संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
चण्डेशानुग्रहमूर्तिलक्षणपटलः

अंशुमत्काश्यपागमः - चण्डेशानुग्रहमूर्तिलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथ वक्ष्ये विशेषेण चण्डेशानुग्रहं भवेत् ।
उमा सहितवत्सर्वं वामे किंचिन्नताननम् ॥१॥

दक्षिणे त्वभयं वर्ज्यं तद्धस्तं वरदं भवेत् ।
वामे तु कटकं वर्ज्यं न्यस्त्वा चण्डेशमूर्धनि ॥२॥

हृदयांजलिसंयुक्तो चण्डेशो भक्तिसंयुतः ।
आसीनोऽथसुखासीनश्चण्डेशः स्वर्णसंनिभः ॥३॥

देवी देवेशयोर्मध्ये स्कन्दमूर्तिं विना द्विज ।
चण्डेशानुग्रहं ख्यातं दक्षिणामूर्ति तत्परम् ॥४॥

इत्यंशुमानकाश्यपे चण्डेशानुग्रहमूर्तिलक्षणपटलः
(अष्टसप्ततितमः) ॥७८॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP