विश्वेश्वरसंहिता - अध्याय १२ वा

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच
शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम्
तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ॥१॥
पंचाशत्कोटिविस्तीर्णा सशैलवनकानना
शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ॥२॥
तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम्
मो-क्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ॥३॥
परिग्रहादृषीणां च देवानां परिग्रहात्
स्वयंभूतान्यथान्यानि लोकरक्षार्थमेव हि ॥४॥
तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम्
अन्यथा रोगदारिद्र य्मूकत्वाद्याप्नुयान्नरः ॥५॥
अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः
स्वयंभूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ॥६॥
क्षेत्रे पापस्य करणं दृढं भवति भूसुराः
पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ॥७॥
येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः
सिंधोः शतनदीतीरे संति क्षेत्राण्यनेकशः ॥८॥
सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा
तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत् ॥९॥
हिमवद्गिरिजा गंगा पुण्या शतमुखा नदी
तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः ॥१०॥
तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ
शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ॥११॥
तत्र स्नानोपवासेन पदं वैनायकं लभेत्
चतुर्वींशमुखा पुण्या नर्मदा च महानदी ॥१२॥
तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात्
तमसा द्वादशमुखा रेवा दशमुखा नदी ॥१३॥
गोदावरी महापुण्या ब्रह्मगोवधनाशिनी
एकविंशमुखा प्रोक्ता रुद्र लोकप्रदायिनी ॥१४
कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा
साष्टादशमुखाप्रोक्ता विष्णुलोकप्रदायिनी ॥१५॥
तुंगभद्रा दशमुखा ब्रह्मलोकप्रदायिनी
सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥१६॥
तत्रैव सुप्रजायंते ब्रह्मलोकच्युतास्तथा
सरस्वती च पंपा च कन्याश्वेतनदी शुभा ॥१७॥
एतासां तीरवासेन इंद्र लोकमवाप्नुयात्
सह्याद्रि जा महापुण्या कावेरीति महानदी ॥१८॥
सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी
तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ॥१९॥
शिवलोकप्रदा शैवास्तथाऽभीष्टफलप्रदाः
नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ ॥२०॥
ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा
सिंधुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ॥२१॥
केदारोदकपानं च स्नानं च ज्ञानदं विदुः
गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ॥२२॥
शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा
यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ ॥२३॥
धर्मलोके दंतिलोके महाभोगप्रदं विदुः
कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ ॥२४॥
विष्णोर्वचनमाहात्म्यात्सर्वाभीष्टप्रदं विदुः
वृश्चिके मासि संप्राप्ते तथार्के गुरुवृश्चिके ॥२५॥
नर्मदायां नदीस्नानाद्विष्णुलोकमवाप्नुयात्
सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ ॥२६॥
शिवलोकप्रदमिति ब्राह्मणो वचनं यथा
मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ॥२७॥
शिवलोकप्रदमिति ब्रह्मणो वचनं यथा
ब्रह्मविष्ण्वोः पदे भुक्त्वा तदंते ज्ञानमाप्नुयात् ॥२८॥
गंगायां माघमासे तु तथाकुंभगते रवौ
श्राद्धं वा पिंडदानं वा तिलोदकमथापिवा ॥२९॥
वंशद्वयपितृ-णां च कुलकोट्युद्धरं विदुः
कृष्णवेण्यां प्रशंसंति मीनगे च गुरौ रवौ ॥३०॥
तत्तत्तीर्थे च तन्मासि स्नानमिंद्र पदप्रदम्
गंगां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ॥३१॥
तत्कालकृतपापस्य क्षयो भवति निश्चितम्
रुद्र लोकप्रदान्येव संति क्षेत्राण्यनेकशः ॥३२॥
ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे
तयोस्तीरे हि संत्येव क्षेत्राणि स्वर्गदानि च ॥३३॥
संति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः
तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ॥३४॥
सदाचारेण सद्वृत्त्या सदा भावनयापि च
वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ॥३५॥
पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति
पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते ॥३६॥
तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति
पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ॥३७॥
मानसं च तथा पापं तादृशं नाशयेद्द्विजाः
मानसं वज्रलेपं तु कल्पकल्पानुगं तथा ॥३८॥
ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति
वाचिकं जपजालेन कायिकं कायशोषणात् ॥३९॥
दानाद्धनकृतं नश्येन्नाऽन्यथाकल्पकोटिभिः
क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति ॥४०
बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः
ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः ॥४१॥
भोगांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः
बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते ॥४२॥
देवानां पूजया चैव ब्रह्मणानां च दानतः
तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम्
तस्मात्पापमकृत्वैव वस्तव्यं सुखमिच्छता ॥४३॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : September 27, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP