अथ अत्र विषयानन्दः ब्रह्मानन्द अंश रूपभाक् । निरूप्यते द्वार भूतः तत् अंशत्वं श्रुतिः जगौ ॥ १॥
एषः अस्य परमानन्दः यः अखण्ड एक रसात्मकः । अन्यानि भूतानि एतस्य मात्राम् एव उपभुञ्जते ॥ २॥
शान्ताः घोराः तथा मूढाः मनसः वृत्तयः त्रिधा । वैराग्यं क्षान्तिः औदार्यम् इति आद्याः शान्त वृत्तयः ॥ ३॥
तृष्णा स्नेहः राग लोभौ इति आद्याः घोर वृत्तयः । संमोहः भयम् इति आद्याः कथिताः मूढ वृत्तयः ॥ ४॥
वृत्तिषु एतासु सर्वासु ब्रह्मणः चित्स्वभावता । प्रतिबिम्बति शान्तासु सुखं च प्रतिबिम्बति ॥ ५॥
रूपं रूपं बभूव असौ प्रतिरूप इति श्रुतिः । उपमा सूर्यकेतु आदि सूत्रयामास सूत्रकृत् ॥ ६॥
एकः एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा च एव दृश्यते जल चन्द्रवत् ॥ ७॥
जले प्रविष्टः चन्द्रः अयम् अस्पष्टः कलुषे जले । विस्पष्टः निर्मले तद्वत् द्वेधा ब्रह्मा अपि वृत्तिषु ॥ ८॥
घोर मूढासु मालिन्यात् सुखांशः च तिरोहितः । ईषन् नैर्मल्यतः तत्र चित् अंश प्रतिबिम्बनम् ॥ ९॥
यद्वा अपि निर्मले नीरे वह्नेः औष्ण्यस्य संक्रमः । न प्रकाशस्य तद्वत् स्यात् चिन्मात्र उद्भूतिः एव च ॥ १०॥
काष्ठे तु औष्ण्य प्रकाशौ द्वौ उद्भवं गच्छतः यथा । शान्तासु सुख चितन्ये तथा एव उद्भूतिम् आप्नुतः ॥ ११॥
वस्तु स्वभावम् आश्रित्य व्यवस्था भूतयोः समा । अनुभूति अनुसारेण कल्प्यते हि नियामकम् ॥ १२॥
न घोरासु न मूढासु सुख अनुभव ईक्ष्यते । शान्तासु अपि क्वैत् कश्चित् सुख अतिशय ईक्ष्यताम् ॥ १३॥
गृह क्षेत्र आदि विषये यदा कामः भवेत् तदा । राजसस्य अस्य कामस्य घोरत्वात् तत्र नो सुखम् ॥ १४॥
सिद्ध्येत् न वा इति अस्ति दुःखम् असिद्धौ तत् विवर्धते । प्रतिबन्धे भवेत् क्रोधः द्वेषः वा प्रतिकूलतः ॥ १५॥
अशक्यः चेत् प्रतीकारः विषदः स्यात् सः तानसः । क्रोध आदिषु महत् दुःखं सुख शङ्का अपि दूरतः ॥ १६॥
काम्य लाभे हर्ष वृत्तिः शान्ता तत्र महत् सुखम् । भोगे मत्तरं लाभ प्रसक्तौ ईषत् एव हि ॥ १७॥
महत्तमं विरक्तौ तु विद्यानन्दे तत् ईरितम् । एवं क्षान्तौ तथा उदार्ये क्रोध लोभ निवारणात् ॥ १८॥
यत् यत् सुखं भवेत् तत् तत् ब्रह्म एव प्रतिबिम्बनात् । वृत्तिषु अन्तर्मुखासु अस्य निर्विघ्नं प्रतिबिम्बनम् ॥ १९॥
सत्ता चितिः सुखं च इति स्वभावाः ब्रह्मणः त्रयः । मृत् शिला आदिषु सत्ता एव व्यज्यते न इतरत् द्वयम् ॥ २०॥