तर्कसंग्रह - अथ षष्ठोऽध्याय
’तर्कसंग्रह’ग्रंथातील आठ अध्यायातून तर्कशास्त्राचे अचूक ज्ञान मिळते.
उपमितिकरणमुपमानम् ।
संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः ।
तत्करणं सादृश्यज्ञानम् ।
अतिदेशवाक्यार्थस्मरणमवान्तर व्यापारः ।
तथा हि कश्चिद्गवयशब्दार्थमजानन् कुतिश्चित् आरण्यकपुरुषाद्गोसदृशो
गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्दं पश्यति ।
तदन्तरमसौ गवयशब्दवाच्य इत्युपमितिरूत्पद्यते ॥१॥
दीपिका
उपमानं लक्षयति ----उपमितिकरणमिति ॥
N/A
References : N/A
Last Updated : April 29, 2010
![Top](/portal/service/themes/silver/images/up.gif)
TOP