२.०१
शम.व्यायामौ योग.क्षेमयोर् योनिः ॥
२.०२
कर्म.आरम्भाणां योग.आराधनो व्यायामः ॥
२.०३
कर्म.फल.उपभोगानां क्षेम.आराधनः शमः ॥
२.०४
शम.व्यायामयोर् योनिः षाड्गुण्यम् ॥
२.०५
क्षयः स्थानं वृद्धिर् इत्य् उदयास् तस्य ॥
२.०६
मानुषं नय.अपनयौ, दैवम् अय.अनयौ ॥
२.०७
दैव.मानुषं हि कर्म लोकं यापयति ॥
२.०८
अदृष्ट.कारितं दैवम् ॥
२.०९
तस्मिन्न् इष्टेन फलेन योगो_अयः, अनिष्टेन_अनयः ॥
२.१०
दृष्ट.कारितं मानुषम् ॥
२.११
तस्मिन् योग.क्षेम.निष्पत्तिर् नयः, विपत्तिर् अपनयः ॥
२.१२
तच् चिन्त्यम्, अचिन्त्यं दैवम् ॥
२.१३
राजा आत्म.द्रव्य.प्रकृति.सम्पन्नो नयस्य_अधिष्ठानं विजिगीषुः ॥
२.१४
तस्य समन्ततो मण्डली.भूता भूम्य्.अनन्तरा अरि.प्रकृतिः ॥
२.१५
तथा_एव भूम्य्.एक.अन्तरा मित्र.प्रकृतिः ॥
२.१६
अरि.सम्पद्.युक्तः सामन्तः शत्रुः, व्यसनी यातव्यः, अनपाश्रयो दुर्बल.आश्रयो वा_उच्छेदनीयः, विपर्यये पीडनीयः कर्शनीयो वा ॥
२.१७
इत्य् अरि.विशेषाः ॥
२.१८
तस्मान् मित्रम् अरि.मित्रं मित्र.मित्रम् अरि.मित्र.मित्रं च_आनन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात्, पश्चात् पार्ष्णि.ग्राह आक्रन्दः पार्ष्णि.ग्राह.आसार आक्रन्द.आसारः ॥
२.१९
भूम्य्.अनन्तरः प्रकृति.मित्रः, तुल्य.अभिजनः सहजः, विरुद्धो विरोधयिता वा कृत्रिमः ॥
२.२०
भूम्य्.एक.अन्तरं प्रकृति.मित्रम्, माता.पितृ.सम्बद्धं सहजम्, धन.जीवित.हेतोर् आश्रितं कृत्रिमम् ॥
२.२१
अरि.विजिगीष्वोर् भूम्य्.अनन्तरः संहत.असंहतयोर् अनुग्रह.समर्थो निग्रहे च_असंहतयोर् मध्यमः ॥
२.२२
अरि.विजिगीषु.मध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहत.असंहतानाम् अरि.विजिगीषु.मध्यमानाम् अनुग्रह.समर्थो निग्रहे च_असंहतानाम् उदासीनः ॥
२.२३
इति प्रकृतयः ॥
२.२४
विजिगीषुर् मित्रं मित्र.मित्रं वा_अस्य प्रकृतयस् तिस्रः ॥
२.२५
ताः पञ्चभिर् अमात्य.जन.पद.दुर्ग.कोश.दण्ड.प्रकृतिभिर् एक.एकशः सम्युक्ता मण्डलम् अष्टादशकं भवति ॥
२.२६
अनेन मण्डल.पृथक्त्वं व्याख्यातम् अरि.मध्यम.उदासीनानाम् ॥
२.२७
एवं चतुर्.मण्डल.संक्षेपः ॥
२.२८
द्वादश राज.प्रकृतयः षष्टिर् द्रव्य.प्रकृतयः, संक्षेपेण द्वि.सप्ततिः ॥
२.२९
तासां यथा.स्वं सम्पदः ॥
२.३०
शक्तिः सिद्धिश् च ॥
२.३१
बलं शक्तिः ॥
२.३२
सुखं सिद्धिः ॥
२.३३
शक्तिस् त्रिविधा - ज्ञान.बलं मन्त्र.शक्तिः, कोश.दण्ड.बलं प्रभु.शक्तिः, विक्रम.बलम् उत्साह.शक्तिः ॥
२.३४
एवं सिद्धिस् त्रिविधा_एव - मन्त्र.शक्ति.साध्या मन्त्र.सिद्धिः, प्रभु.शक्ति.साध्या प्रभु.सिद्धिः, उत्साह.शक्ति.साध्या उत्साह.सिद्धिः ॥
२.३५
ताभिर् अभ्युच्चितो ज्यायान् भवति, अपचितो हीनः, तुल्य.शक्तिः समः ॥
२.३६
तस्मात्_शक्तिं सिद्धिं च घटेत_आत्मन्य् आवेशयितुम्, साधारणो वा द्रव्य.प्रकृतिष्व् आनन्तर्येण शौच.वशेन वा ॥
२.३७
दूष्य.अमित्राभ्यां वा_अपक्रष्टुं यतेत ॥
२.३८
यदि वा पश्येत् "अमित्रो मे शक्ति.युक्तो वाग्.दण्ड.पारुष्य.अर्थ.दूषणैः प्रकृतीर् उपहनिष्यति, सिद्धि.युक्तो वा मृगया.द्यूत.मद्य.स्त्रीभिः प्रमादं गमिष्यति, स विरक्त.प्रकृतिर् उपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति, विग्रह.अभियुक्तो वा सर्व.संदोहेन_एकस्थो_अदुर्गस्थो वा स्थास्यति, स संहत.सैन्यो मित्र.दुर्ग.वियुक्तः साध्यो मे भविष्यति, "बलवान् वा राजा परतः शत्रुम् उच्छेत्तु.कामः तम् उच्छिद्य माम् उच्छिन्द्याद्" इति बलवता प्रार्थितस्य मे विपन्न.कर्म.आरम्भस्य वा साहाय्यं दास्यति", मध्यम.लिप्सायां च, इत्य् एवं.आदिषु कारणेष्व् अमित्रस्य_अपि शक्तिं सिद्धिं च_इच्छेत् ॥
२.३९
नेमिम् एक.अन्तरान् राज्ञः कृत्वा च_अनन्तरान् अरान् ।
२.३९
नाभिम् आत्मानम् आयच्छेन् नेता प्रकृति.मण्डले ॥
२.४०
मध्ये ह्य् उपहितः शत्रुर् नेतुर् मित्रस्य च_उभयोः ।
२.४०
उच्छेद्यः पीडनीयो वा बलवान् अपि जायते ॥