विश्वेश्वरसंहिता - अध्याय १८ वा

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषयः ऊचुः
बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम
सूत उवाच
बंधमोक्षं तथोपायं वक्ष्येऽहं शृणुतादरात् ॥१॥
प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यते
प्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते ॥२॥
प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः
बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ॥३॥
प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकः
पंचतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः ॥४॥
प्रकृट्याद्यष्टजो देहो देहजं कर्म उच्यते
पुनश्च कर्मजो देहो जन्मकर्म पुनः पुनः ॥५॥
शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम्
स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिंद्रि यभोगदम् ॥६॥
कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतः
सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥७॥
तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः
शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा ॥८॥
चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत्
प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ॥९॥
चक्रकर्ता महेशो हि प्रकृतेः परतोयतः
पिबति वाथ वमति जीवन्बालो जलं यथा ॥१०॥
शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति
सर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतः
शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥११॥
सर्वज्ञता तृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः
अनंतशक्तिश्च महेश्वरस्य यन्मानसैश्वर्यमवैति वेदः ॥१२॥
अतः शिवप्रसादेन प्रकृत्यादिवशं भवेत्
शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत् ॥१३॥
निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत्
शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ॥१४॥
लिंगे बेरे भक्तजने शिवमुद्दिश्य पूजयेत्
कायेन मनसा वाचा धनेनापि प्रपूजयेत् ॥१५॥
पुजया तु महेशो हि प्रकृतेः परमः शिवः
प्रसादं कुरुते सत्यं पूजकस्य विशेषतः ॥१६॥
शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत्
कर्मारभ्य प्रकृत्यंतं यदासर्वं वशं भवेत् ॥१७॥
तदामुक्त इति प्रोक्तः स्वात्मारामो विराजते
प्रसादात्परमेशस्य कर्म देहो यदावशः ॥१८॥
तदा वै शिवलोके तु वासः सालोक्यमुच्यते
सामीप्यं याति सांबस्य तन्मात्रे च वशं गते ॥१९॥
तदा तु शिवसायुज्यमायुधाद्यैः क्रियादिभिः
महाप्रसादलाभे च बुद्धिश्चापि वशा भवेत् ॥२०॥
बुद्धिस्तु कार्यं प्रकृतेस्तत्सृष्टिरिति कथ्यते
पुनर्महाप्रसादेन प्रकृतिर्वशमेष्यति ॥२१॥
शिवस्य मानसैश्वर्यं तदाऽयत्नं भविष्यति
सार्वज्ञाद्यं शिवैश्वर्यं लब्ध्वा स्वात्मनि राजते ॥२२॥
तत्सायुज्यमिति प्राहुर्वेदागमपरायणाः
एवं क्रमेण मुक्तिः स्याल्लिंगादौ पूजया स्वतः ॥२३॥
अतः शिवप्रसादार्थं क्रियाद्यैः पूजयेच्छिवम्
शिवक्रिया शिवतपः शिवमंत्रजपः सदा ॥२४॥
शिवज्ञानं शिवध्यानमुत्तरोत्तरमभ्यसेत्
आसुप्तेरामृतेः कालं नयेद्वै शिवचिंतया ॥२५॥
सद्यादिभिश्च कुसुमैरर्चयेच्छिवमेष्यति
ऋषय ऊचुः
लिंगादौ शिवपूजाया विधानं ब्रूहि सर्वतः ॥२६॥
सूत उवाच
लिंगानां च क्रमं वक्ष्ये यथावच्छृणुत द्विजाः
तदेव लिंगं प्रथमं प्रणवं सार्वकामिकम् ॥२७॥
सूक्ष्मप्रणवरूपं हि सूक्ष्मरूपं तु निष्फलम्
स्थूललिंगं हि सकलं तत्पंचाक्षरमुच्यते ॥२८॥
तयोः पूजा तपः प्रोक्तं साक्षान्मोक्षप्रदे उभे
पौरुषप्रकृतिभूतानि लिंगानिसुबहूनि च ॥२९॥
तानि विस्तरतो वक्तुं शिवो वेत्ति न चापरः
भूविकाराणि लिंगानि ज्ञातानि प्रब्रवीमि वः ॥३०॥
स्वयं भूलिंगं प्रथमं बिंदुलिंगंद्वितीयकम्
प्रतिष्ठितं चरंचैव गुरुलिंगं तु पंचमम् ॥३१॥
देवर्षितपसा तुष्टः सान्निध्यार्थं तु तत्र वै
पृथिव्यन्तर्गतः शर्वो बीजं वै नादरूपतः ॥३२॥
स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः
स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः ॥३३॥
तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्द्धते
सुवर्णरजतादौ वा पृथिव्यां स्थिंडिलेपि वा ॥३४॥
स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम्
यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत् ॥३५॥
बिंदुनादमयं लिंगं स्थावरं जंगमं च यत्
भावनामयमेतद्धि शिवदृष्टं न संशयः ॥३६॥
यत्र विश्वस्य ते शंभुस्तत्र तस्मै फलप्रदः
स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे ॥३७॥
आवाह्य पूजयेच्छंभुं षोडशैरुपचारकैः
स्वयमैश्वर्यमाप्नोति ज्ञानमभ्यासतो भवेत् ॥३८॥
देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि
समंत्रेणात्महस्तेन कृतं यच्छुद्धमंडले ॥३९॥
शुद्धभावनया चैव स्थापितं लिंगमुत्तमम्
तल्लिंगं पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ॥४०॥
तल्लिंगपूजया नित्यं पौरुषैश्वर्यमाप्नुयात्
महद्भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः ॥४१॥
शिल्पिनाकल्पितं लिंगं मंत्रेण स्थापितं च यत्
प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम् ॥४२॥
यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते
यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ॥४३॥
लिंगं नाभिस्तथा जिह्वा नासाग्रञ्च शिखा क्रमात्
कट्यादिषु त्रिलोकेषु लिंगमाध्यात्मिकं चरम् ॥४४॥
पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः
वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ॥४५॥
षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम्
ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ॥४६॥
सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः
प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते ॥४७॥
रसलिंगं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत्
बाणलिंगं क्षत्रियाणां महाराज्यप्रदं शुभम् ॥४८॥
स्वर्णलिंगं तु वैश्यानां महाधनपतित्वदम्
शिलालिंगं तु शूद्रा णां महाशुद्धिकरं शुभम् ॥४९॥
स्फाटिकं बाणलिंगं च सर्वेषांसर्वकामदम्
स्वीयाभावेऽन्यदीयं तु पूजायां न निषिद्ध्यते ॥५०॥
स्त्रीणां तु पार्थिवं लिंगं सभर्तृणां विशेषतः
विधवानां प्रवृत्तानां स्फाटिकं परिकीर्तितम् ॥५१॥
विधवानां निवृत्तानां रसलिंगं विशिष्यते
बाल्येवायौवनेवापि वार्द्धकेवापि सुव्रताः ॥५२॥
शुद्धस्फटिकलिंगं तु स्त्रीणां तत्सर्वभोगदम्
प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि ॥५३॥
पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत्
अभिषेकांते नैवेद्यं शाल्यन्नेन समाचरेत् ॥५४॥
पूजांते स्थापयेल्लिंगं संपुटेषु पृथग्गृहे
करपूजानि वृत्तानां स्वभोज्यं तु निवेदयेत् ॥५५॥
निवृत्तानां परं सूक्ष्मलिंगमेव विशिष्यते
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥५६॥
पूजां कृत्वाथ तल्लिंगं शिरसा धारयेत्सदा
विभूतिस्त्रिविधा प्रोक्ता लोकवेदशिवाग्निभिः ॥५७॥
लोकाग्निजमथो भस्मद्र व्यशुद्ध्यर्थमावहेत्
मृद्दारुलोहरूपाणां धान्यानां च तथैव च ॥५८॥
तिलादीनां च द्र व्याणां वस्त्रादीनां तथैव च
तथा पर्युषितानां च भस्मना शिद्धिरिष्यते ॥५९॥
श्वादिभिर्दूषितानां च भस्मना शुद्धिरिष्यते
सजलं निर्जलं भस्म यथायोग्यं तु योजयेत् ॥६०॥
वेदाग्निजं तथा भस्म तत्कर्मांतेषु धारयेत्
मंत्रेण क्रियया जन्यं कर्माग्नौ भस्मरूपधृक् ॥६१॥
तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत्
अघोरेणात्ममंत्रेण बिल्वकाष्ठं प्रदाहयेत् ॥६२॥
शिवाग्निरिति संप्रोक्तस्तेन दग्धं शिवाग्निजम्
कपिलागोमयं पूर्वं केवलं गव्यमेव वा ॥६३॥
शम्यस्वत्थपलाशान्वा वटारम्वधबिल्वकान्
शिवाग्निना दहेच्छुद्धं तद्वै भस्म शिवाग्निजम् ॥६४॥
दर्भाग्नौ वा दहेत्काष्ठं शिवमंत्रं समुच्चरन्
सम्यक्संशोध्य वस्त्रेण नवकुंभे निधापयेत् ॥६५॥
दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च
भस्मशब्दार्थ एवं हि शिवः पूर्वं तथाऽकरोत् ॥६६॥
यथा स्वविषये राजा सारं गृह्णाति यत्करम्
यथा मनुष्याः सस्यादीन्दग्ध्वा सारं भजंति वै ॥६७॥
यथा हि जाठराग्निश्च भक्ष्यादीन्विविधान्बहून्
दग्ध्वा सारतरं सारात्स्वदेहं परिपुष्यति ॥६८॥
तथा प्रपंचकर्तापि स शिवः परमेश्वरः
स्वाधिष्ठेयप्रपंचस्य दग्ध्वा सारं गृहीतवान् ॥६९॥
दग्ध्वा प्रपंचं तद्भस्म् अस्वात्मन्यारोपयच्छिवः
उद्धूलनेन व्याजेन जगत्सारं गृहीतवान् ॥७०॥
स्वरत्नं स्थापयामास स्वकीये हि शरीरके
केशमाकाशसारेण वायुसारेण वै मुखम् ॥७१॥
हृदयं चाग्निसारेण त्वपां सारेण वैकटिम्
जानु चावनिसारेण तद्वत्सर्वं तदंगकम् ॥७२॥
ब्रह्मविष्ण्वोश्च रुद्रा णां सारं चैव त्रिपुंड्रकम्
तथा तिलकरूपेण ललाटान्ते महेश्वरः ॥७३॥
भवृद्ध्या सर्वमेतद्धि मन्यते स्वयमैत्यसौ
प्रपंचसारसर्वस्वमनेनैव वशीकृतम् ॥७४॥
तस्मादस्य वशीकर्ता नास्तीति स शिवः स्मृतः
यथा सर्वमृगाणां च हिंसको मृगहिंसकः ॥७५॥
अस्य हिंसामृगो नास्ति तस्मात्सिंह इतीरितः
शं नित्यं सुखमानंदमिकारः पुरुषः स्मृतः ॥७६॥
वकारः शक्तिरमृतं मेलनं शिव उच्यते
तस्मादेवं स्वमात्मानं शिवं कृत्वार्चयेच्छिवम् ॥७७॥
तस्मादुद्धूलनं पूर्वं त्रिपुंड्रं धारयेत्परम्
पूजाकाले हि सजलं शुद्ध्यर्थं निर्जलं भवेत् ॥७८॥
दिवा वा यदि वारात्रौ नारी वाथ नरोपि वा
पूजार्थं सजलं भस्म त्रिपुंड्रेणैव धारयेत् ॥७९॥
त्रिपुंड्रं सजलं भस्म धृत्वा पूजां करोति यः
शिवपूजां फलं सांगं तस्यैव हि सुनिश्चितम् ॥८०॥
भस्म वै शिवमंत्रेण धृत्वा ह्यत्याश्रमी भवेत्
शिवाश्रमीति संप्रोक्तः शिवैकपरमो यतः ॥८१॥
शिवव्रतैकनिष्ठस्य नाशौचं न च सूतकम्
ललाटेऽग्रे सितं भस्म तिलकं धारयेन्मृदा ॥८२॥
स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्य लक्षणम्
गुणान्रुंध इति प्रोक्तो गुरुशब्दस्य विग्रहः ॥८३॥
सविकारान्राजसादीन्गुणान्रुंधे व्यपोहति
गुणातीतः परशिवो गुरुरूपं समाश्रितः ॥८४॥
गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सः
विश्वस्तानां तु शिष्याणां गुरुरित्यभिधीयते ॥८५॥
तस्माद्गुरुशरीरं तु गुरुलिंगं भवेद्बुधः
गुरुलिंगस्य पूजा तु गुरुशुश्रूषणं भवेत् ॥८६॥
श्रुतं करोति शुश्रूषा कायेन मनसा गिरा
उक्तं यद्गुरुणा पूर्वं शक्यं वाऽशक्यमेव वा ॥८७॥
करोत्येव हि पूतात्मा प्राणैरपि धनैरपि
तस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते ॥८८॥
शरीराद्यर्थकं सर्वं गुरोर्दत्त्वा सुशिष्यकः
अग्रपाकं निवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया ॥८९॥
शिष्यः पुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः
जिह्वालिंगान्मंत्रशुक्रं कर्णयोनौ निषिच्यवै ॥९०॥
जातः पुत्रो मंत्रपुत्रः पितरं पूजयेद्गुरुम्
निमज्जयति पुत्रं वै संसारे जनकः पिता ॥९१॥
संतारयति संसाराद्गुरुर्वै बोधकः पिता
उभयोरंतरं ज्ञात्वा पितरं गुरुमर्चयेत् ॥९२॥
अंगशुश्रूषया चापि धनाद्यैः स्वार्जितैर्गुरुम्
पादादिकेशपर्यंतं लिंगान्यंगानि यद्गुरोः ॥९३॥
धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः
स्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत् ॥९४॥
गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनः
गुरुशेषं तु यत्सर्वमात्मशुद्धिकरं भवेत् ॥९५॥
गुरोः शेषः शिवोच्छिष्टं जलमन्नादिनिर्मितम्
शिष्याणां शिवभक्तानां ग्राह्यं भोज्यं भवेद्द्विजाः ॥९६॥
गुर्वनुज्ञाविरहितं चोरवत्सकलं भवेत्
गुरोरपि विशेषज्ञं यत्नाद्गृह्णीत वै गुरुम् ॥९७॥
अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः
आदौ च विघ्नशमनं कर्तव्यं कर्म पूर्तये ॥९८॥
निर्विघ्नेन कृतं सांगं कर्म वै सफलं भवेत्
तस्मात्सकलकर्मादौ विघ्नेशं पूजयेद् बुधः ॥९९
सर्वबाधानिवृत्त्यर्थं सर्वान्देवान्यजेद्बुधः
ज्वरादिग्रंथिरोगाश्च बाधा ह्याध्यात्मिका मता ॥१००॥
पिशाचजंबुकादीनां वल्मीकाद्युद्भवे तथा
अकस्मादेव गोधादिजंतूनां पतनेपि च ॥१०१॥
गृहे कच्छपसर्पस्त्रीदुर्जनादर्शनेपि च
वृक्षनारीगवादीनां प्रसूतिविषयेपि च ॥१०२॥
भाविदुःखं समायाति तस्मात्ते भौतिका मता
अमेध्या शनिपातश्च महामारी तथैव च ॥१०३॥
ज्वरमारी विषूचिश्च गोमारी च मसूरिका
जन्मर्क्षग्रहसंक्रांतिग्रहयोगाः स्वराशिके ॥१०४॥
दुःस्वप्नदर्शनाद्याश्च मता वै ह्यधिदैविकाः
शवचांडालपतितस्पर्शाद्येंतर्गृहे गते ॥१०५॥
एतादृशे समुत्पन्ने भाविदुःखस्य सूचके
शांतियज्ञं तु मतिमान्कुर्यात्तद्दोषशांतये ॥१०६॥
देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहांगणे
प्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलंकृते ॥१०७॥
भारमात्रव्रीहिधान्यं प्रस्थाप्य परिसृत्य च
मध्ये विलिख्यकमलं तथा दिक्षुविलिख्य वै ॥१०८॥
तंतुना वेष्टितं कुंभं नवगुग्गुलधूपितम्
मध्ये स्थाप्य महाकुंभं तथा दिक्ष्वपि विन्यसेत् ॥१०९॥
सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु
पूरयेन्मंत्रपूतेन पंचद्र व्ययुतेन हि ॥११०॥
प्रक्षिपेन्नव रत्नानि नीलादीन्क्रमशस्तथा
कर्मज्ञं च सपत्नीकमाचार्यं वरयेद्बुधः ॥१११॥
सुवर्णप्रतिमां विष्णोरिंद्रा दीनां च निक्षिपेत्
सशिरस्के मध्यकुंभे विष्णुमाबाह्य पूजयेत् ॥११२॥
प्रागादिषु यथामंत्रमिंद्रा दीन्क्रमशो यजेत्
तत्तन्नाम्ना चतुर्थ्यां च नमोन्ते न यथाक्रमम् ॥११३॥
आवाहनादिकं सर्वमाचार्येणैव कारयेत्
आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ॥११४॥
कुंभस्य पश्चिमे भागे जपांते होममाचरेत्
कोटिं लक्षं सहस्रं वा शतमष्टोत्तरं बुधाः ॥११५॥
एकाहं वा नवाहं वा तथा मंडलमेव वा
यथायोग्यं प्रकुर्वीत कालदेशानुसारतः ॥११६॥
शमीहोमश्च शांत्यर्थे वृत्त्यर्थे च पलाशकम्
समिदन्नाज्यकैर्द्र व्यैर्नाम्ना मंत्रेण वा हुनेत् ॥११७॥
प्रारंभे यत्कृतं द्र व्यं तत्क्रियांतं समाचरेत्
पुण्याहं वाचयित्वांते दिने संप्रोक्ष्ययेज्जलैः ॥११८॥
ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया
आचार्यश्च हविष्याशीऋत्विजश्च भवेद्बुधाः ॥११९॥
आदित्यादीन्ग्रहानिष्ट्वा सर्वहोमांत एव हि
ऋत्विभ्यो दक्षिणां दद्यान्नवरत्नं यथाक्रमम् ॥१२०॥
दशदानं ततः कुर्याद्भूरिदानं ततः परम्
बालानामुपनीतानां गृहिणां वनिनां धनम् ॥१२१॥
कन्यानां च सभर्तृ-णां विधवानां ततः परम्
तंत्रोपकरणं सर्वमाचार्याय निवेदयेत् ॥१२२॥
उत्पातानां च मारीणां दुःखस्वामी यमः स्मृतः
तस्माद्यमस्य प्रीत्यर्थं कालदानं प्रदापयेत् ॥१२३॥
शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः
पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम् ॥१२४॥
तत्स्वर्णप्रतिमादानं कुर्याद्दक्षिणया सह
तिलदानं ततः कुर्यात्पूर्णायुष्यप्रसिद्धये ॥१२५॥
आज्यावेक्षणदानं च कुर्याद्व्याधिनिवृत्तये
सहस्रं भोजयेद्विप्रान्दरिद्र ः! शतमेव वा ॥१२६॥
वित्ताभावे दरिद्र स्तु यथाशक्ति समाचरेत्
भैरवस्य महापूजां कुर्याद्भूतादिशांतये ॥१२७॥
महाभिषेकं नैवेद्यं शिवस्यान्ते तुकारयेत्
ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः ॥१२८॥
एवं कृतेन यज्ञेन दोषशांतिमवाप्नुयात्
शांतियज्ञमिमं कुर्याद्वर्षे वर्षे तु फाल्गुने ॥१२९॥
दुर्दर्शनादौ सद्यो वै मासमात्रे समाचरेत्
महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम् ॥१३०॥
महाव्याधिसमुत्पत्तौ संकल्पं पुनराचरेत्
सर्वभावे दरिद्र स्तु दीपदानमथाचरेत् ॥१३१॥
तदप्यशक्तः स्नात्वा वै यत्किंचिद्दानमाचरेत्
दिवाकरं नमस्कुर्यान्मन्त्रेणाष्टोत्तरं शतम् ॥१३२॥
सहस्रमयुतं लक्षं कोटिं वा कारयेद् बुधः
नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ॥१३३॥
त्वत्स्वरूपेर्पिता बुद्धिर्नतेऽशून्ये च रोचति
या चास्त्यस्मदहंतेति त्वयि दृष्टे विवर्जिता ॥१३४॥
नम्रोऽहं हि स्वदेहेन भो महांस्त्वमसि प्रभो
न शून्यो मत्स्वरूपो वै तव दासोऽस्मि सांप्रतम् ॥१३५॥
यथायोग्यं स्वात्मयज्ञं नमस्कारं प्रकल्पयेत्
अथात्र शिवनैवेद्यं दत्त्वा तांबूलमाहरेत् ॥१३६॥
शिवप्रदक्षिणं कुर्यात्स्वयमष्टोत्तरं शतम्
सहस्रमयुतं लक्षं कोटिमन्येन कारयेत् ॥१३७॥
शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात्
दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम् ॥१३८॥
धर्मेणैव हि पापानामपनोदनमीरितम्
शिवोद्देशकृतो धर्मः क्षमः पापविनोदने ॥१३९॥
अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम्
क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम् ॥१४०॥
जननं मरणं द्वंद्वं मायाचक्रमितीरितम्
शिवस्य मायाचक्रं हि बलिपीठं तदुच्यते ॥१४१॥
बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै
पदे पदांतरं गत्वा बलिपीठं समाविशेत् ॥१४२॥
नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम्
निर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम् ॥१४३॥
जननं मरणं द्वंद्वं शिवमायासमर्पितम्
शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत् ॥१४४॥
यावद्देहं क्रियाधीनः सजीवो बद्ध उच्यते
देहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः ॥१४५॥
मायाचक्रप्रणेता हि शिवः परमकारणम्
शिवमायार्पितद्वंद्वं शिवस्तु परिमार्जति ॥१४६॥
शिवेन कल्पितं द्वंद्वं तस्मिन्नेव समर्पयेत्
शिवस्यातिप्रियं विद्यात्प्रदक्षिणं नमो बुधाः ॥१४७॥
प्रदक्षिणनमस्काराः शिवस्य परमात्मनः
षोडशैरुपचारैश्च कृतपूजा फलप्रदा ॥१४८॥
प्रदक्षिणाऽविनाश्यं हि पातकं नास्ति भूतले
तस्मात्प्रदक्षिणेनैव सर्वपापं विनाशयेत् ॥१४९॥
शिवपूजापरो मौनी सत्यादिगुणसंयुतः
क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ॥१५०॥
ऐश्वर्यं दिव्यदेहश्च ज्ञानमज्ञानसंशयः
शिवसान्निध्यमित्येते क्रियादीनां फलं भवेत् ॥१५१॥
करणेन फलं याति तमसः परिहापनात्
जन्मनः परिमार्जित्वाज्ज्ञबुद्ध्या जनितानि च ॥१५२॥
यथादेशं यथाकालं यथादेहं यथाधनम्
यथायोग्यं प्रकुर्वीत क्रियादीञ्छिवभक्तिमान् ॥१५३॥
न्यायार्जितसुवित्तेन वसेत्प्राज्ञः शिवस्थले
जीवहिंसादिरहितमतिक्लेशविवर्जितम् ॥१५४॥
पंचाक्षरेण जप्तं च तोयमन्नं विदुः सुखम्
अथवाऽहुर्दरिद्र स्य भिक्षान्नंज्ञानदं भवेत् ॥१५५॥
शिवभक्तस्य भिक्षान्नंशिवभक्तिविवर्धनम्
शंभुसत्रमिति प्राहुर्भिक्षान्नंशिवयोगिनः ॥१५६॥
येन केनाप्युपायेन यत्र कुत्रापि भूतले
शुद्धान्नभुक्सदा मौनीरहस्यं न प्रकाशयेत् ॥१५७॥
प्रकाशयेत्तु भक्तानां शिवमाहात्म्यमेव हि
रहस्यं शिवमंत्रस्य शिवो जानाति नापरः ॥१५८॥
शिवभक्तो वसेन्नित्यं शिवलिंगं समाश्रितः
स्थाणुलिंगाश्रयेणैव स्थाणुर्भवति भूसुराः ॥१५९॥
पूजया चरलिंगस्य क्रमान्मुक्तो भवेद्ध्रुवम्
सर्वमुक्तं समासेन साध्यसाधनमुत्तमम् ॥१६०॥
व्यासेन यत्पुराप्रोक्तं यच्छ्रुतं हि मया पुरा
भद्र मस्तु हि वोऽस्माकं शिवभक्तिर्दृढाऽस्तुसा ॥१६१॥
य इमं पठतेऽध्यायं यः शृणोति नरः सदा
शिवज्ञानं स लभतेशिवस्य कृपया बुधाः ॥१६२॥
इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे शिवलिंगमहिमावर्णनं नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : September 27, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP