अर्थशास्त्रम् अध्याय ०५ - भाग ६
अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.
६.०१
राज.व्यसनम् एवम् अमात्यः प्रतिकुर्वीत ॥
६.०२
प्राग् एव मरण.आबाध.भयाद् राज्ञः प्रिय.हित.उपग्रहेण मास.द्वि.मास.अन्तरं दर्शनं स्थापयेद् "देश.पीडा.अपहम् अमित्र.अपहम् आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्य् अपदेशेन ॥
६.०३
राज.व्यञ्जनम् अरूप.वेलायां प्रकृतीनां दर्शयेत्, मित्र.अमित्र.दूतानां च ॥
६.०४
तैश् च यथा.उचितां संभाषाम् अमात्य.मुखो गच्छेत् ॥
६.०५
दौवारिक.अन्तर्.वंशिक.मुखश् च यथा.उक्तं राज.प्रणिधिम् अनुवर्तयेत् ॥
६.०६
अपकारिषु च हेडं प्रसादं वा प्रकृति.कान्तं दर्शयेत्, प्रसादम् एव_उपकारिषु ॥
६.०७
आप्त.पुरुष.अधिष्ठितौ दुर्ग.प्रत्यन्तस्थौ वा कोश.दण्डाव् एकस्थौ कारयेत्, कुल्य.कुमार.मुख्यांश् च_अन्य.अपदेशेन ॥
६.०८
यश् च मुख्यः पक्षवान् दुर्ग.अटवीस्थो वा वैगुण्यं भजेत तम् उपग्राहयेत् ॥
६.०९
बह्व्.आबाधं वा यात्रां प्रेषयेत्, मित्र.कुलं वा ॥
६.१०
यस्माच् च सामन्ताद् आबाधं पश्येत् तम् उत्सव.विवाह.हस्ति.बन्धन.अश्व.पण्य.भूमि.प्रदान.अपदेशेन_अवग्राहयेत्, स्व.मित्रेण वा ॥
६.११
ततः संधिम् अदूष्यं कारयेत् ॥
६.१२
आटविक.अमित्रैर् वा वैरं ग्राहयेत् ॥
६.१३
तत्.कुलीनम् अपरुद्धं वा भूंय्.एक.देशेन_उपग्राहयेत् ॥
६.१४
कुल्य.कुमार.मुख्य.उपग्रहं कृत्वा वा कुमारम् अभिषिक्तम् एव दर्शयेत् ॥
६.१५
दाण्ड.कर्मिकवद् वा राज्य.कण्टकान् उद्धृत्य राज्यं कारयेत् ॥
६.१६
यदि वा कश्चिन् मुख्यः सामन्त.आदीनाम् अन्यतमः कोपं भजेत तं "एहि, राजानं त्वा करिष्यामि" इत्य् आवाहयित्वा घातयेत् ॥
६.१७
आपत्.प्रतीकारेण वा साधयेत् ॥
६.१८
युव.राजे वा क्रमेण राज्य.भारम् आरोप्य राज.व्यसनं ख्यापयेत् ॥
६.१९
पर.भूमौ राज.व्यसने मित्रेण_अमित्र.व्यञ्जनेन शत्रोः संधिम् अवस्थाप्य_अपगच्छेत् ॥
६.२०
सामन्त.आदीनाम् अन्यतमं वा_अस्य दुर्गे स्थापयित्वा_अपगच्छेत् ॥
६.२१
कुमारम् अभिषिच्य वा प्रतिव्यूहेत ॥
६.२२
परेण_अभियुक्तो वा यथा.उक्तम् आपत्.प्रतीकारं कुर्यात् ॥
६.२३
एवम् एक.ऐश्वर्यम् अमात्यः कारयेद् इति कौटिल्यः ॥
६.२४
"न_एवम्" इति भारद्वाजः ॥
६.२५
"प्रम्रियमाणे वा राजन्य् अमात्यः कुल्य.कुमार.मुख्यान् परस्परं मुख्येषु वा विक्रमयेत् ॥
६.२६
विक्रान्तं प्रकृति.कोपेन घातयेत् ॥
६.२७
कुल्य.कुमार.मुख्यान् उपांशु.दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ॥
६.२८
राज्य.कारणाद्द् हि पिता पुत्रान् पुत्राश् च पितरम् अभिद्रुह्यन्ति, किम् अङ्ग पुनर् अमात्य.प्रकृतिर् ह्य् एक.प्रग्रहो राज्यस्य ॥
६.२९
तत् स्वयम् उपस्थितं न_अवमन्येत ॥
६.३०
"स्वयम् आरूढा हि स्त्री त्यज्यमाना_अभिशपति" इति लोक.प्रवादः ॥
६.३१
कालश् च सकृद् अभ्येति यं नरं काल.काङ्क्षिणम् ।
६.३१
दुर्लभः स पुनस् तस्य कालः कर्म चिकीर्षतः ॥
६.३२
प्रकृति.कोपकम् अधर्मिष्ठम् अनैकान्तिकं च_एतद् इति कौटिल्यः ॥
६.३३
राज.पुत्रम् आत्म.संपन्नं राज्ये स्थापयेत् ॥
६.३४
संपन्न.अभावे_अव्यसनिनं कुमारं राज.कन्यां गर्भिणीं देवीं वा पुरस्.कृत्य महा.मात्रान् संनिपात्य ब्रूयात् "अयं वो निक्षेपः, पितरम् अस्य_अवेक्षध्वं सत्त्व.अभिजनम् आत्मनश् च, ध्वज.मात्रो_अयं भवन्त एव स्वामिनः, कथं वा क्रियताम्" इति ॥
६.३५
तथा ब्रुवाणं योग.पुरुषा ब्रूयुः "को_अन्यो भवत्.पुरोगाद् अस्माद् राज्ञश् चातुर्वर्ण्यम् अर्हति पालयितुम्" इति ॥
६.३६
"तथा" इत्य् अमात्यः कुमारं राज.कन्यां गर्भिणीं देवीं वा_अधिकुर्वीत, बन्धु.संबन्धिनां मित्र.अमित्र.दूतानां च दर्शयेत् ॥
६.३७
भक्त.वेतन.विशेषम् अमात्यानाम् आयुधीयानां च कारयेत्, "भूयश् च_अयं वृद्धः करिष्यति" इति ब्रूयात् ॥
६.३८
एवं दुर्ग.राष्ट्र.मुख्यान् आभाषेत, यथा.अर्हं च मित्र.अमित्र.पक्षम् ॥
६.३९
विनय.कर्मणि च कुमारस्य प्रयतेत ॥
६.४०
कन्यायां समान.जातीयाद् अपत्यम् उत्पाद्य वा_अभिषिञ्चेत् ॥
६.४१
मातुश् चित्त.क्षोभ.भयात् कुल्यम् अल्प.सत्त्वं छात्रं च लक्षण्यम् उपनिदध्यात् ॥
६.४२
ऋतौ च_एनां रक्षेत् ॥
६.४३
न च_आत्म.अर्थं कंचिद् उत्कृष्टम् उपभोगं कारयेत् ॥
६.४४
राज.अर्थं तु यान.वाहन.आभरण.वस्त्र.स्त्री.वेश्म.परिवापान् कारयेत् ॥
६.४५
यौवनस्थं च याचेत विश्रमं चित्त.कारणात् ।
६.४५
परित्यजेद् अतुष्यन्तं तुष्यन्तं च_अनुपालयेत् ॥
६.४६
निवेद्य पुत्र.रक्षा.अर्थं गूढ.सार.परिग्रहान् ।
६.४६
अरण्यं दीर्घ.सत्त्रं वा सेवेत_आरुच्यतां गतः ॥
६.४७
मुख्यैर् अवगृहीतं वा राजानं तत्.प्रिय.आश्रितः ।
६.४७
इतिहास.पुराणाभ्यां बोधयेद् अर्थ.शास्त्रवित् ॥
६.४८
सिद्ध.व्यञ्जन.रूपो वा योगम् आस्थाय पार्थिवम् ।
६.४८
लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकम् आचरेत् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP