तृतीयं बाम्हणं - भाष्यं ११

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


श्रुति :--- अथ मनोऽत्यवहत्तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्सोऽसौ चन्द्र:  परेण मृत्युमतिक्रान्तो भातेव ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥१६॥

भाष्यं :--- मनश्चन्द्रमा भाति । यथा पूर्वयजमानं वागाद्यग्न्यादिभावेन मृत्युमत्यवहत । एवमेनं वर्तमानयजमानमपि ह वा एषा प्राणदेवता मृत्युमतिवहति वागाद्यग्न्यादिभावेनैवं यो वागादिपञ्चकविशिष्टं प्राणं वेद “तं यथा यथोपासते तदेव भवति" इति श्रुते: ॥१६॥

श्रुति :--- अथाऽऽत्मनेऽनाद्यमागायद्यद्धि किंचान्नमद्यतेऽनेनैव अदद्यतैह प्रतितिष्ठति ॥१७॥

भाष्यं :--- अथाऽऽत्मने । यथा वागादिभिरात्मार्थमागानं कृतं तथा मुख्योऽपि प्राण: सर्वप्राणसाधारणं प्राजापत्यफलमागानं कृत्वा त्रिषु पवमानेश्वथानन्तरं शिष्टेषु नवसु स्तोत्रेष्वात्मन आत्मार्थमन्नाद्यमन्नंं च तदाद्यं प्राणेनाऽऽत्मार्थमागीतमिति गम्यत इत्यत हेतुमाह । यत्किंचेति सामान्यान्नमात्रपरा मर्शार्थ: । हीति हेतौ ॥

भाष्यं :--- यस्माल्लोके प्राणीभिर्यक्तिंचिदन्नमद्यते भक्ष्यते तदनेनैव प्राणेनैव । अन इति प्राणस्याऽऽख्या प्रसिद्धा । अन:शब्द: सान्त: शकटवाची यस्वत्य: स्वरान्त: स प्राणपर्याय: प्राणेनैव तदद्यत इत्यर्थ:  । किं च न केवलं प्राणेनाद्यत एवान्नाद्यं तस्मिञ्छरीराकारपरिणतेऽनाद्य इह प्रतितिष्ठति प्राणस्तस्मात्प्राणेनाऽऽत्मन: प्रतिष्ठार्थमागीतमन्नाद्यम । यदपि प्राणेनान्नादनं तदपि प्राणस्य प्रतिष्ठार्थमेवेति न वागादिष्विव कल्याणासङगजपाष्मसंभव: प्राणेऽस्ति ॥१७॥

श्रुति :--- ते देवा अब्रुवनेतावद्वा इद सर्वं यदन्नं तदात्मन आगासीरनु नोऽस्मिन्नन्न आभ्जास्वेति ते वै माऽभिसंविशतेति तथेतित समन्तं परिण्यविशन्ता तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्तेय्व ह वा एन स्वा अभिसंविशन्ति भर्ता स्वाना श्रेष्ठ: पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद य उ हैवंविद स्वेषु प्रति प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवत्यथ य एवैतमनुभवति यो वैतमनु भार्यान्बुभूर्षति स हैवालं भार्येभ्यो भवति ॥१८॥

भाष्यं :--- ते देवा: । नन्ववधारणमयुक्तं प्राणेनैव तदद्यत इति । वागादीनामप्यन्ननिमित्तोपकारदर्शनात । नैष दोष: ॥ प्राणद्वारत्वात्तदुपकारस्य । कथं  प्राणद्वारकोऽन्नकृतो वागादीनामुपकार इत्येतमर्थं प्रदर्शयन्नाह । ते वागादयो देवा: स्वविषयद्योतनाद्देवा अब्रुवन्नुक्तवन्तो मुख्यं प्राणमिदमेतावन्नातोऽदिकमस्ति । वा इति स्मरणार्थ: । इदं तत्सर्वमेतावदेव किं यदन्नं प्राणस्तितिकरमद्यते लोके तत्सर्वमात्मन आत्मार्थमागासीरागीतवानस्यगानेनाऽऽत्मसात्कृतमित्यर्थ: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP