संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
पञ्चत्रिंशी पद्धतिः

भिक्षाटनकाव्यम् - पञ्चत्रिंशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अस्मादृशामसुलभस्य विभोरशक्ये
दौत्ये पदे युवतिभिर्विनियोजितानाम् ।
तं व्यापिनं गगन एव विधाय लक्ष्यं
दौत्योचितानि वचनान्यभवन्सखीनाम् ॥१॥

कालान्तकोऽयमिति विश्वजनप्रसिद्ध
सत्यां विधातुमिति चेद्गिरिजाभिलाषः ।
यो बाधते त्वयि दृढप्रणयां सखीं मे
कालं तमद्य झटिति क्षपय क्षपाख्यम् ॥२॥

सख्यां वसन्तसखबाणगणार्दितायां
तां किंचिदत्र करुणां तरुणेन्दुमौले ।
मा वा (१) न नः क्षितिरतो मरणं वरिष्ठं
जीवस्थितेस्त्वमनुरागनिमित्तमस्याः ॥३॥

किं विस्तरेण शृणु शंकर संग्रहोक्तिं
वक्तव्यवस्तुनि मया सति पृच्छयमाने ।
नैवाक्षरैः सपदि कण्ठगतैर्मृगाक्ष्याः
प्राणैरभाणि हरितव्यमशेषमेव ॥४॥

गौरीसखस्य तव मा भवतु प्रसक्ति(त्ति):
कल्याणकाममितरासु मृगेक्षणासु ।
कण्ठे चिरं रुचिमती गरनीलमूले
भूयात्सदैव करुणाधिकवल्लभाय ॥५॥

शंभो तदा त्वदवलोकनपुण्यकाले
यान्त्यामभून्निपतितः प्रथमाश्रुपूरः ।
शोकाश्रुणः परिभवेऽपि किमायताक्ष्या-
स्तस्यास्तयोर्नयनयोरनुरूपमेव ॥६॥

सर्वज्ञता निरुपयिच्छ (१)कृपापि सिद्धे-
रव्याहतत्वमिति नाथ गुणास्त्रयस्ते ।
तत्र त्रये नियतमन्यतरस्य लोप-
स्तस्या न चेदिह विधास्यति जीवरक्षाम् ॥७॥

पाण्डुत्वमावहति भस्मकृतिं विनाङ्गे
धूमं विना च नयनाश्रुनिपातहेतुः ।
शंभो विना ज्वलति चेन्धनमद्भुतं त-
त्तस्यास्त्वदीयविरहप्रचितो हुताशः ॥८॥

याचे भवन्तमिदमद्य जटाकलापे
पूर्णं निधेहि शशिनं विकलं विहाय ।
दैन्यं च ते विकलचन्द्रपरिग्रहोत्थं
तस्याश्च मा भवतु दुर्विषहोऽद्य तापः ॥९॥

यत्तादृशं मयि तथा प्रणिपातदैन्यं
सख्या गिरीशसहितेऽत्र निनादमेतत् ।
सद्यस्त्वया च नरनैपुणरूढयैव
यन्निद्रया निशि विभो प्रणयव्यवायः ॥१०॥

त्वां याचते मम सखी निशि मन्निकेत-
मागम्यतामिति पुरार्दन मन्मुखेन ।
नातः परं मृगदृशामभिमानभङ्गो
लभ्येत चेदभिमतं ननु सोऽपि मह्यम् ॥११॥

मघ(ध्य)स्थितिं तव मनोभवपीडितायां
याचे न पक्षपतनं चिरजीवसख्याम् ।
एतावतैव हि भविष्यति काम्यसिद्धि-
र्माध्यस्थ्यमातुरजनेष्वपि पक्षपातः ॥१२॥

आश्लेषणं तव सुदुर्लभमस्तु शंभो
सख्याः प्रयच्छ ललितं तव बाहुमूलम् ।
तस्या गले विनिहिता(?)मसवः प्रयाणे
प्रारम्भिणी(?) पुनरिमं न विलवयेयुः ॥१३॥

गौरीकुचार्पणमहावलयाहिधन्ये
कण्ठेन तेऽन्यवनिताजनसङ्गमोहः ।
तत्र स्व(त्व यार्पितमवेक्ष (नवेन) भुजंगमेन
तस्या भुजोऽपि घटतामिति नाथ याचे ॥१४॥

कुर्वन्तु तापमवरे विरहाः परेषां
याच्याविभञ्जनमिदं तव नैव युक्तम् ।
शंभो यतस्त्वमपि वेत्सि विरोहभिक्षुं
नित्यं सुदुर्विषमयाचनभङ्गपीडाम् ॥१५॥

त्वत्संश्रुतापि भवतैवमुपेक्षिता चे-
त्सा नः सशेः(?) वरद हन्त तवैव हानिः ।
यन्नीलिमा तव गले सहसैव जस्यात् (?)
कारुण्यहेमनिकषोपलशैललक्ष्मीः ॥१६॥

सा पद्मचारुनयना विषमेक्षणस्त्वं
सा कुञ्चितालकभरा हर धूर्जटिस्त्वम् ।
सा सद्गुणैकवसतिर्गुणवर्जितस्त्वं
तस्यास्तथापि किमिदं तब दुर्लभोऽसि ॥१७॥

या वीक्ष्य नाथ गरलं तव कण्ठमूले
या पन्नगेन्दु(न्द्र)मपि तत्र पुरा निनिन्द ।
जातस्पृहैव भगवन्भवतीयमात्रे(र्ता)
पापादियं न सहते विरहं त(त्व)दीयम् ॥१८॥

कामं वृथा भवतु मे त्वयि कामदौत्यं
प्रष्टव्यमेतदभिधेहि पिनाकपाणे ।
तस्यारतथा स्मरशरैर्विहितप्रहारे
चित्ते वसन्नपि कथं त्वमकामविद्धः ॥१९॥

गङ्गापयः सकलमेव कपर्दकोणे
सद्यो विलीनमिति नाथ कियान्मदस्ते ।
सामर्थ्यमस्ति यदि ते नयनाम्बुपूरः
सख्यास्त्वदीयविरहप्रचितो निवार्यः ॥२०॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दूतीवचन पद्धतिः पञ्चत्रिंशत ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP