हृष्यति एको मणिं लब्ध्वा क्रुद्ध्यत्य् अन्यो ह्य् अलाभतः । पश्यति एव विरक्तो ऽत्र न हृष्यति न कुप्यति ॥२१॥
प्रियो ऽप्रिय उपेक्ष्यश् चेत्य् आकारा मणिगास् त्रयः । सृष्टा जीवैर् ईशसृष्टं साधारणं त्रिषु ॥२२॥
भार्या स्नुषा ननान्दा च याता मातेत्य् अनेकधा । प्रतियोगिधिया योषिद् भिद्यते न स्वरूपतः ॥२३॥
ननु ज्ञानानि भिद्यन्ताम् आकारस् तु न भिद्यते । योषिद् वपुष्य् अतिशयो न दृष्टो जीवनिर्मितः ॥२४॥
मैवं मांसमयी योषित् काचिद् अन्या मनोमयी । मांसमय्या अभेदे ऽपि भिद्यते हि मनोमयी ॥२५॥
भ्रान्ति स्वप्न मनोराज्य स्मृतिष्व् अस्तु मनोमयम् । जाग्रन् मानेन मेयस्य न मनोमयतेति चेत् ॥२६॥
बाधं माने तु मेयेन योगात् स्याद् विषयाकृतिः । भाष्य वार्तिककाराभ्याम् अयम् अर्थ उदीरितः ॥२७॥
मूषासिक्तं यथा ताम्रं तन् निभं जायते तथा । रूपादीन् व्याप्नुवच् चित्तं तन् निभं दृश्यते ध्रुवम् ॥२८॥
व्यञ्जको वा यथा ऽऽलोको व्यङ्ग्यस्याकारताम् इयात् । सर्वार्थ व्यञ्जकत्वाद् धीर् अर्थाकारा प्रदृश्यते ॥२९॥
मातुर् मानाभिनिष्पत्तिर् निष्पन्नं मेयम् एति तत् । मेयाभिसंगतं तच् च मेयाभत्वं प्रपद्यते ॥३०॥
सत्येवं विषयौ द्वौ स्तो घटौ मृण्मय धीमयौ । मृण्मयो मानमेयः स्यात् साक्षिभाश्यस् तु धीमयः ॥३१॥
अन्वय व्यतिरेकाभ्यां धीमयो जीव बन्ध कृत् । सत्यस्मिन् सुख दुःखे स्तस् तस्मिन्न् असति न द्वयम् ॥३२॥
असत्य् अपि च बाह्यार्थे स्वप्नादौ बद्ध्यते नरः । समाधि सुप्ति मूर्च्छासु सत्य् अप्य् अस्मिन् न बद्ध्यते ॥३३॥
दूर देशं गते पुत्रे जीवत्य् एवात्र तत् पिता । विप्रलम्भक वाक्येन मृतं मत्वा प्ररोदिति ॥३४॥
मृते ऽपि तस्मिन् वार्तायाम् अश्रुतायां न रोदिति । अतः सर्वस्य जीवस्य बन्ध कृन् मानसं जगत् ॥३५॥
विज्ञान वादो बाह्यार्थ वैयर्थ्यात् स्याद् इहेति चेत् । न हृद्य् आकारम् आधातुं बाह्यस्यापेक्षितत्वतः ॥३६॥
वैयार्थ्यम् अस्तु वा बाह्यं न वारयितुम् ईश्महे । प्रयोजनम् अपेक्षन्ते न मानानिति हि स्थितिः ॥३७॥
बन्धश् चेन् मानसं द्वैतं तन् निरोधेन शाम्यति । अभ्यासेद् योगम् एवातो ब्रह्मज्ञानेन किं वद ॥३८॥
तात्कालिक द्वैत शान्ताव् अप्य् आगामी जनी क्षयः । ब्रह्मज्ञानं विना न स्याद् इति वेदान्त डिण्डिमः ॥३९॥
अनिवृत्ते ऽपीश सृष्टे द्वैते तस्य मृषात्मताम् । बुद्ध्वा ब्रह्माद्वयं बोद्धुं शक्यं वस्त्व् ऐक्य वादिनः ॥४०॥
प्रलये तन् निवृत्तौ तु गुरु शास्त्राद्य् अभावतः । विरोधि द्वैताभावे ऽपि न शक्यं बोद्धुम् अद्वयम् ॥४१॥
अबाधकं साधकं च द्वैतम् ईश्वर निर्मितम् । अपनेतुम् अशक्यं चेत्य् आस्तां तद् द्विष्यते कुतः ॥४२॥
जीव द्वैतं तु शास्त्रीयम् अशास्त्रीयम् इति द्विधा । उपाददीता शास्त्रीयम् आतत्त्वस्यावबोधनात् ॥४३॥
आत्म ब्रह्म विचाराख्यं शास्त्रीयं मानसं जगत् । बुद्धे तत्त्वे तच् च हेयम् इति श्रुत्य् अनुशासनम् ॥४४॥
शास्त्राण्य् अधीत्य मेधावी अभ्यस्य च पुनः पुनः । परमं ब्रह्म विज्ञाय उल्कावत् तन्य् अथोत्सृजेत् ॥४५॥
ग्रन्थम् अभ्यस्य मेधावी ज्ञान विज्ञान तत्परः । पलालम् इव धान्यार्थी त्यजेद् ग्रन्थम् अशेषतः ॥४६॥
तम् एव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद् बाहूञ् छब्दान् वाचो विग्लापनं हि तत् ॥४७॥
तम् एवैकं विजानीथ ह्य् अन्या वाचो विमुञ्चथ । यच्चेद् वाङ्मनसी प्राज्ञ इत्य् आद्याः श्रुतयः स्फुटाः ॥४८॥
अशास्त्रीयम् अपि द्वैतं तीव्रं मन्दम् इति द्विधा । काम क्रोधादिकं तीव्रं मनोराज्यं तथेतरत् ॥४९॥
उभयं तत्त्वबोधात् प्राङ् निवार्यं बोध सिद्धये । शमः समाहितत्वं च साधनेषु श्रुतं यतः ॥५०॥
बोधाद् ऊर्ध्वं च तद्द् हेयं जीवन्मुक्ति प्रसिद्धये । कामादि क्लेश बन्धेन युक्तस्य न हि मुक्तता ॥५१॥
जीवन्मुक्तिर् इयं मा भुज् जन्माभावे त्व् अहं कृती । तर्हि जन्मापि ते ऽस्त्व् एव स्वर्ग मात्रात् कृती भवान् ॥५२॥
क्षयातिशय दोषेण स्वर्गो हेयो यदा तदा । स्वयं दोषतमात्मायं कामादिः किं न हीयते ॥५३॥
तत्त्वं बुद्ध्वापि कामादीन् निःशेषं न जहासि चेत् । यथेष्टाचरणं ते स्यात् कर्मशास्त्रातिलङ्घिनः ॥५४॥
बुद्धाद्वैत सतत्त्वस्य यथेष्टाचरणं यदि । शूनां तत्त्वदृशां चैव को भेदो ऽशुचि भक्षणे ॥५५॥
बोधात् पुरा मनोदोषमात्रात् क्लिश्णास्य् अथाधुना । अशेषलोकनिन्दा चेत्य् अहो ते बोध वैभवम् ॥५६॥
विद्वराहादितुल्यत्वं मा काङ्क्षीस् तत्त्वविद् भवान् । सर्व धी दोष संत्यागाल् लोकैः पूज्यस्व देववत् ॥५७॥
काम्यादि दोष दृष्ट्याद्याः कामादि त्याग हेतवः । प्रसिद्धा मोक्षशास्त्रेषु तान् अन्विष्य सुखी भव ॥५८॥
त्यज्यताम् एष कामादिर् मनोराज्ये तु का क्षतिः । अशेष दोष बीजत्वात् क्षतिर् भगवतेरिता ॥५९॥
ध्यायते विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते ॥६०॥
शक्यं जेतुं मनोराज्यं निर्विकल्प समाधितः । सुसम्पादः क्रमात् सो ऽपि सविकल्प समाधिना ॥६१॥
बुद्धतत्त्वेन धीदोष शून्येनैकान्त वासिना । दीर्घं प्रणवम् उच्चार्य मनोराज्यं विजीयते ॥६२॥
जिते तस्मिन् वृत्ति शून्यं मनस् तिष्ठति मूकवत् । एतत् पदं वसिष्ठेन रामाय बहुधेरितम् ॥६३॥
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । सम्पन्नं चेत् तद् उत्पन्ना परा निर्वाण निर्वृतिः ॥६४॥
विचारितम् अलं शास्त्रं चिरम् उद्ग्राहितं मिथः । संत्यक्त वासनान् मौनाद् ऋते नास्त्य् उत्तमं पदम् ॥६५॥
विक्षिप्यते कदाचिद् धीः कर्मणा भोग दायिना । पुनः समाहिता सा स्यात् तदैवाभ्यास पाटवात् ॥६६॥
विक्षेपो यस्य नास्त्य् अस्य ब्रह्मवित्त्वं न मन्यते । ब्रह्मैवायम् इति प्राहुर् मुनयः पारदर्शिनः ॥६७॥
दर्शनादर्शने हित्वा स्वयं केवल रूपतः । यस् तिष्ठति स तु ब्रह्मन् ब्रह्म न ब्रह्मवित् ॥६८॥
जीवन्मुक्तेः परा काष्ठा जीव द्वैत विवर्जनात् । लभ्यते ऽसाव् अतो ऽत्रेदम् ईश द्वैताद् विवेचितम् ॥६९॥
इति चतुर्थोऽध्यायः ॥४॥