनादयः ॥१॥


आत्मानम् अभिसमीक्ष्य भुञ्जीत सम्यग् इदं ममोपशेते इदं नोपशेत इत्येवं विदितं ह्य् अस्यात्मन आत्मसात्म्यं भवति तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति ॥३-१.२५॥

आयुर्वेददीपिका


नोपशेत इतीत्यत्र इतिशब्देन सात्म्यासात्म्यविधानोपदर्शकेन विचारफलमोकसात्म्यसेवनं दर्शयति ॥१॥

आत्मन इति पदेनात्मनैवात्मसात्म्यं प्रतिपुरुषं ज्ञायते न शास्त्रोपदेशेनेति दर्शयति ॥२॥


रसान् द्रव्याणि दोषांश्च विकारांश्च प्रभावतः ।
वेद यो देशकालौ च शरीरं च स नो भिषक् ॥३-१.२६॥

आयुर्वेददीपिका


अध्यायोक्तरसप्रभावादिज्ञानं स्तौति रसानित्यादि ।
स नो भिषगिति नो ऽस्माकं संमत इत्यर्थः ॥१॥


विमानार्थो रसद्रव्यदोषरोगाः प्रभावतः ।

द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च ॥३-१.२७॥

आहारायतनान्यष्टौ भोज्यसाद्गुण्यमेव च ।
विमाने रससंख्याते सर्वमेतत्प्रकाशितम् ॥३-१.२८॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमोऽध्यायः ॥३-१.२९॥

आयुर्वेददीपिका


दोषविकारौ च यद्यपि त्रिविधकुक्षीये प्रभावविस्तारेण वक्तव्यौ तथापीह संक्षेपेणोक्ताव् एव तेन दोषविकारप्रभावाव् अप्युक्ताव् इति यदुच्यते संग्रहे तत् साधु ॥१॥

तैलादिद्रव्यत्रयकथनं च द्रव्यप्रभावगृहीतमिति कृत्वा न पृथक् संग्रहे पठितम् ॥२॥


N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP