यस्यास्ति वित्तं स नरः कुलीनः
स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चनमाश्रयन्ति ॥४१॥
दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनाद्
विप्रोऽनध्यनात् कुलं कुतनयाच्छीलं खलोपासनात् ।
ह्रीर्मद्यानवेक्षणादपि कृषिः स्नेहः प्रावासाश्र-
यान्मैत्री चाप्रणयात् समृद्धिरनयात् त्यागप्रमादाद्धनम् ॥४२॥
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भूङ्क्ते तस्य तृतीया गतिर्भवति ॥४३॥
मणिः शणोल्लीढः समरविजयी हेतिदलितो
मदक्षीबो नागः शरदि सरितः श्यानपुलिनाः ।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ॥४४॥
परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये
स पश्चात् सम्पूर्णः कलयति धरित्रीं तृणसमाम् ।
अतश्चानैकान्त्याद् गुरुलघुतयाऽर्थेषु धनिना-
मवस्था वस्तूनि प्रथयति च सङ्कोचयति च ॥४५॥
राजन् दुधुक्षसि यदि क्षितिधेनुम् एतां
तेनाद्य वत्समिव लोकममुं पुषाण ।
तस्मिंश्च सम्यगनिशं परिपोष्यमाणे
नानाफलैः फलति कल्पलतेव भूमिः ॥४६॥
सत्यानृता च परुषा प्रियवादिनी च
हिंस्त्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुरनित्यधनागमा च
वाराङ्गनेव नृपनीतिरनेकरुपा ॥४७॥
आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगः मित्रसंरक्षणं च ।
येषामेते षड्गुणा न प्रवृताः कोऽर्थस्तेषं पार्थिवोपाश्रयेण ॥४८॥
यद्धात्रा निजभालपट्टलिखितं स्तोकं वा महद्वा धनं
तत् प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथा
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥४९॥
त्वमेव चातकाधार इति केषां न गोचरः ।
किमम्भोद वदास्माकं कार्पण्योक्तिं प्रतीक्षसे ॥५०॥