पुण्यसेनाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


सेनापतेरिति श्रुत्वा प्राह यौगन्धरायणः ।
किमेतच्छङ्कसे मिथ्या वत्सेशः श्रियमेष्यति ॥५०॥
न हि दाशरथी रामो जानकीविरहातुरः ।
संयातः पञ्चतां वीरो दशकण्ठकुलान्तकः ॥५१॥
अमात्ययुक्तिभिर्भूपाः प्राप्नुवन्त्येव संपदः ।
सन्मन्त्रिणो हि भूपानाझं श्रीरक्षापरिखाचलाः ॥५२॥
पुण्यसेनाभिधो राजा निरुद्धो विषये पुरा ।
शत्रुभिर्मन्त्रिणां बुद्ध्या गूढमिथ्यामृतः कृतः ॥५३॥
तं विज्ञाय यशःशेषं हृष्टास्तस्य ततोऽरयः ।
विसृष्टसेना निःशङ्कास्तदामात्यैर्धिया हताः ॥५४॥
इति पुण्यसेनाख्यायिका ॥५॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP