निरालम्बनवादः - श्लोक ५१ ते ७५

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


अथ बुद्धिर्यदाकारा तदालम्बनवारणम् ।
स्वाकारस्याsभ्युपेतत्वात्तदभावो वोरुध्यते ॥५१॥
बाह्याsनालम्बनत्वे sपि बाह्य इत्यग्रहो ( २ ) यदि ।
स्तम्भादौ नैव तद्बुद्धिरित्येवं सिद्धसाधनम् ॥५२॥
त्र्प्रथ स्तम्भादिरूपेण निरालम्बनतोच्यते ।
संवेदनस्य दृष्टत्वात्तद्विरोधः प्रसज्यते ॥५३॥
द्विचन्द्रादिषु तुल्यश्चेन्नेन्द्रियाsप्राप्तितो हि नः ।
तत्राsनालम्बनोक्तिः स्यान्नाsर्थसंवित्त्यभावतः ॥५४॥
सर्वत्रार्थेन्द्रियाणां नः संयोगसदसत्तया ।
संवित्तौ विद्यमानायां सदसद्ग्राहिका ( १ ) स्थितिः ॥५५॥
भवतस्त्विन्द्रियादीनामभावादू ग्रहणादृते ।
नालम्बनत्वे ( २ )हेतुः स्यान्निषेधोsतो न युज्यते ॥५६॥
बहिर्भावाsप्रसिद्धत्वात्तेनाsनालम्बना मतिः ।
कथञ्चि( ३ )त्साध्यते नैष पक्षो हि ज्ञायते तदा ( ४ ) ॥५७॥
यथाsन्यबोधनाशक्तेर्नाप्रसिद्धे विशेषणे ।
पत्तसिद्धिस्तथैव स्या( १ )द्विशेषणविशेषणे ( २ ) ॥५८॥
नाsप्रसिद्धे पदार्थे हि वाक्यार्थः संप्रतीयते ।
तत्पूर्वकत्वात्पक्षश्च वाक्यार्थः स्थापयिष्यते ॥५९॥
पर्युदासे निषेधे वा व्यतिरिक्तस्य वस्तुनः ।
प्रमेयत्वाद्यभेदेन जगतः सिद्धसाधनम् ॥६०॥
यदि चाsत्यन्तभेदेन ( ३ ) निरालम्बनतोच्यते ।
कथञ्चिच्चेद्विरुद्ध्येत प्राक् पक्षः कल्पितेन ते ॥६१॥
वस्त्वाद्याकारतश्चापि धीर्निरालम्बनेष्यते ।
ग्राहकाच्चेदभिन्नत्वं शक्तिभेदो विरुध्यते ॥६२॥
निरालम्बनबुद्धेश्च य द्युत्पत्तिः प्रसाध्यते ।
दृष्टत्वात्सेष्यतेsस्माभिर्बाह्यग्राह्यविवर्जिता ॥६३॥
सम्यक्त्वं पुनरेतस्यास्त्वं नेच्छसि कथञ्चन ।
आत्मांशेsवसिता ह्येषा मृगतृष्णादिबुद्धिवत् ॥६४॥
‘ चैत्रादिप्रत्ययानां च निरालम्बनता यदि ।
धर्मभोता न गृह्येत साधनोत्थितया ( १ ) धिया ॥६५॥
ततो विषयनानात्वात् प्रतियोग्यनिराकृता ।
रूपात् सालम्बनप्राप्तिः सती केन निवार्यते ’ ॥६६॥
यदि प्रत्ययशब्दोsपि प्रत्ययत्वेन गृह्यते ।
संवित्त्यालम्बनत्वेन वार्यते, सिद्धसाधनम् ॥६७॥
बुद्ध्युत्पादनशक्तिश्चेद्द्वार्या, साध्यं न सिध्यति ।
साधनस्य प्रयोगोsत्र बोधकत्वाद्विना न ते ॥६८॥
‘ न चाsभिधाsस्त्यसंबन्धादृते भेदाच्च नास्त्यसौ ।
न चासौ तद्गतं भेदं बोधयन्त्या धिया विना ॥६९॥
प्राश्निकैर्नाsगृहीते च वाक्यस्यावयवे पृथक् ।
पक्षे हेतौ च दृष्टान्ते वादिनि प्रतिवादिनि ॥७०॥
साधनस्याsप्रयोगः स्यादभ्युपेत्योच्यते यदि ।
पूर्वाsभ्युपगमेनैव प्रतिज्ञा बाध्यते( १ )ततः ’ ॥७१॥
‘ धर्माsधर्मादिभेदे च नाsसिद्धे परमार्थतः ।
शिष्यात्मनोश्चधर्मादेरुपदेशोsवकल्पते ॥७२॥
तदनुष्ठानतो बुद्धैरिष्टो भेदः ’ स्फुटं च तैः ।
सूत्रान्तरेsभ्युपेतत्वाद्भवेदागमबाधनम् ॥७३॥
सर्वलोकप्रसिद्ध्या च पक्षबाधोsत्र ते ध्रुवम् ।
कृत्स्नसाधनबुद्धिश्च यदि मिथ्येष्यते ततः ॥७४॥
सर्वाsभावो यथेष्टं वा न्यूनता वाsभिधीयते ( १ ) ।
तेषां सालम्बनत्वे वा तैरनैकान्तिको भवेत् ( २ ) ॥७५॥

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP