अर्थशास्त्रम् अध्याय ०८ - भाग २

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


२.०१
राजा राज्यम् इति प्रकृति.संक्षेपः ॥

२.०२
राज्ञो_अभ्यन्तरो बाह्यो वा कोप इति ॥

२.०३
अहि.भयाद् अभ्यन्तरः कोपो बाह्य.कोपात् पापीयान्, अन्तर्.अमात्य.कोपश् च_अन्तः.कोपात् ॥

२.०४
तस्मात् कोश.दण्ड.शक्तिम् आत्म.संस्थां कुर्वीत ॥

२.०५
"द्वैराज्य.वैराज्ययोर् द्वैराज्यम् अन्योन्य.पक्ष.द्वेष.अनुरागाभ्यां परस्पर.संघर्षेण वा विनश्यति, वैराज्यं तु प्रकृति.चित्त.ग्रहण.अपेक्षि यथा.स्थितम् अन्यैर् भुज्यते" इत्य् आचार्याः ॥

२.०६
न_इति कौटिल्यः ॥

२.०७
पिता.पुत्रयोर् भ्रात्रोर् वा द्वैराज्यं तुल्य.योग.क्षेमम् अमात्य.अवग्रहं वर्तयति ॥

२.०८
वैराज्यं तु जीवतः परस्य_आच्छिद्य "न_एतन् मम" इति मन्यमानः कर्शयति, अपवाहयति, पण्यं वा करोति, विरक्तं वा परित्यज्य_अपगच्छति_इति ॥

२.०९
अन्धश् चलित.शास्त्रो वा राजा_इति "अशास्त्र.चक्षुर् अन्धो यत्.किंचन.कारी दृढ.अभिनिवेशी पर.प्रणेयो वा राज्यम् अन्यायेन_उपहन्ति, चलित.शास्त्रस् तु यत्र शास्त्राच् चलित.मतिर् भवति शक्य.अनुनयो भवति" इत्य् आचार्याः ॥

२.१०
न_इति कौटिल्यः ॥

२.११
अन्धो राजा शक्यते सहाय.सम्पदा यत्र तत्र वा पर्यवस्थापयितुम् ॥

२.१२
चलित.शास्त्रस् तु शास्त्राद् अन्यथा.अभिनिविष्ट.बुद्धिर् अन्यायेन राज्यम् आत्मानं च_उपहन्ति_इति ॥

२.१३
व्याधितो नवो वा राजा_इति "व्याधितो राजा राज्य.उपघातम् अमात्य.मूलं प्राण.आबाधं वा राज्य.मूलम् अवाप्नोति, नवस् तु राजा स्व.धर्म.अनुग्रह.परिहार.दान.मान.कर्मभिः प्रकृति.रञ्जन.उपकारैश् चरति" इत्य् आचार्याः ॥

२.१४
न_इति कौटिल्यः ॥

२.१५
व्याधितो राजा यथा.प्रवृत्तं राज.प्रणिधिम् अनुवर्तयति ॥

२.१६
नवस् तु राजा बल.आवर्जितं "मम_इदं राज्यम्" इति यथा.इष्टम् अनवग्रहश् चरति ॥

२.१७
सामुत्थायिकैर् अवगृहीतो वा राज्य.उपघातं मर्षयति ॥

२.१८
प्रकृतिष्व् अरूढः सुखम् उच्छेत्तुं भवति_इति ॥

२.१९
व्याधिते विशेषः पाप.रोग्य.पाप.रोगी च ॥

२.२०
नवे_अप्य् अभिजातो_अनभिजात इति ॥

२.२१
दुर्बलो_अभिजातो बलवान् अनभिजातो राजा_इति "दुर्बलस्य_अभिजातस्य_उपजापं दौर्बल्य.अपेक्षाः प्रकृतयः कृच्छ्रेण_उपगच्छन्ति, बलवतश् च_अनभिजातस्य बल.अपेक्षाः सुखेन" इत्य् आचार्याः ॥

२.२२
न_इति कौटिल्यः ॥

२.२३
दुर्बलम् अभिजातं प्रकृतयः स्वयम् उपनमन्ति, जात्यम् ऐश्वर्य.प्रकृतिर् अनुवर्तत इति ॥

२.२४
बलवतश् च_अनभिजातस्य_उपजापं विसंवादयन्ति, अनुरागे सार्वगुण्यम् इति ॥

२.२५
प्रयास.वधात् सस्य.वधो मुष्टि.वधात् पापीयान्, निराजीवत्वाद् अवृष्टिर् अतिवृष्टितः ॥

२.२६
द्वयोर् द्वयोर् व्यसनयोः प्रकृतीनां बल.अबलम् ।

२.२६
पारम्पर्य.क्रमेण_उक्तं याने स्थाने च कारणम् ॥

(पुरुष.व्यसन.वर्गह्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP