संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ११| भाग १ अध्याय ११ भाग १ अर्थशास्त्रम् अध्या ११ - भाग १ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १ Translation - भाषांतर १.०१संघ.लाभो दण्ड.मित्र.लाभानाम् उत्तमः ॥१.०२संघा हि संहतत्वाद् अधृष्याः परेषाम् ॥१.०३तान् अनुगुणान् भुञ्जीत साम.दानाभ्याम्, विगुणान् भेद.दण्डाभ्याम् ॥१.०४काम्बोज.सुराष्ट्र.क्षत्रिय.श्रेण्य्.आदयो वार्त्त.शस्त्र.उपजीविनः ॥१.०५लिच्छिविक.वृजिक.मल्लक.मद्रक.कुकुर.कुरु.पाञ्चाल.आदयो राज.शब्द.उपजीविनः ॥१.०६सर्वेषाम् आसन्नाः सत्त्रिणः संघानां परस्पर.न्यङ्ग.द्वेष.वैर.कलह.स्थानान्य् उपलभ्य क्रम.अभिनीतं भेदम् उपचारयेयुः "असौ त्वा विजल्पति" इति ॥१.०७एवम् उभयतो.बद्ध.रोषाणां विद्या.शिल्प.द्यूत.वैहारिकेष्व् आचार्य.व्यञ्जना बाल.कलहान् उत्पादयेयुः ॥१.०८वेश.शौण्डिकेषु वा प्रतिलोम.प्रशंसाभिः संघ.मुख्य.मनुष्याणां तीक्ष्णाः कलहान् उत्पादयेयुः, कृत्य.पक्ष.उपग्रहेण वा ॥१.०९कुमारकान् विशिष्टच्.छिन्दिकया हीनच्.छिन्दिकान् उत्साहयेयुः ॥१.१०विशिष्टानां च_एक.पात्रं विवाहं वा हीनेभ्यो वारयेयुः ॥१.११हीनान् वा विशिष्टैर् एक.पात्रे विवाहे वा योजयेयुः ॥१.१२अवहीनान् वा तुल्य.भाव.उपगमने कुलतः पौरुषतः स्थान.विपर्यासतो वा ॥१.१३व्यवहारम् अवस्थितं वा प्रतिलोम.स्थापनेन निशामयेयुः ॥१.१४विवाद.पदेषु वा द्रव्य.पशु.मनुष्य.अभिघातेन रात्रौ तीक्ष्णाः कलहान् उत्पादयेयुः ॥१.१५सर्वेषु च कलह.स्थानेषु हीन.पक्षं राजा कोश.दण्डाभ्याम् उपगृह्य प्रतिपक्ष.वधे योजयेत् ॥१.१६भिन्नान् अपवाहयेद् वा ॥१.१७भूमौ च_एषां पञ्च.कुलीं दश.कुलीं वा कृष्यायां निवेशयेत् ॥१.१८एकस्था हि शस्त्र.ग्रहण.समर्थाः स्युः ॥१.१९समवाये च_एषाम् अत्ययं स्थापयेत् ॥१.२०राज.शब्दिभिर् अवरुद्धम् अवक्षिप्तं वा कुल्यम् अभिजातं राज.पुत्रत्वे स्थापयेत् ॥१.२१कार्तान्तिक.आदिश् च_अस्य वर्गो राज.लक्षण्यतां संघेषु प्रकाशयेत् ॥१.२२संघ.मुख्यांश् च धर्मिष्ठान् उपजपेत् "स्व.धर्मम् अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ॥१.२३प्रतिपन्नेषु कृत्य.पक्ष.उपग्रह.अर्थम् अर्थं दण्डं च प्रेषयेत् ॥१.२४विक्रम.काले शौण्डिक.व्यञ्जनाः पुत्र.दार.प्रेत.अपदेशेन "नैषेचनिकम्" इति मदन.रस.युक्तान् मद्य.कुम्भान्_शतशः प्रयच्छेयुः ॥१.२५चैत्य.दैवत.द्वार.रक्षा.स्थानेषु च सत्त्रिणः समय.कर्म.निक्षेपं सहिरण्य.अभिज्ञान.मुद्राणि हिरण्य.भाजनानि च प्ररूपयेयुः ॥१.२६दृश्यमानेषु च संघेषु "राजकीयाः" इत्य् आवेदयेयुः ॥१.२७अथ_अवस्कन्दं दद्यात् ॥१.२८संघानां वा वाहन.हिरण्ये कालिके गृहीत्वा संघ.मुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् ॥१.२९तद् एषां याचिते "दत्तम् अमुष्मै मुख्याय" इति ब्रूयात् ॥१.३०एतेन स्कन्ध.आवार.अटवी.भेदो व्याख्यातः ॥१.३१संघ.मुख्य.पुत्रम् आत्म.सम्भावितं वा सत्त्री ग्राहयेत् "अमुष्य राज्ञः पुत्रस् त्वम्, शत्रु.भयाद् इह न्यस्तो_असि" इति ॥१.३२प्रतिपन्नं राजा कोश.दण्डाभ्याम् उपगृह्य संघेषु विक्रमयेत् ॥१.३३अवाप्त.अर्थस् तम् अपि प्रवासयेत् ॥१.३४बन्धकी.पोषकाः प्लवक.नट.नर्तक.सौभिका वा प्रणिहिताः स्त्रीभिः परम.रूप.यौवनाभिः संघ.मुख्यान् उन्मादयेयुः ॥१.३५जात.कामानाम् अन्यतमस्य प्रत्ययं कृत्वा_अन्यत्र गमनेन प्रसभ.हरणेन वा कलहान् उत्पादयेयुः ॥१.३६कलहे तीक्ष्णाः कर्म कुर्युः "हतो_अयम् इत्थं कामुकः" इति ॥१.३७विसंवादितं वा मर्षयमाणम् अभिसृत्य स्त्री ब्रूयात् "असौ मां मुख्यस् त्वयि जात.कामां बाधते, तस्मिन्_जीवति न_इह स्थास्यामि" इति घातम् अस्य प्रयोजयेत् ॥१.३८प्रसह्य.अपहृता वा वन.अन्ते क्रिडा.गृहे वा_अपहर्तारं रात्रौ तीक्ष्णेन घातयेत्, स्वयं वा रसेन ॥१.३९ततः प्रकाशयेत् "अमुना मे प्रियो हतः" इति ॥१.४०जात.कामं वा सिद्ध.व्यञ्जनः सांवदनिकीभिर् औषधीभिः संवास्य रसेन_अतिसंधाय_अपगच्छेत् ॥१.४१तस्मिन्न् अपक्रान्ते सत्त्रिणः पर.प्रयोगम् अभिशंसेयुः ॥१.४२आढ्य.विधवा गूढ.आजीवा योग.स्त्रियो वा दाय.निक्षेप.अर्थं विवदमानाः संघ.मुख्यान् उन्मादयेयुः, अदिति.कौशिक.स्त्रियो नर्तकी.गायना वा ॥१.४३प्रतिपन्नान् गूढ.वेश्मसु रात्रि.समागम.प्रविष्टांस् तीक्ष्णा हन्युर् बद्ध्वा हरेयुर् वा ॥१.४४सत्त्री वा स्त्री.लोलुपं संघ.मुख्यं प्ररूपयेत् "अमुष्मिन् ग्रामे दरिद्र.कुल्लम् अपसृतम्, तस्य स्त्री राज.अर्हा, गृहाण_एनाम्" इति ॥१.४५गृहीतायाम् अर्ध.मास.अनन्तरं सिद्ध.व्यञ्जनो दूष्य.संघ.मुख्य.मध्ये प्रक्रोशेत् "असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वा_अधिचरति" इति ॥१.४६तं चेत् संघो निगृह्णीयात्, राजा_एनम् उपगृह्य विगुणेषु विक्रमयेत् ॥१.४७अनिगृहीते सिद्ध.व्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः ॥१.४८ततस् तद्.व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्महा ब्राह्मणी.जारश् च" इति ॥१.४९कार्तान्तिक.व्यञ्जनो वा कन्याम् अन्येन वृताम् अन्यस्य प्ररूपयेत् "अमुष्य कन्या राज.पत्नी राज.प्रसविनी च भविष्यति, सर्व.स्वेन प्रसह्य वा_एनां लभस्व" इति ॥१.५०अलभ्यमानायां पर.पक्षम् उद्धर्षयेत् ॥१.५१लब्धायां सिद्धः कलहः ॥१.५२भिक्षुकी वा प्रिय.भार्यं मुख्यं ब्रूयात् "असौ ते मुख्यो यौवन.उत्सिक्तो भार्यायां मां प्राहिणोत्, तस्य_अहं भयाल् लेख्यम् आभरणं गृहीत्वा_आगता_अस्मि, निर्दोषा ते भार्या, गूढम् अस्मिन् प्रतिकर्तव्यम्, अहम् अपि तावत् प्रतिपत्स्यामि" इति ॥१.५३एवं.आदिषु कलह.स्थानेषु स्वयम् उत्पन्ने वा कलहे तीक्ष्णैर् उत्पादिते वा हीन.पक्षं राजा कोश.दण्डाभ्याम् उपगृह्य विगुणेषु विक्रमयेद् अपवाहयेद् वा ॥१.५४संघेष्व् एवम् एक.राजो वर्तेत ॥१.५५संघाश् च_अप्य् एवम् एक.राजाद् एतेभ्यो_अतिसंघान् एभ्यो रक्षयेयुः ॥१.५६संघ.मुख्यश् च संघेषु न्याय.वृत्तिर् हितः प्रियः ।१.५६दान्तो युक्त.जनस् तिष्ठेत् सर्व.चित्त.अनुवर्तकः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP