संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १२| भाग ५ अध्याय १२ भाग १ भाग २ भाग ३ भाग ४ भाग ५ अर्थशास्त्रम् अध्याय १२ - भाग ५ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ५ Translation - भाषांतर ५.०१दैव.तेज्यायाम्(देवता.इज्यायाम्?) यात्रायाम् अमित्रस्य बहूनि पूजा.आगम.स्थानानि भक्तितः ॥५.०२तत्र_अस्य योगम् उब्जयेत् ॥५.०३देवता.गृह.प्रविष्टस्य_उपरि यन्त्र.मोक्षणेन गूढ.भित्तिं शिलां वा पातयेत् ॥५.०४शिला.शस्त्र.वर्षम् उत्तम.आगारात्, कपाटम् अवपातितं वा, भित्ति.प्रणिहितम् एक.देश.बद्धं वा परिघं मोक्षयेत् ॥५.०५देवता.देह.ध्वज.प्रहरणानि वा_अस्य_उपरिष्टात् पातयेत् ॥५.०६स्थान.आसन.गमन.भूमिषु वा_अस्य गो.मय.प्रदेहेन गन्ध.उदक.प्रसेकेन वा रसम् अतिचारयेत्, पुष्प.चूर्ण.उपहारेण वा ॥५.०७गन्ध.प्रतिच्छन्नं वा_अस्य तीक्ष्णं धूमम् अतिनयेत् ॥५.०८शूलकूपम् अवपातनं वा शयन.आसनस्य_अधस्ताद् यन्त्र.बद्ध.तलम् एनं कील.मोक्षणेन प्रवेशयेत् ॥५.०९प्रत्यासन्ने वा_अमित्रे जन.पदाज् जनम् अवरोध.क्षमम् अतिनयेत् ॥५.१०दुर्गाच् च_अनवरोध.क्षमम् अपनयेत्, प्रत्यादेयम् अरि.विषयं वा प्रेषयेत् ॥५.११जन.पदं च_एकस्थं शैल.वन.नदी.दुर्गेष्व् अटवी.व्यवहितेषु वा पुत्र.भ्रातृ.परिगृहीतं स्थापयेत् ॥५.१२उपरोध.हेतवो दण्ड.उपनत.वृत्ते व्याख्याताः ॥५.१३तृण.काष्ठम् आ.योजनाद् दाहयेत् ॥५.१४उदकानि च दूषयेत्, अवस्रावयेच् च ॥५.१५कूप.कूट.अवपात.कण्टकिनीश् च बहिर् उब्जयेत् ॥५.१६सुरुङ्गाम् अमित्र.स्थाने बहु.मुखीं कृत्वा निचय.मुख्यान् अभिहारयेत्, अमित्रं वा ॥५.१७पर.प्रयुक्तायां वा सुरुङ्गायां परिखाम् उदक.अन्तिकीं खानयेत्, कूप.शालाम् अनुसालं वा ॥५.१८तोय.कुम्भान् कांस्य.भाण्डानि वा शङ्का.स्थानेषु स्थापयेत् खात.अभिज्ञान.अर्थम् ॥५.१९ज्ञाते सुरुङ्गा.पथे प्रतिसुरुङ्गां कारयेत् ॥५.२०मध्ये भित्त्वा धूमम् उदकं वा प्रयच्छेत् ॥५.२१प्रतिविहित.दुर्गो वा मूले दायाद्<अम्> कृत्वा प्रतिलोमाम् अस्य दिशं गच्छेत्, यतो वा मित्रैर् बन्धुभिर् आटविकैर् वा संसृज्येत परस्य_अमित्रैर् दूष्यैर् वा महद्भिः, यतो वा गतो_अस्य मित्रैर् वियोगं कुर्यात् पार्ष्णिं वा गृह्णीयात् राज्यं वा_अस्य हारयेत् वीवध.आसार.प्रसारान् वा वारयेत्, यतो वा शक्नुयाद् आक्षिकवद् अपक्षेपेण_अस्य प्रहर्तुम्, यतो वा स्वं राज्यं त्रायेत मूलस्य_उपचयं वा कुर्यात् ॥५.२२यतः संधिम् अभिप्रेतं लभेत ततो वा गच्छेत् ॥५.२३सह.प्रस्थायिनो वा_अस्य प्रेषयेयुः "अयं ते शत्रुर् अस्माकं हस्त.गतः, पण्यं विप्रकारं वा_अपदिश्य हिरण्यम् अन्तः.सार.बलं च प्रेषय यस्य_एनम् अर्पयेम बद्धं प्रवासितं वा" इति ॥५.२४प्रतिपन्ने हिरण्यं सार.बलं च_आददीत ॥५.२५अन्त.पालो वा दुर्ग.सम्प्रदाने बल.एक.देशम् अतिनीय विश्वस्तं घातयेत् ॥५.२६जन.पदम् एकस्थं वा घातयितुम् अमित्र.अनीकम् आवाहयेत् ॥५.२७तद् अवरुद्ध.देशम् अतिनीय विश्वस्तं घातयेत् ॥५.२८मित्र.व्यञ्जनो वा बाह्यस्य प्रेषयेत् "क्षीणम् अस्मिन् दुर्गे धान्यं स्नेहाः क्षारो लवणं वा, तद् अमुष्मिन् देशे काले च प्रवेक्ष्यति, तद् उपगृहाण" इति ॥५.२९ततो रस.विद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्य.अमित्र.आटविकाः प्रवेशयेयुः, अन्ये वा_अभित्यक्ताः ॥५.३०तेन सर्व.भाण्ड.वीवध.ग्रहणं व्याख्यातम् ॥५.३१संधिं वा कृत्वा हिरण्य.एक.देशम् अस्मै दद्यात्, विलम्बमानः शेषम् ॥५.३२ततो रक्षा.विधानान्य् अवस्रावयेत् ॥५.३३अग्नि.रस.शस्त्रैर् वा प्रहरेत् ॥५.३४हिरण्य.प्रतिग्राहिणो वा_अस्य वल्लभान् अनुगृह्णीयात् ॥५.३५परिक्षीणो वा_अस्मै दुर्गं दत्त्वा निर्गच्छेत् ॥५.३६सुरुङ्गया कुक्षि.प्रदरेण वा प्राकार.भेदेन निर्गच्छेत् ॥५.३७रात्राव् अवस्कन्दं दत्त्वा सिद्धस् तिष्ठेत्, असिद्धः पार्श्वेन_अपगच्छेत् ॥५.३८पाषण्डच्.छद्मना मन्द.परिवारो निर्गच्छेत् ॥५.३९प्रेत.व्यञ्जनो वा गूढैर् निह्रियेत ॥५.४०स्त्री.वेष.धारी वा प्रेतम् अनुगच्छेत् ॥५.४१दैवत.उपहार.श्राद्ध.प्रहवणेषु वा रस.विद्धम् अन्न.पानम् अवसृज्य ॥५.४२कृत.उपजापो दूष्य.व्यञ्जनैर् निष्पत्य गूढ.सैन्यो_अभिहन्यात् ॥५.४३एवं गृहीत.दुर्गो वा प्राश्य.प्राशं चैत्यम् उपस्थाप्य दैवत.प्रतिमाच्.छिद्रं प्रविश्य_आसीत, गूढ.भित्तिं वा, दैवत.प्रतिमा.युक्तं वा भूमि.गृहम् ॥५.४४विस्मृते सुरुङ्गया रात्रौ राज.आवासम् अनुप्रविश्य सुप्तम् अमित्रं हन्यात् ॥५.४५यन्त्र.विश्लेषणं वा विश्लेष्य_अधस्ताद् अवपातयेत् ॥५.४६रस.अग्नि.योगेन_अवलिप्तं गृहं जतु.गृहं वा_अधिशयानम् अमित्रम् आदीपयेत् ॥५.४७प्रमद.वन.विहाराणाम् अन्यतमे वा विहार.स्थाने प्रमत्तं भूमि.गृह.सुरुङ्गा.गूढ.भित्ति.प्रविष्टास् तीक्ष्णा हन्युः, गूढ.प्रणिहिता वा रसेन ॥५.४८स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्प.रस.अग्नि.धूमान् उपरि मुञ्चेयुः ॥५.४९प्रत्युत्पन्ने वा कारणे यद् यद् उपपद्येत तत् तद् अमित्रे_अन्तः.पुर.गते गूढ.संचारः प्रयुञ्जीत ॥५.५०ततो गूढम् एव_अपगच्छेत्, स्वजन.संज्ञां च प्ररूपयेत् ॥५.५१द्वाह्स्थान् वर्षधरांश् च_अन्यान् निगूढ.उपहितान् परे ।५.५१च्द्/तूर्य.संज्ञाभिर् आहूय द्विषत्.शेषाणि घातयेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP