संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
नवमोऽध्याय:

विश्वक्सेनासंहिता - नवमोऽध्याय:

विश्वक्सेनासंहिता


अथात: संप्रवक्ष्यामि बालस्यानविधिं परम् ।
*प्रथमं च द्वितीयं च*(?)संक्षेपाच्छृणु नारद ॥१॥
महाविमानाभिमुखं नातिदूरसमीपगम् ।
प्रासादस्याग्रत: कुर्यात् देवस्य तरुणालयम् ॥२॥
महागेहाभिमुखो (गेहमुखं यद्वा?) पूर्वद्वारे तु कल्पयेत् ।
प्रासादाभिमुखाभावे दक्षिणे चैव कल्पयेत् ॥३॥
उत्तरे वा मुनिश्रेष्ठ सोमेशानान्तरेऽथ वा ।
ईशाने वाप्यभावे तु कल्पयेत्तरुणालयम् ॥४॥
राष्ट्रवृद्धिकरं पूर्वे धनधान्यसुखप्रदम् ।
ग्रामराष्ट्रस्य वृद्धि: स्याद्दक्षिणे मुनिसत्तम ॥५॥
ब्रह्मऋद्धिकरं सोमे पुत्रपौत्रसुखावहम् ।
दुर्भिक्षभयनाशार्थं सोमेशानान्तरे मुने ॥६॥
ईशाने तु भवेत्तस्मिन्(त्तच्च?)ग्रामायतनऋद्धिकृत् ।
प्रासादे पश्चिमद्वारे बालस्थानं तु पश्चिमे ॥७॥
*दक्षिणादिक्रमं तस्मिन्*(?)सर्वं पूर्ववदाचरेत् ।
मूलस्थानस्य देशं च गृहीत्वा तदनन्तरम् ॥८॥
प्रथमं स्यान्मुनिश्रेष्ठ कल्पयेत्तरुणालयम् ।
इष्टकाभिर्मृदा वापि कारयेच्छास्त्रचोदितम् ॥९॥
षट्पञ्चसप्तहस्तं वा नवहस्तमथापि वा ।
संज्ञात्वा साधकस्तस्मिन् यजमानेच्छया*कुरु*(?) ॥१०॥
गर्भमानत्रिभागैकं द्वारमांन प्रशस्यते ।
द्वारविस्तारमानस्य द्विगुण्?ां तु तथोच्छ्रितम् ॥११॥
कूटाकारं तु वा कुर्यात् मण्डपाकारमेव वा ।
कारयेत् बालगेहं तु आचार्य: शिल्पिभि: सह ॥१२॥
आद्येष्टकाविधानादि कारयेदिह पूर्ववत् ।
मण्डपं चाग्रत: कृत्वा सप्राकारं सुरक्षितम् ॥१३॥
गर्भन्यासं तु कुर्याच्च रत्नन्यासं तु नेष्यते ।
पीठं कृत्वा तु तन्मध्ये काष्ठैर्वा चेष्टकै(?)स्तथा ॥१४॥
मृदा वा सुदृढं स्निग्धं काष्ठासनसमन्वितम् ।
एकहस्तोच्छ्रितां वेदिं साष्टपत्रं सकर्णिकम् ॥१५॥
कृत्वैवं बालगेहं तु साधकेच्छानुरूपत: ।
एवं कृत्वा विधानेन तरुणालयमुत्तमम् ॥१६॥
परमात्मादिमूर्तीनां लक्षणं चाधुना श्रृण ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
बालस्थानविधिर्नाम नवमोऽध्याय:॥

N/A

References : N/A
Last Updated : January 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP