संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
अधिष्ठानलक्षणपटलः

अंशुमत्काश्यपागमः - अधिष्ठानलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये त्वधिष्ठान विधानं शृणु सुव्रत ! ।
धरातलमधिष्ठानं आधारं धरणी तया ॥१॥

भुवनं पृथिवी भूमिः पर्याय वचनादिभिः ।
हर्म्यतारं तु कूटादि नीव्राधिष्ठाननीव्रकम् ॥२॥

तस्मात्तदुपपीठं स्यात् नीव्रं होमा विनिर्गमम् ।
तस्मात्प्रकृति नीव्रं च सूत्र पातं तु कारयेत् ॥३॥

यत्रैवाद्येष्टकान्यासं तत्रैवं मानलक्षयेत् ।
तस्मात्तु घनभित्त्येवं प्रकृत्यन्तं प्रकल्पयेत् ॥४॥

स्वभाव प्रकृतेरूर्ध्वे प्रकृत्युच्चैकहस्तकम् ।
द्विहस्तं वा प्रकृत्युच्चं त्रिहस्तं वा घनाकृतिः ॥५॥

षडंगुल्यसमुत्सेधं षट्षडंगुलवर्धनात् ।
उत्तमं मध्यमं चैव अधमं च तथापि वा ॥६॥

प्रकृत्यन्तं स्थलं ख्यातं अन्तर्मण्डलकस्य तु ।
एवं कृत्वा प्रकृत्यूर्ध्वे होमं संकल्प्य देशिकः ॥७॥

भित्तिपादस्य विष्कंभं द्विगुणं त्रिगुणं तु वा ।
होमनीव्रमिति ख्यातं तदर्धं बहुलान्वितम् ॥८॥

तद्धोमाप्रकृतीनीव्रैः द्वित्रिदण्डमथापि वा ।
कुड्यपादाद् बहिर्नीव्र दुपपीठगलं तु वा ॥९॥

होमनीव्रसमं प्रोक्तं द्विविधं द्विजसत्तम ! ।
होमतुंगार्धमानेन होमोर्ध्वाब्जं प्रकल्पयेत् ॥१०॥

अब्जस्योच्चसमं वेशं अब्जाच्चोर्ध्वोपमानकम् ।
तस्योपरित्वधिष्ठानं सोपपीठान्वितं तु वा ॥११॥

अन्यद्धोमात्प्रकृत्यूर्ध्वे उपोपानं प्रकल्पयेत् ।
तत्तदूर्ध्वे धरातलं वाथ सोपपीठमथापि वा ॥१२॥

उपापानं विनाधारं होमोर्ध्वे वा प्रकल्पयेत् ।
प्रकृतीसमसूत्रे तु कल्पयेच्छिल्पिकोत्तमः ॥१३॥

होमापद्मोपपानादीन् हर्म्ये निवेशयेत् ।
आप्तोत्सेधांशमानेन त्वधिष्ठानस्य चोच्छ्रयम् ॥१४॥

पादोदयार्धमानं वा षट्षडष्टांशमेव वा ।
अग्रपादविशालं तु दण्डमित्यभिधीयते ॥१५॥

एकदण्डं समारभ्य त्वर्धदण्ड विवर्धनात् ।
यावता पंचसंख्या तु अग्निदण्डावसानकम् ॥१६॥

पाद्बाह्ये परनिष्क्रान्तं तत्त्रिभागविभाजिते ।
उपानव्यासमेकांशं शेषं जगति विस्तरम् ॥१७॥

कुमुदं वेदमेकांशं तन्निव्रं जगतेस्समम् ।
कुमुदोर्ध्वे पट्टवेशं तत्समं कण्ठवेशनम् ॥१८॥

सर्वेषामम्बुजानां तु नीव्रतुंगसमं भवेत् ।
ऊर्ध्वपट्टमशेषं तत् समं वा कण्ठवेशनम् ॥१९॥

कम्पानामपि सर्वेषां चतुर्भागेन नीव्रकम् ।
महावाजन्निष्क्रान्तं तुंगतुल्यार्धमेव वा ॥२०॥

त्रिपादं वाथ निष्क्रान्तिं यथाबलवशान्नयेत् ।
जन्मादिपंचवर्गेषु तत्तदंगावसानकम् ॥२१॥

द्वारार्धं वा स्थलार्धं वा छेदयेत्तद्धरातलम् ।
उपानं जगतीं चैव कुमुदं कण्ठपट्टिका ॥२२॥

पंचवर्गेति विख्यातं पादबन्धतले बुधः ।
द्वारं च जलधारं च स्थलं च प्रतिबन्धकैः ॥२३॥

प्रतिरूर्ध्वे तु कर्तव्यं अंगच्छेदं न कारयेत् ।
प्रत्यंगच्छेदनं चेत्तु विपदामास्पदं सदा ॥२४॥

तस्मात्सर्वप्रयत्नेन प्रत्यंगच्छेदनं विना ।
अधिष्ठानं द्विधा ज्ञेयं प्रतिबन्धांघ्रिबन्धनम् ॥२५॥

प्रत्येकानेकभेदेन प्रोच्यते द्विजसत्तम ! ।
सर्वेषां प्रतिबन्धानां कुमुदं वृत्तमुच्यते ॥२६॥

पादबन्धतलानां तु वस्वश्रं कुमुदं भवेत् ।
तयोस्संकरमेकस्मिन् कर्तव्ये कर्तृनाशनम् ॥२७॥

प्रासादं प्रतिबन्धं च तत्तद्भेदेन संकरम् ।
कूटकोष्ठादिकानां तु कर्तव्यं तच्छुभावहम् ॥२८॥

तथैवांघ्रिप्रबन्धं चेत् तस्मिन्संकरमुत्तमम् ।
अशुभं विपरीतं चेत् वास्तु राष्ट्रनृपस्य च ॥२९॥

तस्मात्सर्वप्रयत्नेन वर्ज्यो वर्गेण संकरम् ।
अधिष्ठानस्य चोत्सेधं एकोनाविंशदंशके ॥३०॥

उपानं चैकभागेन सप्तांशं जगती भवेत् ।
षट्त्रिंशं कुमुदोच्चं तु आलिंलं चैकभागया ॥३१॥

त्रिपट्टं चैकभागेन प्रत्युत्सेधाद्विभागया ।
वाजनं चैकभागेन प्रतिबन्धमिदं भवेत् ॥३२॥

उपानरहितं शेषं पूर्ववत् तत्त्वनेकधा ।
अधिष्ठानस्य चोत्सेधं पंचविंशतिभाजिते ॥३३॥

शिवांशं पादुकोत्सेधं जगती वसुभागया ।
धात्वंशं कुमुदोच्चं तु व्योमांशं कंपमानकम् ॥३४॥

अनलांशं गलोत्सेधं शश्यंशं चोर्ध्वकम्पकम् ।
महापट्टी गुणांशं तु तदूर्ध्वेऽंशेन कम्पकम् ॥३५॥

पादबन्धमितिख्यातं उपानरहितं तथा ।
एतच्च पादबन्धं च नानाभेदेन कीर्तितम् ॥३६॥

त्रिस्सप्तांशे तलोत्सेधं कृत्वांशेनैव पादुकाम् ।
अम्बुजं सार्धभागं स्यात् कम्पमर्धांशमुच्यते ॥३७॥

सप्तांशं जगतेरुच्चं रसांशं कुमुदोदयम् ।
आलिंगमेकभागेन त्रिपट्टं चैकभागया ॥३८॥

द्विभागं प्रतितुंगं स्यात् भागेनैकेन वाजनम् ।
प्रतिक्रममिदं नाम्ना प्रतिबन्धं तु भेदितम् ॥३९॥

तदेव पक्षभागेन उपानं परिकल्पयेत् ।
आलिंगोच्चं द्विभागेन शेषं पूर्ववदेव हि ॥४०॥

उपानोपरि पद्मं च कम्पं चैव परित्यजेत् ।
तदुच्चं प्रतिक्रमं ख्यातं सर्वदेवालयावहम् ॥४१॥

षड्विंशद्विभजेदुच्चं उपानं चैकभागया ।
द्विभागेन दलं कुर्यात् कम्पमेकेन कारयेत् ॥४२॥

षडंशं जगते रुच्चं एकांशं दलमानकम् ।
कण्ठमेकेन कर्तव्यं कण्ठोच्चं तद्द्विभागया ॥४३॥

एकांशं कम्पतुंगन्तु तत्समं तु दलोदयम् ।
महापट्टी द्विभागेन दलमेकांशमानतः ॥४४॥

कम्पमेकेन कर्तव्यं अष्टाश्रं कुमुदान्वितम् ।
अंभोजकेसरं ख्यातं पादबन्धे तु भेदितम् ॥४५॥

एकोनविंशदंशं तु तलोत्सेधं विभाजिते ।
उपानमेकभागेन पद्मोच्चमनलांशकम् ॥४६॥

कम्पोच्चं त्वर्धभागेन जगत्युच्चं युगांशकम् ।
अम्बुजं चार्धभागेन गलमर्धांशमानतः ॥४७॥

अर्धांशं पद्म तुंगं तु गुणांशं पट्टमानकम् ।
पद्ममर्धांशमानेन तत्समं कम्पमुच्यते ॥४८॥

अध्यर्धांशं तु कंठोच्चं कम्पमर्धेन कारयेत् ।
पद्ममर्धेन कर्तव्यं पट्टिका सार्धभागया ॥४९॥

अम्बुजं चार्धभागेन कम्पमर्धेन कारयेत् ।
पुष्पपुष्कलमाख्यातं पादबन्धे तु भेदितम् ॥५०॥

द्वात्रिंशद्विभजेदुच्चं उपोपानं द्विभागया ।
उपानं चैकभागं स्यात् सप्तांशं कमलोच्छ्रयम् ॥५१॥

कण्ठमेकेन कर्तव्यं पद्ममेकेन कारयेत् ।
कुमुदोच्चं चतुर्भागं एकांशं गलमुच्यते ॥५२॥

कम्पमेकेन कर्तव्यं गुणांशं गलमानकम् ।
एकेनकम्पमेकेन ऊर्ध्वे पद्मं प्रकल्पयेत् ॥५३॥

कपोतोच्चं युगांशेन आलिंगं चैकभागया ।
एकेनान्तरितं कुर्यात् प्रतितुंगं द्विभागया ॥५४॥

वाजनं चैकभागेन कल्पयेत्तु क्रमेण तु ।
प्रतिबन्धे तु भेदं स्यात् श्रीबन्धान्तरिताद्धृतम् ॥५५॥

अधिष्ठानस्य चोत्सेधं अष्टाविंशति भाजिते ।
उपानं चैकभागेन जगत्युच्चं रसांशकम् ॥५६॥

कुमुदं पंचभागेन कम्पमेकेन कारयेत् ।
गलांशं गुणमानं तु कम्पमेकेन कारयेत् ॥५७॥

पद्ममेकेन कर्तव्यं कपोतोच्चं गुणांशकम् ।
आलिंगमेकभागेन अन्तरीतं तु कल्पयेत् ॥५८॥

प्रतितुंगं द्विभागेन शिवांशं वाजनं तथा ।
प्रतिबन्धस्य वर्गस्य मंचबन्धमुदाहृतम् ॥५९॥

तदेवालिंगिकामूर्ध्वं ऊर्ध्वं द्वाविंशदंशकैः ।
कल्यं श्रीकान्तकं नाम्ना पादबन्धे तु भेदितः ॥६०॥

तुंगे षट्विंशदंशे तु एकांशं पादुकं भवेत् ।
द्विभागं गलमानं तु कम्पोच्चं शशिभागया ॥६१॥

षडंशं तु जगत्युच्चं चतुर्भागं घटोदयम् ।
कम्पमेकेन कर्तव्यं कण्ठोच्चं तु द्विभागया ॥६२॥

ऊर्ध्वकम्पमथैकांशं अगमानं द्विभागया ।
वाजनं * * * * * द्विभागं कण्ठमुच्यते ॥६३॥

वाजनं चैकभागेन सार्धांशं कमलोदयम् ।
कम्पमर्धेन कर्तव्यं श्रोणीबन्धमिदं परम् ॥६४॥

पादबन्धे तु भेदं स्यात् संहव्यालैर्विभूषितम् ।
त्रिष्षडंगं तलोत्सेधं कृत्वा सार्धांश पादुकम् ॥६५॥

कम्पमर्धांशमित्युक्तं भूतांशं पंकजोदयम् ।
गलमेकेन कर्तव्यं पद्ममेकेन कारयेत् ॥६६॥

कुमुदोच्चं त्रिभिर्भागैः दलमेकांशमानतः ।
आलिंगमेकभागेन त्वन्तरीतत्समं भवेत् ॥६७॥

प्रतेरुच्चं द्विभागेन वाजनं चैकभागया ।
अब्जबन्धमिदं नाम्ना भेदं तत्प्रतिबन्धके ॥६८॥

तलं द्वाविंशदंशे तु द्विभागं पादुकोन्नतम् ।
अब्जमेकेन कम्पं तु त्वेकांशेन प्रकल्पयेत् ॥६९॥

जगती भाग तु कुमुदं चतुरंशकैः ।
पद्ममेकेन कर्तव्यं कम्पमेकेन कारयेत् ॥७०॥

कण्ठतुंगं द्विभागेन कम्पमेकेन कारयेत् ।
शिवांशं दलमानं तु महापट्टीद्विभागया ॥७१॥

कम्पमेकेन कर्तव्यं वप्रबन्धमिदं स्मृतम् ।
पादबन्धस्य वर्गस्य सर्वधामसु पूजितम् ॥७२॥

तन्महापट्टिकामाने कपोतं कपोतबन्धकम् ।
कपोतोपरिकम्पोर्ध्वे त्रिपट्टं चैकभागया ॥७३॥

प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया ।
तुंगे षड्विंशदंशे तु कल्पं तत्प्रतिसुन्दरम् ॥७४॥

अधिष्ठानस्य चोत्सेधं त्रयोविंशति भाजिते ।
उपानमेकभागेन पद्ममेकेन कम्पकम् ॥७५॥

कण्ठं द्विभागमंशेन कम्पमेकेन पद्मकम् ।
द्व्यंशेन पट्टिकां विद्यात् कम्पमेकेन कल्पयेत् ॥७६॥


पद्ममेकेन कण्ठं तु एकांशेनैव कल्पयेत् ।
एकांशेनाम्बुजं कुर्यात् गुणांशं कुमुदोदयम् ॥७७॥

पद्ममेकेन कर्तव्यं आलिंगं चैकभागया ।
त्रिपट्टं शिवभागेन द्विभागं प्रतिमानकम् ॥७८॥

वाजनं चैकभागेन कल्पयेत्तु यथाक्रमम् ।
प्रतिबन्धे तु भेदं स्यात् श्रीकण्ठं तदुदाहृतम् ॥७९॥

उपानमेकभागेन पद्ममंशेन कम्पकम् ।
कण्ठं द्विभागमंशेन कम्पं द्व्यंशेन पट्टिका ॥८०॥

कम्पमेकेन पद्मं तु एकांशेन प्रकल्पयेत् ।
कुमुदं तु त्रियंशेन पद्ममेकांशमानतः ॥८१॥

आलिंगमेकभागेनान्तरितं शशिभागया ।
द्विभागेन प्रतिं कुर्याद् वाजनं चैक भागया ॥८२॥

अधिष्ठानस्य चोत्सेधं द्वाविंशति विभाजिते ।
एतत्करीरबन्धं स्यात् प्रतिबन्धे तु भेदितम् ॥८३॥

पादुकं चैकभागेन द्विभागेनाब्ज तुंगकम् ।
कम्पमेकेन कर्तव्यं कण्ठमानं द्विभागया ॥८४॥

कम्पमेकं द्विभागेन पट्टिकांशेन कम्पकम् ।
द्विभागं गलमानं तु गलमेकांशमानतः ॥८५॥

अम्बुजं चैकभागेन कुम्भमानं गुणांशकम् ।
एकांशं गलमानं तु द्व्यंशेनालिंगमुच्यते ॥८६॥

त्रिपट्टं चैकभागेन प्रतिमानं द्विभागया ।
वाजनं चैकभागेन भागं द्विगुणितांशके ॥८७॥

एतच्च प्रतिबन्धं स्यात् भेदं कलशबन्धनम् ।
अधिष्ठानस्य चोत्सेधं चतुर्विंशति भाजिते ॥८८॥

पादुकांशं तु भागेन तत्समं पंकजोदयम् ।
खुरमेकेन कर्तव्यं जगत्युच्चं रसांशकम् ॥८९॥

पद्ममेकेन भागेन कण्ठं पद्मं तु भागया ।
वेदांशं * * * त्सेधं कलशं चैकभागया ॥९०॥

आलिंगमेकभागेन भागेनान्तरितं भवेत् ।
द्विभागं प्रतितुंगं तु वाजनं चैकभागया ॥९१॥

प्रतिबन्धं तु भेदं स्यात् श्रीकरं नामचोच्यते ।
भानुद्व्यंशे तलोच्चं तु द्विभागं पादुकं भवेत् ॥९२॥

उपोपानं शिवांशं स्यात् षडंशं गलमानकम् ।
कण्ठमंशेन कर्तव्यं अंशेनाब्जं प्रकल्पयेत् ॥९३॥

गुणांशं घटमानं तु गलमेकेन वृत्तकम् ।
कम्पमेकेन कण्ठं तु गुणांशमेकेन कम्पकम् ॥९४॥

व्योमांशं कम्पमंशं तु द्विभागं पट्टिका भवेत् ।
एकांशं गलमानं तु कम्पमेकेन कारयेत् ॥९५॥

सुन्दराम्बुज नाम्ना तु पादबन्धे तु भेदितम् ।
चतुस्सप्तद्विभागं तु तत्तन्मानं विभाजिते ॥९६॥

द्विभागं पादुकं ख्यातं दलमानं युगांशकम् ।
गलमेकेन कर्तव्यं अम्बुजं तु द्विभागया ॥९७॥

द्विभागं पट्टिकामानं अंशं पादुकमुच्यते ।
जगती चतुरंशं तु पद्ममंशे द्विजोत्तम ! ॥९८॥

कण्ठमंशेन पद्मं तु शश्यंशं प्रविधीयते ।
गुणांशं कुमुदोच्चं तु पद्ममंशेन कल्पयेत् ॥९९॥

कम्पमंशेन कर्तव्यं त्रिपट्टं चैकभागया ।
द्व्यंशेन प्रतिमानं तु वाजनं च शिवांशकम् ॥१००॥

एवं नलिनकान्तं स्यात् सर्वदेवप्रियावहम् ।
त्रयोविंशति भागं तु तलोच्चं तु विभाजिते ॥१०१॥

सार्धांशं पादुकोत्सेधं उपोपानं शिवांशकम् ।
अधः पद्मं द्विभागं स्यात् एकांशं कण्ठमुच्यते ॥१०२॥

तदूर्ध्वे पद्ममेकांशं कुमुदोच्चं गुणांशकम् ।
तदूर्ध्वे पद्ममेकांशं एकांशं कम्पमानकम् ॥१०३॥

कण्ठं द्व्यंशेन कर्तव्यं एकांशं चोर्ध्वपट्टिका ।
एकांशं पद्मतुंगं तु सार्धांशं वाजनोदयम् ॥१०४॥

एकांशं पद्मतुंगं तु आलिंगं चैकभागया ।
त्रिपट्टं तु तथांशेन प्रतिमानं द्विभागया ॥१०५॥

एकेन वाजनं कुर्यात् श्रीसौन्दर्यं समुच्यते ।
प्रतिबन्धस्य भेदं स्यात् एतच्चं पुरतस्तथा ॥१०६॥

चतुर्विंशति भागं तु तलोच्चं तु विभाजिते ।
उपानं चैकभागेन द्विभागेन तु दलोदयम् ॥१०७॥

तदूर्ध्वे कंपमेकांशं जगत्युच्चं शरांशकम् ।
वेदांशं कुमुदोच्चं तु पद्ममंशेन कल्पयेत् ॥१०८॥

कण्ठमेकांशमित्युक्तं ऊर्ध्वपद्मं शिवांशकम् ।
वाजनोच्चं द्विभागेन एकांशं पद्मभागकम् ॥१०९॥

आलिंगमेकभागेन त्रिपट्टं तत्समं भवेत् ।
प्रतिमानं द्विभागं स्यात् वाजनं चैकभागया ॥११०॥

स्कन्दकान्तमिदं नाम्ना प्रतिबन्धस्य भेदिते ।
धरातलोच्चं विभजेत् त्रयोविंशति भागया ॥१११॥

उपानोदयमेकांशं षडंशमम्बुजोदयम् ।
एकांशं कण्ठमानं तु ऊर्ध्वं पद्मं शिवांशकम् ॥११२॥

युमांशं कुंभकोत्सेधं एकांशं पद्ममानकम् ।
कम्पमेकेन कर्तव्यं द्विभागं कन्धरोदयम् ॥११३॥

एकांशं कंपमानं तु ऊर्ध्वपद्मं च तत्समम् ।
कपोतोच्चं गुणांशं तु आलिंगं चैकभागया ॥११४॥

एतच्चाम्बुजकान्तं स्यात् पादबन्धे तु भेदितम् ।
एवं त्वनेकभेदेन प्रोच्यते तु धरातलम् ॥११५॥

तथैवोच्चैकमात्रं वा हीनाधिकं न दोषभाक् ।
अर्धं वार्ध त्रिपादं वा बलांगद बलान्वितम् ॥११६॥

त्रिपट्टस्य विशालं तु द्विविधं प्रविधीयते ।
मूलपादस्य माव्यास पादमूले त्रिपट्टिकम् ॥११७॥

पादान्तरे त्रिपट्टानां व्यासं त्रिपादमर्धकम् ।
पादबाह्यसमावेशं नीव्रं चैव समं भवेत् ॥११८॥

युग्मा व युग संख्या वा पादान्तरेषु कल्पयेत् ।
सिंहेभमकरैर्व्यालैः भूतहंसैर्विभूषितम् ॥११९॥

प्रत्यग्रमकरैर्व्यालैः पादाधारस्य निर्गमम् ।
त्रिपट्टोर्ध्वे प्रतिं हेम सर्वत्र परिकल्पयेत् ॥१२०॥

ऊर्ध्वाधस्तम्बुजोपेतं कुमुदं वृत्तमाचरेत् ।
अन्ये द्वे कुसुमास्सर्वे प्रतिबन्धांघ्रि बन्धयेत् ॥१२१॥

वृत्तं च वसुकोणं च क्रमेणैव तु कल्पयेत् ।

इत्यंशुमान्काश्यपे अधिष्ठानलक्षणपटलः (षष्ठः) ॥६॥

N/A

References : N/A
Last Updated : October 14, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP